सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 433, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 433

आज्ञा-व्याकरणम् ] अष्टादशः सर्गः ३७९
मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् ।
तवास्मि गां साधु निपीय तृप्तस्तृपेव गामुत्तम वत्सवर्णः ॥ ११ ॥
अन्वयः—उत्तम ! तव मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गां
गां साधु निपीय तृषा वत्सवर्णः गाम् इव तृप्तः अस्मि ॥ ११ ॥
व्याख्या—उत्तम = हे श्रेष्ठात्मन् ! तव =भवतः, मैत्रीस्तनीम्—मैत्राः = सौहार्दम्,
एव स्तनम् =कुचम्, यस्याः ताम्, व्यञ्जनचारुसास्नाम् = स्फुटमनोरमगलकम्बलाम्,
सद्धर्मदुग्धाम् = सद्धर्मः = सदाचारः, दुग्धम् = क्षीरम्, यस्याः सा ताम्, प्रतिभानशृङ्गाम्
—प्रतिभानमेव = ज्ञानमेव, शृङ्गम् = विषाणम्, यस्याः सा ताम्, गाम् = धेनुम्, साधु
=सुष्ठु, निपीय =पीत्वा, तृपा=तृष्णया आकुलः, वत्सवर्णः = गोःशिशुः, इव =
यथा, तृप्तः=सन्तुष्टः, अस्मि=भवामि । 'गाम्' इति पदस्य प्रयोगः स्थानद्वये भिन्नार्थे-
ऽभवत्, तेन यमकालंकारोऽत्र तथा इवेत्युपमायां प्रयोगत्वेनोपमालङ्कारोऽप्यत्र ॥११॥
हिन्दी—हे श्रेष्ठ पुरुष ! मित्रता जिसकी सास्ना है, सदाचरण जिसके दूध हैं और
ज्ञान जिसके सींग हैं ऐसी आपकी वाणीरूपी गाय के दूध को पीकर मैं ठीक उसी
तरह सन्तुष्ट हूँ, जैसे भूख से व्याकुल बछड़ा अपनी गाय को पीकर तृप्त हो जाता
है ॥ ११ ॥
यत्पश्यतश्चाधिगमो ममायं तन्मे समासेन मुने निबोध ।
सर्वज्ञ कामं विदितं तवैतत् स्वं तूपचारं प्रविवक्षुरस्मि ॥ १२ ॥
अन्वयः—मुने ! यत् पश्यतः मम अयम् अधिगमः मे तत् समासेन निबोध, सर्वज्ञ !
कामं तु तव एतत् विदितं स्वम् उपचारं प्रविवक्षुः अस्मि ॥ १२ ॥
व्याख्या—मुने=हे संन्यासिन् ! यत्=उपचारम्, पश्यतः=अवलोकयमानस्य, मम
= नन्दस्य, अयम् = एषः, अधिगमः = मोक्षः प्राप्तः, मे = मम, तत् = तदुपायम्, समा-
सेन = सङ्क्षेपेण, निबोध=आकर्णय, सर्वज्ञ=हे त्रिकालज्ञ ! कामं तु = असन्दिग्धरूपेण तु,
तव =भवतः, एतत् = अदः, विदितम् = विज्ञातं, तथापि, स्वम् = स्वकीयम्, उपचारम्
= मोक्षोपायम्, प्रविवक्षुः = वक्तुमिच्छुः, अस्मि = भवामि ॥ १२ ॥
हिन्दी—जिस दृष्टि को पाने से मैंने यह अर्हंत्व प्राप्त किया है, उसके. सम्बन्ध में
यद्यपि आप सब कुछ जानते हैं, फिर भी मैं अपना उपचार आपको संक्षेप में सुनाना
चाहता हूँ ॥ १२ ॥
अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयं परस्य ।
मुक्तस्य रोगादिव रोगवन्तस्तेनैव मार्गेण सुखं घटन्ते ॥ १३ ॥
अन्वयः—अन्येऽपि हि विमुमुक्षवः सन्तः विमोक्षाय परस्य नयं श्रुत्वा रोगवन्तः
रोगात् मुक्तस्य ( नयं श्रुत्वा ) इव तेन एव मार्गेण सुखं घटन्ते ॥ १३ ॥
व्याख्या—अन्येऽपि = अपरेऽपि, हि = यतः, विमुमुक्षवः = मुक्तिमिच्छुकाः, सन्तः
=साधवः, विमोक्षाय =मुक्तये, परस्य =अन्यस्य, नयम् =उपायम्, श्रुत्वा =आकर्ण्य,