सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८१
।
अन्वयः—यस्मात् अहं सर्वासु अवस्थासु इन्द्रियाणाम् उदयं व्ययं च पश्यामि,
तस्मात् अनित्येषु निरात्मकेषु तेषु दुःखेषु अपि मे सङ्गः नास्ति ॥ १६ ॥
व्याख्या—यस्मात्=यतो हि, अहम्=नन्दः, सर्वासु=सकलासु, अवस्थासु=
दशासु, इन्द्रियाणाम्=करणानाम्, उदयम्=उत्थानम्, व्ययम्=क्षयम्, च=पुनः,
पश्यामि=अवलोकयामि, तस्मात्=तेन हेतुना, अनित्येषु=भङ्गुरेषु, निरात्मकेषु=
आत्महीनेषु, तेषु=पूर्वोक्तेषु, दुःखेषु=रूपरसादिकष्टेषु, अपि=चेत्, मे=मम नन्दस्य,
सङ्गः=अनुरागः, नास्ति=न विद्यते । इन्द्रियजन्यदुःखानि निरात्मकान्यनित्यानि च
सन्ति, अतस्तेष्वासक्तिर्न भवितव्यमिति ॥ १६ ॥
हिन्दी—मैं समझता हूँ कि हर अवस्थाओं में इन्द्रियों का उदय और अस्त होता
है, इसीलिए इस अनित्य, अनात्म और दुःखरूपी इन्द्रियों में मेरी कोई आसक्ति नहीं
है ॥ १६ ॥
यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम् ।
अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन ॥ १७ ॥
अन्वयः—यतश्च लोकं समजन्मनिष्ठं सर्वं निःसारम् असत् च पश्यामि, मे
धिया मनसा विबद्धम् अस्मि, इति इञ्जितं येन मे नास्ति ॥ १७ ॥
व्याख्या—यतश्च=येन कारणेन, लोकम्=मर्त्यलोकम्, समजन्मनिष्ठम्=मरण-
धर्मा, सर्वम्=सकलम्, निःसारम्=सारहीनम्, असत्=अनित्यम्, च=पुनः, पश्यामि
=अवलोकयामि, मे=मम, धिया=बुद्ध्या, मनसा=चेतसा, विबद्धम्=बन्धन-
युक्तम्, अस्मि=भवामि, इति=इत्थम्, इञ्जितम्=विकृतिम्, येन=यस्मात्, मे=
मम, नास्ति=न विद्यते । श्लोकोऽयं व्याकरणस्य अर्थस्य च दृष्ट्याऽसङ्गतोऽस्ति,
अतोऽयं पाठोऽप्यनिश्चितमेवेति ॥ १७ ॥
हिन्दी—क्योंकि संसार को जनन-मरणशील एवं सम्पूर्ण पदार्थ को असत् और
असार समझता हूँ । अतः मैं बन्धन-ग्रस्त हूँ, ऐसा विकार मेरे मन और बुद्धि में नहीं
है ॥ १७ ॥
चतुर्विधे नैकविधप्रसङ्गे यतोऽहमाहारविधावसक्तः ।
अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः ॥१८॥
अन्वयः—यतः अहं नैकविधप्रसङ्गे तत्र चतुर्विधे आहारविधौ असक्तः अमूर्च्छितः
अग्रथितश्च, ततः त्रिभ्यः भवेभ्यः विमुक्तोऽस्मि ॥ १८ ॥
व्याख्या—यतः=येन हेतुना, अहम्=नन्दः, नैकविधप्रसङ्गे—न एकविधः इति
अनेकविधः, अनेकविधाः प्रसङ्गाः यस्य तस्मिन्=अनेकविधप्रकरणे, नैकविधपदस्य
प्रयोगः समासे एव भवति । तत्र=तस्मिन्, चतुर्विधे=चतुःप्रकारके, आहारविधौ=
भोजननियोगे, (आहारस्त्वत्र चतुर्विधम्—१. कवलीकारः (स्थूलः, सूक्ष्मश्च) । २.
इन्द्रिय-विषय-विज्ञानानां संयोगेन समुत्पन्नः । ३. मनस्सञ्चेतना-मानसिककर्मविचारः ।
सौ०-28

३८२ सौन्दरनन्दं महाकाव्यम्
४. विज्ञानम्—विज्ञानस्कन्धः—अभिधर्मकोशः ।) असक्तः = विरक्तः, अमूर्च्छितः = अमूढः,
अग्रथितश्च = बन्धनविहीनश्चास्मि, ततः = तस्मादेव, त्रिभ्यः = शिवनेत्रेभ्यः, भवेभ्यः =
रूपारूपकामेभ्यः, विमुक्तोऽस्मि = अप्रतिबद्धोऽस्मि ॥ १८ ॥
हिन्दी—बहुविध आसक्तियों सहित चार तरह के आहारों में मैं आसक्त, बेसुध
या बँधा हुआ नहीं हूँ; अतः मैं तीन तरह के भव अर्थात् रूप, अरूप और काम से
पूर्णतः मुक्त हूँ ॥ १८ ॥
अनिश्रितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मे ।
यस्मात् समात्मानुगतश्च तत्र तस्माद्विसंयोगगतोऽस्मि मुक्तः ॥ १९ ॥
अन्वयः—यस्मात् दृष्टश्रुतादौ व्यवहारधर्मे अनिश्रितः अप्रतिबद्धचित्तः तत्र
समात्मानुगतश्च अस्मि, तस्मात् विसंयोगतः मुक्तः च अस्मि ॥ १९ ॥
व्याख्या—यस्मात् = यतः, दृष्टश्रुतादौ = दर्शनश्रवणादौ, व्यवहारधर्मे = जागतिक
आचारे, अनिश्रितः = अनियतः, अप्रतिबद्धचित्तः—न = नहि, प्रतिबद्धम् = नियन्त्रितम्,
अप्रतिबद्धं चित्तम् = हृदयम्, यस्य सः, तत्र = तस्मिन् दृष्टश्रुतादिधर्मे, समात्मानुगतः =
समभावप्राप्तः, च अस्मि = भवामि, तस्मात् = तेन कारणेन, विसंयोगतः = स्वाधीनः,
मुक्तः = अपरिबद्धः, च = पुनः, अस्मि = भवामि ॥ १९ ॥
हिन्दी—देखने-सुनने जैसे लोकधर्म में मैं आश्रित या आसक्तचित्त नहीं हूँ, इनमें
मेरा हृदय समभाव को पा लिया है। अतः मैं उससे अलग और मुक्त हो गया
हूँ ॥ १९ ॥
इत्येवमुक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः ।
प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाबभासे ॥ २० ॥
अन्वयः—एवम् इति उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन गां निपन्नः सः प्रवेरितः
लोहितचन्दनाक्तः हैमः महास्तम्भः इव आबभासे ॥ २० ॥
व्याख्या—एवम् = एतादृशम्, इति = एतत्, उक्त्वा = वदित्वा, गुरुबाहुमान्यात् =
मुनिम्प्रति समादरात्, सर्वेण = सम्पूर्णेन, कायेन = देहेन, गाम् = भूमिम्, . निपन्नः =
पतितः, सः = नन्दः, प्रवेरितः = पतितः, लोहितचन्दनाक्तः—लोहितम् = रक्तम्,
चन्दनम् = मलयजः, इति लोहितचन्दनम् = कुङ्कुमम्, तेन अक्तः = लिप्तः, इति लोहित-
चन्दनाक्तः = कुङ्कुमालिप्तः, हैमः = सौवर्णः, महास्तम्भः = विशालस्थाणुः, इव = यथा,
आबभासे = शुशुभे । अत्रोपमाऽलङ्कार इति ॥ २० ॥
हिन्दी—इतना कहकर गुरु के प्रति सम्मान भाव होने के कारण वह सम्पूर्ण
देह से धरती पर लेट गया; जैसे कुंकुम से लिपटा सोने का खम्भा धरती पर झुक गया
हो ॥ २० ॥
ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य ।
धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे ॥ २१ ॥

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८३
अन्वयः—ततः पूर्वं प्रमादात् प्रसृतस्य तस्य धृतिं व्याकरणं धर्मान्वयम् अनुगतं
प्रसादं च श्रुत्वा मेघस्वरः मुनिः तम् आबभाषे ॥ २१ ॥
व्याख्या—ततः = तत्पश्चात्, पूर्वम् = प्राक्, प्रमादात् = सावधानताऽभावात्,
प्रसृतस्य = प्रचलितस्य, तस्य = भिक्षोः, धृतिम् = धैर्यम्, व्याकरणम् = धर्मव्याख्याम्,
धर्मान्वयम् = धर्माचरणम्, अनुगतम् = अनुसृतम्, प्रसादं = निष्ठाम्, च = पुनः, श्रुत्वा =
श्रवणं कृत्वा, मेघस्वरः-मेघस्य = जलदस्य, स्वरम् = रवम्, इति मेघस्वरः = घन-
गर्जनम्, इव, मुनिः = बुद्धः, तम् = नन्दम्, आबभाषे = अवदत् ॥ २१ ॥
हिन्दी—तब जो पहले असावधानी के कारण सही रास्ते से भटका था, उसका
धीरज, धर्म की व्याख्या, धर्माचरण और श्रद्धा देखकर बुद्ध ने मेघ की तरह गंभीर
स्वर में कहा ॥ २१ ॥
उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितोऽसि मूर्ध्ना ।
अभ्यर्थनं मे न तथा प्रणामो धर्मे ययैषा प्रतिपत्तिरेव ॥ २२ ॥
अन्वयः—शिष्यजुष्टे धर्मे स्थितः उत्तिष्ठ, किं मूर्ध्ना मे पादयोः पतितः असि ?
प्रणामः तथा मे अभ्यर्थनं न, यथा एव एषा प्रतिपत्तिः ॥ २२ ॥
व्याख्या—शिष्यजुष्टे—शिष्येण = अनुगामिना, धर्मे = नियमे, स्थितः = तिष्ठन्,
उत्तिष्ठ = उत्थितो भव, किम् = कथम्, मूर्ध्ना = शिरसा, मे = मम बुद्धस्य, पादयोः =
चरणयोः, पतितः = निपतितः, असि = विद्यसे, प्रणामः = प्रणतिः, तथा = तेन प्रकारेण,
मे = मम, अभ्यर्थनम् = पूजनम्, न = नहि, अस्ति = विद्यते, यथैव = येन प्रकारेणैव,
एषा = इयम्, प्रतिपत्तिः = सम्प्राप्तिरस्ति ॥ २२ ॥
हिन्दी—हे अनुगत ! उठो, क्यों मेरे पैरों पर माथा टेक कर पड़े हो ? मुझे
प्रणाम करना मेरा वैसा सम्मान नहीं है जैसा कि तुम्हारा यह धर्माचरण ॥ २२ ॥
अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यमप्यात्मनि येन लब्धम् ।
जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य ॥ २३ ॥
अन्वयः—जितात्मन् ! अद्य सुप्रव्रजितः असि, येन आत्मनि ऐश्वर्यम् अपि लब्धम्,
हि जितात्मनः प्रव्रजनं साधु, न तु चलात्मनः अजितेन्द्रियस्य ॥ २३ ॥
व्याख्या—जितात्मन्—जितः = पराजितः, आत्मा = स्वम्, येन सः तत्सम्बोधने =
हे आत्मजयी ! अद्य = सम्प्रति, सुप्रव्रजितः = सुष्ठु संन्यस्तः, असि = विद्यसे, येन =
कारणेन, आत्मनि = स्वस्मिन्, ऐश्वर्यम् = ईश्वरत्वम्, अपि = चेत्, लब्धम् = प्राप्तम्,
हि = यतः, जितात्मनः = वशिनः, प्रव्रजनम् = संन्यसनम्, साधु = सुष्ठु, न तु चलात्मनः =
चपलेन्द्रियस्य, अजितेन्द्रियस्य = अदान्तस्य, प्रव्रजितं साधु भवति ॥ २३ ॥
हिन्दी—हे जितात्मन् ! आज तुम्हारा संन्यास ग्रहण सफल हुआ, जो तुमने अपनी
आत्मा को वशवर्ती बना लिया, जिसने अपने को जीत लिया है उसीका संन्यासी होना
उचित है, न कि चपलात्मा, अजितेन्द्रिय व्यक्ति का ॥ २३ ॥

३८४ सौन्दरनन्दं महाकाव्यम्
अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते ।
अतः पुनश्चाप्रयतामसौम्यां यत्सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ २४ ॥
अन्वयः—सौम्य ! अद्य परेण शौचेन युक्तः असि, यत् ते वाक्कायचेतांसि शुचीनि,
अतः आप्रयताम्, यत् पुनः असौम्यां गर्भशय्यां न वेक्ष्यसि ॥ २४ ॥
व्याख्या—सौम्य = हे सुदर्शन ! अद्य = सम्प्रति, परेण = अत्यधिकेन, शौचेन =
शुद्धया, युक्तः = सम्पन्नः, असि = विद्यसे, यत् = यतो हि, ते = नन्दस्य, वाक्काय-
चेतांसि = वचनदेहमनांसि, शुचीनि = पवित्राणि, सन्ति, अतः = अनेन कारणेन,
आप्रयताम् = प्रयासं कुरु, यत् = येन, असौम्याम् = दुःखदायिनीम्, गर्भशय्याम् =
जन्मस्थलीम्, न वेक्ष्यसि = न यास्यसि ॥ २४ ॥
हिन्दी—आज तुम सर्वाधिक पवित्र हो, क्योंकि तुम्हारा मन, वचन और शरीर
पवित्र है और क्योंकि हे सुदर्शन ! अब फिर अपवित्र और असौम्य गर्भशय्या में प्रवेश
नहीं करोगे ॥ २४ ॥
अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मम् ।
कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ २५ ॥
अन्वयः—श्रुतवत् अद्य श्रुतानुरूपं धर्मं प्रतिपद्य ते तत् श्रुतम् अर्थवत्, हि विप्रति-
पद्यमानः कृतश्रुतः आत्तशस्त्रः निर्वीर्यः इव निन्द्यः ॥ २५ ॥
व्याख्या—श्रुतवत् = हे शास्त्रज्ञ ! अद्य = सम्प्रति, ते = तव नन्दस्य, श्रुतानुरूपम् =
आकर्णितानुकूलम्, धर्मम् = नियमम्, प्रतिपद्य = निष्पाद्य, ते = तय, तत् = पूर्वोक्तम्,
श्रुतम् = आकर्णितोपदेशम्, अर्थवत् = सार्थकमस्ति, हि = यतः, विप्रतिपद्यमानः =
शास्त्रानुपलभ्यमानः, कृतश्रुतः = शास्त्रज्ञः, आत्तशस्त्रः = प्राप्यायुधम्, निर्वीर्यः = परा-
क्रमविहीनः, इव = यथा, निन्द्यः = निन्दनीयो भवति । उपमालङ्कारोऽत्र ॥ २५ ॥
हिन्दी—आज तुम्हारा शास्त्रज्ञान सार्थक है, तुम्हारा आचरण शास्त्रविहित
है। क्योंकि शास्त्र का अभ्यास कर उसका आचरण नहीं करने वाला व्यक्ति वैसे ही
निन्दित होता है, जैसे हथियारबन्द व्यक्ति युद्ध से भाग कर निन्दा का पात्र होता
है ॥ २५ ॥
अहो धृतिस्तेऽविषयात्मकस्य
यत् त्वं मतिं मोक्षविधावकार्षीः ।
यास्यामि निष्ठामिति बालिशो हि
जन्मक्षयात् त्रासमिहाभ्युपैति ॥ २६ ॥
अन्वयः—अहो ! अविषयात्मकस्य ते धृतिः यत् त्वं मोक्षविधौ मतिम् अकार्षीः,
हि इह बालिशः निष्ठां यास्यामि इति जन्मक्षयात् त्रासम् अभ्युपैति ॥ २६ ॥
व्याख्या—अहो = इत्याश्चर्ये, अविषयात्मकस्य = जितोपभोगस्य, ते = तव नन्दस्य,
धृतिः = धैर्यम्, यत् = येन, त्वम् = भवान्, मोक्षविधौ = निर्वाणपथे, मतिम् = अभि-

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८५
लाषाम्, अकार्षीः = अकरोत्, हि = यतः, इह = संसारे, बालिशः = मूर्खः, निष्ठाम् =
= अवसानम् ('निष्ठा क्लेशेऽवसाने च' इति हलायुधः), यास्यामि=प्राप्स्यामि, इति =
= इत्थं चिन्तनं कृत्वा, जन्मक्षयात् = उत्पत्त्यभावात्, त्रासम् = भयम्, अभ्युपैति =
हस्तगतं करोति ॥ २६ ॥
हिन्दी—तुम्हारे धीरज की मैं दाद देता हूं, तुमने उपभोग को छोड़कर मुक्ति-
मार्ग मे अपना मन लगाया। 'मेरा अन्त हो जायेगा' ऐसा सोचकर मूर्ख मनुष्य जन्म-
विनाश से इस संसार में डरते हैं ॥ २६ ॥
दिष्ट्या दुरापः क्षणसन्निपातो नायं कृतो मोहवशेन मोघः ।
उदेति दुःखेन गतो ह्यधस्तात् कूर्मो युगच्छिद्र इवार्णवस्थः ॥ २७ ॥
अन्वयः—दिष्ट्या दुरापः क्षणसन्निपातः अयं मोहवशेन मोघः न कृतः, हि
अधस्तात् गतः अर्णवस्थः कूर्मः युगच्छिद्रे इव दुःखेन उदेति ॥ २७ ॥
व्याख्या—दिष्ट्या=भाग्येन, दुरापः = दुरधिगमः, त्वया क्षणसन्निपातः—क्षणे
= अत्यल्पसमये, सन्निपातः = विनाशः, यस्य सः, अयम् = एषः कायः, मोहवशेन =
ममत्वाधिकारेण, मोघः = निरर्थकः, न = नहि, कृतः = विहितः, हि = यतः, अधस्तात्
= निम्नयोनिम्, गतः = सम्प्राप्तः, अर्णवस्थः—अर्णवे = जलधौ, तिष्ठतीति अर्णवस्थः=
समुद्रे विद्यमानः, कूर्मः = कच्छपः, युगच्छिद्रे—युगस्य = युतकस्य, छिद्रे = विवरे, इव
= यथा, दुःखेन = कष्टेन, उदेति = उन्नतयोनिं याति । अत्राप्युपमालङ्कार इति ॥२७॥
हिन्दी—मानव का यह क्षणिक जीवन दुर्लभ है। सौभाग्य से मोहवश तुमने
इसे व्यर्थ नहीं गँवाया। निम्नयोनि में गया प्राणी बड़ी कठिनाई से ऊपर की योनि में
आता है। ठीक उसी तरह जैसे समुद्र में रहनेवाला कछुआ बड़ी कठिनाई से जुए के
छेद में आता है ॥ २७ ॥
निर्जित्य मारं युधि दुर्निवारमद्यासि लोके रणशीर्षशूरः ।
शूरोऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः ॥ २८ ॥
अन्वयः—अद्य युधि दुर्निवारं मारं निर्जित्य लोके रणशीर्षशूरः असि, हि सः
शूरः अपि अशूरः वेदितव्यः, यः दोषैः अमित्रैः इव हन्यते ॥ २८ ॥
व्याख्या—अद्य = सम्प्रति, युधि = रणे, दुर्निवारम्—दुःखेन = कष्टेन, निवार्यते
= अपसार्यते, इति तम्, मारम् = मदनम्, निर्जित्य = पराजित्य, लोके = अस्मिन्
संसारे, रणशीर्षशूरः—रणस्य = युद्धस्य, शीर्षम् = अग्रभागम्, तस्मिन् शूरः = पराक्रम-
शाली इति, त्वम् असि = विद्यसे; हि=यतः, सः = पूर्वोक्तः, शूरः = वीरः, अपि =
= चेत्, अशूरः = शौर्यविहीनः, वेदितव्यः = ज्ञातव्यः, यः दोषैः = दुर्गुणैः, अमित्रैः =
अरिभिः, इव = यथा, हन्यते = मृत्युं प्राप्यते । अत्राप्युपमालङ्कार इति ॥ २८ ॥
हिन्दी—तुमने इस युद्ध में दुर्जय काम को मारकर संसार के वीरों की अगली
पंक्ति का वीर अपने को सिद्ध कर दिया है, क्योंकि वह वीर भी कायर ही समझा

३८६ सौन्दरनन्दं महाकाव्यम्
जाता है, जिसे ये दुर्गुण उसी तरह मार डालते हैं जैसे कोई शत्रु किसी की हत्या कर
देता हो ॥ २८ ॥
निर्वाप्यरागाग्निमुदीर्णमद्य दिष्ट्या सुखं स्वप्स्यसि वीतदाहः ।
दुःखं हि शेते शयनेऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः ॥ २९ ॥
अन्वयः—दिष्ट्या अद्य उदीर्णं रागाग्निं निर्वाप्य वीतदाहः सुखं स्वप्स्यसि, हि
चेतसि क्लेशाग्निना दह्यमानः उदारे शयने अपि दुःखं शेते ॥ २९ ॥
व्याख्या—दिष्ट्या=भाग्येन, अद्य=सम्प्रति, उदीर्णम्=प्रज्ज्वलिते, रागाग्निम्
=विषयवह्निम्, निर्वाप्य=शमनं कृत्वा, वीतदाहः=विगतज्वरः, (त्वम्) सुखम्=
सहर्षम्, स्वप्स्यसि=शयिष्यसे, हि=यतः, चेतसि=मनसि, क्लेशाग्निना=दुःखा-
नलेन, दह्यमानः=प्रदीप्तः सन्, उदारे=श्रेष्ठे, शयने=पर्यङ्कासने, अपि=चेत्, दुःखम्
=सखेदम्, शेते=स्वपिति ॥ २९ ॥
हिन्दी—भाग्य से तुमने आज वासना की धधकती आग को बुझा दिया है। अब
तुम सुख की नींद सोओगे, क्योंकि दिलजले को सुन्दर पलंग पर भी कष्ट से ही नींद
आती है ॥ २९ ॥
अभ्युच्छ्रितो द्रव्यमदेन पूर्वमद्यासि तृष्णोपरमात् समृद्धः ।
यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धोऽपि सदा दरिद्रः ॥ ३० ॥
अन्वयः—पूर्वं द्रव्यमदेन अभ्युच्छ्रितः अद्य तृष्णोपरमात् समृद्धः असि, हि लोके
पुरुषः यावत् सतर्षः तावत् समृद्धः अपि सदा दरिद्रः ॥ ३० ॥
व्याख्या—पूर्वम्=अतीतकाले, द्रव्यमदेन=धनमदेन, अभ्युच्छ्रितः=उन्मत्तः,
(त्वम्) अद्य=सम्प्रति, तृष्णोपरमात्=तृष्णायाः=अभिलाषायाः, उपरमात्=वैरा-
ग्यात्, समृद्धः=सम्पन्नः, असि=विद्यसे, हि=यतः, लोके=संसारे, पुरुषः=जनः,
यावत्=यावत्कालम्, सतर्षः=रागवान्, तावत्=तावत्कालपर्यन्तम्, समृद्धः=सम्पन्नः,
अपि=चेत्, सदा=सततम्, दरिद्रः=अकिञ्चनो भवति ॥ ३० ॥
हिन्दी—पहले तुम धनमद से उन्मत्त थे और अभी तृष्णा के शान्त हो जाने पर
सम्पन्न हो, क्योंकि संसार में समृद्ध जन भी तृष्णा के कारण दरिद्र ही होता है ॥ ३० ॥
अद्यापदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति ।
भ्रष्टस्य धर्मात् पितृभिर्निपातादश्लाघनीयो हि कुलापदेशः ॥ ३१ ॥
अन्वयः—अद्य तव नृपतिः शुद्धोदनः मे पिता, इति उपदेष्टुं युक्तरूपम्, हि
पितृभिः निपातात् धर्मात् भ्रष्टस्य कुलापदेशः अश्लाघनीयः ॥ ३१ ॥
व्याख्या—अद्य=अधुना, तव=भवतः, नृपतिः=राजा, शुद्धोदनः=एतदाख्यः,
मे=मम, पिता=जनकः, इति=इत्थम्, उपदेष्टुम्=उद्घोषयितुम्, युक्तरूपम्=
समुचितमस्ति, हि=यतः, पितृभिः=पूर्वजैः, निपातात्=संरक्षितात्, धर्मात्=धर्मा-
चरणात्, भ्रष्टस्य=पतितस्य, कुलापदेशः—कुलस्य=वंशस्य, अपदेशः=व्यवहारः
(प्रयोगोऽयमप्रचलितोऽस्ति), अश्लाघनीयः=निन्दनीयोऽस्ति ॥ ३१ ॥

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८७
हिन्दी—आज तुम्हारे लिए यह कहना उचित है कि राजा शुद्धोदन हमारे पिता
हैं, क्योंकि जो अपने पूर्वजों के द्वारा-पालित धर्म से भ्रष्ट हो गया है उसके लिए
अपने कुल की घोषणा करना प्रशंसनीय नहीं है ॥ ३१ ॥
दिष्ट्यासि शान्तिं परमामुपेतो निस्तीर्णकान्तार इवाप्तसारः ।
सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव ॥ ३२ ॥
अन्वयः—दिष्ट्या त्वं निस्तीर्णकान्तारः आप्तसारः इव परमां शान्तिम् उपेतः
असि, हि सर्वः संसारगतः तथैव भयार्तः यथैव कान्तारगतः ॥ ३२ ॥
व्याख्या—दिष्ट्या = सौभाग्येन, त्वम् = भवान्, निस्तीर्णकान्तारः—निस्तीर्णः =
पारङ्गतः, कान्तारः = काननम्, येन सः, आप्तसारः—आप्तम् = प्राप्तम्, सारम् = तत्त्वम्,
येन सः इति, इव = सदृशः, परमाम् = अत्याधिकाम्, शान्तिम् = प्रशान्तताम्, उपेतः =
युक्तः, असि = भवसि, हि = यतः, सर्वः = निःशेषः, संसारगतः = जननमरणचक्रोप-
लब्धः, तथैव = तेनैव प्रकारेण, कान्तारगतः = सघनवनमध्ये, भयार्तो भवति । उपमा-
ऽलङ्कारोऽत्र ॥ ३२ ॥
हिन्दी—सौभाग्य से तुम्हें परम शान्ति मिल चुकी है, ठीक उसी तरह जैसे
बीहड़ वन को पारकर कोई समृद्धि प्राप्त कर सुखी होता हो; क्योंकि संसार-चक्र में फँसे
लोग विपत्ति से उसी तरह पीड़ित रहते हैं, जैसे घोर जंगल में फँसे लोग ॥ ३२ ॥
आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्दं निभृतं कदेति ।
आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ ३३ ॥
अन्वयः—कदा आरण्यकं भैक्षचरं विनीतं निभृतं नन्दं द्रक्ष्यामि ? इति पुरस्तात्
त्वयि मे दिदृक्षा आसीत्, दिष्ट्या त्वं तथा मम दर्शनीयः असि ॥ ३३ ॥
व्याख्या—कदा = कस्मिन् समये, आरण्यकम् = वन्यम्, भैक्षचरम् = भिक्षुकम्,
विनीतम् = विनयावनतम्, निभृतम् = एकान्तवासिनम्, नन्दम् = स्वानुजम्, द्रक्ष्यामि
= अवलोकयिष्यामि, इति = इयम्, पुरस्तात् = प्राक्, त्वयि = युष्मद्विषये, मे = मम,
दर्शनीयः = अवलोकनीयः असि ॥ ३३ ॥
हिन्दी—पहले मेरी यह इच्छा थी कि नन्द को मै कब वनवासी, विनीत, भिक्षा-
चारी एवं एकान्तसेवी देखूँगा। सौभाग्य से आज तुम्हें मैं उसी रूप में देख रहा
हूँ ॥ ३३ ॥
भवत्यरूपोऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर्गुणैः स्वैः ।
दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयोऽपि विरूप एव ॥ ३४ ॥
अन्वयः—हि स्वैः श्रेष्ठतमैः गुणैः स्वलङ्कृतः अरूपः अपि दर्शनीयः भवति, तु
मलिनीकरैः दोषैः परीतः सुदर्शनीयः अपि विरूपः एव ॥ ३४ ॥
व्याख्या—हि = यतः, स्वैः = स्वकीयैः, श्रेष्ठतमैः = समुत्कृष्टैः, गुणैः = सन्नियमैः,
स्वलङ्कृतः—सु = सुष्ठु, अलङ्कृतः = आभूषितः, अरूपः = रूपहीनः, अपि = चेत्,
दर्शनीयः = अवलोकनीयः, भवति = याति, तु = किन्तु, मलिनीकरैः—न मलिनम्

३८८ सौन्दरनन्दं महाकाव्यम्
अमलिनम्, अमलिनं मलिनम् इव कुर्वन्ति इति मलिनीकरैः = दूषितैः, दोषैः = दुर्गुणैः,
परीतः = सर्वतोव्याप्तः, सुदर्शनीयः = शोभनाकृतिः, अपि, विरूपः = विद्रूपः, एव
भवति ॥ ३४ ॥
हिन्दी—अपने उत्कृष्ट गुणों से अलङ्कृत होकर कुरुप व्यक्ति भी देखने योग्य
बन जाता है; किन्तु गंदे दोषों से व्याप्त होकर रूपवान् भी बदशकल हो जाता है। ३४।
अद्य प्रकृष्टा तव बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्यम् ।
श्रुतोन्नतस्यापि हि नास्ति बुद्धिनोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ ३५ ॥
अन्वयः—अद्य तव बुद्धिमत्ता प्रकृष्टा, यया ते कृत्स्नम् आत्मकार्यं कृतम्, हि यस्य
श्रुतोन्नतस्य अपि बुद्धिः श्रेयसि न उत्पद्यते ( तस्य ) बुद्धिः नास्ति ॥ ३५ ॥
व्याख्या—अद्य = अधुना, तव = भवतः, बुद्धिमत्ता = प्रज्ञा, प्रकृष्टा = सर्वोत्कृष्टा,
यया = प्रज्ञया, ते = तव, कृत्स्नम् = निखिलम्, आत्मकार्यम्=स्वकीयप्रयोजनम्, कृतम्
= विहितम्, हि = यतः, यस्य = जनस्य, श्रुतोन्नतस्य = शास्त्रज्ञस्य, अपि, बुद्धिः
= मतिः, श्रेयसि = माङ्गलिके कृत्यॆ, न = नहि, उत्पद्यते = प्रादुर्भवति, ( तस्य =
जनस्य ) बुद्धिः = मतिः, नास्ति = न भवति ॥ ३५ ॥
हिन्दी—आज तुम्हारी बुद्धि उत्कृष्ट है, जिसके द्वारा तुमने अपना सारा काम
कर लिया, विद्वान् होने पर भी यदि किसी की मति कल्याणकारिणी न हो तो उसे
बुद्धि है ही नहीं ॥ ३५ ॥
उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।
प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषोऽपि ॥ ३६ ॥
अन्वयः—तथैव उन्मीलितस्य जनस्य मध्ये निमीलितस्य अपि चक्षुः, हि यस्य
प्रज्ञामयं चक्षुः नास्ति, सचक्षुषः अपि तस्य चक्षुः नास्ति ॥ ३६ ॥
व्याख्या—तथैव = तेनैव प्रकारेण, उन्मीलितस्य = उद्घाटितनेत्रस्य, जनस्य =
लोकस्य, मध्ये = अन्तराले, निमीलितस्य = पिहितनेत्रस्य, अपि = चेत्, चक्षुः = नेत्रम्,
हि = यतः, यस्य=जनस्य, प्रज्ञामयम् = बोधमयम्, चक्षुः = नेत्रम्, नास्ति = न विद्यते,
सचक्षुषः = सनेत्रस्य, अपि, तस्य = जनस्य, चक्षुः = नयनम्, नास्ति=न विद्यते ॥३६॥
हिन्दी—उसी तरह खुली आंखों वाले लोगों के बीच बन्द आंखों वाले को भी
दृष्टि हो सकती है, क्योंकि जिसको प्रज्ञाचक्षु नहीं हैं उसे आंख रहते हुए भी आंखें
नहीं हैं ॥ ३६ ॥
दुःखप्रतीकारनिमित्तमार्त्तः कृष्यादिभिः खेदमुपैति लोकः ।
अजस्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः ॥ ३७ ॥
अन्वयः—आर्त्तः लोकः दुःखप्रतीकारनिमित्तं कृष्यादिभिः खेदम् उपैति, तत् च
भूयो अजस्रम् आगच्छति, यस्य अद्य त्वया ज्ञानेन अन्तःकृतः ॥ ३७ ॥
व्याख्या—आर्त्तः = दुःखितः, लोकः = जनः, दुःखप्रतीकारनिमित्तम् = दुःखस्य =
कष्टस्य; प्रतीकारः = शमनोपायः, तस्य निमित्तम् = प्रयोजनम्, कृष्यादिभिः = कृष्टि-

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८९
प्रभृतिभिः, खेदम् = दुःखम्, उपैति = प्राप्नोति, तत् च = दुःखञ्च, भूयः = पुनः पुनः,
अजस्रम् = सततम्, आगच्छति = मिलति, यस्य = दुःखस्य, अद्य = अधुना, त्वया = भवता,
ज्ञानेन = प्रज्ञया, अन्तःकृतः = विनष्टः कृत इति ॥ ३७ ॥
हिन्दी—दुःख-विनाश के लिए दुःखी जगत् खेती आदि काम करके थक जाता है,
फिर भी उसे वह दुःख निरन्तर होता ही रहता है, जिसका अन्त तुमने अपने ज्ञान से
आज कर दिया है ॥ ३७ ॥
दुःखं न मे स्यात् सुखमेव मे स्यादिति प्रवृत्तः सततं हि लोकः ।
न वेत्ति तच्चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यथावत् ॥ ३८ ॥
अन्वयः—हि मे दुःखं न स्यात्, मे सुखम् एव स्यात्, इति लोकः सततं प्रवृत्तः,
तच्चैव यथा स्यात् तथा न वेत्ति, अद्य त्वया असुलभं यथावत् प्राप्तम् ॥ ३८ ॥
व्याख्या—हि = यतः, मे = मम, दुःखम् = कष्टम्, न = नहि, स्यात् = भवेत्, मे
= मम, सुखम् = हर्षम्, एव, स्यात् = भवेत्, इति = इत्थम्, लोकः = जनः, सततम् =
निरन्तरम्, प्रवृत्तः = संलग्नः, तथैव = तेनैव प्रकारेण, यथा = यद्वत्, स्यात् = भवेत्,
तथा = तद्वत्, न = नहि, वेत्ति, अद्य = सम्प्रति, त्वया = भवता, असुलभम् = दुर्लभं
वस्तु, सुखम् इत्याशयः, यथावत् = सम्पूर्णरूपेण, प्राप्तम् = अधिकृतम् इति ॥ ३८ ॥
हिन्दी—मुझे सदैव सुख ही सुख हो, दुःख कदापि न हो; संसार सदैव इसके लिए
प्रयत्नशील रहता है, किन्तु उसे पता नहीं है कि वह सुख उसे कैसे मिलेगा ? तुमने
आज उस दुर्लभ सुख को तत्त्वतः प्राप्त कर लिया है ॥ ३८ ॥
इत्येवमादि स्थिरबुद्धिचित्तस्तथागतेनाभिहितो हिताय ।
स्तुवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर्वाक्यमुवाच नन्दः ॥ ३९ ॥
अन्वयः—इत्येवमादि हिताय तथागतेन अभिहितः स्थिरबुद्धिचित्तः स्तुवेषु
निन्दासु च निर्व्यपेक्षः नन्दः कृताञ्जलिः वाक्यम् उवाच ॥ ३९ ॥
व्याख्या—इत्येवमादि = इत्यादि, हिताय = लाभाय, तथागतेन = बुद्धेन, अभि-
हितः = उक्तः, स्थिरबुद्धिचित्तः—बुद्धिश्च = मतिश्च, चित्तञ्च = हृदयञ्च, बुद्धिचित्ते,
स्थिरे = अचञ्चले, बुद्धिचित्ते यस्य सः = दृढमतिमनः, स्तुवेषु = स्तुतिषु, निन्दासु =
गर्हासु, च = तथा, निर्व्यपेक्षः—विशिष्टा = विलक्षणा, अपेक्षा = आकाङ्क्षा, इति व्यपेक्षा,
निर्गता = निःसृता, व्यपेक्षा यस्मात् सः = समानः, कृताञ्जलिः = बद्धकरपुटः, नन्दः =
बुद्धानुजः, वाक्यम् = वचनम्, उवाच = अवदत् ॥ ३९ ॥
हिन्दी—स्थिर मन-बुद्धिवाले नन्द से तथागत ने इस तरह बहुत कुछ कहा तब
स्तुति और निन्दा से निरपेक्ष रहने वाले नन्द ने हाथ जोड़कर यह कहा ॥ ३९ ॥
अहो विशेषेण विशेषदर्शंस्त्वयानुकम्पा मयि दर्शितेयम् ।
यत्कामपङ्के भगवन्निमग्नस्त्रातोऽस्मि संसारभयादकामः ॥ ४० ॥
अन्वयः—अहो विशेषदर्शिन् ! त्वया विशेषेण मयि इयम् अनुकम्पा दर्शिता, यत्
भगवन् ! कामपङ्के निमग्नः अकामः संसारभयात् त्रातः अस्मि ॥ ४० ॥

३९० सौन्दरनन्दं महाकाव्यम्
व्याख्या—अहो=इत्यनुशंसायाम्, विशेषदर्शिन्—विशेषम्=असामान्यम्, द्रष्टुम्=
अवलोकनं कर्तुम्, शीलम्=स्वभावः, यस्य सः तत्सम्बुद्धौ, त्वया=भवता, विशेषेण=
विशिष्टेन, मयि=नन्दे, इयम्=एषा, अनुकम्पा=कृपा, दर्शिता=सम्पादिता, यत्
भगवन्=हे ईश्वर! कामपङ्के=प्रणयकर्दमे, निमग्नः=संलग्नः, अहम्, अकामः=
कामरहितः, संसारभयात्=जननमरणभीतेः, यातः=रक्षितः, अस्मि=भवामि ॥४०॥
हिन्दी—हे विशेष देखने वाले ! आपने मुझ पर यह विशेष दया दिखलायी है। हे
भगवन् ! मैं काम रूपी कीचड़ में डूबा था, आपने जन्म-मरण दुःख से मुझे बचा लिया
है, अब मैं इस काम रूपी कीचड़ से मुक्त हूँ ॥ ४० ॥
भ्रात्रा त्वया श्रेयसि देशिकेन पित्रा फलस्थेन तथैव मात्रा।
हतोऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः ॥ ४१ ॥
अन्वयः—यदि श्रेयसि देशिकेन फलस्थेन पित्रा मात्रा तथैव भ्रात्रा त्वया अकृतार्थः
सार्थात् परिभ्रष्टः इव न व्यमोक्ष्यं हतः अभविष्यम् ॥ ४१ ॥
व्याख्या—यदि=चेत्, श्रेयसि=कल्याणे, देशिकेन=उपदेशकेन, फलस्थेन=
परिणामोत्सुकेन, पित्रा=जनकेन, मात्रा=जनन्या, तथैव=तद्वदेव, भ्रात्रा=सोदरेण,
त्वया=भवता, अहम्, अकृतार्थः=अकृतकार्यः, सार्थात्=समूहात्, परिभ्रष्टः=परि-
च्युतः, इव=यथा, न=नहि, व्यमोक्ष्यम्=अमोक्ष्यम्, तर्हि हतः=विनष्टः,
अभविष्यम्=स्याम् ॥ ४१ ॥
हिन्दी—परिणामोत्सुक माता-पिता के स्वरूप कल्याणोपदेशक मेरे बड़े भाई
आपने यदि लक्ष्य को बिना पाये ही समूह से भटके यात्री-की तरह मुझे न बचा लिया
होता तो मैं निश्चय ही विनष्ट हो जाता ॥ ४१ ॥
शान्तस्य तुष्टस्य सुखो विवेको विज्ञाततत्त्वस्य परीक्षकस्य।
प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वमसक्तबुद्धेः ॥ ४२ ॥
अन्वयः—शान्तस्य तुष्टस्य विज्ञाततत्त्वस्य परीक्षकस्य विवेकः सुखः प्रहीणमानस्य
निर्मदस्य असक्तबुद्धेः च विरागत्वं सुखम् ॥ ४२ ॥
व्याख्या—शान्तस्य=प्रशान्तचित्तस्य, सन्तुष्टस्य=आनन्दोपलब्धस्य, विज्ञात-
तत्त्वस्य=लब्धसारस्य, परीक्षकस्य=संवीक्षकस्य, विवेकः=चिन्तनम्, सुखः=
हर्षकरः, भवति, प्रहीणमानस्य=दर्पहीनस्य, निर्मदस्य=निरहङ्कारस्य, असक्तबुद्धेः=
आसक्तिशून्यमतेः, च=पुनः, विरागत्वम्=वैराग्यम्, सुखम्=हर्षदं भवति ॥ ४२ ॥
हिन्दी—शान्त, संतुष्ट, तत्त्ववेत्ता एवं संवीक्षक को सहजता से विवेक होता है
और मान तथा मद रहित तथा अनासक्त बुद्धि को आसानी से वैराग्य होता है ॥४२॥
अथो हि तत्त्वं परिगम्य सम्यङ्निर्धूय दोषानधिगम्य शान्तिम्।
स्वं नाश्रमं सम्प्रति चिन्तयामि न तं जनं नाप्सरसो न देवान् ॥ ४३ ॥
अन्वयः—अथ हि तत्त्वं सम्यक् परिगम्य दोषान् निर्धूय शान्तिम् अधिगम्य सम्प्रति
न स्वम् आश्रमं, न तं जनं, न अप्सरसः, न देवान् चिन्तयामि ॥ ४३ ॥

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३९१
व्याख्या - अथ = सम्प्रति, हि = यतः, तत्त्वम् = सारम्, सम्यक् = सुष्ठुतया,
परिगम्य = ज्ञात्वा, दोषान् = दुर्गुणान्, निर्धूय = पृथक्कृत्य, शान्तिम् = इन्द्रियासक्ति-
शून्यत्वम्, अधिगम्य = उपलभ्य, सम्प्रति = अधुना, न = नहि, स्वम् = आत्मानम्,
न = नहि, आश्रमम् = नृपाजयम्, न = नहि, तम् = पूर्वोक्तम्, जनम् = लोकम्, अर्थात्
स्वपत्नीम्, न अप्सरसः = दिव्याङ्गनाः, न देवान् = सुरान्, चिन्तयामि = विचार-
यामि ॥ ४३ ॥
हिन्दी-तत्त्वों को ठीक से समझकर, दोषों को हटाकर और शान्ति पाकर
मुझे अब न तो अपनी, न राजमहल की, न उस सुन्दरी की, न अप्सराओं की और न
देवताओं की ही चिन्ता है ॥ ४३ ॥
इदं हि भुक्त्वा शुचि शामिकं सुखं न मे मनः काङ्क्षति कामजं सुखम् ।
महार्हमप्यन्नमदेवताहृतं दिवौकसो भुक्तवतः सुधामिव ॥ ४४ ॥
अन्वयः-इदं हि शुचिः शामिकं सुखं भुक्त्वा मे मनः कामजं सुखं सुधां भुक्तवतः
दिवौकसः अदेवताहृतं महार्हम् अपि अन्नम् इव न काङ्क्षति ॥ ४४ ॥
व्याख्या-इदम् = एतत् हि = यतः, शुचिः = पवित्रः, शामिकम् = शान्ति-
सम्बन्धि, सुखम् = आनन्दम्, भुक्त्वा = उपभुज्य, मे = मम, मनः = चेतः, कामजम् =
कामोत्पन्नम्, सुखम् = आनन्दम्, सुधाम् = पीयूषम्, भुक्तवतः = उपभुज्यमानस्य,
दिवौकसः = सुराः, अदेवताहृतम्-न दैवतः अदैवतः, तैराहृतम् = सुरभिन्नप्राणिभिः
भोज्यम्, महार्हम् = अतिश्रेष्ठम्, अपि अन्नम् = सस्यम्, न = नहि, काङ्क्षति =
अभिलषति । उपमालङ्कारः ॥ ४४ ॥
हिन्दी-इस पवित्र शान्ति-सुख को भोगकर अब. मेरे मनं में कामजन्य सुख की
कोई अभिलाषा नहीं है। जैसे अमृत पीनेवाले देवताओं का मन अन्य प्राणियों द्वारा
खाये गये अन्न को चाहे वह कितना भी मूल्यवान् क्यों न हो, इच्छा नहीं करते ॥४४॥
अहोऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् ।
सुधीरमध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थमृच्छति ॥ ४५ ॥
अन्वयः-अहो ! अन्धविज्ञाननिमीलितं जगत् पटान्तरे उत्तमं सुखं न पश्यति, तथा
हि सुधीरम् अध्यात्मसुखं व्यपास्य कामसुखार्थं श्रमम् ऋच्छति ॥ ४५ ॥
व्याख्या - अहो = इति खेदार्थे, अन्धविज्ञाननिमीलितम्-अन्धः विज्ञानः, तेन
निमीलितम् = अज्ञानतिमिरावृतेन, जगत् = मर्त्यलोकम्, पटान्तरे = वस्त्रान्तरे, उत्तमम् =
श्रेष्ठम्, सुखम् = हर्षम्, न पश्यति=नावलोकयति, तथा हि = तैनैव प्रकारेण हि, सुधीरम् =
स्थायिनम्, अध्यात्मसुखम् = ब्रह्मानन्दम्, व्यपास्य = परित्यज्य, कामसुखार्थम् =
विषयोपभोगार्थम्, श्रमम् = आयासम्, ऋच्छति = करोति ॥ ४५ ॥
हिन्दी-अहो ! अज्ञानान्धकार से ढँकी आँखों वाला संसार कपड़े से ढँके उत्तम
सुख को नहीं देख पा रहा है; क्योंकि स्थायी अध्यात्म सुख को छोड़ कर वह विषयोप-
भोग के लिए मेहनत करता है ॥ ४५ ॥

३१२ सौन्दरनन्दं महाकाव्यम्
यथा हि रत्नाकरमेत्य दुर्मतिर्विहाय रत्नान्यसतो मणीन् हरेत् ।
अपास्य सम्बोधिसुखं तथोत्तमं श्रमं व्रजेत् कामसुखोपलब्धये ॥ ४६ ॥
अन्वयः—यथा हि दुर्मतिः रत्नाकरम् एत्य रत्नानि विहाय असतः मणीन् हरेत्,
तथा उत्तमं सम्बोधिसुखम् अपास्य कामसुखोपलब्धये श्रमं व्रजेत् ॥ ४६ ॥
व्याख्या—यथा = येन प्रकारेण, हि = यतः, दुर्मतिः = दुर्बुद्धिः, रत्नाकरम् =
महासागरम्, एत्य = गत्वा, रत्नानि = माणिक्यानि, विहाय = त्यक्त्वा, असतः = कुत्सिताः,
मणीन् = अश्मभेदान्, हरेत् = गृह्णीयात्, तथा = तेनैव प्रकारेण, उत्तमम् = परमम्,
सम्बोधिसुखम् = समाधिसुखम्, अपास्य = परित्यज्य, कामसुखोपलब्धये—कामस्य =
विषयोपभोगस्य, सुखम् = आनन्दम्, तस्य उपलब्धिः = प्राप्तिः, तस्यै, श्रमम् = प्रयासम्,
व्रजेत् = कुर्यात् ॥ ४६ ॥
हिन्दी—जिस तरह कोई दुर्बुद्धि रत्नाकर में पहुँचकर महार्घ मणियों को छोड़कर
पत्थर चुन लाये, उसी तरह दुर्मति समाधिसुख को छोड़कर कामसुख के लिए चेष्टा
करता है ॥ ४६ ॥
अहो हि सत्त्वेष्वतिमैत्रचेतसस्तथागतस्यानुजिघृक्षुता परा ।
अपास्य यद् ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे ॥ ४७ ॥
अन्वयः—मुने ! अहो सत्त्वेषु अतिमैत्रचेतसः तथागतस्य अनुजिघृक्षुता परा यत् परं
ध्यानसुखम् अपास्य परस्य दुःखोपरमाय खिद्यसे ॥ ४७ ॥
व्याख्या—मुने = हे ऋषे ! अहो = इत्याश्चर्ये, सत्त्वेषु = प्राणिषु, अतिमैत्रचेतसः =
अतिसौहार्दमनसः, तथागतस्य = महाबुद्धस्य, अनुजिघृक्षुता = अनुग्रहीतुमिच्छा, परा =
महती, यत् परम् = अत्युत्कृष्टम्, ध्यानसुखम् = समाधिजन्यानन्दम्, अपास्य = विहाय,
परस्य = अन्यस्य, दुःखोपरमाय = कष्टोपशमनाय, खिद्यसे = क्लिश्यसे ॥ ४७ ॥
हिन्दी—आश्चर्य है कि प्राणियों के प्रति तथागत का चित्त अत्यन्त सौहार्दपूर्ण है,
अतः यही कारण है कि दूसरों पर अत्यन्त अनुग्रह करने के लिए अपना उत्कृष्ट ध्यान
सुख को छोड़ कर दूसरों का दुःख दूर करने के लिए श्रम कर रहे हैं ॥ ४७ ॥
भया नु शक्यं प्रतिकर्तुमद्य किं गुरौ हितैषिण्यनुकम्पके त्वयि ।
समुद्धृतो येन भवार्णवादहं महार्णवाच्चूर्णितनौरिवोर्मिभिः ॥ ४८ ॥
अन्वयः—किं नु अद्य मया हितैषिणि अनुकम्पके त्वयि गुरौ प्रतिकर्त्तुं शक्यम्,
येन अहं भवार्णवात् ऊर्मिभिः चूर्णितनौः महार्णवात् इव समुद्धृतः ॥ ४८ ॥
व्याख्या—किन्नु = कथन्नु, अद्य = सम्प्रति, मया = नन्देन, हितैषिणि = शिवाभि-
लाषिणि, अनुकम्पके = कारुणिके, त्वयि = भवति, गुरौ = उपदेशके, प्रतिकर्त्तुम् =
प्रतिकारं विधातुम्, शक्यम् = अहम्, समर्थं वा, येन = कारणेन, अहम् = नन्दः, भवार्ण-
वात् = संसारसागरात्, ऊर्मिभिः = तरङ्गैः, चूर्णितनौः = भग्ननावः, महार्णवात् =
महासमुद्रात्, इव = यथा, समुद्धृतः = परित्रातः । अस्मिन्नपि श्लोके उपमालङ्कार
एवेति ॥ ४८ ॥

Here is the line-by-line transcription of the text from the image into Devanagari script:

आज्ञा-व्याकरणम् ] $\qquad$ अष्टादशः सर्गः $\qquad$ ३९३
हिन्दी—आप जैसे परम दयालु और हितैषी गुरु का मैं क्या कभी कुछ प्रत्युप-
कार कर सकता हूँ? आपने तो मुझे इस संसार-सागर से ठीक उसी तरह खींचकर
निकाला है, जैसे लहरों की चपेट में चूर-चूर नाव को महासागर से कोई खींचकर
निकालें ॥ ४८ ॥
ततो मुनिस्तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः ।
इदं बभाषे वदतामनुत्तमो यदर्हति श्रीघन एव भाषितुम् ॥ ४९ ॥
अन्वयः—ततः तस्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः निशम्य वदताम् अनुत्तमः
मुनिः इदं बभाषे, यत् श्रीघनः एव भाषितुम् अर्हति ॥ ४९ ॥
व्याख्या—ततः = तत्पश्चात्, तस्य = बुद्धस्यानुजस्य, हेतुमत् = युक्तिसङ्गतम्, प्रही-
णसर्वास्रवसूचकम् = प्रकर्षेण = अत्यन्तेन, हीनः = रहितः, प्रहीणः, सर्वाः = सम्पूर्णाः,
आस्रवाः = दोषाः, इति सर्वास्रवाः, प्रहीणाः सर्वास्रवाः इति प्रहीणसर्वास्रवाः = विगत-
सकलचित्तावगुणाः, तेषां सूचकम् = द्योतकम्, वचः = वाणी, निशम्य = आकर्ण्य, वद-
ताम् = वक्तॄणाम्, अनुत्तमः—नास्ति = न विद्यते, उत्तमः = श्रेष्ठः, यस्मात् सः इति =
अशेषश्रेष्ठः, मुनिः = बुद्धः, इदम् = एतत्, बभाषे = उक्तवान्, यत् श्रीघनः—श्रीः =
सिद्धिः, एव धनम् = सम्पद, यस्य सः = ऐश्वर्यशाली, एव, भाषितुम् = वक्तुम्, अर्हति =
योग्योऽस्ति ॥ ४९ ॥
हिन्दी—तब उस नन्द की युक्तिसंगत उन सारी बातों को, जिन्हें सुनकर लगता
था कि उसके मन का सारा मैल घुल चुके हैं-परमवक्ता श्रेष्ठ मुनि ने यह वचन कहा,
जिसे श्रीघन बुद्ध ही कह सकते हैं ॥ ४९ ॥
इदं कृतार्थः परमार्थवित् कृती त्वमेव धीमन्नभिधातुमर्हसि ।
अतीत्य कान्तारमवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक् ॥ ५० ॥
अन्वयः—धीमन् ! कृतार्थः परमार्थवित् कृती त्वमेव कान्तारम् अतीत्य अवाप्त-
साधनः महावणिक् इव सुदैशिकस्य इदं कृतम् अभिधातुम् अर्हसि ॥ ५० ॥
व्याख्या—धीमन्—धीः = बुद्धिरस्ति अस्येति तत्सम्बुद्धौ धीमन् = हे बुद्धिमान् !
कृतार्थः = पूर्णकाम, परमार्थवित् = परमतत्त्वज्ञ, कृती = शुचिव्रतः, त्वमेव = भवान् एव,
कान्तारम् = गहनकाननम्, अतीत्य = पारं गत्वा, अवाप्तसाधनः = प्राप्तोपायः, महा-
वणिक् = श्रेष्ठसार्थवाहः, इव = यथा, सुदैशिकस्य—सु = सुष्ठु, दैशिकः = उपदेशक-
स्तस्य = सुभगोपदेशकस्य, इदम् = एतत्, कृतम् = उपकारम्, अभिधातुम् = प्रशंसितुम्,
अर्हसि = समर्थोऽसि । उपमालङ्कारः ॥ ५० ॥
हिन्दी—हे बुद्धिमान् ! आपकी तरह कोई शुचिव्रत, पुण्यात्मा और परमतत्त्व को
जानने वाले व्यक्ति हीं ऐसा कह सकते हैं, जैसा गहन वन को पारकर धन पानेवाला
कोई महावणिक् ही अपने मार्गदर्शक के उपकार का बखान कर सकता है ॥ ५० ॥
अवैति बुद्धं नरदम्यसारथिं कृती यथार्हन्नुपशान्तमानसः ।
न दृष्टसत्योऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमानपि ॥ ५१ ॥

३९४ सौन्दरनन्दं महाकाव्यम्
अन्वयः—अर्हन् ! उपशान्तमानसः कृती नरदम्यसारथिं बुद्धं यथा अवैति, तथा
दृष्टसत्यः अपि न अवबुध्यते, बुद्धिमान् अपि पृथग्जनः किं बत ॥ ५१ ॥
व्याख्या—अर्हन् = हे पूजनीय ! उपशान्तमानसः = प्रशान्तचित्तः, कृती = शुचिव्रतः,
नरदम्यसारथिम् — नराः = लोकाः, एव दम्याः = अश्वाः, तेषां सारथिः = रथवाहकः,
तम् = लोकाश्वसारथिम्, बुद्धम् = मुनिम्, यथा = येन रूपेण, अवैति = जानाति, तथा
= तेन रूपेण, दृष्टसत्यः = तत्त्वदर्शी, अपि न = नहि, अवबुध्यते = अवगच्छति, बुद्धिमान्
= ज्ञानी, अपि = चेत्, पृथग्जनः = जागतिकजनः, किं बत = का वार्ता इति ॥ ५१ ॥
हिन्दी—शान्तचित्त, पुण्यात्मा, जीवन्मुक्त पुरुष मानवरूपी अश्वों के सारथी
भगवान् बुद्ध को जितना समझता है उतना तो उन्हें कोई तत्त्वदर्शी पुरुष भी
नहीं समझ पाता, तो फिर सांसारिक जन बुद्धिमान् होकर भी कहाँ तक समझ
पायेगा ? ॥ ५१ ॥
रजस्तमोभ्यां परिमुक्तचेतसस्तवैव चेयं सदृशी कृतज्ञता ।
रजःप्रकर्षेण जगत्यवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः ॥ ५२ ॥
अन्वयः—कृतज्ञ ! इयं कृतज्ञता रजस्तमोभ्यां परिमुक्तचेतसः तव एव सदृशी,
हि रजःप्रकर्षेण अवस्थिते जगति कृतज्ञभावः दुर्लभः ॥ ५२ ॥
व्याख्या—कृतज्ञ = हे कृतवेदिन् ! इयम् = एषा, कृतज्ञता - उपकारित्वम्, रज-
स्तमोभ्याम् = रजोगुण-तमोगुणाभ्याम्, परिमुक्तचेतसः—परितः = सर्वतः, मुक्तम् =
बन्धनरहितम्, चेतः = मनः, यस्य सः तस्य, तव = भवतः, एव, सदृशी = योग्यास्ति,
हि = यतः, रजःप्रकर्षेण = रजसाधिक्येन, अवस्थिते = विद्यमाने, जगति = लोके,
कृतज्ञभावः—कृतज्ञस्य = कृतोपकारस्य, भावः = स्वभावः, दुर्लभः = दुष्प्राप्यो
भवति ॥ ५२ ॥
हिन्दी—हे उपकारविद् ! इस तरह की कृतज्ञता तो तुम्हारें ही अनुरूप है, तुम्हारा
हृदय रजोगुण और तमोगुण से रहित है, क्योंकि रजोगुण की अधिकता से व्याप्त
जगत् में कृतज्ञता का भाव दुर्लभ है ॥ ५२ ॥
सधर्म धर्मान्वयतो यतश्च ते
मयि प्रसादोऽधिगमे च कौशलम् ।
अतोऽस्ति भूयस्त्वयि मे विवक्षितं
नतो हि भक्तस्य नियोगमर्हसि ॥ ५३ ॥
अन्वयः—सधर्म ! यंतः च धर्मान्वयतः मयि ते प्रसादः अधिगमे कौशलं च अतः
भूयः त्वयि मे विवक्षितम्, हि नतः भक्तः नियोगम् अर्हसि ॥ ५३ ॥
व्याख्या—सधर्म = हे समानधर्मा ! यतः = यस्माद्धेतोः, च = पुनः, धर्मान्वयतः—
धर्मस्य = नियमस्य, अन्वयः = परस्परसम्बन्धः, तस्मात्, मयि = बुद्धे, ते = तव,
प्रसादः = प्रसन्नता, अधिगमे = लक्ष्यप्राप्तौ, कौशलम् = दक्षता, च स्तः, अतः = अनेन
कारणेन, भूयः = पुनः, त्वयि = नन्दे, मे = मम तथागतस्य, विवक्षितम् = वक्तु-

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३९५
मिच्छितम्, हि = यतः, नतः = विनयावनतः, भक्तः = श्रद्धावान्, त्वं नियोगम् =
आदेशम्, अर्हसि = योग्योऽसि ॥ ५३ ॥
हिन्दी — हे समानधर्मा ! धार्मिक सम्बन्ध के कारण मुझमें तुम्हारी श्रद्धा है और
लक्ष्य प्राप्ति में तुमने कुशलता दिखलायी है, अतः मैं तुम्हें कुछ कहना चाहता हूँ,
क्योंकि विनम्र भक्त तुम आदेश के पात्र हो ॥ ५३ ॥
अवाप्तकार्योऽसि पराङ्गतिं गतो न तेऽस्ति किञ्चित् करणीयमण्वपि ।
अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परानपि ॥ ५४ ॥
अन्वयः—सौम्य ! अवाप्तकार्यः परां गतिं गतः असि, ते किञ्चित् अणु अपि करणीयं
न अस्ति, अतःपरं कृच्छ्रगतान् परान् अपि विमोक्षयन् अनुकम्पया चर ॥ ५४ ॥
व्याख्या—सौम्य = हे साधु ! अवाप्तकार्यः = लब्धप्रयोजनः, पराम् = उत्कृष्टाम्,
गतिम् = अवस्थाम्, गतः = प्राप्तः च, असि = विद्यसे, ते = तव, किञ्चित् = किमपि,
अणु अपि = लेशोऽपि, करणीयम् = सम्पादनीयम्, नास्ति = न विद्यते, अतःपरम् =
अस्मात् विशिष्टतरम्, कृच्छ्रगतान् = कृच्छ्रम् = कष्टम्, गतान् = प्राप्तान्, परान् =
त्वद्भिन्नान्, अपि, विमोक्षयन् = रक्षां कुर्वन्, अनुकम्पया = दयया, चर = परिभ्रमणं
कुरु ॥ ५४ ॥
हिन्दी—तुमने अपना काम पूरा कर लिया है। तुम अब परमगति पा चुके हो,
तुम्हारे लिए लेशमात्र भी अब करने को कुछ बचा नहीं है। अब से हे साधु ! कष्ट
में पड़े दूसरों को भी मुक्त करते हुए, दूसरों पर दया करते हुए स्वच्छन्द होकर
घूमो ॥ ५४ ॥
इहार्थमेवारभते नरोऽधमो विमध्यमस्तूभयलौकिकीं क्रियाम् ।
क्रियाममुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनरप्रवृत्तये ॥ ५५ ॥
अन्वयः—अधमः नरः इहार्थम् एव आरभते, विमध्यमः तु उभयलौकिकीं
क्रियाम्, मध्यमः अमुत्र फलाय एव विशिष्टधर्मा पुनरप्रवृत्तये क्रियाम् ॥ ५५ ॥
व्याख्या—अधमः = नीचः, नरः = लोकः, इहार्थम् = शरीरार्थम्, एव = केवलम्,
आरभते = काचित् क्रियां करोति, विमध्यमः = अधमोत्तमकोट्यन्तरे जनः, तु = किन्तु,
उभयलौकिकीम् = उभयलोके = इहलोके परलोके च, प्रसिद्धेति उभयलौकिकीम्, क्रियाम्
= कृत्यं सम्पादयति, मध्यमः = नीचात् श्रेष्ठतरो जनः, परलोके, फलाय एव = पुण्य-
लाभायैव, कृत्यं सम्पादयते, विशिष्टधर्मा = विशिष्टः = असामान्यः, धर्मः = नियमः,
यस्य सः, पुनरप्रवृत्तये = भूयोजन्मविनाशाय, क्रियाम् = सत्कर्म, आरभते ॥ ५५ ॥
हिन्दी—नीच व्यक्ति सांसारिक सुख के लिए ही कुछ करता है, निचले दर्जे से
कुछ कम वाला मनुष्य लोक-परलोक दोनों के लिए कार्यारम्भ करता है, मध्यम श्रेणी
का मनुष्य परलोक साधन के लिए कार्यारम्भ करता है, किन्तु विशिष्ट कोटि का
मनुष्य मुक्ति के लिए ही प्रयास करता है ॥ ५५ ॥
इहोत्तमेभ्योऽपि मतः स तूत्तमो य उत्तमं धर्ममवाप्य नैष्ठिकम् ।
अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्योऽप्युपदेष्टुमिच्छति ॥ ५६ ॥

३९६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—इह सः उत्तमेभ्यः अपि उत्तमः मतः, यः उत्तमं नैष्ठिकं धर्मम् अवाप्य
आत्मगतं परिश्रमम् अचिन्तयित्वा परेभ्यः शमम् उपदेष्टुम् इच्छति ॥ ५६ ॥
व्याख्या—इह = संसारे, सः = पूर्वोक्तः जनः, उत्तमेभ्यः = वरेण्येभ्यः, अपि =
चेत्, उत्तमः = श्लाघ्यः, मतः=अवगतः, यः = लोकः, उत्तमम् = विशिष्टम्, नैष्ठिकम्=
श्रद्धान्वितम्, धर्मम् = नियमम्, अवाप्य = प्राप्य, आत्मगतम् = स्वगतम्, परिश्रमम् =
आयासम्, अचिन्तयित्वा = अविचार्य, परेभ्यः = आत्मभिन्नेभ्यः, शमम् = शान्तिम्,
उपदेष्टुम् = बोधयितुम्, इच्छति = अभिलषति ॥ ५६ ॥
हिन्दी—इस संसार में वही व्यक्ति सर्वोत्कृष्ट माना जाता है, जो उत्तम नैष्ठिक
धर्म प्राप्त कर अपने परिश्रम की चिन्ता किये बिना ही दूसरों को भी शान्ति का
उपदेश देना चाहता है ॥ ५६ ॥
विहाय तस्मादिह कार्यमात्मनः कुरु स्थिरात्मन् परकार्यमप्यथो ।
भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यतामयम् ॥ ५७ ॥
अन्वयः—स्थिरात्मन् ! तस्मात् आत्मनः कार्यं विहाय परकार्यमपि कुरु, अथ
निशि भ्रमत्सु तमोवृतात्मसु सत्त्वेषु अयं श्रुतप्रदीपः धार्यताम् ॥ ५७ ॥
व्याख्या—स्थिरात्मन् = हे सुस्थिरमते ! तस्मात्=तेनैव हेतुना, आत्मनः = स्वस्य,
कार्यम् = कृत्यम्, विहाय = त्यक्त्वा, परकार्यमपि = अन्यजनस्यापि कृत्यम्, कुरु =
प्रतिपद्यस्व, अथ = यतो हि, निशि = रात्रौ, भ्रमत्सु = विचरत्सु, तमोवृतात्मसु—
तमेन = अज्ञानान्धकारेण, आवृतः = पिहितः, आत्मा = चैतन्यः, येषां तेषु, सत्त्वेषु =
जीवेषु, अयम्=एषः, श्रुतप्रदीपः = प्रज्ञादीपः, धार्यताम्=गृह्यताम् । उपमालङ्कारः ॥५७॥
हिन्दी—हे दृढ़मति ! इसीलिए संसार में अपना काम छोड़कर भी परहित में
लगो, रात के अन्धकार में भटकते जीवों के बीच इस ज्ञान-दीप को धारण करो ॥५७॥
ब्रवीतु तावत् पुरि विस्मितो जनस्त्वयि स्थिते कुर्वति धर्मदेशनाः ।
अहोबताश्चर्यमिदं विमुक्तये करोति रागी यदयं कथामिति ॥ ५८ ॥
अन्वयः—तावत् पुरि धर्मदेशनाः कुर्वति त्वयि स्थिते विस्मितः जनः अहोबत
इदम् आश्चर्यं यत् अयं रागी विमुक्तये कथां करोति इति ब्रवीतु ॥ ५८ ॥
व्याख्या—तावत् = तदा, पुरि=नगरे, धर्मदेशनाः—धर्मस्य = नियमस्य, देशनाः=
उपदेशाः, ताः=तत्त्वोपदेशान्, कुर्वति = विदधति, त्वयि = नन्दे, स्थिते = विद्यमाने,
विस्मितः = आश्चर्यान्वितः, जनः = लोकः, अहोबत = आश्चर्यं, इदम्=एतत्, आश्चर्यम्=
विस्मयावहम्, यत् = यः, अयम् = एषः, रागी = विषयासक्तः, विमुक्तये = विमोक्षाय,
कथाम् = वार्त्ताम्, करोति = सम्पादयति, इति = इत्थम्, ब्रवीतु = कथयतु इति ॥५८॥
हिन्दी—जब तुम नगर में धर्मोपदेश करोगे तब लोग विस्मित भाव से इस प्रकार
कहेंगे—अरे ! यह आश्चर्य ! यह नन्द जो पहले परम कामी था, आज मुक्ति की बात
कर रहा है ॥ ५८ ॥
ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर्मनोरथैः ।
वधूगृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः ॥ ५९ ॥

आज्ञा-(व्याकरणम् ] , अष्टादशः सर्गः ३९७
अन्वयः—निवृत्तनानाविषयैः मनोरथैः स्थिरं तव मनः संश्रुत्य ध्रुवं हि सा वधूः
अपि तवानुकुर्वती गृहे स्त्रीषु विरागिणीः कथाः करिष्यते ॥ ५९ ॥
व्याख्या—निवृत्तनानाविषयैः = अनासक्तविविधोपभोगैः, मनोरथैः = स्पृहाभिः,
स्थिरम् = अचलम्, तव = भवतः, मनः = चित्तः, संश्रुत्य = आकर्ण्य, ध्रुवम् = निश्चयेन,
हि, सा = सुन्दरी, वधूः = तव पत्नी, तवानुकुर्वन्ती = ते अनुमरन्तीम्, गृहे = राजभवने,
स्त्रीपु = प्रमदासु, विरागिणीः = विरक्तसम्बन्धिनीः, कथा = वार्त्ता, करिष्यते =
कथयिष्यति ॥ ५९ ॥
हिन्दी—विविध विषयों की अभिलाषाओं से मुक्त होकर तुम्हारा मन स्थिर हो
गया है। यह बात जब तुम्हारी पत्नी सुनेगी, तब निश्चय ही राजभवन की महिलाओं
के बीच तुम्हारा अनुसरण करती हुई वह भी वैराग्य की वार्ता करेगी ॥ ५९ ॥
त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा ।
मनसि शमदमात्मके विविक्ते मतिरिव कामसुखैः परीक्षकस्य ॥ ६० ॥
अन्वयः—परमधृतौ विनिष्टतत्त्वे त्वयि ध्रुवं हि भवनगता सा शमदमात्मके
विविक्ते मनसि परीक्षकस्य मतिः इव कामसुखैः न रंस्यते ॥ ६० ॥
व्याख्या—परमधृतौ—परमा = उत्तमा, धृतिः = धैर्यं, यस्य सः तस्मिन् = उत्कृष्ट-
धैर्ये, निविष्टतत्त्वे—निविष्टः = प्रविष्टः, तत्त्वम् = सत्यं, येन सः तस्मिन्, त्वयि =
भवति, ध्रुवं हि = निश्चितं हि, भवनगताः = राजभवने स्थिताः, सा = सुन्दरी, शम-
दमात्मके = शमदमसंयुक्ते, विविक्ते = निर्जनस्थले, मनसि = चेतसि, परीक्षकस्य =
विचारकस्य, मतिः = बुद्धिः, इवं = यथा, कामसुखैः = विषयोपभोगैः, न = नहि,
रंस्यते = रमणं करिष्यति । उपमालङ्कारः ॥ ६० ॥
हिन्दी—तुम परम धीर हो तथा सत्य में तुम्हारा प्रवेश हो चुका है, यह जान
कर निश्चय ही घर में उसे आनन्द की अनुभूति नहीं होगी, जैसे कि शान्त, दान्त और
विवेकशील व्यक्ति के एकान्तसेवी हो जाने पर उस विचारक की बुद्धि कामसुख में
नहीं रमती ॥ ६० ॥
इत्यर्हतः परमकारुणिकस्य शास्तु-
र्मूर्ध्ना वचश्च चरणौ च समं गृहीत्वा ।
स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः
पार्श्वान्मुनेः प्रतिययौ विमदः करीव ॥ ६१ ॥
अन्वयः—इति अर्हतः परमकारुणिकस्य शास्तुः वचः चरणौ च समं मूर्ध्ना
गृहीत्वा स्वस्थः प्रशान्तहृदयः विनिवृत्तकार्यः विमदः करी इव मुनेः पार्श्वात्
प्रतिययौ ॥ ६१ ॥
व्याख्या—इति = इत्थम्, अर्हतः = बुद्धस्य, परमकारुणिकस्य = अत्यधिकदयालोः,
शास्तुः = मुनेः, वचः = उपदेशम्, चरणौ = पादौ, च = पुनः, समम् = युगपदेव,
मूर्ध्ना = शिरसा, गृहीत्वा = स्पृष्ट्वा, स्वस्थः = निरामयः, प्रशान्तहृदयः = अनासक्त-
सौ०-29

३९८ सौन्दरनन्द महाकाव्यम्
मानसः, विवृत्तकार्यः = लब्धप्रयोजनम्, विमदः = मदहीनः, करी = गजः, इव =
यथा, मुनेः = गुरोः, पार्श्वात् = सन्निकटात्, प्रतिययौ = जगाम । उपमालङ्कारोऽत्र ॥ ६१ ॥
हिन्दी — इस परमकृपालु गुरु के आदेश और उनके चरणों को एक साथ
शिरोधार्य कर स्वस्थचित्त, शान्तहृदय और पूर्णकाम नन्द ने मुनि के समीप से मद-
हीन गजराज की तरह प्रस्थान किया ॥ ६१ ॥
भिक्षार्थं समये विवेश स पुरं दृष्टीर्जनस्याक्षिपन्
लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः ।
निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने
नैवोन्मार्गगतान् परान् परिभवन्नात्मानमुत्कर्षयन् ॥ ६२ ॥
अन्वयः — लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियः निःस्पृहः सः जनस्य
दृष्टीः आक्षिपन् भिक्षार्थं समये पुरं विवेश, तत्र च उन्मार्गगतान् परान् न परिभवन्
आत्मानं न उत्कर्षयन् एव काले अर्थिने जनाय निर्मोक्षाय कथां चकार ॥ ६२ ॥
व्याख्या — लाभालाभसुखासुखादिषु = आयापायावानन्दानानन्दादिषु, समः = तुल्यः,
स्वस्थेन्द्रियः = निरामयाक्षः, निःस्पृहः = स्पृहारहितः, सः = नन्दः, जनस्य = लोकस्य,
दृष्टीः = चक्षवः, आक्षिपन् = आकर्षन्, भिक्षार्थम् = भिक्षानिमित्ताय, समये = यथावसरे,
पुरम् = नगरम्, विवेश = प्रवेशमकरोत्, तत्र = तस्मिन् नगरे, च = पुनः, उन्मार्ग-
गतान् = कुपथाश्रितान्, परान् = सामान्यलोकान्, न = नहि, परिभवन् = विगर्हयन्,
आत्मानम् = निजम्, न = नहि, उत्कर्षयन् = श्रेष्ठत्वं प्रतिपादयन्, एव स नन्दः, काले =
यथावसरे, अर्थिने = अभ्यर्थिने, जनाय = लोकाय, निर्मोक्षाय = मुक्तिलाभाय, कथाम् =
धर्मोपदेशम्, चकार = अकरोत् ॥ ६२ ॥
हिन्दी — उसने भिक्षाटन के लिए यथावसर नगर में प्रवेश किया । उसने
नागरिकों की दृष्टि अपनी ओर आकृष्ट किया । यह हानि-लाभ, सुख-दुःख में समान
और इच्छा रहित था । वहाँ उसने प्रार्थी जनों को धर्मोपदेश दिया, परन्तु न तो
कुमार्गगामियों की निन्दा की और न अपने महत्त्व की ही प्रशंसा की ॥ ६२ ॥
इत्येषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः
श्रोतॄणां ग्रहणार्थमन्यमनसां काव्योपचारात् कृता ।
यन्मोक्षात् कृतमन्यदत्र हि मया तत् काव्यधर्मात् कृतं
पातुं तिक्तमिवौषधं मधुयुतं हृद्यं कथं स्यादिति ॥ ६३ ॥
अन्वयः — इति मोक्षार्थगर्भा एषा कृतिः व्युपशान्तये न रतये अन्यमनसां श्रोतॄणां
ग्रहणार्थं काव्योपचारात् कृता, अत्र मोक्षात् अन्यत् यत् काव्यधर्मात् मया कृतं तत्
कथम् इति मधुयुतं तिक्तम् औषधम् इव पातुं हृद्यं स्यात् ॥ ६३ ॥
व्याख्या — इति = इत्थम्, मोक्षार्थगर्भा = मोक्षस्य = निर्वाणस्य, अर्थः = कामना
प्रयोजनं वा, इति मोक्षार्थः, तदेव गर्भे = कुक्षौ, यस्याः सा, एषा = इयम्, कृतिः =
रचना, व्युपशान्तये = शान्तिलाभाय, आसक्तिविरक्तये वा, न = नहि, रतये = सांसा-

आज्ञा-व्याकरणम् ] । अष्टादशः सर्गः ३९९
रिकसुखोपभोगाय अस्ति, अन्यमनसाम्—अन्यस्मिन् = भिन्नविषये, मनः=चेतः, यस्याः
सा ताम्, श्रोतॄणाम् = श्रावकानाम्, ग्रहणार्थम् = श्रवणाय, काव्योपचारात् = काव्य-
प्रयोगात्, कृता = सम्पादिता, अत्र = अस्मिन् विषये, मोक्षात् = निर्वाणात्, अन्यत् =
भिन्नम्, यत् = यः, काव्यधर्मात् = काव्याचारात्, मया = ग्रन्थकारेण, कृतम् = सम्पा-
दितम्, तत्कथमित्याक्षेपकथने, मधुयुतम् = मधुमिश्रितम्, तिक्तम् = कटु, औषधम् =
भैषज्यम्, इव = यथा, पातुम् = पानं कर्तुम्, हृद्यम् = आस्वादसमन्वितम्, स्यात् =
भवेदिति कृतमिति ॥ ६३ ॥
हिन्दी—मुक्तिधर्म की व्याख्या से परिपूर्ण यह रचना शान्तिलाभ के लिए है, न
कि आनन्द देने के लिए; अन्यमनस्क श्रोताओं को आकृष्ट करने के लिए यह रचना
काव्य-शैली में रची गई है। इसमें मुक्तिधर्म के अतिरिक्त जो कुछ भी कहा गया है,
वह केवल काव्यधर्म के अनुसार इसे सरस बनाने के लिए ही; जैसे तीते (कटु)
औषधि को पीने लायक बनाने के लिए उसमें मधु मिलाया जाता है ॥ ६३ ॥
प्रायेणालोक्य लोकं विषयरतिपरं मोक्षात् प्रतिहतं
काव्यव्याजेन तत्त्वं कथितमिह मया मोक्षः परमिति ।
तद् बुद्ध्वा शामिकं यत्तदवहितमितो ग्राह्यं न ललितं
पांसुभ्यो धातुजेभ्यो नियतमुपकरं चामीकरमिति ॥ ६४ ॥
सौन्दरनन्दे महाकाव्ये आज्ञाव्याकरणं नामाष्टादशः सर्गः ॥ १८ ॥
आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यभदन्ताश्व-
घोषस्य महाकवेर्महावादिनः कृतिरियम् ।
अन्वयः—प्रायेण विषयरतिपरं मोक्षात् प्रतिहतं लोकम् अवलोक्य मया इह
काव्यव्याजेन 'मोक्षः' इति परं तत्त्वं कथितम्, तद् बुद्ध्वा अवहितं यत् शामिकं तत् इतः
ग्राह्यं न ललितं धातुजेभ्यः पांसुभ्यः नियतम् उपकरं चामीकरम् इति ॥ ६४ ॥
व्याख्या—प्रायेण = बहुधा, विषयरतिपरम्—विषयेषु = कामोपभोगेषु, रतिः =
प्रीतिः, इति विषयरतिः, तस्यां परम् = लीनम् इति, मोक्षात् = निर्वाणात्, प्रति-
हतम् = पराजितम्, लोकम् = मर्त्यलोकम्, अवलोक्य = विलोक्य, मया = ग्रन्थकारेण,
इह = अस्मिन् काव्ये, काव्यव्याजेन = कवितालेखनमिषेण, मोक्षः = निर्वाणः, इति =
इत्थम्, परम् = अत्युत्तमम्, तत्त्वम् = सत्यम्, कथितम् = वर्णितम्, तत् = पूर्वोक्तम्,
बुद्ध्वा = परिज्ञाय, अवहितम् = सावधानम्, यत् = यः, शामिकम् = शान्तिप्रदम्, तत्
= पूर्वोक्तवस्तु, इतः = अस्मात् काव्यात्, ग्राह्यम् = स्वीकरणीयम्, ललितम् = मनोहरम्,
न = नहि, ग्राह्यम्, धातुजेभ्यः = धातुजातेभ्यः, पांसुभ्यः = धूलिभ्यः, नियतम् =
संयतम्, उपकरम् = प्रयोजनीयम्, चामीकरम् = कनक एव ग्राह्यमिति भावः ॥ ६४ ॥

४०० सौन्दरनन्दं महाकाव्यम्
हिन्दी—संसार को प्रायः कामोपभोग में लीन तथा मोक्ष से विमुख देखकर
मुक्ति को ही सर्वाधिक महत्त्वपूर्ण समझते हुए, मैंने इस काव्य में यथार्थ वस्तु का ही
उपदेश दिया है। ऐसा समझकर सावधानीपूर्वक इसमें से शान्तिदायक वस्तु को ही
ग्रहण करना चाहिए, न कि मनोरंजक वस्तु को ग्रहण करना चाहिए। जैसे कि धातु
के कणों से धूलि झाड़कर लोग प्रयोजनीय सोने को ग्रहण करते हैं ॥ ६४ ॥
॥ सौन्दरनन्द-महाकाव्य में 'आज्ञाव्याकरण' नामक अष्टादशसर्ग समाप्त ॥ १८ ॥
बेगूसरायनगरस्य प्राध्यापकानामुपनगरवासिना व्याकरण-साहित्याचार्यद्युपाधिना
डॉक्टर-जगदीशचन्द्रशर्मणा प्रणीते सौन्दरनन्दमहाकाव्ये 'विमला'
व्याख्यानं सम्पूर्णम् ।
व्योमाङ्कनिधिचन्द्रेऽब्दे तपसि बाणबुधे सिते ।
ख्रिष्ट्राब्दस्य वसन्ते व्याख्येयं लिखिता मया ॥