सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
अमृताधिगमः ] सप्तदशः सर्गः ३६९
नन्दः = बुद्धानुजः, निर्वाणोत्पाटनदाहशोषैः = प्रशमनोन्मूलनदहनशोषैः, दोषेषु =
कष्टेषु, तां वृत्तिम् = तदाचरणम्, इयाय = जगाम ॥ ५९ ॥
हिन्दी - आग, पेड़, घी और पानी के प्रति क्रमशः जल, वायु, अग्नि और सूर्य
का जो काम होता है, दोषों के प्रति नन्द ने प्रशमन, उन्मूलन, दहन और शोषण द्वारा
वही आचरण किया ॥ ५९ ॥
इति त्रिवेगं त्रिझषं त्रिवीचमेकाम्भसं पञ्चरयं द्विकूलम् ।
द्विग्राहमष्टाङ्गवता प्लवेन दुःखार्णवं दुस्तरमुत्ततार ॥ ६० ॥
अन्वयः - इति त्रिवेगं त्रिझषं त्रिवीचं एकाम्भसं पञ्चरयं द्विकूलं द्विग्राहं दुस्तरं
दुःखार्णवम् अष्टाङ्गवता प्लवेन उत्ततार ॥ ६० ॥
व्याख्या- इति = इत्थम्, त्रिवेगम् = त्रयः वेगाः = जवाः, यस्मिन् सः तम्,
त्रिझषम् = त्रिमीनम्, त्रिवीचम् = त्रितरङ्गम्, एकाम्भसम् = एकसलिलम्, पञ्चरयम् =
पञ्चवेगम्, द्विकूलम् = द्वितटम्, द्विग्राहम् = द्विजलहस्तिनम्, दुस्तरम् = दुःखेन = कष्टेन, तर्तुं
शक्यम् = दुलंङ्घनीयम्, दुःखार्णवम् = दुःखसागरम्, अष्टाङ्गवता = अष्ट अङ्गानि
सन्ति, अस्मिन् तेन = अष्टाङ्गसमन्वितेन, प्लवेन = उडुपेन, उत्ततार = उदतीतरत् ।
संसारस्य पञ्चप्रकारकाणां दुःखानाम्, वेगयुक्तानां पञ्चेन्द्रियाणां, मनबुद्ध्यादीनाञ्च
सङ्केतमस्ति । अष्टाङ्गनौकयाऽष्टाङ्गिकयोगस्य सङ्केतोऽस्ति ॥ ६० ॥
हिन्दी - इस प्रकार तीन वेगवाले, तीन मछलियों वाले, तीन तरङ्गों वाले, एक
जलवाले, पांच वेगवाले, दो तीरवाले और दो ग्राहवाले दुस्तर दुःखसागर को आठ
अङ्गवाली नाव से पार किया ॥ ६० ॥
अर्हत्त्वमासाद्य स सत्क्रियार्हो निरत्सुको निष्प्रणयो निराशः ।
विभीर्विशुग्विगतमदो विरागः स एव धृत्यान्य इवाबभासे ॥ ६१ ॥
अन्वयः - सत्क्रियार्हः सः अर्हत्त्वमासाद्य निरत्सुकः निष्प्रणयः निराशः विभीः
विशुक् वीतमदः सः एव धृत्या अन्यः इव आबभासे ॥ ६१ ॥
व्याख्या - सत्क्रियार्हः = सत्क्रियायाः = सत्कारस्य, अर्हः = योग्यः, सः = नन्दः,
अर्हत्त्वम् = भिक्षुत्वम्, आसाद्य = प्राप्य, निरत्सुकः = उत्कण्ठारहितः, निष्प्रणयः =
सस्नेहप्रार्थनाशून्यः, निराशः = हताशः, विभीः = भयशून्यः, विशुक् = शोकरहितः,
वीतमदः = दर्परहितः, सः = नन्दः एव, धृत्या = धैर्येण, अन्य इव = अपर इव,
आबभासे = शुशुभे ॥ ६१ ॥
हिन्दी - अर्हत्व प्राप्त करने के बाद वह पूज्य, उत्सुकता, स्नेह, आशा, भय, शोक,
मद और राग से रहित होकर धैर्य के कारण दूसरे की तरह दिखलायी पड़ा ॥ ६१ ॥
भ्रातुश्च शास्तुश्च तयानुरिष्ट्या नन्दस्ततः स्वेन च विक्रमेण ।
प्रशान्तचेताः परिपूर्णकार्यो वाणीमिमामात्मगतां जगाद ॥ ६२ ॥
अन्वयः - ततः नन्दः भ्रातुश्च शास्तुश्च तथा अनुशिष्ट्या स्वेन विक्रमेण च प्रशान्त-
चेताः परिपूर्णकार्यः आत्मगताम् इमां वाणीं जगाद ॥ ६२ ॥
३७० सौन्दरनन्दं महाकाव्यम्
व्याख्या—ततः = तदा, नन्दः = एतदाख्यभिक्षुः, भ्रातुश्च = अग्रजस्य च, शास्तुश्च =
उपदेशकस्य च, तया = उक्त्या, अनुशिष्ट्या = उपदेशेन, स्वेन विक्रमेण = निजेन परा-
क्रमेण च, प्रशान्तचेताः = स्थिरमनः, परिपूर्णकार्यः = विहितकार्यः, आत्मगताम् = स्वग-
ताम्, इमाम् = एषां, वाणीम् = उक्तिम्, जगाद = अवोचत् ॥ ६२ ॥
हिन्दी—तब नन्द ने अपने भाई और उपदेष्टा के उस उपदेश से और अपने
पराक्रम से स्थिरमन और पूर्णकाम होकर मन ही मन इस प्रकार कहा ॥ ६२ ॥
नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणात्मकेन ।
बहूनि दुःखान्यपवर्तितानि सुखानि भूयांस्युपसंहृतानि ॥ ६३ ॥
अन्वयः—तस्मै सुगताय नमोऽस्तु, येन हितैषिणा करुणात्मकेन मे बहूनि दुःखानि
अपवर्तितानि भूयांसि सुखानि उपसंहृतानि ॥ ६३ ॥
व्याख्या—तस्मै = पूर्ववर्णिताय, सुगताय = बुद्धाय, नमोऽस्तु = प्रणतिरस्तु, येन =
येन हेतुना, हितैषिणा = शुभेच्छुना, करुणात्मकेन = दयालुना, मे = मम नन्दस्य, बहूनि
प्रभूतानि, दुःखानि = क्लेशानि, अपवर्तितानि = दूरीकृतानि, भूयांसि = प्रभूतानि,
सुखानि = आनन्दानि, उपसंहृतानि = प्रस्तुतानि ॥ ६३ ॥
हिन्दी—उस सुगत के लिए मैं प्रणाम करता हूँ, जिस हितैषी, दयालु ने मेरे सारे
कष्टों को दूर कर अपार सुख दिया है ॥ ६३ ॥
अहं ह्यनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः ।
निवर्तितस्तद्वचनाङ्कुशेन दर्पान्वितो नाग इवाङ्कुशेन ॥ ६४ ॥
अन्वयः—अहं हि अनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः तद्वचना-
ङ्कुशेन दर्पान्वितः नागः अङ्कुशेन इव निवर्तितः ॥ ६४ ॥
व्याख्या—अहम् = नन्दः, हीति निश्चयेन, अनार्येण = क्षुद्राशयेन, शरीरजेन =
देहोत्पन्नेन कामेन, दुःखात्मके = दुःखमूलके, वर्त्मनि = मार्गे, कृष्यमाणः = आकृष्टः
सन्, तद्वचनाङ्कुशेन = बुद्धोपदेशसृणिना, दर्पान्वितः = मदोन्मत्तः, नागः = गजः,
अङ्कुशेन = सृणिना, इव = यथा, निवर्तितः = प्रत्यावर्तितः अस्मि ॥ ६४ ॥
हिन्दी—मैं दुष्ट काम के द्वारा दुःखात्मक राह में घसीटा जा रहा था, किन्तु बुद्ध
के वचनरूपी अंकुश के द्वारा वैसे ही लौटा लिया गया, जैसे मतवाला हाथी अंकुश से
लौटाया जाता है ॥ ६४ ॥
तस्याज्ञया कारुणिकस्य शास्तुर्हृदिस्थमुत्पाट्य हि रागशल्यम् ।
अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किं बत निर्वृतस्य ॥ ६५ ॥
अन्वयः—तस्य कारुणिकस्य शास्तुः आज्ञया हृदिस्थं हि रागशल्यम् उत्पाट्य
अद्यैव तावत् सुमहत् सुखं सर्वक्षये निर्वृत्तस्य मे किं बत ? ॥ ६५ ॥
व्याख्या—तस्य = पूर्वोक्तस्य, कारुणिकस्य = दयालोः, शास्तुः = उपदेष्टुः, आज्ञया =
आदेशेन, हृदिस्थम् = मनःस्थितम्, हि = यतः, रागशल्यम् = आसक्तिकीलं, उत्पाट्य
= उद्धृत्य, अद्यैव = सम्प्रत्येव, तावत् = एतावद्, सुमहत् = अधिकम्, सुखम् = हर्षम्,
अमृताधिगमः ] सप्तदशः सर्गः ३७१
सर्वक्षये = सकलपदार्थक्षीणे, निवृतस्य = निर्वाणप्राप्तस्य, मे= मम नन्दस्य, किं बत=
का वार्त्ता ? ॥ ६५ ॥
हिन्दी-उस दयालु शास्ता की आज्ञा से हृदय में रहने वाले आसक्ति रूपी काँटे
को निकालकर मैं आज ही ऐसा महान् सुख अनुभव कर रहा हूँ, फिर सारे पदार्थों के
क्षीण होने के बाद निर्वाण मिलने की बात ही क्या ? ॥ ६५ ॥
निर्वाप्य कामाग्निमहं हि दीप्तं धृत्यम्बुना पावकमम्बुनेव ।
ह्लादं परं साम्प्रतमागतोऽस्मि शीतं हृदं घर्म इवावतीर्णः ॥ ६६ ॥
अन्वयः—अहम् अम्बुना पावकम् इव धृत्यम्बुना दीप्तं हि कामाग्निं निर्वाप्य
घर्मे शीतं हृदम् अवतीर्णः इव साम्प्रतं परं ह्लादम् आगतः अस्मि ॥ ६६ ॥
व्याख्या—अहम्= नन्दः, अम्बुना=जलेन, पावकम्=अग्निम्, इव= सदृशम्,
धृत्यम्बुना = धैर्यजलेन, दीप्तम् = ज्वलितम्, हि=इति निश्चयेन, कामाग्निम् = वासना-
वह्निम्, निर्वाप्य = शमनं कृत्वा, घर्मे = आतपे, शीतम् = शीतलम्, हृदम् = सरोवरम्,
अवतीर्णः= अवरोहणः, इव = यथा, साम्प्रतम् = अधुना, परम् = उत्तमम्, ह्लादम् =
हर्षम्, आगतः = प्राप्तः, अस्मि = भवामि ॥ ६६ ॥
हिन्दी-जैसे पानी से आग बुझाई जाती है, वैसे ही धैर्यरूपी जल से प्रज्वलित
कामाग्नि को शान्त कर मैं सम्प्रति गर्मी में शीतल सरोवर में उतरे हुए के समान,
अत्यन्त खुश हो रहा हूँ ॥ ६६ ॥
न मे प्रियं किञ्चन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः ।
तयोरभावात् सुखितोऽस्मि सद्यो हिमातपाभ्यामिव विप्रमुक्तः ॥ ६७ ॥
अन्वयः—न मे किञ्चन प्रियं, न मे किञ्चन अप्रियं, न मे अनुरोधः अस्ति, विरोधः
कुतः ? तयोः अभावात् सद्यः हिमातपाभ्यां विप्रमुक्तः इव सुखितः अस्मि ॥ ६७ ॥
व्याख्या—न=नहि, मे=मम, किञ्चन=किमपि, प्रियम्=कान्तम्, रुचिकरं वा,
न=नहि, मे=मम, किञ्चन=किमपि, अप्रियम्=अरुचिकरम्, न=नहि, मे=मम, अनुरोधः=
आग्रहः, अस्ति=विद्यते, विरोधः = वैरम्, कुतः = कुत्र ? तयोः = उभयोः, अभावात् =
अविद्यमानात्, सद्यः = तत्क्षणमेव, हिमातपाभ्याम् = शैत्यधर्माभ्याम्, विप्रमुक्तः =
विमुक्तः, इव = यथा, सुखितः = हर्षितः, अस्मि = भवामि ॥ ६७ ॥
हिन्दी-मुझे न कुछ प्रिय है और न अप्रिय, न अनुरोध है और न विरोध, इन
दोनों के अभाव से, मैं अब सर्दी-गर्मी के प्रभाव से मुक्त हुए की तरह सुखी हूँ ॥६७॥
महाभयात् क्षेममिवोपलभ्य महावरोधादिव विप्रमोक्षम् ।
महार्णवात् पारमिवाप्लवः सन् भीमान्धकारादिव च प्रकाशम् ॥ ६८ ॥
अन्वयः—महाभयात् क्षेमम् इव महावरोधात् विप्रमोक्षम् इव अप्लवः सन् महा-
र्णवात् पारम् इव भीमान्धकारात् प्रकाशम् इव च उपलभ्य—॥ ६८ ॥
व्याख्या—महाभयात् = महद्भीतेः, क्षेमम् = कुशलम्, इव = यथा, महावरोधात्
= महाविघ्नात्, विप्रमोक्षम् = मुक्तिम्, इव = यथा, अप्लवः = तरणीविहीनः सन्,
३७२ सौन्दरनन्द महाकाव्यम्
महार्णवात् = महासागरात्, पारम् = तटम्, इव = यथा, भीमान्धकारात् = घोरतमसः,
प्रकाशम् = आलोकम्, इव = यथा, च = पुनः, उपलभ्य = प्राप्य - ॥ ६८ ॥
हिन्दी-महाविपत्ति से कुशलक्षेम पाने वाले की तरह, महाबन्धन से मुक्ति पाने
वाले की तरह, नाव के बिना ही महासागर से पार पाने वाले की तरह, गहन अन्ध-
कार से प्रकाश पाने वाले की तरह - ॥ ६८ ॥
रोगादिवारोग्यमसह्यरूपादृणादिवानृण्यमनन्तसङ्ख्यात् ।
द्विषत्सकाशादिव चापयानं दुर्भिक्षयोगाच्च यथा सुभिक्षम् ॥ ६९ ॥
अन्वयः-रोगात् आरोग्यम् इव, असह्यरूपात् अनन्तसङ्ख्यात् ऋणात् अनृण्यम्
इव द्विषत्सकाशात् च अपयानम् इव, दुर्भिक्षयोगात् च सुभिक्षं यथा - ॥ ६९ ॥
व्याख्या-रोगात् = आमयात्, आरोग्यम् = स्वास्थ्यम्, इव = यथा, असह्यरूपात् =
दुःसहरूपात्, अनन्तसङ्ख्यात् = अत्यधिकात्, ऋणात् = धारात्, अनृण्यमिव = अधार्य-
मिव, द्विषत्सकाशात् - द्विषतः = रिपोः, सकाशात् = समीपम्, तस्मात्, च = पुनः,
अपयानम् = पलायनम्, इव = यथा, दुर्भिक्षयोगाच्च = अकालरूपाच्च, सुभिक्षं यथा =
सुकालमिव - ॥ ६९ ॥
हिन्दी-असह्य रोग से आरोग्य पाने वाले की तरह, अनन्तराशि ऋण से उऋण
होने वाले की तरह, शत्रु के समीप से भाग निकलने वाले की तरह और अकाल से
सुकाल में आने वाले की तरह - ॥ ६९ ॥
तद्वत् परां शान्तिमुपागतोऽहं यस्यानुभावेन विनायकस्य ।
करोमि भूयः पुनरुक्तमस्मै नमो नमोऽर्हाय तथागताय ॥ ७० ॥
अन्वयः-अहं यस्य विनायकस्य अनुभावेन परां शान्तिम् उपागतः (अस्मि),
तद्वत् अस्मै अर्हाय तथागताय पुनरुक्तं नमः नमः करोमि ॥ ७० ॥
व्याख्या-अहम् = अश्वघोषः, यस्य विनायकस्य = विशिष्टदेवस्य, अनुभावेन =
परमया कृपया, पराम् = उत्कृष्टां, शान्तिम् = स्वान्तःसुखम्, उपागतः = प्राप्तवान् अस्मि,
तद्वत् = तत्तुल्याय, अस्मै = प्रस्तुताय, अर्हाय = पूज्याय, तथागताय = एतन्नाम्ना
प्रसिद्धाय बुद्धदेवाय, पुनरुक्तम् = भूयोभूयः, नमः नमः = प्रणामं, करोमि = विदधामि ।७०।
हिन्दी-मैं जिस विशिष्ट नायक की परम कृपा से अत्यन्त मानसिक शान्ति को
प्राप्त हुआ हूँ, वैसे ही इस पूज्य तथागत ( बुद्धदेव ) के लिये बार-बार प्रणाम करता
हूँ ॥ ७० ॥
येनाहं गिरिमुपनीय रुक्मशृङ्गं
स्वर्गं च प्लवगवधूनिदर्शनेन ।
कामात्मा त्रिदिवचरीभिरङ्गनाभि-
र्निष्कृष्टो युवतिमये कलौ निमग्नः ॥ ७१ ॥
अन्वयः-येन अहं कामात्मा युवतिमये कलौ निमग्नः रुक्मशृङ्गं गिरि स्वर्गं च
उपनीय प्लवगवधूनिदर्शनेन त्रिदिवचरीभिः अङ्गनाभिः निष्कृष्टः ॥ ७१ ॥
अमृताधिगमः ] सप्तदशः सर्गः ३७३
व्याख्या—येन = तथागतेन, अहम् = अश्वघोषः, कामात्मा = कामपरायणः, युवति-
मये = स्त्रैणे, कलौ = पापे, निमग्नः = बुडितः, रुक्मशृङ्गम् = स्वर्णशिखरम्, गिरिम् =
पर्वतम्, स्वर्गं च = देवलोकं च, उपनीय = नीत्वा, प्लवगवधूनिदर्शनेन = मर्कटीदृष्टान्तेन,
त्रिदिवचरीभिः = सुरलोकभ्रमणशीलाभिः, अङ्गनाभिः = रमणीभिः, निष्कृष्टः =
उद्धृतः ॥ ७१ ॥
हिन्दी—जिस तथागत ने मेरे जैसे कामलोलुप तथा स्त्रीमय पापरूपी कीचड़ में
फँसे हुए मुझे सोने की चोटियों वाले पर्वत पर तथा स्वर्ग में ले जाकर बन्दरी के
हरण से स्वर्ग में निवास करने वाली सुरयुवतियों के बन्धन से मुक्त किया, अर्थात्
मेरा उद्धार किया ॥ ७१ ॥
तस्माच्च व्यसनपरादनर्थपङ्का-
दुत्कृष्य क्रमशिथिलः करीव पङ्कात् ।
शान्तेऽस्मिन् विरजसि विज्वरे विशोके
सद्धर्मे वितमसि नैष्ठिके विमुक्तः ॥ ७२ ॥
अन्वयः—तस्मात् च व्यसनपरात् अनर्थपङ्कात् क्रमशिथिलः करी इव पङ्कात्
उत्कृष्य अस्मिन् शान्ते विरजसि विज्वरे विशोके वितमसि नैष्ठिके सद्धर्मे विमुक्तः ॥ ७२ ॥
व्याख्या—तस्मात् = मार्गात्, व्यसनपरात् = कष्टयुक्तात्, अनर्थपङ्कात् = अहित-
रूपकर्दमात्, क्रमशिथिलः = पादप्रक्षेपविवशः, करी इव = गजतुल्यः, पङ्कात् = कर्द-
मात्, उत्कृष्य = उद्धृत्य, अस्मिन् = प्रस्तुते, शान्ते = सुखप्रदे, विरजसि = रजोगुण-
रहिते, विज्वरे = रोगादिभयमुक्ते, विशोके = विगतसन्तापे, वितमसि = अस्पृष्टतमो-
गुणे, नैष्ठिके = चरमे, सद्धर्मे = उत्तमधर्मे, विमुक्तः = प्रतिष्ठापितः ॥ ७२ ॥
हिन्दी—तथा जिस तथागत ने उस कष्टदायक अनर्थरूप कीचड़ से, जैसे चलने में
असमर्थ हाथी को कीचड़ से बाहर निकालकर इस शान्त, रजोगुण से रहित, रोग
आदि के भय से मुक्त, शोक रहित, तमोगुण से रहित सर्वोत्तम धर्म में मुझे प्रतिष्ठित
कर दिया ॥ ७२ ॥
तं वन्दे परमनुकम्पकं महर्षि
मूर्ध्नाहं प्रकृतिगुणज्ञमाशयज्ञम् ।
सम्बुद्धं दशबलिनं भिषक्प्रधानं
त्रातारं पुनरपि चास्मि सन्नतस्तम् ॥ ७३ ॥
सौन्दरनन्दे महाकाव्येऽमृताधिगमो नाम सप्तदशः सर्गः ॥ १७ ॥
अन्वयः—तं प्रकृतिगुणज्ञम् आशयज्ञं परमनुकम्पकं महर्षि सम्बुद्धं दशबलिनं
भिषक्प्रधानं त्रातारं वन्दे, तं पुनः अपि सन्नतः च अस्मि ॥ ७३ ॥
व्याख्या—तम् = देवविशेषम्, प्रकृतिगुणज्ञम् = निसर्गगुणवेत्तारम्, आशयज्ञम् = पुंसां
हृदिस्थभाववेत्तारम्, परमनुकम्पकम् = अत्यन्तदयाकरम्, महर्षिम् = तपस्विनम्, सम्बुद्धम् =
३७४ सौन्दरनन्दं महाकाव्यम्
सम्यक्तया लब्धज्ञानिनम्, दशबलिनम् = एतन्नामानम्, भिषक्प्रधानम् = भवबन्धन-
रोगापहारिणम्, त्रातारम् = रक्षकम्, वन्दे = प्रणमामि, तम् = देवम्, पुनः अपि = भूयः
अपि, सन्नतः = श्रद्धाभारेण विनतकन्धरः, च अस्मीति शेषः ॥ ७३ ॥
हिन्दी—उस देव-विशेष को जो समस्त प्राणियों के प्रकृति, गुण तथा आशय को
जानने वाले, मनुष्यों के हृदयस्थित विचारों को जानने वाले, परमकारुणिक अर्थात्
अहिंसा को परमधर्म मानने वाले, महर्षि बुद्ध, दशबली, भवरोगचिकित्सक तथा सर्व-
जनरक्षक को मैं प्रणाम करता हूँ और 'उस देव को पुनः मैं' झुककर प्रणाम करता
हूँ ॥ ७३ ॥
सौन्दरनन्द-महाकाव्य में 'अमृत-प्राप्ति' नामक सप्तदश सर्ग समाप्त ॥ १७ ॥
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण प्रस्तुत है:
अष्टादशः सर्गः
आज्ञा का व्याकरण यही है परहित जीवन हो अर्पित ।
शान्तिपूर्ण आसक्ति शून्य सौहार्दपूर्ण मन हो गर्वित ॥
आज्ञा-व्याकरणम्
अथ द्विजोबाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः ।
जित्वा च राजन्य इवारिसैन्यं नन्दः कृतार्थो गुरुमभ्यगच्छत् ॥ १ ॥
अन्वयः—अथ आप्तवेदः द्विजोबालः इव क्षिप्रं प्राप्तम् आप्तलाभः वणिक् इव
अरिसैन्यं जित्वा राजन्यः इव प्राप्तः कृतार्थः नन्दः गुरुम् अभ्यगच्छत् ॥ १ ॥
व्याख्या—अथ = ततः, आप्तवेदः-आप्ताः = अधिगताः, वेदाः = श्रुतयः, येन सः,
द्विजोबालः = विप्रतनयः, इव = यथा, क्षिप्रम् = त्वरितम्, प्राप्तम् = अधिकृतम्, आप्त-
लाभः = लब्धोपलब्धिः, अत्र प्राप्तपदस्य निरर्थकः प्रयोगोऽस्ति, आप
३७६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—येन हि यतः विशेषः अधिगतः सः तस्य उत्तमांसः ईडचां कर्तुम् अर्हति,
कृतज्ञभावात् सरागः ऽऽर्यः अपि प्रक्षीणमानः वीतरागः किमु ? ॥ ३ ॥
व्याख्या—येन=अन्तेवासिना, हि=यतः, उपदेष्टुः, विशेषः = विशिष्टलाभः,
अधिगतः = सम्प्राप्तः, सः = शिष्यः, तस्य = उपदेशकत्र्तुः, उत्तमांसः = गुरोः, ईडचाम्
=अर्च॑नाम्, कर्तुम् = सम्पादयितुम्, अर्हति=योग्यो भवति, कृतज्ञभावात् = उपकारज्ञ-
विचारात्, सरागः = आसक्तियुक्तः, आर्यः = मान्यः, अपि = चेत्, प्रक्षीणमानः = मान-
रहितः, वीतरागः = वीतः = विनिर्गतः, रागः = आसक्तिः यस्य सः, किमु ? = आक्षेपार्थे
प्रयुक्तोऽयं शब्दः ॥ ३ ॥
हिन्दी—क्योंकि जिसने जिससे विशेष ज्ञान प्राप्त किया है उसको उसकी उत्तम
पूजा करनी चाहिए। आसक्तिपूर्ण होने पर भी आर्यपुरुष उपकारज्ञता की दृष्टि से
अपने गुरु की पूजा करते हैं और जो मान एवं राग शून्य हैं उनका तो कहना ही
क्या ? ॥ ३ ॥
यस्र्यार्थकामप्रभवा हि भक्तिस्ततोऽस्य सा तिष्ठति रूढमूला ।
धर्मान्वयो यस्य तु भक्तिरागस्तस्य प्रसादो हृदयावगाढः ॥ ४ ॥
अन्वयः—यस्य हि भक्तिः अर्थकामप्रभवा ततः अस्य सा रूढमूला तिष्ठति, यस्य
तु भक्तिरागः धर्मान्वयः तस्य प्रसादः हृदयावगाढः ॥ ४ ॥
व्याख्या—यस्य=पुरुषस्य, हि=यतः, भक्तिः=प्रीतिः, अर्थकामप्रभवा-
अर्थश्च =सम्पच्च, कामश्च=मदनश्च, अर्थकामौ, तौ प्रभवौ=उत्पन्नौ, यस्याः सा
भवति, ततः=तर्हि, अस्य=एतज्जनस्य, सा=भक्तिः, रूढमूला = बद्धमूला, तिष्ठति
=स्थितो भवति, यस्य=जनस्य, तु=किन्तु, भक्तिरागः=श्रद्धा, धर्मान्वयः=धर्मानु-
गतः, तस्य=जनस्य, प्रसादः=प्रसन्नता, हृदयावगाढः—हृदये=चित्ते, अवगाढः=
निमग्नो भवति ॥ ४ ॥
हिन्दी—जिसकी भक्ति अर्थ और काम से उत्पन्न होती है, उसकी वह भक्ति
बद्धमूल होकर रहती है, किन्तु जिसकी भक्ति धर्म का अनुसरण कर होती है, उसकी
श्रद्धा में जड़ जमाती हैं ॥ ४ ॥
काषायवाँसाः कनकावदातस्ततः स मूर्ध्ना गुरवे प्रणेमे ।
वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीरिव कर्णिकारः ॥ ५ ॥
अन्वयः—ततः कषायवासाः कनकावदातः सः वातेरितः पल्लवलताम्ररागः पुष्पो-
ज्ज्वलश्रीः कर्णिकारः इव मूर्ध्ना गुरवे प्रणेमे ॥ ५ ॥
व्याख्या—ततः=तदनन्तरम्, काषायवासाः—काषायानि = गैरिकवर्णानि, वासांसि
=वस्त्राणि, यस्य सः, कनकावदातः-कनकवत्=सुवर्णमिव, अवदातः=उज्ज्वलः, सः
=नन्दः, वातेरितः—वातेन=वायुना, ईरितः = प्रेरितः, पल्लवताम्ररागः=पत्रमिव ताम्र-
वर्णः, पुष्पोज्ज्वलश्रीः—पुष्पैः=कुसुमैः, उज्ज्वलाः=कान्तिपूर्णाः, श्रीः=छविर्यस्य सः,
आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३७७
कर्णिकारः = पुष्पवृक्षविशेषः, इव = यथा, मूर्ध्ना = शिरसा, गुरवे = उपदेशकाय,
प्रणेमे = ननाम । उपमालङ्कारोऽत्र ॥ ५ ॥
हिन्दी—तब उस सुनहले गेरुआ वस्त्रधारी नन्द ने सिर झुकाकर गुरु को प्रणाम
किया, मानो अपने कोमल कोंपलों से तांबे रंग के अपने फूलों से उज्ज्वल कर्णिकार
वृक्ष वायु-प्रकम्पित होकर नीचे झुक जाता है ॥ ५ ॥
अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव ।
सन्दर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयाम्बभूव ॥ ६ ॥
अन्वयः—अथ सः आत्मनः शिष्यगुणस्य महामुनेः शास्तृगुणस्य च सन्दर्शनार्थम्
एव स्वां कार्यसिद्धिं कथयाम्बभूव, न मानहेतोः ॥ ६ ॥
व्याख्या—अथ = ततः, सः = नन्दः, आत्मनः = निजस्य, शिष्यगुणस्य = विद्यार्थी-
योग्यतायाः, महामुनेः = श्रेष्ठगुरोः, शास्तृगुणस्य = आचार्यदक्षतायाः, च = पुनः,
सन्दर्शनार्थम् = अवलोकनार्थम्, एव = केवलम्, स्वाम् = स्वकीयाम्, कार्यसिद्धिम् =
लक्ष्योपलब्धिम्, कथयाम्बभूव = बभाषे, न = नहि, मानहेतोः = अभिमानप्रदर्शनार्थम्,
लक्ष्यप्राप्तिमकथयत् । प्रथमपादे 'चैव' पदस्य प्रयोगोऽर्थदृष्ट्या व्यर्थ एवास्ति ॥ ६ ॥
हिन्दी—तब अभिमानवश नही, किन्तु अपनी उत्तम शिष्यता और परमगुरु के
उपदेश की उत्कृष्टता दिखलाने के लिए उसने अपने लक्ष्य की सिद्धि कह दी ॥ ६ ॥
यो दृष्टिशल्यो हृदयावगाढः प्रभो भृशं मामतुदत् सुतीक्ष्णः ।
त्वद्वाक्यसन्दंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः ॥ ७ ॥
अन्वयः—प्रभो ! हृदयावगाढः सुतीक्ष्णः यः दृष्टिशल्यः मां भृशम् अतुदत्, मे सः
शल्यः त्वद्वाक्यसन्दंशमुखेन शल्यहृता इव समुद्धृतः ॥ ७ ॥
व्याख्या—प्रभो = हे विभो ! हृदयावगाढः = मनोगतः, सुतीक्ष्णः = अतितीव्रः, यः
= यत्, दृष्टिशल्यः—दृष्टिः = कुदृष्टिः, एव शल्यः = कण्टकः, माम् = नन्दम्, भृशम् =
अत्यधिकम्, अतुदत् = अव्यथयत्, मे = मम, सः = पूर्वोक्तः, सः = असौ, शल्यः =
कुन्तः, त्वद्वाक्यसन्दंशमुखेन—त्वत् = भवतः, वाक्यम् = उपदेशम्, एव सन्दंशम् = कङ्क-
मुखं, तस्य मुखम् = अग्रभागम्, तेन, शल्यहृता—शल्यम् = कण्टकम्, हरति = निवार-
यति, तेन, इव = यथा, समुद्धृतः = निवारितः । उपमालङ्कारोऽत्र ॥ ७ ॥
हिन्दी—हे प्रभो ! मेरे दिल में कुदृष्टिरूपी तीखे काँटे जो गड़े थे और मुझे
बहुत व्यथित बना रहे थे, वह आपके वाक्यरूपी संड़सी से बाहर खींच लिया गया है,
जैसे काँटे निकालने वाले वैद्य के द्वारा काँटे निकाले जाते हैं ॥ ७ ॥
कथङ्कथाभावगतोऽस्मि येन छिन्नः स निःसंशय संशयो मे ।
त्वच्छासनात् सत्पथमागतोऽस्मि सुदेशिकस्येव पथि प्रनष्टः ॥ ८ ॥
अन्वयः—निःसंशय ! येन कथङ्कथाभावगतः अस्मि मे सः संशयः छिन्नः त्वच्छा-
सनात् पथि प्रनष्टः सुदेशिकस्य इव सत्पथम् आगतः अस्मि ॥ ८ ॥
३७८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—निःसंशय=हे निःशङ्क ! येन=कारणविशेषेण, कथङ्कथाभावगतः=
सन्दिग्धहृदयः, अस्मि=भवामि, मे=मम, सः=पूर्वोक्तः, संशयः=सन्देहः, छिन्नः=
विनष्टोऽभवत्, त्वच्छासनात्-त्वत्=भवतः, शासनात्=उपदेशात्, पथि=मार्गे,
प्रनष्टः=विनष्टः, सुदेशिकस्य-सुदिशतीति सुदेशकः=सदुपदेशकस्तस्य=उत्तमपथ-
प्रदर्शकस्य, इव=यथा, सत्पथम्=सन्मार्गम्, आगतः=प्राप्तः, अस्मि=भवामि ।
इवेति उपमायां तेनोपमालङ्कारः ॥ ८ ॥
हिन्दी—हे संशय-रहित ! वह संशय, जिसके कारण मैं शङ्का-सूचक प्रश्न किया
करता था, नष्ट हो गया । आपके उपदेश से मैं सन्मार्ग पर आ गया हूँ; जिस प्रकार
रास्ता भूला हुआ मनुष्य पथ-प्रदर्शक के उपदेश से सही रास्ते पर आ जाता है ॥८॥
यत्पीतमास्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयाऽऽसीत् ।
तन्मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन ॥ ९ ॥
अन्वयः—मया यत् कन्दर्पविषं दर्पेण आस्वादवशेन्द्रियेण पीतम् आसीत्, मे तत्
विषं त्वद्वचनागदेन विनाशि विषं महागदेन इव हतम् ॥ ९ ॥
व्याख्या—मया=नन्देन, यत्=यः, कन्दर्पविषम्=मदनमदम्, दर्पेण=गर्वेण,
आस्वादवशेन्द्रियेण=सुस्वादुलोलुपाक्षेण, पीतम्=गृहीतम् आसीत्, मे=मम, तत्=
पूर्वोक्तम्, विषम्=कामगरलम्, त्वद्वचनागदेन—तव=भवतः, वचनानि=उपदेशानि,
त्वद्वचनानि, तानि एव, अगदम्=ओषधिम्, तेन=भवदुपदेशोषधिना, विनाशि=हानि-
करम्, विषम्=गरलम्, महागदेन=महौषधिना, इव=यथा, हतम्=विनष्टम् ।
अत्राप्युपमालङ्कार इति ॥ ९ ॥
हिन्दी—स्वाद के वशीभूत होकर मद से मैंने जिस कामरूपी विष को पी लिया
था, वह आपके वचन रूपी औषधि से समाप्त हो गया, जैसे प्राणनाशक जहर महौषधि
के सेवन से विनष्ट हो जाता है ॥ ९ ॥
क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्यामुषितोऽस्मि सम्यक् ।
कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतोऽस्मि न लोकधर्मा ॥ १० ॥
अन्वयः—निरस्तजन्मन् ! मे जन्म क्षयं गतं सम्यक् सद्धर्मचर्याम् उषितः अस्मि,
कृतकार्य ! कृत्स्नं कार्यं मया कृतं लोकेषु भूतः लोकधर्मा न अस्मि ॥ १० ॥
व्याख्या—निरस्तजन्मन्—निरस्तम्=त्यक्तम्, जन्म=उत्पत्तिः, यस्य सः तत्सम्बुद्धौ
=हे त्यक्तजन्मन् ! मे=मम, जन्म=उत्पत्तिः, क्षयम्=विनाशम्, गतम्=जातम्, सम्यक्
=सुष्ठु, सद्धर्मचर्याम्=सन्मार्गाचारम्, उषितः अस्मि=प्राप्तोऽस्मि, कृतकार्य=हे कृती
मया, कृत्स्नम्=सकलम्, कार्यम् = कर्म, कृतम्=अनुष्ठितम्, लोकेषु=संसृतिषु, भूतः=
स्थितोऽपि, लोकधर्मा—लोकस्य=संसारस्य, धर्मः=गुणः, यस्मिन् सः, न=नहि, अस्मि
=भवामि ॥ १० ॥
हिन्दी—हे जीवन्मुक्त ! मैं जन्म से मुक्त हो गया हूँ और ठीक से धर्माचरण में
लगा हूँ। हे कृती ! मैंने सारा कृत्य सम्पादित किया है। यद्यपि मैं संसार में हूँ, फिर
भी संसार के स्वभाव से भिन्न हूँ ॥ १० ॥
आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३७९
मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् ।
तवास्मि गां साधु निपीय तृप्तस्तृपेव गामुत्तम वत्सवर्णः ॥ ११ ॥
अन्वयः—उत्तम ! तव मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गां
गां साधु निपीय तृषा वत्सवर्णः गाम् इव तृप्तः अस्मि ॥ ११ ॥
व्याख्या—उत्तम = हे श्रेष्ठात्मन् ! तव =भवतः, मैत्रीस्तनीम्—मैत्राः = सौहार्दम्,
एव स्तनम् =कुचम्, यस्याः ताम्, व्यञ्जनचारुसास्नाम् = स्फुटमनोरमगलकम्बलाम्,
सद्धर्मदुग्धाम् = सद्धर्मः = सदाचारः, दुग्धम् = क्षीरम्, यस्याः सा ताम्, प्रतिभानशृङ्गाम्
—प्रतिभानमेव = ज्ञानमेव, शृङ्गम् = विषाणम्, यस्याः सा ताम्, गाम् = धेनुम्, साधु
=सुष्ठु, निपीय =पीत्वा, तृपा=तृष्णया आकुलः, वत्सवर्णः = गोःशिशुः, इव =
यथा, तृप्तः=सन्तुष्टः, अस्मि=भवामि । 'गाम्' इति पदस्य प्रयोगः स्थानद्वये भिन्नार्थे-
ऽभवत्, तेन यमकालंकारोऽत्र तथा इवेत्युपमायां प्रयोगत्वेनोपमालङ्कारोऽप्यत्र ॥११॥
हिन्दी—हे श्रेष्ठ पुरुष ! मित्रता जिसकी सास्ना है, सदाचरण जिसके दूध हैं और
ज्ञान जिसके सींग हैं ऐसी आपकी वाणीरूपी गाय के दूध को पीकर मैं ठीक उसी
तरह सन्तुष्ट हूँ, जैसे भूख से व्याकुल बछड़ा अपनी गाय को पीकर तृप्त हो जाता
है ॥ ११ ॥
यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध ।
सर्वज्ञ कामं विदितं तवैतत् स्वं तूपचारं प्रविवक्षुरस्मि ॥ १२ ॥
अन्वयः—मुने ! यत् पश्यतः मम अयम् अधिगमः मे तत् समासेन निबोध, सर्वज्ञ !
कामं तु तव एतत् विदितं स्वम् उपचारं प्रविवक्षुः अस्मि ॥ १२ ॥
व्याख्या—मुने=हे संन्यासिन् ! यत्=उपचारम्, पश्यतः=अवलोकयमानस्य, मम
= नन्दस्य, अयम् = एषः, अधिगमः = मोक्षः प्राप्तः, मे = मम, तत् = तदुपायम्, समा-
सेन = सङ्क्षेपेण, निबोध=आकर्णय, सर्वज्ञ=हे त्रिकालज्ञ ! कामं तु = असन्दिग्धरूपेण तु,
तव =भवतः, एतत् = अदः, विदितम् = विज्ञातं, तथापि, स्वम् = स्वकीयम्, उपचारम्
= मोक्षोपायम्, प्रविवक्षुः = वक्तुमिच्छुः, अस्मि = भवामि ॥ १२ ॥
हिन्दी—जिस दृष्टि को पाने से मैंने यह अर्हंत्व प्राप्त किया है, उसके. सम्बन्ध में
यद्यपि आप सब कुछ जानते हैं, फिर भी मैं अपना उपचार आपको संक्षेप में सुनाना
चाहता हूँ ॥ १२ ॥
अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य ।
मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते ॥ १३ ॥
अन्वयः—अन्येऽपि हि विमुमुक्षवः सन्तः विमोक्षाय परस्य नयं श्रुत्वा रोगवन्तः
रोगात् मुक्तस्य ( नयं श्रुत्वा ) इव तेन एव मार्गेण सुखं घटन्ते ॥ १३ ॥
व्याख्या—अन्येऽपि = अपरेऽपि, हि = यतः, विमुमुक्षवः = मुक्तिमिच्छुकाः, सन्तः
=साधवः, विमोक्षाय =मुक्तये, परस्य =अन्यस्य, नयम् =उपायम्, श्रुत्वा =आकर्ण्य,
३८० सौन्दरनन्दं महाकाव्यम्
रोगवन्तः = रोगिणः, रोगात् = आमयात्, मुक्तस्य = विमुक्तजनस्य, नयं श्रुत्वा, इव =
यथा, तेन = तेन हेतुना एव, मार्गेण = पथेन, सुखम् = हर्षम्, घटन्ते = यतन्ते ।
अत्राप्युपमालङ्कारः ॥ १३ ॥
हिन्दी—क्योंकि मुक्ति चाहने वाले दूसरे लोग भी दूसरों के मोक्षमार्ग को सुनकर
उसी राह से सुखपूर्वक प्रयत्न करते हैं, जैसे कोई रोगी रोगमुक्त व्यक्ति से रोगो-
पशमक उपायों को सुनकर उसी उपाय से स्वस्थ होने का यत्न करते हैं ॥ १३ ॥
उर्व्यादिकान् जन्मनि वेद्मि धातून्नात्मानमुर्व्यादिषु तेषु किञ्चित् ।
यस्मादतस्तेषु न मेऽस्ति सक्तिर्बहिश्च कायेन समा मतिर्मे ॥ १४ ॥
अन्वयः—यस्मात् जन्मनि उर्व्यादिकान् धातून् वेद्मि, तेषु उर्व्यादिषु किञ्चित्
आत्मानं न, अतः तेषु मे सक्तिः न अस्ति, कायेन समा च बहिः मे मतिः ॥ १४ ॥
व्याख्या—यस्मात् =येन कारणेन, अहम्, जन्मनि=जन्मग्रहणे, उर्व्यादिकान्=भूम्या-
दीन्, धातून्=पदार्थान्, वेद्मि=जनामि, तेषु=पूर्वोक्तेषु, उर्व्यादिषु=पृथिव्यादिषु,
किञ्चित्=किमपि, आत्मानम्=चैतन्यम्, न=नहि, वेद्मि, अतः=अस्मात् कारणात्,
तेषु=पृथिव्यादिषु, मे=मम नन्दस्य, सक्तिः=आसक्तिः, न=नहि, अस्ति=विद्यते,
कायेन=देहेन, समा=सदृशम्, च=पुनः, बहिः=बाह्यतः, मे=मम नन्दस्य, मतिः
=बुद्धिरस्ति ॥ १४ ॥
हिन्दी—मुझे यह पता है कि उत्पत्ति में पृथ्वी प्रभृति पदार्थ मूल तत्त्व हैं और
उन पदार्थों में कोई आत्मा नहीं है, अतः उनमें मेरी कोई आसक्ति नहीं है, देह को
और देह से बाहर के तत्त्वों को मैं समान ही समझता हूँ ॥ १४ ॥
स्कन्धांश्च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच्चपलानसारान् ।
अनात्मकांश्चैव वधात्मकांश्च तस्माद्विमुक्तोऽस्म्यशिवेभ्य एभ्यः ॥ १५ ॥
अन्वयः—यस्मात् रूपप्रभृतीन् दशार्धान् स्कन्धान् चपलान् असारान् अनात्मकान्
च पश्यामि, तस्मात् एभ्यः अशिवेभ्यः विमुक्तः अस्मि ॥ १५ ॥
व्याख्या—यस्मात्=यतो हि, अहम्, रूपप्रभृतीन्=शब्द-स्पर्श-रूप-रस-गन्धान्,
दशार्धान्=पञ्चसङ्ख्यकान्, स्कन्धान्=ज्ञानेन्द्रियविषयान्, चपलान्=चञ्चलान्, असारान्
=सारविहीनान्, अनात्मकान्=चैतन्यभिन्नान्, च=पुनः, पश्यामि=अवलोकयामि,
तस्मात्=तेन हेतुना, एभ्यः=एतादृशेभ्यः, अशिवेभ्यः=अमङ्गलकरेभ्यः विषयेभ्यः,
विमुक्तः=विरतोऽस्मि ॥ १५ ॥
हिन्दी—क्योंकि मैं रूप-रसादि पञ्च ज्ञानेन्द्रियों को चंचला एवं सार-विहीन,
अनात्म और अकुशल पाता हूँ। अतः मैं इन अमंगलकारी वस्तुओं से अलग हो गया
हूँ ॥ १५ ॥
यस्माच्च पश्याम्युदयं व्ययं च सर्वास्ववस्थास्वहमिन्द्रियाणाम् ।
तस्मादनित्येषु निरात्मकेषु दुःखेषु मे तेष्वपि नास्ति सङ्गः ॥ १६ ॥
आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८१
।
अन्वयः—यस्मात् अहं सर्वासु अवस्थासु इन्द्रियाणाम् उदयं व्ययं च पश्यामि,
तस्मात् अनित्येषु निरात्मकेषु तेषु दुःखेषु अपि मे सङ्गः नास्ति ॥ १६ ॥
व्याख्या—यस्मात्=यतो हि, अहम्=नन्दः, सर्वासु=सकलासु, अवस्थासु=
दशासु, इन्द्रियाणाम्=करणानाम्, उदयम्=उत्थानम्, व्ययम्=क्षयम्, च=पुनः,
पश्यामि=अवलोकयामि, तस्मात्=तेन हेतुना, अनित्येषु=भङ्गुरेषु, निरात्मकेषु=
आत्महीनेषु, तेषु=पूर्वोक्तेषु, दुःखेषु=रूपरसादिकष्टेषु, अपि=चेत्, मे=मम नन्दस्य,
सङ्गः=अनुरागः, नास्ति=न विद्यते । इन्द्रियजन्यदुःखानि निरात्मकान्यनित्यानि च
सन्ति, अतस्तेष्वासक्तिर्न भवितव्यमिति ॥ १६ ॥
हिन्दी—मैं समझता हूँ कि हर अवस्थाओं में इन्द्रियों का उदय और अस्त होता
है, इसीलिए इस अनित्य, अनात्म और दुःखरूपी इन्द्रियों में मेरी कोई आसक्ति नहीं
है ॥ १६ ॥
यतश्च लोकं समजन्मनिष्ठं पश्यामि निःसारमसच्च सर्वम् ।
अतो धिया मे मनसा विबद्धमस्मीति मे नेञ्जितमस्ति येन ॥ १७ ॥
अन्वयः—यतश्च लोकं समजन्मनिष्ठं सर्वं निःसारम् असत् च पश्यामि, मे
धिया मनसा विबद्धम् अस्मि, इति इञ्जितं येन मे नास्ति ॥ १७ ॥
व्याख्या—यतश्च=येन कारणेन, लोकम्=मर्त्यलोकम्, समजन्मनिष्ठम्=मरण-
धर्मा, सर्वम्=सकलम्, निःसारम्=सारहीनम्, असत्=अनित्यम्, च=पुनः, पश्यामि
=अवलोकयामि, मे=मम, धिया=बुद्ध्या, मनसा=चेतसा, विबद्धम्=बन्धन-
युक्तम्, अस्मि=भवामि, इति=इत्थम्, इञ्जितम्=विकृतिम्, येन=यस्मात्, मे=
मम, नास्ति=न विद्यते । श्लोकोऽयं व्याकरणस्य अर्थस्य च दृष्ट्याऽसङ्गतोऽस्ति,
अतोऽयं पाठोऽप्यनिश्चितमेवेति ॥ १७ ॥
हिन्दी—क्योंकि संसार को जनन-मरणशील एवं सम्पूर्ण पदार्थ को असत् और
असार समझता हूँ । अतः मैं बन्धन-ग्रस्त हूँ, ऐसा विकार मेरे मन और बुद्धि में नहीं
है ॥ १७ ॥
चतुर्विधे नैकविधप्रसङ्गे यतोऽहमाहारविधावसक्तः ।
अमूर्च्छितश्चाग्रथितश्च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः ॥१८॥
अन्वयः—यतः अहं नैकविधप्रसङ्गे तत्र चतुर्विधे आहारविधौ असक्तः अमूर्च्छितः
अग्रथितश्च, ततः त्रिभ्यः भवेभ्यः विमुक्तोऽस्मि ॥ १८ ॥
व्याख्या—यतः=येन हेतुना, अहम्=नन्दः, नैकविधप्रसङ्गे—न एकविधः इति
अनेकविधः, अनेकविधाः प्रसङ्गाः यस्य तस्मिन्=अनेकविधप्रकरणे, नैकविधपदस्य
प्रयोगः समासे एव भवति । तत्र=तस्मिन्, चतुर्विधे=चतुःप्रकारके, आहारविधौ=
भोजननियोगे, (आहारस्त्वत्र चतुर्विधम्—१. कवलीकारः (स्थूलः, सूक्ष्मश्च) । २.
इन्द्रिय-विषय-विज्ञानानां संयोगेन समुत्पन्नः । ३. मनस्सञ्चेतना-मानसिककर्मविचारः ।
सौ०-28
३८२ सौन्दरनन्दं महाकाव्यम्
४. विज्ञानम्—विज्ञानस्कन्धः—अभिधर्मकोशः ।) असक्तः = विरक्तः, अमूर्च्छितः = अमूढः,
अग्रथितश्च = बन्धनविहीनश्चास्मि, ततः = तस्मादेव, त्रिभ्यः = शिवनेत्रेभ्यः, भवेभ्यः =
रूपारूपकामेभ्यः, विमुक्तोऽस्मि = अप्रतिबद्धोऽस्मि ॥ १८ ॥
हिन्दी—बहुविध आसक्तियों सहित चार तरह के आहारों में मैं आसक्त, बेसुध
या बँधा हुआ नहीं हूँ; अतः मैं तीन तरह के भव अर्थात् रूप, अरूप और काम से
पूर्णतः मुक्त हूँ ॥ १८ ॥
अनिश्रितश्चाप्रतिबद्धचित्तो दृष्टश्रुतादौ व्यवहारधर्मे ।
यस्मात् समात्मानुगतश्च तत्र तस्माद्विसंयोगगतोऽस्मि मुक्तः ॥ १९ ॥
अन्वयः—यस्मात् दृष्टश्रुतादौ व्यवहारधर्मे अनिश्रितः अप्रतिबद्धचित्तः तत्र
समात्मानुगतश्च अस्मि, तस्मात् विसंयोगतः मुक्तः च अस्मि ॥ १९ ॥
व्याख्या—यस्मात् = यतः, दृष्टश्रुतादौ = दर्शनश्रवणादौ, व्यवहारधर्मे = जागतिक
आचारे, अनिश्रितः = अनियतः, अप्रतिबद्धचित्तः—न = नहि, प्रतिबद्धम् = नियन्त्रितम्,
अप्रतिबद्धं चित्तम् = हृदयम्, यस्य सः, तत्र = तस्मिन् दृष्टश्रुतादिधर्मे, समात्मानुगतः =
समभावप्राप्तः, च अस्मि = भवामि, तस्मात् = तेन कारणेन, विसंयोगतः = स्वाधीनः,
मुक्तः = अपरिबद्धः, च = पुनः, अस्मि = भवामि ॥ १९ ॥
हिन्दी—देखने-सुनने जैसे लोकधर्म में मैं आश्रित या आसक्तचित्त नहीं हूँ, इनमें
मेरा हृदय समभाव को पा लिया है। अतः मैं उससे अलग और मुक्त हो गया
हूँ ॥ १९ ॥
इत्येवमुक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः ।
प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाबभासे ॥ २० ॥
अन्वयः—एवम् इति उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन गां निपन्नः सः प्रवेरितः
लोहितचन्दनाक्तः हैमः महास्तम्भः इव आबभासे ॥ २० ॥
व्याख्या—एवम् = एतादृशम्, इति = एतत्, उक्त्वा = वदित्वा, गुरुबाहुमान्यात् =
मुनिम्प्रति समादरात्, सर्वेण = सम्पूर्णेन, कायेन = देहेन, गाम् = भूमिम्, . निपन्नः =
पतितः, सः = नन्दः, प्रवेरितः = पतितः, लोहितचन्दनाक्तः—लोहितम् = रक्तम्,
चन्दनम् = मलयजः, इति लोहितचन्दनम् = कुङ्कुमम्, तेन अक्तः = लिप्तः, इति लोहित-
चन्दनाक्तः = कुङ्कुमालिप्तः, हैमः = सौवर्णः, महास्तम्भः = विशालस्थाणुः, इव = यथा,
आबभासे = शुशुभे । अत्रोपमाऽलङ्कार इति ॥ २० ॥
हिन्दी—इतना कहकर गुरु के प्रति सम्मान भाव होने के कारण वह सम्पूर्ण
देह से धरती पर लेट गया; जैसे कुंकुम से लिपटा सोने का खम्भा धरती पर झुक गया
हो ॥ २० ॥
ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य ।
धर्मान्वयं चानुगतं प्रसादं मेघस्वरस्तं मुनिराबभाषे ॥ २१ ॥
आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८३
अन्वयः—ततः पूर्वं प्रमादात् प्रसृतस्य तस्य धृतिं व्याकरणं धर्मान्वयम् अनुगतं
प्रसादं च श्रुत्वा मेघस्वरः मुनिः तम् आबभाषे ॥ २१ ॥
व्याख्या—ततः = तत्पश्चात्, पूर्वम् = प्राक्, प्रमादात् = सावधानताऽभावात्,
प्रसृतस्य = प्रचलितस्य, तस्य = भिक्षोः, धृतिम् = धैर्यम्, व्याकरणम् = धर्मव्याख्याम्,
धर्मान्वयम् = धर्माचरणम्, अनुगतम् = अनुसृतम्, प्रसादं = निष्ठाम्, च = पुनः, श्रुत्वा =
श्रवणं कृत्वा, मेघस्वरः-मेघस्य = जलदस्य, स्वरम् = रवम्, इति मेघस्वरः = घन-
गर्जनम्, इव, मुनिः = बुद्धः, तम् = नन्दम्, आबभाषे = अवदत् ॥ २१ ॥
हिन्दी—तब जो पहले असावधानी के कारण सही रास्ते से भटका था, उसका
धीरज, धर्म की व्याख्या, धर्माचरण और श्रद्धा देखकर बुद्ध ने मेघ की तरह गंभीर
स्वर में कहा ॥ २१ ॥
उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर्मे पतितोऽसि मूर्ध्ना ।
अभ्यर्थनं मे न तथा प्रणामो धर्मे ययैषा प्रतिपत्तिरेव ॥ २२ ॥
अन्वयः—शिष्यजुष्टे धर्मे स्थितः उत्तिष्ठ, किं मूर्ध्ना मे पादयोः पतितः असि ?
प्रणामः तथा मे अभ्यर्थनं न, यथा एव एषा प्रतिपत्तिः ॥ २२ ॥
व्याख्या—शिष्यजुष्टे—शिष्येण = अनुगामिना, धर्मे = नियमे, स्थितः = तिष्ठन्,
उत्तिष्ठ = उत्थितो भव, किम् = कथम्, मूर्ध्ना = शिरसा, मे = मम बुद्धस्य, पादयोः =
चरणयोः, पतितः = निपतितः, असि = विद्यसे, प्रणामः = प्रणतिः, तथा = तेन प्रकारेण,
मे = मम, अभ्यर्थनम् = पूजनम्, न = नहि, अस्ति = विद्यते, यथैव = येन प्रकारेणैव,
एषा = इयम्, प्रतिपत्तिः = सम्प्राप्तिरस्ति ॥ २२ ॥
हिन्दी—हे अनुगत ! उठो, क्यों मेरे पैरों पर माथा टेक कर पड़े हो ? मुझे
प्रणाम करना मेरा वैसा सम्मान नहीं है जैसा कि तुम्हारा यह धर्माचरण ॥ २२ ॥
अद्यासि सुप्रव्रजितो जितात्मन्नैश्वर्यमप्यात्मनि येन लब्धम् ।
जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्वजितेन्द्रियस्य ॥ २३ ॥
अन्वयः—जितात्मन् ! अद्य सुप्रव्रजितः असि, येन आत्मनि ऐश्वर्यम् अपि लब्धम्,
हि जितात्मनः प्रव्रजनं साधु, न तु चलात्मनः अजितेन्द्रियस्य ॥ २३ ॥
व्याख्या—जितात्मन्—जितः = पराजितः, आत्मा = स्वम्, येन सः तत्सम्बोधने =
हे आत्मजयी ! अद्य = सम्प्रति, सुप्रव्रजितः = सुष्ठु संन्यस्तः, असि = विद्यसे, येन =
कारणेन, आत्मनि = स्वस्मिन्, ऐश्वर्यम् = ईश्वरत्वम्, अपि = चेत्, लब्धम् = प्राप्तम्,
हि = यतः, जितात्मनः = वशिनः, प्रव्रजनम् = संन्यसनम्, साधु = सुष्ठु, न तु चलात्मनः =
चपलेन्द्रियस्य, अजितेन्द्रियस्य = अदान्तस्य, प्रव्रजितं साधु भवति ॥ २३ ॥
हिन्दी—हे जितात्मन् ! आज तुम्हारा संन्यास ग्रहण सफल हुआ, जो तुमने अपनी
आत्मा को वशवर्ती बना लिया, जिसने अपने को जीत लिया है उसीका संन्यासी होना
उचित है, न कि चपलात्मा, अजितेन्द्रिय व्यक्ति का ॥ २३ ॥
३८४ सौन्दरनन्दं महाकाव्यम्
अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत्ते ।
अतः पुनश्चाप्रयतामसौम्यां यत्सौम्य नो वेक्ष्यसि गर्भशय्याम् ॥ २४ ॥
अन्वयः—सौम्य ! अद्य परेण शौचेन युक्तः असि, यत् ते वाक्कायचेतांसि शुचीनि,
अतः आप्रयताम्, यत् पुनः असौम्यां गर्भशय्यां न वेक्ष्यसि ॥ २४ ॥
व्याख्या—सौम्य = हे सुदर्शन ! अद्य = सम्प्रति, परेण = अत्यधिकेन, शौचेन =
शुद्धया, युक्तः = सम्पन्नः, असि = विद्यसे, यत् = यतो हि, ते = नन्दस्य, वाक्काय-
चेतांसि = वचनदेहमनांसि, शुचीनि = पवित्राणि, सन्ति, अतः = अनेन कारणेन,
आप्रयताम् = प्रयासं कुरु, यत् = येन, असौम्याम् = दुःखदायिनीम्, गर्भशय्याम् =
जन्मस्थलीम्, न वेक्ष्यसि = न यास्यसि ॥ २४ ॥
हिन्दी—आज तुम सर्वाधिक पवित्र हो, क्योंकि तुम्हारा मन, वचन और शरीर
पवित्र है और क्योंकि हे सुदर्शन ! अब फिर अपवित्र और असौम्य गर्भशय्या में प्रवेश
नहीं करोगे ॥ २४ ॥
अद्यार्थवत्ते श्रुतवच्छ्रुतं तच्छ्रुतानुरूपं प्रतिपद्य धर्मम् ।
कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः ॥ २५ ॥
अन्वयः—श्रुतवत् अद्य श्रुतानुरूपं धर्मं प्रतिपद्य ते तत् श्रुतम् अर्थवत्, हि विप्रति-
पद्यमानः कृतश्रुतः आत्तशस्त्रः निर्वीर्यः इव निन्द्यः ॥ २५ ॥
व्याख्या—श्रुतवत् = हे शास्त्रज्ञ ! अद्य = सम्प्रति, ते = तव नन्दस्य, श्रुतानुरूपम् =
आकर्णितानुकूलम्, धर्मम् = नियमम्, प्रतिपद्य = निष्पाद्य, ते = तय, तत् = पूर्वोक्तम्,
श्रुतम् = आकर्णितोपदेशम्, अर्थवत् = सार्थकमस्ति, हि = यतः, विप्रतिपद्यमानः =
शास्त्रानुपलभ्यमानः, कृतश्रुतः = शास्त्रज्ञः, आत्तशस्त्रः = प्राप्यायुधम्, निर्वीर्यः = परा-
क्रमविहीनः, इव = यथा, निन्द्यः = निन्दनीयो भवति । उपमालङ्कारोऽत्र ॥ २५ ॥
हिन्दी—आज तुम्हारा शास्त्रज्ञान सार्थक है, तुम्हारा आचरण शास्त्रविहित
है। क्योंकि शास्त्र का अभ्यास कर उसका आचरण नहीं करने वाला व्यक्ति वैसे ही
निन्दित होता है, जैसे हथियारबन्द व्यक्ति युद्ध से भाग कर निन्दा का पात्र होता
है ॥ २५ ॥
अहो धृतिस्तेऽविषयात्मकस्य
यत् त्वं मतिं मोक्षविधावकार्षीः ।
यास्यामि निष्ठामिति बालिशो हि
जन्मक्षयात् त्रासमिहाभ्युपैति ॥ २६ ॥
अन्वयः—अहो ! अविषयात्मकस्य ते धृतिः यत् त्वं मोक्षविधौ मतिम् अकार्षीः,
हि इह बालिशः निष्ठां यास्यामि इति जन्मक्षयात् त्रासम् अभ्युपैति ॥ २६ ॥
व्याख्या—अहो = इत्याश्चर्ये, अविषयात्मकस्य = जितोपभोगस्य, ते = तव नन्दस्य,
धृतिः = धैर्यम्, यत् = येन, त्वम् = भवान्, मोक्षविधौ = निर्वाणपथे, मतिम् = अभि-
आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८५
लाषाम्, अकार्षीः = अकरोत्, हि = यतः, इह = संसारे, बालिशः = मूर्खः, निष्ठाम् =
= अवसानम् ('निष्ठा क्लेशेऽवसाने च' इति हलायुधः), यास्यामि=प्राप्स्यामि, इति =
= इत्थं चिन्तनं कृत्वा, जन्मक्षयात् = उत्पत्त्यभावात्, त्रासम् = भयम्, अभ्युपैति =
हस्तगतं करोति ॥ २६ ॥
हिन्दी—तुम्हारे धीरज की मैं दाद देता हूं, तुमने उपभोग को छोड़कर मुक्ति-
मार्ग मे अपना मन लगाया। 'मेरा अन्त हो जायेगा' ऐसा सोचकर मूर्ख मनुष्य जन्म-
विनाश से इस संसार में डरते हैं ॥ २६ ॥
दिष्ट्या दुरापः क्षणसन्निपातो नायं कृतो मोहवशेन मोघः ।
उदेति दुःखेन गतो ह्यधस्तात् कूर्मो युगच्छिद्र इवार्णवस्थः ॥ २७ ॥
अन्वयः—दिष्ट्या दुरापः क्षणसन्निपातः अयं मोहवशेन मोघः न कृतः, हि
अधस्तात् गतः अर्णवस्थः कूर्मः युगच्छिद्रे इव दुःखेन उदेति ॥ २७ ॥
व्याख्या—दिष्ट्या=भाग्येन, दुरापः = दुरधिगमः, त्वया क्षणसन्निपातः—क्षणे
= अत्यल्पसमये, सन्निपातः = विनाशः, यस्य सः, अयम् = एषः कायः, मोहवशेन =
ममत्वाधिकारेण, मोघः = निरर्थकः, न = नहि, कृतः = विहितः, हि = यतः, अधस्तात्
= निम्नयोनिम्, गतः = सम्प्राप्तः, अर्णवस्थः—अर्णवे = जलधौ, तिष्ठतीति अर्णवस्थः=
समुद्रे विद्यमानः, कूर्मः = कच्छपः, युगच्छिद्रे—युगस्य = युतकस्य, छिद्रे = विवरे, इव
= यथा, दुःखेन = कष्टेन, उदेति = उन्नतयोनिं याति । अत्राप्युपमालङ्कार इति ॥२७॥
हिन्दी—मानव का यह क्षणिक जीवन दुर्लभ है। सौभाग्य से मोहवश तुमने
इसे व्यर्थ नहीं गँवाया। निम्नयोनि में गया प्राणी बड़ी कठिनाई से ऊपर की योनि में
आता है। ठीक उसी तरह जैसे समुद्र में रहनेवाला कछुआ बड़ी कठिनाई से जुए के
छेद में आता है ॥ २७ ॥
निर्जित्य मारं युधि दुर्निवारमद्यासि लोके रणशीर्षशूरः ।
शूरोऽप्यशूरः स हि वेदितव्यो दोषैरमित्रैरिव हन्यते यः ॥ २८ ॥
अन्वयः—अद्य युधि दुर्निवारं मारं निर्जित्य लोके रणशीर्षशूरः असि, हि सः
शूरः अपि अशूरः वेदितव्यः, यः दोषैः अमित्रैः इव हन्यते ॥ २८ ॥
व्याख्या—अद्य = सम्प्रति, युधि = रणे, दुर्निवारम्—दुःखेन = कष्टेन, निवार्यते
= अपसार्यते, इति तम्, मारम् = मदनम्, निर्जित्य = पराजित्य, लोके = अस्मिन्
संसारे, रणशीर्षशूरः—रणस्य = युद्धस्य, शीर्षम् = अग्रभागम्, तस्मिन् शूरः = पराक्रम-
शाली इति, त्वम् असि = विद्यसे; हि=यतः, सः = पूर्वोक्तः, शूरः = वीरः, अपि =
= चेत्, अशूरः = शौर्यविहीनः, वेदितव्यः = ज्ञातव्यः, यः दोषैः = दुर्गुणैः, अमित्रैः =
अरिभिः, इव = यथा, हन्यते = मृत्युं प्राप्यते । अत्राप्युपमालङ्कार इति ॥ २८ ॥
हिन्दी—तुमने इस युद्ध में दुर्जय काम को मारकर संसार के वीरों की अगली
पंक्ति का वीर अपने को सिद्ध कर दिया है, क्योंकि वह वीर भी कायर ही समझा
३८६ सौन्दरनन्दं महाकाव्यम्
जाता है, जिसे ये दुर्गुण उसी तरह मार डालते हैं जैसे कोई शत्रु किसी की हत्या कर
देता हो ॥ २८ ॥
निर्वाप्यरागाग्निमुदीर्णमद्य दिष्ट्या सुखं स्वप्स्यसि वीतदाहः ।
दुःखं हि शेते शयनेऽप्युदारे क्लेशाग्निना चेतसि दह्यमानः ॥ २९ ॥
अन्वयः—दिष्ट्या अद्य उदीर्णं रागाग्निं निर्वाप्य वीतदाहः सुखं स्वप्स्यसि, हि
चेतसि क्लेशाग्निना दह्यमानः उदारे शयने अपि दुःखं शेते ॥ २९ ॥
व्याख्या—दिष्ट्या=भाग्येन, अद्य=सम्प्रति, उदीर्णम्=प्रज्ज्वलिते, रागाग्निम्
=विषयवह्निम्, निर्वाप्य=शमनं कृत्वा, वीतदाहः=विगतज्वरः, (त्वम्) सुखम्=
सहर्षम्, स्वप्स्यसि=शयिष्यसे, हि=यतः, चेतसि=मनसि, क्लेशाग्निना=दुःखा-
नलेन, दह्यमानः=प्रदीप्तः सन्, उदारे=श्रेष्ठे, शयने=पर्यङ्कासने, अपि=चेत्, दुःखम्
=सखेदम्, शेते=स्वपिति ॥ २९ ॥
हिन्दी—भाग्य से तुमने आज वासना की धधकती आग को बुझा दिया है। अब
तुम सुख की नींद सोओगे, क्योंकि दिलजले को सुन्दर पलंग पर भी कष्ट से ही नींद
आती है ॥ २९ ॥
अभ्युच्छ्रितो द्रव्यमदेन पूर्वमद्यासि तृष्णोपरमात् समृद्धः ।
यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धोऽपि सदा दरिद्रः ॥ ३० ॥
अन्वयः—पूर्वं द्रव्यमदेन अभ्युच्छ्रितः अद्य तृष्णोपरमात् समृद्धः असि, हि लोके
पुरुषः यावत् सतर्षः तावत् समृद्धः अपि सदा दरिद्रः ॥ ३० ॥
व्याख्या—पूर्वम्=अतीतकाले, द्रव्यमदेन=धनमदेन, अभ्युच्छ्रितः=उन्मत्तः,
(त्वम्) अद्य=सम्प्रति, तृष्णोपरमात्=तृष्णायाः=अभिलाषायाः, उपरमात्=वैरा-
ग्यात्, समृद्धः=सम्पन्नः, असि=विद्यसे, हि=यतः, लोके=संसारे, पुरुषः=जनः,
यावत्=यावत्कालम्, सतर्षः=रागवान्, तावत्=तावत्कालपर्यन्तम्, समृद्धः=सम्पन्नः,
अपि=चेत्, सदा=सततम्, दरिद्रः=अकिञ्चनो भवति ॥ ३० ॥
हिन्दी—पहले तुम धनमद से उन्मत्त थे और अभी तृष्णा के शान्त हो जाने पर
सम्पन्न हो, क्योंकि संसार में समृद्ध जन भी तृष्णा के कारण दरिद्र ही होता है ॥ ३० ॥
अद्यापदेष्टुं तव युक्तरूपं शुद्धोदनो मे नृपतिः पितेति ।
भ्रष्टस्य धर्मात् पितृभिर्निपातादश्लाघनीयो हि कुलापदेशः ॥ ३१ ॥
अन्वयः—अद्य तव नृपतिः शुद्धोदनः मे पिता, इति उपदेष्टुं युक्तरूपम्, हि
पितृभिः निपातात् धर्मात् भ्रष्टस्य कुलापदेशः अश्लाघनीयः ॥ ३१ ॥
व्याख्या—अद्य=अधुना, तव=भवतः, नृपतिः=राजा, शुद्धोदनः=एतदाख्यः,
मे=मम, पिता=जनकः, इति=इत्थम्, उपदेष्टुम्=उद्घोषयितुम्, युक्तरूपम्=
समुचितमस्ति, हि=यतः, पितृभिः=पूर्वजैः, निपातात्=संरक्षितात्, धर्मात्=धर्मा-
चरणात्, भ्रष्टस्य=पतितस्य, कुलापदेशः—कुलस्य=वंशस्य, अपदेशः=व्यवहारः
(प्रयोगोऽयमप्रचलितोऽस्ति), अश्लाघनीयः=निन्दनीयोऽस्ति ॥ ३१ ॥
आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३८७
हिन्दी—आज तुम्हारे लिए यह कहना उचित है कि राजा शुद्धोदन हमारे पिता
हैं, क्योंकि जो अपने पूर्वजों के द्वारा-पालित धर्म से भ्रष्ट हो गया है उसके लिए
अपने कुल की घोषणा करना प्रशंसनीय नहीं है ॥ ३१ ॥
दिष्ट्यासि शान्तिं परमामुपेतो निस्तीर्णकान्तार इवाप्तसारः ।
सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस्तथैव ॥ ३२ ॥
अन्वयः—दिष्ट्या त्वं निस्तीर्णकान्तारः आप्तसारः इव परमां शान्तिम् उपेतः
असि, हि सर्वः संसारगतः तथैव भयार्तः यथैव कान्तारगतः ॥ ३२ ॥
व्याख्या—दिष्ट्या = सौभाग्येन, त्वम् = भवान्, निस्तीर्णकान्तारः—निस्तीर्णः =
पारङ्गतः, कान्तारः = काननम्, येन सः, आप्तसारः—आप्तम् = प्राप्तम्, सारम् = तत्त्वम्,
येन सः इति, इव = सदृशः, परमाम् = अत्याधिकाम्, शान्तिम् = प्रशान्तताम्, उपेतः =
युक्तः, असि = भवसि, हि = यतः, सर्वः = निःशेषः, संसारगतः = जननमरणचक्रोप-
लब्धः, तथैव = तेनैव प्रकारेण, कान्तारगतः = सघनवनमध्ये, भयार्तो भवति । उपमा-
ऽलङ्कारोऽत्र ॥ ३२ ॥
हिन्दी—सौभाग्य से तुम्हें परम शान्ति मिल चुकी है, ठीक उसी तरह जैसे
बीहड़ वन को पारकर कोई समृद्धि प्राप्त कर सुखी होता हो; क्योंकि संसार-चक्र में फँसे
लोग विपत्ति से उसी तरह पीड़ित रहते हैं, जैसे घोर जंगल में फँसे लोग ॥ ३२ ॥
आरण्यकं भैक्षचरं विनीतं द्रक्ष्यामि नन्दं निभृतं कदेति ।
आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः ॥ ३३ ॥
अन्वयः—कदा आरण्यकं भैक्षचरं विनीतं निभृतं नन्दं द्रक्ष्यामि ? इति पुरस्तात्
त्वयि मे दिदृक्षा आसीत्, दिष्ट्या त्वं तथा मम दर्शनीयः असि ॥ ३३ ॥
व्याख्या—कदा = कस्मिन् समये, आरण्यकम् = वन्यम्, भैक्षचरम् = भिक्षुकम्,
विनीतम् = विनयावनतम्, निभृतम् = एकान्तवासिनम्, नन्दम् = स्वानुजम्, द्रक्ष्यामि
= अवलोकयिष्यामि, इति = इयम्, पुरस्तात् = प्राक्, त्वयि = युष्मद्विषये, मे = मम,
दर्शनीयः = अवलोकनीयः असि ॥ ३३ ॥
हिन्दी—पहले मेरी यह इच्छा थी कि नन्द को मै कब वनवासी, विनीत, भिक्षा-
चारी एवं एकान्तसेवी देखूँगा। सौभाग्य से आज तुम्हें मैं उसी रूप में देख रहा
हूँ ॥ ३३ ॥
भवत्यरूपोऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर्गुणैः स्वैः ।
दोषैः परीतो मलिनीकरैस्तु सुदर्शनीयोऽपि विरूप एव ॥ ३४ ॥
अन्वयः—हि स्वैः श्रेष्ठतमैः गुणैः स्वलङ्कृतः अरूपः अपि दर्शनीयः भवति, तु
मलिनीकरैः दोषैः परीतः सुदर्शनीयः अपि विरूपः एव ॥ ३४ ॥
व्याख्या—हि = यतः, स्वैः = स्वकीयैः, श्रेष्ठतमैः = समुत्कृष्टैः, गुणैः = सन्नियमैः,
स्वलङ्कृतः—सु = सुष्ठु, अलङ्कृतः = आभूषितः, अरूपः = रूपहीनः, अपि = चेत्,
दर्शनीयः = अवलोकनीयः, भवति = याति, तु = किन्तु, मलिनीकरैः—न मलिनम्
३८८ सौन्दरनन्दं महाकाव्यम्
अमलिनम्, अमलिनं मलिनम् इव कुर्वन्ति इति मलिनीकरैः = दूषितैः, दोषैः = दुर्गुणैः,
परीतः = सर्वतोव्याप्तः, सुदर्शनीयः = शोभनाकृतिः, अपि, विरूपः = विद्रूपः, एव
भवति ॥ ३४ ॥
हिन्दी—अपने उत्कृष्ट गुणों से अलङ्कृत होकर कुरुप व्यक्ति भी देखने योग्य
बन जाता है; किन्तु गंदे दोषों से व्याप्त होकर रूपवान् भी बदशकल हो जाता है। ३४।
अद्य प्रकृष्टा तव बुद्धिमत्ता कृत्स्नं यया ते कृतमात्मकार्यम् ।
श्रुतोन्नतस्यापि हि नास्ति बुद्धिनोत्पद्यते श्रेयसि यस्य बुद्धिः ॥ ३५ ॥
अन्वयः—अद्य तव बुद्धिमत्ता प्रकृष्टा, यया ते कृत्स्नम् आत्मकार्यं कृतम्, हि यस्य
श्रुतोन्नतस्य अपि बुद्धिः श्रेयसि न उत्पद्यते ( तस्य ) बुद्धिः नास्ति ॥ ३५ ॥
व्याख्या—अद्य = अधुना, तव = भवतः, बुद्धिमत्ता = प्रज्ञा, प्रकृष्टा = सर्वोत्कृष्टा,
यया = प्रज्ञया, ते = तव, कृत्स्नम् = निखिलम्, आत्मकार्यम्=स्वकीयप्रयोजनम्, कृतम्
= विहितम्, हि = यतः, यस्य = जनस्य, श्रुतोन्नतस्य = शास्त्रज्ञस्य, अपि, बुद्धिः
= मतिः, श्रेयसि = माङ्गलिके कृत्यॆ, न = नहि, उत्पद्यते = प्रादुर्भवति, ( तस्य =
जनस्य ) बुद्धिः = मतिः, नास्ति = न भवति ॥ ३५ ॥
हिन्दी—आज तुम्हारी बुद्धि उत्कृष्ट है, जिसके द्वारा तुमने अपना सारा काम
कर लिया, विद्वान् होने पर भी यदि किसी की मति कल्याणकारिणी न हो तो उसे
बुद्धि है ही नहीं ॥ ३५ ॥
उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।
प्रज्ञामयं यस्य हि नास्ति चक्षुश्चक्षुर्न तस्यास्ति सचक्षुषोऽपि ॥ ३६ ॥
अन्वयः—तथैव उन्मीलितस्य जनस्य मध्ये निमीलितस्य अपि चक्षुः, हि यस्य
प्रज्ञामयं चक्षुः नास्ति, सचक्षुषः अपि तस्य चक्षुः नास्ति ॥ ३६ ॥
व्याख्या—तथैव = तेनैव प्रकारेण, उन्मीलितस्य = उद्घाटितनेत्रस्य, जनस्य =
लोकस्य, मध्ये = अन्तराले, निमीलितस्य = पिहितनेत्रस्य, अपि = चेत्, चक्षुः = नेत्रम्,
हि = यतः, यस्य=जनस्य, प्रज्ञामयम् = बोधमयम्, चक्षुः = नेत्रम्, नास्ति = न विद्यते,
सचक्षुषः = सनेत्रस्य, अपि, तस्य = जनस्य, चक्षुः = नयनम्, नास्ति=न विद्यते ॥३६॥
हिन्दी—उसी तरह खुली आंखों वाले लोगों के बीच बन्द आंखों वाले को भी
दृष्टि हो सकती है, क्योंकि जिसको प्रज्ञाचक्षु नहीं हैं उसे आंख रहते हुए भी आंखें
नहीं हैं ॥ ३६ ॥
दुःखप्रतीकारनिमित्तमार्त्तः कृष्यादिभिः खेदमुपैति लोकः ।
अजस्रमागच्छति तच्च भूयो ज्ञानेन यस्याद्य कृतस्त्वयान्तः ॥ ३७ ॥
अन्वयः—आर्त्तः लोकः दुःखप्रतीकारनिमित्तं कृष्यादिभिः खेदम् उपैति, तत् च
भूयो अजस्रम् आगच्छति, यस्य अद्य त्वया ज्ञानेन अन्तःकृतः ॥ ३७ ॥
व्याख्या—आर्त्तः = दुःखितः, लोकः = जनः, दुःखप्रतीकारनिमित्तम् = दुःखस्य =
कष्टस्य; प्रतीकारः = शमनोपायः, तस्य निमित्तम् = प्रयोजनम्, कृष्यादिभिः = कृष्टि-