सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 102, कुल 496 में से
संदर्भ में पढ़ें४८ सौन्दरनन्दं महाकाव्यम्
धारयतीति, महान् = विपुलम्, अर्थः = धनम्, धर्मकामौ—धर्मश्च = अभ्युदयनिःश्रेयस-
साधको गुणसमूहश्च, कामश्च = प्रयोजनञ्च, धर्मकामौ = धर्मकामनामनी पुरुषार्थौ, इव =
यथा, संवर्धयामास = पुपोष । उपमालङ्कारः ॥ ६० ॥
हिन्दी—उस राजा ने परम प्रसन्नता के साथ उन दोनों राजकुमारों का पालन-
पोषण कर ठीक उसी तरह बढ़ाया जैसे सत्पुरुष के हाथों में रहने वाला विपुल धन-
धर्म और काम को बढ़ाता है ॥ ६० ॥
तस्य कालेन सत्पुत्रौ ववृधाते भवाय तौ ।
आर्यस्यारम्भमहतो धर्मार्थाविव भूतये ॥ ६१ ॥
अन्वयः—तौ सत्पुत्रौ कालेन तस्य भवाय धर्मार्थौ आरम्भमहतः आर्यस्य भूतये
इव ववृधाते ॥ ६१ ॥
व्याख्या—तौ = उभौ ( बोधिसत्त्वनन्दौ ), सत्पुत्रौ = सुसुतौ ( सन्तौ पुत्रौ
सत्पुत्रौ = श्रेष्ठसुतौ ), कालेन = यथावसरेण, तस्य = राज्ञः, भवाय = सर्वविधकल्या-
णाय, धर्मार्थौ—धर्मश्च अर्थश्च धर्मार्थौ = धर्मधनवन्तौ, आरम्भमहतः—आरम्भेन =
प्रारम्भहेतुना, महतः = श्रेष्ठस्य, आर्यस्य = सत्पुरुषस्य, भूतये = उपकाराय, इव = यथा,
ववृधाते = ( √वृध् + लिटि प्रथमपुरुषस्य द्विवचने रूपमिदम् ) अवर्धेताम् । अस्मिन्
श्लोकेऽपि इवेन सह तुलनयोपमालङ्कारः ॥ ६१ ॥
हिन्दी—कालक्रम से वे दोनों राजकुमार राजा शुद्धोदन के हित के लिए ठीक
उसी प्रकार बढ़ने लगे जैसे सत्पुरुष की समृद्धि बढ़ाने के लिए धर्म और अर्थ स्वतः
बढ़ते हैं ॥ ६१ ॥
तयोः सत्पुत्रयोर्मध्ये शाक्यराजो रराज सः ।
मध्यदेश इव व्यक्तो हिमवत्पारिपात्रयोः ॥ ६२ ॥
अन्वयः—सः शाक्यराजः तयोः सत्पुत्रयोः मध्ये हिमवत्पारिपात्रयोः व्यक्तः मध्य-
देशः इव रराज ॥ ६२ ॥
व्याख्या—सः = असौ, शाक्यराजः = शाक्याधिपतिः शुद्धोदनः, तयोः = उभयोः,
सत्पुत्रयोः = गुणवतोः सुतयोः, मध्ये = आभ्यन्तरे, हिमवत्पारिपात्रयोः—हिमवत् पारि-
पात्रश्च तयोः हिमवत्पारिपात्रयोः = हिमगिरिकुलपर्वतयोर्मध्ये, (पारिपात्रः सप्तकुलपर्वते-
ष्वेकोऽस्ति; तद्यथा—'माहेन्द्रो मलयः सह्यः शक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारि-
पात्रश्च सप्तैते कुलपर्वताः ॥' ) तयोर्मध्ये व्यक्तः = अवस्थितः, मध्यदेशः = एतदाख्यः
प्रदेशः, इव = यथा, रराज = शुशुभे । अस्मिन् श्लोकेऽप्युपमाऽलङ्कारः । अत्र पर्यन्तः
अनुष्टुप् छन्दोऽस्ति ॥ ६२ ॥
हिन्दी—उन दोनों सुपुत्रों के बीच राजा शुद्धोदन उसी तरह शोभते थे जैसे
हिमालय और पारिपात्र नामक कुलपर्वतों के बीच मध्यदेश शोभायमान होता
है ॥ ६२ ॥