सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३३३
हिन्दी—जिस तरह नदी के प्रचण्ड वेग को पहाड़ रोक लेता है, उसी तरह
समाधि मन के विकारों को रोक लेती है। समाधि की स्थिति में व्यक्ति पर मनो-
विकारों का आक्रमण उसी तरह नहीं होता, जैसे मन्त्रबद्ध विषधर पंगु हो जाता
है ॥ ३५ ॥
प्रज्ञा त्वशेषेण निहन्ति दोषांस्तीरद्रुमान् प्रावृषि निम्नगेव ।
दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन वृक्षाः ॥ ३६ ॥
अन्वयः—प्रज्ञा तु अशेषेण दोषान् प्रावृषि निम्नगा तीरद्रुमान् इव निहन्ति, यया
दग्धाः दोषाः अनुसृतेन वज्राग्निना वृक्षाः इव न प्रभवन्ति ॥ ३६ ॥
व्याख्या—प्रज्ञा तु = एकाग्रता तु, अशेषेण = सम्पूर्णरूपेण, दोषान् = दुर्गुणान्,
प्रावृषि = वर्षर्तौ, निम्नगा — निम्नं गच्छतीति = तरङ्गिणी, तीरद्रुमान् = तटीयवृक्षान्,
इव = यथा, निहन्ति = पातयन्ति, यया = ऋतम्भरया, दग्धाः = ज्वलिताः, दोषाः =
दुर्गुणाः, अनुसृतेन = प्रसरितेन, वज्राग्निना — वज्रस्य = अशनेः, अग्निः = अनलस्तेन,
वृक्षाः = तरवः, इव = यथा, न = नहि, प्रभवन्ति = जायन्ते ॥ ३६ ॥
हिन्दी—शरीर के सम्पूर्ण दुर्गुणों को प्रज्ञा मार डालती है, ठीक उसी तरह जैसे
अपने किनारे पर लगे पेड़ों को बरसाती नदी बहा लेती है। वज्र की फैलती आगों
में झुलस कर जैसे पेड़ नहीं पनप पाते हैं, उसी तरह प्रज्ञा से जल कर कोई दोष
उत्पन्न ही नहीं होते ॥ ३६ ॥
त्रिस्कन्धमेतं प्रविगाह्य मार्गं प्रस्पष्टमष्टाङ्गमहार्यमार्यम् ।
दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तशिवं पदं तत् ॥३७॥
अन्वयः—त्रिस्कन्धं प्रस्पष्टम् अष्टाङ्गम् अहार्यम् आर्यम् एतत् मार्गं प्रविगाह्य
दुःखस्य हेतून् दोषान् प्रजहाति, तत् अत्यन्तं शिवं पदं च प्राप्नोति ॥ ३७ ॥
व्याख्या—त्रिस्कन्धम् = स्कन्धत्रयम्, शील-समाधि-प्रज्ञारूपस्कन्धत्रयेण युक्तम्,
प्रस्पष्टम् = अतिविशदम्, अष्टाङ्गम् = अष्टाङ्गयोगसंवलितम् ( अष्टाङ्गानि च — यम-
नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिश्चैतान्यष्टाङ्गानि भवन्ति ।),
अहार्यम् = अविनाशि, आर्यम् = परमोत्कृष्टम्, एतत् = इदम्, मार्गम् = पन्थानम्,
प्रविगाह्य = आरोहणं कृत्वा, दुःखस्य = कष्टस्य, हेतून् = कारणानि, दोषान् = दुर्गुणान्,
प्रजहाति = परित्यजति, तत् = पूर्वोक्तम्, अत्यन्तम् = परमोत्कृष्टम्, शिवम् = कल्याण-
प्रदम्, पदम् = स्थानम्, च = पुनः, प्राप्नोति = अधिगच्छति ॥ ३७ ॥
हिन्दी—शील, समाधि और प्रज्ञारूपी तीन कंधे वाले इस विशद अष्टांगिक
अविनाशी मान्य मार्ग पर चल कर कोई भी आदमी दुःख के हेतु रूप उन दोषों को
छोड़कर अत्यन्त मङ्गलमय पद निर्वाण को पा लेता है ॥ ३७ ॥
अस्योपचारे धृतिरार्जवं च ह्रीरप्रमादः प्रविविक्तता च ।
अल्पेच्छता तुष्टिरसङ्गता च लोकप्रवृत्तावरतिः क्षमा च ॥ ३८ ॥

३२४ सौन्दरनन्दं महाकाव्यम्
अन्वयः—अस्य उपचारे धृतिः आर्जवं च ह्रीः अप्रमादः प्रविविक्तता च अल्पेच्छता
तुष्टिः असङ्गता च लोकप्रवृत्तौ अरतिः च क्षमा ॥ ३८ ॥
व्याख्या—अस्य = कष्टस्य, उपचारे = प्रतिकारे, धृतिः = धैर्यम्, आर्जवम् =
सरलता, च = पुनः, ह्रीः = लज्जा, अप्रमादः = सावधानता, प्रविविक्तता = एकान्तता,
च = पुनः, अल्पेच्छता = अत्यल्पाभिलाषा, तुष्टिः = तोषः, असङ्गता = अनासक्तिः,
च = पुनः, लोकप्रवृत्तौ = लोकस्य = जनस्य, प्रवृत्तिः = रुचिः, तस्याम्, अरतिः =
अरुचिः, क्षमा च = क्षान्तिश्च ॥ ३८ ॥
हिन्दी—इस दुःख के प्रतिकार में धैर्य, सरलता, लज्जा, सावधानी, एकान्त,
कम पाने की इच्छा, संतोष, अनासक्ति, सांसारिकता में अरुचि और क्षमा की
आवश्यकता होती है ॥ ३८ ॥
याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निरोधम् ।
आर्येण मार्गेण स शान्तिमेति कल्याणमित्रैः सह वर्तमानः ॥३९॥
अन्वयः—यो हि दुःखं तस्य उद्भवं च तस्य निरोधं च याथात्म्यतः विन्दति,
सः कल्याणमित्रैः सह वर्त्तमानः आर्येण मार्गेण शान्तिम् एति ॥ ३९ ॥
व्याख्या—यः = नरः, हि = यतः, दुःखम् = क्लेशम्, तस्य = दुःखस्य, उद्भवम् =
उत्पत्तिः, च = पुनः, यः नरः, तस्य = दोषस्य, निरोधम् = अवरोधम्, च = पुनः,
याथात्म्यतः = तथ्यात्मतः, विन्दति = जानाति, सः = नरः, कल्याणमित्रैः = कल्याण-
सुहृद्भिः, सह = सार्द्धम्, वर्त्तमानः = उपस्थितः, आर्येण = उत्तमेन, मार्गेण = पथेन,
शान्तिम् = शमम्, एति = प्राप्नोति ॥ ३९ ॥
हिन्दी—जो व्यक्ति दुःख और उसकी उत्पत्ति और विनष्टि के बारे में सही
जानकारी रखता है, वह कल्याणकारी मित्रों के साथ रहता हुआ उत्तम राह पर
चलकर शान्ति प्राप्त करता है ॥ ३९ ॥
यो व्याधितो व्याधिमपैति सम्यग् व्याधेर्निदानं च तदौषधं च ।
आरोग्यमाप्नोति हि सोऽचिरेण मित्रैरभिज्ञैरुपचर्यमाणः ॥ ४० ॥
अन्वयः—यः व्याधि व्याधेः निदानं च तदौषधं च सम्यक् अवैति, सः हि अभिज्ञैः
मित्रैः उपचर्यमाणः व्याधितः अचिरेण आरोग्यम् आप्नोति ॥ ४० ॥
व्याख्या—यः = जनः, व्याधिम् = रोगम्, व्याधेः = रोगस्य, निदानम् = उपचारम्,
च = पुनः, तत् = रोगस्य, औषधम् = भेषजम्, च=पुनः, सम्यक् = सुष्ठुतया, अवैति =
जानाति, सः = असौ, हि = इति निश्चयेन, अभिज्ञैः = कुशलैः, मित्रैः = सुहृद्भिः,
उपचर्यमाणः = उपचारं क्रियमाणः, व्याधितः = रोगात्, अचिरेण = शीघ्रेण, आरोग्यम् =
नैरोग्यम्, आप्नोति = प्राप्नोति ॥ ४० ॥
हिन्दी—जो व्यक्ति रोग, रोग का निदान और उसकी औषधि को सही रूप में
जानता है, वह कुशल मित्रों की चिकित्सा में रहकर शीघ्र नीरोग हो जाता है ॥४०॥

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३२५
तद्व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञाम् ।
आरोग्यसंज्ञां च निरोधसत्ये भैषज्यसंज्ञामपि मार्गसत्ये ॥४१॥
अन्वयः—तद् दुःखसत्ये व्याधिसंज्ञां दोषेष्वपि व्याधिनिदानसंज्ञां निरोध-
सत्ये आरोग्यसंज्ञां मार्गसत्ये च भैषज्यसंज्ञामपि कुरु ॥ ४१ ॥
व्याख्या—तत्=पूर्वोक्तः, दुःखसत्ये = क्लेशसत्याम्, व्याधिसंज्ञाम्=रोगसंज्ञाम्,
दोषेष्वपि = दुःखेष्वपि, व्याधिनिदानसंज्ञाम्=दुःखोपचारसंज्ञाम्, निरोधसत्ये = दुःखा-
वरोधसत्ये, आरोग्यसंज्ञाम्=निरोगनामानम्, मार्गसत्ये=सन्मार्गसत्ये ( मार्गसत्ये—
प्रज्ञाशील-समाधिश्च मार्गसत्येनाभिधीयते, अतः मार्गम् औषधिपदेन व्यवह्रियते ),
भैषज्यसंज्ञाम्=औषधिसंज्ञाम्, अपि=चेत्, कुरु=विधेहि ॥ ४१ ॥
हिन्दी—अतः दुःखसत्य को रोग, दोषों को रोग-निदान, निरोधसत्य को आरोग्य
तथा मार्गसत्य को औषधि समझो ॥ ४१ ॥
तस्मात् प्रवृत्तिं परिगच्छ दुःखं प्रवर्त्तकानप्यवगच्छ दोषान् ।
निवृत्तिमागच्छ च तन्निरोधं निवर्त्तकं चाप्यवगच्छ मार्गम् ॥ ४२ ॥
अन्वयः—तस्माद् दुःखं प्रवृत्तिं परिगच्छ, दोषान् अपि प्रवर्त्तकान् अवगच्छ,
तन्निरोधञ्च निवृत्तिम् आगच्छ, मार्गं चापि निवर्त्तकम् अवगच्छ ॥ ४२ ॥
व्याख्या—तस्मात्=तेन हेतुना, दुःखम्=दोषम्, प्रवृत्तिम्=विषयासङ्गः, परिगच्छ=
जानीहि, दोषान्=दुःखान्, अपि=चेत्, प्रवर्त्तकान्=प्रेरकान्, अवगच्छ=जानीहि,
तन्निरोधञ्च = दुःखावरोधश्च, निवृत्तिम् = उपरमम्, आगच्छ = अवगच्छ, मार्गञ्चापि=
प्रज्ञादिपथश्चापि, निवर्त्तकम्=अपसारकम्, अवगच्छ=जानीहि ॥ ४२ ॥
हिन्दी - अतः दुःख को प्रवृत्ति, दोषों को प्रवर्त्तक, निरोध को निवृत्ति और मार्ग
को निवर्त्तक समझो ॥ ४२ ॥
शिरस्यथो वाससि सम्प्रदीप्ते सत्यावबोधाय मतिर्विचार्य्या ।
दग्धं जगत् सत्यनयं ह्यदृष्ट्वा प्रदह्यते सम्प्रति धक्ष्यते च ॥ ४३ ॥
अन्वयः—अथ शिरसि वाससि सम्प्रदीप्ते सति मतिः सत्यावबोधाय विचार्य्या, हि
सत्यनयम् अदृष्ट्वा जगद् दग्धं सम्प्रति प्रदह्यते च धक्ष्यते ॥ ४३ ॥
व्याख्या—अथ=अन्यच्च, शिरसि=मस्तके, वाससि=वसने, सम्प्रदीप्ते=
ज्वलिते, सति=सत्याम्, मतिः = बुद्धिः, सत्यावबोधाय = तथ्यज्ञानाय, विचार्य्या =
चिन्तनीया, हि = यतः, सत्यनयम् = सत्यनीतिम्, अदृष्ट्वा = अनवलोक्य, जगत्=
संसारम्, दग्धम्=भस्मीभूतम्, सम्प्रति=अधुना, प्रदह्यते=ज्वलति, धक्ष्यते च =
प्रज्जवलिष्यति च ॥ ४३ ॥
हिन्दी--वस्त्र और सिर में आग लग जाने पर भी अपनी बुद्धि को सत्यान्वेषण
में लगाओ, सत्य को नहीं पहचानने के कारण ही संसार जला है, जल रहा है और
जलेगा ॥ ४३ ॥

३२६ सौन्दरनन्दं महाकाव्यम्
यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनमस्य सम्यक् ।
सम्यक् च निर्वेदमुपैति पश्यन्नन्दीक्षयाच्च क्षयमेति रागः ॥ ४४ ॥
अन्वयः—यः यदैव नामरूपं क्षयीति पश्यति अस्य तद्दर्शनं सम्यक् सम्यक् च
पश्यन् निर्वेदम् उपैति नन्दीक्षयात् च रागः क्षयमेति ॥ ४४ ॥
व्याख्या—यः = नरः, यदैव = यस्मिन्नेव समये, नामरूपम् = संज्ञास्वरूपम्,
क्षयीति = विनाशीति, पश्यति = निरीक्ष्यति, अस्य = लोकस्य, तद्दर्शनम् = तदव-
लोकनम्, सम्यक् = सामस्त्येन, सम्यक् च = पुनः यथार्थम्, पश्यन् = अवलोकयन्,
निर्वेदम् = अनासक्तिम्, उपैति = प्राप्नोति, नन्दीक्षयात् = तृष्णाविनाशात्, च = पुनः,
रागः = अनुरागः, क्षयम् = विनाशम्, एति = प्राप्नोति ॥ ४४ ॥
हिन्दी—जब मनुष्य नामरूप पंचस्कन्ध ( Corporeality ) को क्षणिक समझता
है तो उसकी समझदारी सही है और वस्तुसत्य को ठीक से देखता हुआ वह विरक्त
हो जाता है, क्योंकि तृष्णा का विनाश होते ही उसकी आसक्ति मिट जाती है ॥४४॥
तयोश्च नन्दीरजसोः क्षयेण सम्यग्विमुक्तं प्रवदामि चेतः ।
सम्यग्विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयमस्ति ॥ ४५ ॥
अन्वयः—तयोश्च नन्दीरजसोः क्षयेन चेतः सम्यक् प्रविमुक्तं प्रवदामि, ताभ्यां
मनसश्च सम्यक् विमुक्तिः न च अस्य भूयः करणीयम् अस्ति ॥ ४५ ॥
व्याख्या—तयोश्च = उभयोश्च, नन्दीरजसोः—नन्दी च = तृष्णा च, रजश्च =
रागश्च, तयोः, क्षयेन = विनाशेन, चेतः = चित्तः, सम्यक् = सुष्ठुतया, प्रविमुक्तम् =
रागमुक्तम्, प्रवदामि = कथयामि, ताभ्याम् = तृष्णारागाभ्याम्, मनसश्च = चेतसश्च,
सम्यक् = सम्पूर्णतया, विमुक्तिः = मुक्तिः, अस्य = पूर्वोक्तस्य, च = पुनः, भूयः = अने-
कशः, करणीयम् = कर्तव्यम्, नास्ति = शेषो न भवतीति । संसारमिदं नामरूपात्मक-
मस्ति, अस्मिन्ननेकानां पदार्थानां नामानि रूपाणि च भवन्ति, नामरूपेण विहीनत्व-
मेव संसारविहीनत्वमस्ति । उभौ तौ विनाशिनी ज्ञेयौ । बौद्धदर्शनानुसारेण नाम-
रूपात्मकत्वमेव पञ्चस्कन्धत्वमस्ति । एतेषां यथार्थदर्शनमेव सम्यग् दर्शनं भवति । समस्त-
संस्काराणां विनाशेन कर्मशेषो न विद्यते ॥ ४५ ॥
हिन्दी—मैं कहता हूँ उन समस्त तृष्णा और आसक्ति के विनष्ट हो जाने पर
मन की सम्यक् मुक्ति हो जाती है और इन दोनों के मिटते ही मनुष्य के लिए कुछ
भी करना शेष नहीं रह जाता है ॥ ४५ ॥
यथा स्वभावेन हि नामरूपं तद्धेतुमेवास्तगमं च तस्य ।
विजानतः पश्यत एव चाहं ब्रवीमि सम्यक् क्षयमास्रवाणाम् ॥ ४६ ॥
अन्वयः—यथा हि स्वभावेन नामरूपं तद्धेतुं तस्य अस्तगमं च पश्यतः
विजानतश्चैव आस्रवाणां सम्यक् क्षयम् अहं ब्रवीमि ॥ ४६ ॥
व्याख्या—यथा = येन रूपेण, हि = यतः, स्वभावेन = प्रकृत्या, नामरूपम् = संज्ञा-
स्वरूपम्, तद्धेतुम् = तत् = संसारस्य, हेतुम् = कारणम्, तस्य = संसारस्य, अस्तगमम् =

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३२७
क्षयम्, च = पुनः, पश्यतः = अवलोकयतः, विजानतः = ज्ञातुश्चैव, आस्रवाणाम् =
मनोमलानाम्, सम्यक् = सम्पूर्णरूपेण, क्षयम् = विनाशम्, अहम् = बुद्धः, ब्रवीमि =
कथयामि ॥ ४६ ॥
हिन्दी—जो व्यक्ति नामरूप के वास्तविक प्रकृति, उसके हेतु और उसके विनाश
होने को देखता और समझता है, मैं कहता हूँ निश्चय ही उसके मन के मैल धुल
जाते हैं ॥ ४६ ॥
तस्मात् परं सौम्य ! विधाय वीर्यं शीघ्रं घटस्वास्रवसङ्क्षयाय ।
दुःखानित्यांश्च निरात्मकांश्च धातून् विशेषेण परीक्षमाणः ॥४७॥
अन्वयः—तस्मात् सौम्य ! परं वीर्यं विधाय आस्रवसङ्क्षयाय घटस्व, दुःखान्
अनित्यान् च निरात्मकान् च धातून् विशेषेण परीक्षमाणः ॥ ४७ ॥
व्याख्या—तस्मात् = तेन हेतुना, सौम्य = हे साधु ! परम् = श्रेष्ठम्, वीर्यम् =

३२८ सौन्दरनन्दं महाकाव्यम्
परीक्षितव्यः = समीक्षितव्यः, हि = यस्माद्धेतोः, अकाले = दुःकाले, अनुपायतश्च =
अनर्गलप्रयासतश्च, अनर्थाय = अनिष्टाय, भवति = जायते, तद्गुणाय = तल्लाभाय,
न = नहि भवति ॥ ४९ ॥
हिन्दी—जिसने दुःख-विनाश के लिए कमर कस ली है, उसे समय और प्रयास
की समीक्षा करनी चाहिए, क्योंकि असमय में अनर्गल प्रयास से योगाभ्यास करने
पर लाभ के बदले हानि अधिक होती है ॥ ४९ ॥
अजातवत्सां यदि गां दुहीत नैवाप्नुयात् क्षीरमकालदोही ।
कालेऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद्यदि गां दुहीत ॥ ५० ॥
अन्वयः—यदि अजातवत्सां गां दुहीत अकालदोही क्षीरं नैव आप्नुयात्,
कालेऽपि स्यात् वा मोहेन गां दुहीत शृङ्गात् पयो न लभेत ॥ ५० ॥
व्याख्या—यदि = चेत्, अजातवत्साम् = न = नहि, जातः = उत्पन्नः, वत्सः =
गोशावकः, यस्याः सा ताम्, गाम् = धेनुम्, दुहीत = दोग्धि, अकालदोही = अकाले =
असमये, दोही = दोहकः, क्षीरम् = दुग्धम्, नैव आप्नुयात् = प्राप्नुयात्, कालेऽपि =
अवसरेऽपि, स्यात् = भवेत्, वा = अथवा, मोहेन = मूर्खतया, गाम् = धेनुम्, दुहीत =
दोग्धि, शृङ्गात् = विषाणात्, पयः = दुग्धम्, न = नहि, लभेत = प्राप्नुयात् ॥ ५० ॥
हिन्दी—बिन ब्याई गाय को यदि दुहा जाय तो असमय में दूहने वाले को दूध
नहीं मिलेगा या बछड़े वाली गाय को समय पर ही थन के बदले सींग को दूहे तो
भी दूध नहीं मिलेगा ॥ ५० ॥
आर्द्राच्च काष्ठाज्ज्वलनाभिकामो नैव प्रयत्नादपि वह्निमुच्छेत् ।
काष्ठाच्च शुष्कादपि पातनेन नैवाग्निमाप्नोत्यनुपायपूर्वम् ॥ ५१ ॥
अन्वयः—ज्वलनाभिकामः आर्द्राच्च काष्ठात् प्रयत्नादपि वह्नि नैव ऋच्छेत्,
पातनेनैव शुष्कादपि च काष्ठात् अनुपायपूर्वम् अग्नि न आप्नोति ॥ ५१ ॥
व्याख्या—ज्वलनाभिकामः—ज्वलनस्य = अनलस्य, अभिकामः = अभिलाषः,
यस्य सः, आर्द्राच्च = क्लिन्नाच्च, काष्ठात् = इन्धनात्, प्रयत्नादपि = आयासादपि,
वह्निम् = अग्निम्, नैव—नास्त्येव, ऋच्छेत् = प्राप्नुयात्, पातनेनैव = निपातनेनैव,
शुष्कादपि = निर्जलादपि, च = पुनः, काष्ठात् = दारोः, अनुपायपूर्वम् = अयुक्तोपायेन,
अग्निम् = वह्निम्, न = नहि, आप्नोति = प्राप्नोति ॥ ५१ ॥
हिन्दी—आग चाहने वाला व्यक्ति पर्यास प्रयास के बावजूद गीली लकड़ी से
आग नहीं पा सकता है, केवल गिरा देने पर उचित प्रयास के अभाव में सूखी लकड़ी
से भी आग नहीं पाई जा सकती है ॥ ५१ ॥
तद्देशकालौ विधिवत् परीक्ष्य योगस्य मात्रामपि चाभ्युपायम् ।
बलाबले चात्मनि सम्प्रधार्य कार्यः प्रयत्नो न तु तद्विरुद्धः ॥ ५२ ॥
अन्वयः—योगस्य मात्रां तद् देशकालौ अभ्युपायं चापि विधिवत् परीक्ष्य
आत्मनि बलाबले च सम्प्रधार्य प्रयत्नः कार्यः तु तद्विरुद्धः न ॥ ५२ ॥

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३२९
व्याख्या—योगस्य = चित्तवृत्तिनिरोधस्य, मात्राम् = परिमाणम्, तत् = तस्मात्,
देशकालौ = स्थानसमयौ, अभ्युपायम् = उचितप्रयासम्, चापि, विधिवत् = यथाविधि,
परीक्ष्य = समीक्ष्य, आत्मनि=स्वकीये, बलाबले-बलम् = शक्तिम्, अबलम् = अशक्तिम्,
चेति बलावले=सामर्थ्यासामर्थ्ये, च=पुनः, सम्प्रधार्य = सम्यगवधार्य, प्रयत्नः = प्रयासः,
कार्यः = विधेयः, तु = किन्तु, तत् = पूर्वोक्तस्य, विरुद्धः = विपरीत:, प्रयत्नः नैव कार्य
इत्याशयः ॥ ५२ ॥
हिन्दी—अतः योगाभ्यास का अनुपात देश और काल तथा उपाय की समीक्षा
करके अपने सामर्थ्य का निश्चय करने के बाद ही प्रयास करना चाहिए, किन्तु उनके
विरुद्ध नहीं ॥ ५२ ॥
प्रग्राहकं यत्तु निमित्तमुक्तमुद्धत्यमाने हृदि तन्न सेव्यम् ।
एवं हि चित्तं प्रशमं न याति प्रवायुना वह्निरिवेर्यमाणः ॥ ५३ ॥
अन्वयः—हृदि उद्धन्यमाने यत्तु प्रग्राहकं निमित्तम् उक्तम्, तन्न सेव्यम्, एवं हि
प्रवायुना ईर्यमाणः वह्निः इव चित्तं प्रशमं न याति ॥ ५३ ॥
व्याख्या—हृदि = मनसि, उद्धन्यमाने = सन्तप्यमाने, यत्तु प्रग्राहकम् = उद्भावकम्,
निमित्तम् = कारणम्, तत् = पूर्वोक्तम्, न = नहि, सेव्यम् = उपासितव्यम्, एवम् =
अनेन रूपेण, हि = यतः, प्रवायुना = प्रकृष्टवाहिना, ईर्यमाणः = प्रेर्यमाणः, वह्निः =
अग्निः, इव = यथा , ' चित्तम् = चेतसम्, प्रशमम् = शान्तिम्, न = नहि, याति =
प्राप्नोति ॥ ५३ ॥
हिन्दी—जब मन में उत्तेजना भरी हो तो उद्योग में लगाने वाली वस्तु का सेवन
नहीं करना चाहिए, क्योंकि हवा से प्रेरित होकर जैसे आग नहीं बुझती, उसी तरह
इससे हृदय में शान्ति नहीं आती ॥ ५३ ॥
शमाय यत् स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः ।
एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानोऽग्निरिवोदकेन ॥ ५४ ॥
अन्वयः—चेतसि शमाय जातोद्धवे यत् नियतं निमित्तं स्यात् तस्य कालः, एवं
हि चित्तं प्रदीप्यमानः अग्निः उदकेन इव प्रशमं नियच्छेत् ॥ ५४ ॥
व्याख्या—चेतसि=चित्ते, शमाय=प्रशमाय, जातोद्धवे—जातः=समुत्पन्नः, उद्भवः=
विकारः, यस्य सः तस्मिन् ( उत् + √हु + अच्; अस्य पदस्यार्थः यज्ञाग्निः किंवा
पर्वादि भवति । ), यत् नियतम् = स्थिरीकृतम्, निमित्तम् = साधनम्, तस्य = पूर्ववर्णि-
तस्य, कालः=अवसरः अस्ति, एवं हि = शमप्रदसाधनस्य सेवनेन, चित्तम् = चेतसम्,
प्रदीप्यमानः = जाज्वल्यमानः, अग्निः = वह्निः, उदकेन = सलिलेन, इव=यथा, प्रशमम्
=शान्तिम्, नियच्छेत् = आप्नुयात् ॥ ५४ ॥
हिन्दी—जब मन उत्तेजित हो रहा हो तब शान्तिकारक उपायों का सेवन करना
समयोचित है, क्योंकि इससे मन उसी तरह शान्त हो जाता है जैसे पानी से
आग ॥ ५४ ॥

३३० सौन्दरनन्दं महाकाव्यम्
शमावहं यन्नियतं निमित्तं सेव्यं न तच्चेतसि लीयमाने ।
एवं हि भूयो लयमेति चित्तमनीर्यमाणोऽग्निरिवाल्पसारः ॥ ५५ ॥
अन्वयः—लीयमाने चेतसि यत् शमावहं नियतं निमित्तं तत् न सेव्यम्, एवं
हि चित्तम् अनीर्यमाणः अल्पसारः अग्निरिव भूयः लयम् एति ॥ ५५ ॥
व्याख्या—लीयमाने = प्रलीयमाने, चेतसि = चित्ते, यत् शमावहम् = शान्ति-
कारकम्, नियतम् = स्थिरीकृतम्, निमित्तम् = साधनम्, तन्न सेव्यम् = तन्नोपासित-
व्यम्, एवं हि = अनेन रूपेण, चित्तम् = चेतसम्, अनीर्यमाणः = अप्रेर्यमाणः, अल्पसारः—
अल्पम् = स्तोकम्, सारम् = बलम्, यस्य सः, अग्निः = अनलः, इव = यथा, भूयः =
अत्यधिकम्, लयम् = शान्तिम्, एति = प्राप्नोति ॥ ५५ ॥
हिन्दी—जब मन में आलस्य भरा हो तब शान्तिप्रद साधनों का प्रयोग नहीं
करना चाहिए, क्योंकि इससे मन और शिथिल हो जाता है, जैसे थोड़ी-सी आग
सुलगाये नहीं जाने पर बुझ जाती है ॥ ५५ ॥
प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः ।
क्रियासमर्थं हि मनस्तथा स्यान्मन्दायमानोऽग्निरिवेन्धनेन ॥ ५६ ॥
अन्वयः—चेतसि लयं गते सति यत् प्रग्राहकं नियतं निमित्तं तस्य कालः, तथा हि
मनः मन्दायमानः अग्निः इन्धनेन इव क्रियासमर्थं स्यात् ॥ ५६ ॥
व्याख्या—चेतसि = चित्ते, लयं गते सति = लीने जाते सति, यत् प्रग्राहकं =
यत्प्रेरकम्, नियतम् = निश्चितम्, निमित्तम् = साधनम्, तस्य = पूर्वोक्तस्य, कालः =
समयः, तथा = तेन रूपेण, हि = यतः, मनः = चित्तम्, मन्दायमानः = परिक्षीयमाणः,
अग्निः = वह्निः, इन्धनेन = इध्मेन, इव = यथा, क्रियासमर्थम् = क्रियाशक्तिसमन्वितम्,
स्यात् = जायेत ॥ ५६ ॥
हिन्दी—मन के आलस्य में डूब जाने पर प्रेरक साधन का सेवन करना समयो-
चित है, क्योंकि ऐसा करने से मन कार्य करने में सक्षम हो जाता है; जैसे बुझती हुई
आग जलावन पड़ने से धधक उठती है ॥ ५६ ॥
औपेक्षिकं नापि निमित्तमिष्टं लयं गते चेतसि सोद्धवे वा ।
एवं हि तीव्रं जनयेदनर्थमुपेक्षितो व्याधिरिवातुरस्य ॥ ५७ ॥
अन्वयः—लयं गते चेतसि सोद्धवे वा औपेक्षिकं निमित्तं नापि इष्टम्, एवं हि
आतुरस्य उपेक्षितः व्याधिः इव तीव्रम् अनर्थं जनयेत् ॥ ५७ ॥
व्याख्या—लयं गते = ऐक्यरूप्यं गते, चेतसि = मनसि, सोद्धवे = उत्तेजनासहिते,
वा = अथवा, औपेक्षिकम् = औदासीन्यम्, निमित्तम् = साधनम्, नापि, इष्टम् =
अभीष्टम्, एवम् = अनेन प्रकारेण, हि = यतः, आतुरस्य = रोगाकुलस्य, उपेक्षितः =
अवधीरिताः, व्याधिः = रोगः, इव = यथा, तीव्रम् = प्रचण्डम्, अनर्थम् = अनिष्टम्,
जनयेत् = उत्पादयेत् ॥ ५७ ॥

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३३१
हिन्दी—मन में आलस जगने पर अथवा उसके उत्तेजित होने पर उपेक्षा उत्पन्न
करने वाले साधनों का सेवन नहीं करना चाहिए, क्योंकि ऐसा करने से घोर अनिष्ट
की आशंका होती है; जैसे रोगी के रोग की उपेक्षा करने पर अत्यधिक अनिष्ट की
आशंका होती है ॥ ५७ ॥
यत् स्यादुपेक्षानियतं निमित्तं साम्यं गते चेतसि तस्य कालः ।
एवं हि कृत्याय भवेत् प्रयोगो रथो विधेयाश्व इव प्रयात: ॥ ५८ ॥
अन्वयः—चेतसि साम्यं गते यत् उपेक्षानियतं निमित्तं स्यात् तस्य कालः,
एवं हि प्रयोगः विधेयाश्वः प्रयात: रथः इव कृत्याय भवेत् ॥ ५८ ॥
व्याख्या—चेतसि = चित्ते, साम्यं = समताम्, गते = प्राप्ते, यत् उपेक्षानियतम् =
उपेक्षोत्पादकं, निमित्तं = साधनं, स्यात् = भवेत्, तस्य = साधनस्य, कालः =
अवसरः, एवम् = अनेनैव रूपेण, हि = यतः, प्रयोगः = व्यवहारः, विधेयाश्वः = विनम्र-
वाजी, प्रंयातः = गतः, रथः = स्यन्दनम्, इव = यथा, कृत्याय = साफल्याय, भवेत् =
स्यात् ॥ ५८ ॥
हिन्दी—जब चित्त समता की स्थिति में आ जाय तब उपेक्षा-मूलक साधनों का
प्रयोग समुचित है, क्योंकि ऐसे प्रयोग से सफलता ठीक उसी तरह मिलती है जैसे
विनीत घोड़े वाले रथ से चलने पर गन्तव्य सुलभ हो जाता है ॥ ५८ ॥
रागोद्भवव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर्न कार्यः ।
रागात्मको मुह्यति मैत्रया हि स्नेहं कफक्षोभ इवोपयुज्य ॥ ५९ ॥
अन्वयः—रागोद्भवव्याकुलिते अपि चित्ते मैत्रोपसंहारविधिः न कार्यः, हि
रागात्मकः मैत्रया कफक्षोभः स्नेहम् उपयुज्य इव मुह्यति ॥ ५९ ॥
व्याख्या—रागोद्भवव्याकुलिते - रागस्य = आसक्तेः, उद्भवः = विकारस्तेन व्या-
कुलितः = पीडितस्तस्मिन्, अपि = चेत्, चित्ते = हृदये, मैत्रोपसंहारविधिः = सौहा-
र्दोपचारभावः, न = नहि, कार्यः = विधेयः, हि = यतः, रागात्मकः = आसक्तिस्व-
रूपः, मैत्रया = सुहृद्भावनया, कफक्षोभः = कफपीडितः, स्नेहम् = तैलिकपदार्थम्,
उपयुज्य = भुक्त्वा, इव = यथा, मुह्यति = मूर्च्छति ॥ ५९ ॥
हिन्दी—आसक्ति की उत्तेजना से व्याकुल हृदय में सुहृद-भावना का उपचार
नहीं करना चाहिए, क्योंकि रागात्मक मैत्री-भावना से मोह बढ़ जाता है, ठीक उसी
तरह जैसे स्निग्ध पदार्थ के भोजन से कफ-पीड़ित व्यक्ति मूर्च्छित हो जाता है ॥ ५९ ॥
रागोद्धते चेतसि धैर्यमेत्य निषेवितव्यं त्वशुभं निमित्तम् ।
रागात्मको ह्येवमुपैति शर्म कफात्मको रूक्षमिवोपयुज्य ॥ ६० ॥
अन्वयः—रागोद्धते चेतसि धैर्यम् एत्य तु अशुभं निमित्तं निषेवितव्यम्, हि एवं
रागात्मकः रूक्षम् उपयुज्य कफात्मकम् इव शर्म उपैति ॥ ६० ॥

३३२ सौन्दरनन्दं महाकाव्यम्
व्याख्या-रागोद्धते=आसक्त्योत्तेजिते, चेतसि=चित्ते, धैर्येम्=धृतिम्, एत्य
=प्राप्य, तु=किन्तु, अशुभम्=अनिष्टम्, निमित्तम्=साधनम्, निषेवितव्यम्=
सेवनीयम्, हि=यतः, एवम्=अनेन प्रकारेण, रागात्मकः=आसक्तियुक्तः, रूक्षम्=
अस्निग्धम्, उपयुज्य=भोजनं कृत्वा, कफात्मकः इव=कफप्रकृतिपुरुषवत्, शर्म=
मङ्गलम्, उपैति = प्राप्नोति ॥ ६० ॥
हिन्दी-आसक्ति से मन जब उत्प्रेरित हो, तब अशुभ साधन का सेवन करना
चाहिए, क्योंकि ऐसे मनुष्य उसी तरह लाभ प्राप्त करता है जैसे कफपीडित व्यक्ति
रूखे-सूखे भोजन करके लाभान्वित होता है ॥ ६० ॥
व्यापाददोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तम् ।
द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्तीक्ष्ण इवोपचारः ॥ ६१ ॥
अन्वयः—व्यापाददोषेण उदीर्णे मनसि तु अशुभं निमित्तं न सेवितव्यम्, हि
द्वेपात्मकस्य अशुभाः पित्तात्मनः तीक्ष्णः उपचारः इव वधाय ॥ ६१ ॥
व्याख्या-व्यापाददोषेण-व्यापादः =द्वेषञ्चासौ, दोषः =दुर्गुणस्तेन, उदीर्णे =
उद्विग्ने, मनसि =चेतसि, तु=अपितु, अशुभम् =अनिष्टकरम्, निमित्तम् =कारणम्,
न=नहि, सेवितव्यम् =उपासनीयम्, हि=यतः, द्वेषात्मकस्य-द्वेषः =विरोधः,
आत्मा = जीवनम्, यस्य तस्य, अशुभाः =अशिवाः, पित्तात्मनः—पित्तम्=धर्मञ्चञ्चिका,
आत्मा = प्रकृतिर्यस्य तस्य, तीक्ष्णः =तिक्तोष्णम्, उपचारः =भैषजम्, इव=यथा,
वधाय=मारणाय भवति । पित्तप्रकृतिपुरुषाय तीक्ष्णपदार्थस्य सेवनमायुर्वेदानुसारेण
घातकं भवति ॥ ६१ ॥
हिन्दी-जब मन द्वेष रूपी दुर्गुणों से उद्विग्न हो तब भोगमूलक साधनों का
सेवन नहीं करना चाहिए, क्योंकि द्वेषपूर्ण हृदय वाले मनुष्य के लिए अशुभ का सेवन
वैसे ही घातक होता है जैसे पित्त प्रकृति वाले व्यक्ति के लिए चरपरा उपचार ॥६१॥
व्यापाददोषक्षुभिते तु चित्ते सेव्या स्वपक्षोपनयेन मैत्री ।
द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचारः ॥ ६२ ॥
अन्वयः—व्यापाददोषक्षुभिते धित्ते तु स्वपक्षोपनयेन मैत्री सेव्या, हि मैत्री
द्वेषात्मनः शीतः उपचारः पित्तात्मनः इव प्रशमाय ॥ ६२ ॥
व्याख्या—व्यापाददोषक्षुभिते = द्वेषदुर्गुणदग्धे, चित्ते=हृदये, तु, स्वपक्षोपनयेन—
स्वस्य = निजस्य, पक्षस्य = रूपस्य, उपनयेन = समीपानयनेन, मैत्री=सौहार्दम्, सेव्या
=सेवनीया, हि = यतः, मंत्री = मित्रत्वम्, द्वेषात्मनः = विद्वेषिणः, शीतः = शीतलम्,
उपचारः =चिकित्सा, पित्तात्मनः = पित्तात्मकस्य, इव =यथा, प्रशमाय =शान्तये
भवति ॥ ६२ ॥
हिन्दी—द्वेष रूपी दुर्गुण से जब चित्त उद्विग्न हो तब सबको मैत्री-भावना से
स्वीकार करना चाहिए, क्योंकि ईर्ष्यालु व्यक्ति के लिए मैत्री-भावना उसी तरह शान्ति-
दायक होती है, जैसे कि पित्त प्रकृति के लिए ठंडा उपचार ॥ ६२ ॥

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३३३
मोहानुबद्धे मनसः प्रचारे मैत्राशुभा चैव भवत्ययोगः ।
ताभ्यां हि सम्मोहमुपैति भूयो वाय्वात्मको रूक्षमिवोपनीय ॥ ६३ ॥
अन्वयः—मोहानुबद्धे मनसः प्रचारे मैत्रा अशुभा चैव अयोगः भवति, हि ताभ्यां
रूक्षम् उपनीय वाय्वात्मकः इव भूयः सम्मोहम् उपैति ॥ ६३ ॥
व्याख्या — मोहेन = आसक्त्या, अनुबद्धः = सम्बद्धस्तस्मिन्, मनसः = हृदयस्य,
प्रचारे = निरन्तरव्यवहारे, मैत्रा=मैत्री, अशुभा चैव=अशिवा चैव, अयोगः =नोपयुक्तः,
भवति = अस्ति, हि = यतः, ताभ्याम् =मैत्राशुभाभ्याम्, रूक्षम् = अस्रिग्धम्, उपनीय =
उपभुज्य, वाय्वात्मकः — वायुः = पवनः, आत्मा = प्रकृतिर्यस्य सः, इव = यथा, भूयः =
प्रभूतम्, सम्मोहम् = मूर्च्छाम्, उपैति = आप्नोति ॥ ६३ ॥
हिन्दी —चित्त का व्यापार जब मोहग्रसित हो तब मैत्री और रागोपभोग का
चिन्तन उपयुक्त नहीं होता है; क्योंकि इन दोनों के सेवन से मोह और भी बढ़ जाता
है, जैसे वातरोग-पीड़ित व्यक्ति रूखे पदार्थ खाकर और भी मूर्च्छित हो जाता है ॥६३॥
मोहात्मिकायां मनसः प्रवृत्तौ सेव्यस्त्विदं प्रत्ययताविहारः ।
मूढे मनस्येष हि शान्तिमार्गो वाय्वात्मके स्निग्ध इवोपचारः ॥ ६४ ॥
अन्वयः—मोहात्मिकायां मनसः प्रवृत्तौ तु अयं प्रत्ययताविहारः सेव्यः, वाय्वा-
त्मके स्निग्धः उपचारः इव मूढे मनसि हि एषः शान्तिमार्गः ॥ ६४ ॥
व्याख्या — मोहात्मिकायां—मोहः = आसक्तिः, आत्मा = जीवनम्, यस्याः सा
तस्याम्, मनसः = हृदयस्य, प्रवृत्तौ = रुचौ, तु, अयम् = एषः, प्रत्ययताविहारः—प्रत्य-
यतायाः = कारणतायाः, विशेषेण हारः = ग्रहणमिति, सेव्यः = सेवनीयः, वाय्वात्मके =
वातप्रकृतिके, स्निग्धः = स्नेहयुक्तः, उपचारः =चिकित्सा, इव = यथा, मूढे = आसक्ति-
सम्पन्ने, मनसि = चेतसि, हि = यतः, एषः =अयम्, शान्तिमार्गः = शमपथः अस्ति ॥६४॥
हिन्दी —यदि मानसिक प्रवृत्ति मोहग्रस्त हो जाय तो कार्य-कारणभाव का चिन्तन
करना चाहिए, क्योंकि मोहग्रस्त चित्त के लिए यही शान्ति का पथ है; जैसे वातरोग
से पीड़ित व्यक्ति के लिए स्निग्ध उपचार शान्तिप्रद होता है ॥ ६४ ॥
उल्कामुखस्थं हि यथा सुवर्णं सुवर्णकारो धमतीह काले ।
काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥ ६५ ॥
अन्वयः—यथा हि सुवर्णकारः इह उल्कामुखस्थं सुवर्णं काले धमति, काले
जलेन परिप्रोक्षयते; क्रमेण च काले समुपेक्षते ॥ ६५ ॥
व्याख्या — यथा = येन रूपेण, हि = यतः, सुवर्णकारः = कलादः, उल्कामुखस्थम् —
उल्कायाः = अङ्गारधानिकायाः, मुखे = मण्डले, तिष्ठति = विद्यते, इति तम्, सुवर्णम् =
कनकम्, काले = यथावसरे, धमति = धुक्षयति, काले = उचितसमये, जलेन = अम्बुना,
परिप्रोक्षयते = सिञ्चति, क्रमेण = क्रमपूर्वकेन, च = पुनः, काले = समये, समुपेक्षते =
यथास्थितिं क्षिपति ॥ ६५ ॥
सौ०-25

३३४ सौन्दरनन्दं महाकाव्यम्
हिन्दी—जैसे सुनार सोने को यथावसर अंगीठी में धौंकता है, फिर समय पर
पानी में डुबोता है, फिर समय पर उसे वैसे ही छोड़ देता है ॥ ६५ ॥
दहेत् सुवर्णं हि धमन्नकाले जले क्षिपन् संशमयेदकाले ।
न चापि सम्यक् परिपाकमेनं नयेदकाले समुपेक्षमाणः ॥ ६६ ॥
अन्वयः—सुवर्णं हि अकाले धमन् दहेत्, अकाले जले क्षिपन् संशमयेत्, अकाले
समुपेक्षमाणः एनं सम्यक् परिपाकं चापि न नयेत् ॥ ६६ ॥
व्याख्या—सुवर्णम् = कनकम्, हि = यतः, अकाले = असमये, धमन् = धुक्षन्,
दहेत् = प्रज्वलेत्, अकाले = अनवसरे, जले = सलिले, क्षिपन् = सिञ्चन्, संशमयेत् =
उपशमयेत्, अकाले = अनवसरे, समुपेक्षमाणः = उपेक्षां कुर्वन्, एनम्= कनकम्, सम्यक् =
सुष्ठुतया, परिपाकम् = परिपक्वताम्, चापि, न = नहि, नयेत् = प्रापयेत् ॥ ६६ ॥
हिन्दी—क्योंकि सोने को अनवसर में धौंक कर जला डालेगा, असमय में उसे
पानी में डालकर ठंडा कर देगा और असमय में उसे अलग हटाकर ठीक से पकने
नहीं देगा ॥ ६६ ॥
सम्प्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य ।
सम्यङ्निमित्तं मनसा त्ववेक्ष्य नाशो हि यत्नोऽप्यनुपायपूर्वः ॥ ६७ ॥
अन्वयः—तथैव सम्प्रग्रहस्य प्रशमस्य काले चैव समुपेक्षणस्य सम्यक् निमित्तं
तु मनसा अवेक्ष्य हि अनुपायपूर्वः यत्नः नाशः ॥ ६७ ॥
व्याख्या—तथैव = तेनैव रूपेण, सम्प्रग्रहस्य = उद्योगस्य, प्रशमस्य = शान्तेः,
काले = अवसरे, चैव, समुपेक्षणस्य = उपेक्षाभावस्य, सम्यक् = सुष्ठुतया, निमित्तम् =
कारणम्, तु = किन्तु, मनसा = चेतसा, अवेक्ष्य = दृष्ट्वा, हि = यतः, अनुपायपूर्वः =
न उपायपूर्वः इति = अनुचितोपायेन, यत्नः = प्रयत्नः, नाशः = विनाशो भवति ॥ ६७॥
हिन्दी—इसी तरह मन के उद्योग, शान्ति और यथावसर उपेक्षा के लिए सम्यक्
भावना की पहचान करनी चाहिए, क्योंकि अनुचित उपाय से किया गया प्रयत्न नष्ट
हो जाता है ॥ ६७ ॥
इत्येवमन्यायनिवर्तनं च न्यायं च तस्मै सुगतो बभाषे ।
भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विधीनुवाच ॥ ६८ ॥
अन्वयः—सुगतः तस्मै इत्येवम् अन्यायनिर्वर्त्तनं च न्यायं च बभाषे, भूयश्च
तत्तच्चरितं विदित्वा वितर्कहानाय विधीन् उवाच ॥ ६८ ॥
व्याख्या—सुगतः = तथागतः, तस्मै = स्वानुजाय, इत्येवम् = अनेन प्रकारेण,
अन्यायनिर्वर्त्तनम् = अन्यायस्य = अनुचितस्य, निर्वर्त्तनम् = विरक्तभावम्, च = पुनः,
न्यायम् = उचितम्, च = पुनः, बभाषे = कथितवान्, भूयंश्च = पुनश्च, तच्चरितम्—
तत् = तस्य, चरितम् = चरित्रम्, विदित्वा = ज्ञात्वा, वितर्कहानाय = वितर्कस्य =
अनिष्टचिन्तनस्य, हानम् = विनाशम्, तस्मै, विधीन् = उपायान्, उवाच = अवोचत् ॥६८॥

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३३५
हिन्दी- इस तरह बुद्ध ने नन्द को अनुचित का परित्याग एवं उचित उपाय का
सेवन बतलाया; और फिर नन्द ने जो कुछ आचरण किया था, उसको जानकर उन्होंने
अनिष्ट चिन्तन के विनाश का उपाय बतलाया ॥ ६८ ॥
यथा भिषक् पित्तकफानिलानां यं एव कोपं समुपैति दोषः ।
शमाय तस्यैव विधिं विधत्ते व्यधत्त दोषेषु तथैव बुद्धः ॥ ६९ ॥
अन्वयः—यथा भिषक् पित्तकफानिलानां यः एव दोषः कोपं समुपैति तस्यैव
शमाय विधिं विधत्ते, तथैव बुद्धः दोषेषु व्यधत्त ॥ ६९ ॥
व्याख्या—यथा = येन प्रकारेण, भिषग् = वैद्यः, पित्तकफानिलानाम् = वातपित्त-
कफानाम्, यः एव = यदेव, दोषः = विकारः, कोपम् = प्रचण्डरूपम्, समुपैति =
प्राप्नोति, तस्यैव = शारीरिकविकारस्यैव, शमाय = उपशमनाय, विधिम् = उपायम्,
विधत्ते = करोति, तथैव = तद्वदेव, बुद्धः = सुगतः, दोषेषु = वातपित्तादिकेषु, व्यधत्त =
कथयामास । शरीरे वातपित्तकफा एव त्रिदोषपदेन व्यवह्रियन्ते । शरीरे एतेषां स्थिति-
रावश्यकोऽपि अस्ति तथैतेपामुत्कटरूपं रोगजनकमस्ति । अतः आयुर्वेदविज्ञाता रोग-
स्य मूले निहिते वातपित्तादीनां भीषणतां परिज्ञाय तस्यैव शमनाय चोपचारं करोति,
तदा रोगस्य स्वतः निवृत्तिं भवति ॥ ६९ ॥
हिन्दी-जैसे वैद्य शरीर में वात, पित्त या कफ में से जिस दोष का प्रकोप होता
है उसी के शमन हेतु चिकित्सा करता है, उसी प्रकार बुद्ध ने नन्द को रागादि
दोषों के सम्बन्ध में बतलाया ॥ ६९ ॥
एकेन कल्पेन स चेन्न हन्यात् स्वभ्यस्तभावादशुभान् वितर्कान् ।
ततो द्वितीयं क्रममारभेत न त्वेव हेयो गुणवान् प्रयोगः ॥ ७० ॥
अन्वयः—स्वभ्यस्तभावात् चेत् अशुभान् वितर्कान् एकेन कल्पेन न हन्यात्, ततः
द्वितीयं क्रमम् आरभेत्, गुणवान् प्रयोगः तु नैव हेयः ॥ ७० ॥
व्याख्या—स्वभ्यस्तभावात् = सुदृढसंस्कारवशात्, चेत् = यदि, अशुभान् =
अशिवान्, वितर्कान् = अनिष्टविचारान्, एकेन = एकमात्रेण, कल्पेन = उपायेन, न =
नहि, हन्यात् = विनाशयेत्, ततः = तत्पश्चात्, द्वितीयम् = अपरम्, क्रमम् = उपायम्,
आरभेत् = आरम्भं कुर्यात्, गुणवान् = श्रेष्ठजनः, प्रयोगः = व्यवहारः, तु नैव, हेयः =
त्याज्यः, अस्तीति ॥ ७० ॥
हिन्दी-संस्कारवश यदि किसी एक उपाय से अनिष्ट चिन्तनों का विनाश न हो
तो फिर किसी दूसरे उपाय को शुरू करें, किन्तु उत्तम उद्योग को कभी न छोड़ें ॥७०॥
अनादिकालोपचितात्मकत्वाद् बलीयसः क्लेशगणस्य चैव ।
सम्यक्प्रयोगस्य च दुष्करत्वाच्छेत्तुं न शक्याः सहसा हि दोषाः ॥७१॥
अन्वयः—बलीयसः क्लेशगणस्य अनादिकालोपचितात्मकत्वात् सम्यक् प्रयोगस्य
च दुष्करत्वाद् दोषाः हि सहसा छेत्तुं न शक्याः ॥ ७१ ॥

३३६ सौन्दरनन्दं महाकाव्यम्
व्याख्या—बलीयसः=शक्तिशालिनः, क्लेशगणस्य=दुःखसमूहस्य, अनादिकालेा-
पचितात्मकत्वात्—न आदिः अनादिः, अनादिश्चासौ कालः अनादिकालः, तस्मादुपचितः,
तस्य भावस्तस्मात् = चिरकालोपसञ्चितात्मकत्वात्, सम्यक् = सर्वथा, प्रयोगस्य =
अनुष्ठानस्य, च = पुनः, दुष्करत्वात् = कष्टसाध्यत्वात्, दोषाः = अशुभाः, हि = यतः,
सहसा = हठात्, छेत्तुम् = कर्तयितुम्, न = नहि, शक्याः = सम्भवाः, भवन्ति ॥ ७१ ॥
हिन्दी—चिरकाल से संचित हो जाने के कारण दोष-समूह बलवान् हो जाता
है, फिर ठीक ढंग से उद्योग करना कठिन हो जाता है। इसलिए सहसा ही दोषों
का उन्मूलन नहीं किया जा सकता है ॥ ७१ ॥
अण्व्या यथाण्या विपुलाणिरन्या निर्वाह्यते तद्विदुषा नरेण ।
तद्वत्तदेवाकुशलं निमित्तं क्षिपेन्निमित्तान्तरसेवनेन ॥ ७२ ॥
अन्वयः—यथा विदुषा नरेण अण्व्या अण्या अन्या विपुलाणिः निर्वाह्यते, तद्वत्
निमित्तान्तरसेवनेन एव तत् अकुशलं निमित्तं क्षिपेत् ॥ ७२ ॥
व्याख्या—यथा = येन रूपेण, विदुषा = प्राज्ञेन, नरेण = मनुष्येन, अण्व्या = लघ्वेन,
अन्या = अपरेण, विपुलाणिः = विशालकीलम्, निर्वाह्यते = निष्कासयति, तद्वत् =
तथैव, निमित्तान्तरसेवनेन = भिन्नकारणोपासनेन, एव, तत् = पूर्वोक्तम्, अकुशलम् =
अमङ्गलम्, निमित्तम् = कारणम्, क्षिपेत् = बहिःक्षिपेत् ॥ ७२ ॥
हिन्दी—जैसे कुशल कारीगर छोटी पच्चर देकर बड़ी पच्चर को बाहर निकाल
देता है, उसी तरह दूसरे निमित्त का प्रयोग कर बड़े एवं अमंगलकारी निमित्त को
बाहर निकाल देना चाहिए ॥ ७२ ॥
तथाप्यथाध्यात्मनवग्रहत्वान्नैवोपशाम्येदशुभो वितर्कः ।
हेयः स तद्दोषपरीक्षणेन सश्वापदो मार्ग इवाध्वगेन ॥ ७३ ॥
अन्वयः—अथ तथापि अध्यात्मनवग्रहत्वात् अशुभः वितर्कः नैव उपशाम्येत्,
तद्दोषपरीक्षणेन अध्वगेन सश्वापदः मार्गः इव सः हेयः ॥ ७३ ॥
व्याख्या—अथ = तदनन्तरम्, तथापि = अध्यात्मसेवनेनापि, अध्यात्मनवग्रहत्वात्
—नवः = नूतनः, चासौ ग्रहः = ग्रहणम्, नवग्रहः, अध्यात्मस्य = आत्मचिन्तनस्य,
नवग्रहस्तस्य भावस्तस्मात्, अशुभः = अशिवः, वितर्कः = अनिष्टचिन्तनम्, नैव =
नास्त्येव, उपशाम्येत् = शान्तिं गमयेत्, तद्दोषपरीक्षणेन—तस्मिन् दोषस्तस्य परी-
क्षणेन = तस्य दुर्गुणस्य समीक्षणेन, अध्वगेन = पथिकेन, अध्वनि गच्छतीति अध्व-
गस्तेन, सश्वापदः—श्वापदेन = हिंसकेन, सह = युक्तः, मार्गः = अध्वः, इव = यथा,
सः = दुर्गुणः, हेयः = परित्याज्यः ॥ ७३ ॥
हिन्दी—इतना होने पर भी यदि हाल में अध्यात्म मार्ग ग्रहण करने के कारण
अशुभ विचार शान्त न हो तो उसकी बुराई की जांच करके उसका परित्याग कर
देना चाहिए, जैसे कि यात्री हिंसक पशुओं से सेवित राह छोड़ देता है ॥ ७३ ॥

आर्यसत्यव्याख्यानम् ] षोडशः सर्गः ३३७
यथा क्षुधार्तोऽपि विषेण पृक्तं जिजीविषुर्नैच्छति भोक्तुमन्नम् ।
तथैव दोषावहमित्यवेत्य जहाति विद्वानशुभं निमित्तम् ॥ ७४ ॥
अन्वयः—यथा जिजीविषुः क्षुधार्त्तः अपि विषेण पृक्तम् अन्नं भोक्तुं न इच्छति,
तथैव विद्वान् दोषावहम् इति अवेत्य अशुभं निमित्तं जहाति ॥ ७४ ॥
व्याख्या—यथा=यद्वत्, जिजीविषुः=जीवितुमिच्छुः, क्षुधार्त्तः=क्षुधया=बुभु-
क्षया, आर्तः=पीडितः, अपि=सत्यपि, विषेण=गरलेन, पृक्तम्=मिश्रितम्, अन्नम्
=भोज्यपदार्थम्, भोक्तुम्=खादितुम्, न=नहि, इच्छति=वाञ्छति, तथैव=
तेनैव प्रकारेण, विद्वान्=धीमान्, दोषावहम्—दोषान्=दुर्गुणान्, आवहति=
उत्पादयति, तम्, अवेत्य=ज्ञात्वा, अशुभम्=अशिवम्, निमित्तम्=कारणम्, जहाति=
परित्यजति ॥ ७४ ॥
हिन्दी—जैसे जीने की चाह रखने वाला आदमी भूखे रहने पर भी जहरीला
अन्न नहीं खा सकता, वैसे ही बुद्धिमान् व्यक्ति अमंगलकारी निमित्त को दोषावह
जानकर छोड़ देते हैं ॥ ७४ ॥
न दोषतः पश्यति यो हि दोषं कस्तं ततो वारयितुं समर्थः ।
गुणं गुणे पश्यति यश्च यत्र स वार्यमाणोऽपि ततः प्रयाति ॥ ७५ ॥
अन्वयः—दोषतः दोषं यः हि न पश्यति ततः तं वारयितुं कः समर्थः ? यश्च
यत्र गुणे गुणं पश्यति, वार्यमाणः अपि सः ततः प्रयाति ॥ ७५ ॥
व्याख्या—दोषतः=दुःखतः, दोषम्=दुःखम्, यः=नरः, हि=यतः, न=नहि,
पश्यति=अवलोकयति, ततः=तत्पश्चात्, तम्=नरम्, वारयितुम्=अवरोद्धुम्,
कः=कोऽपि, समर्थः=शक्तः ? यश्च=यो जनश्च, यत्र=यस्मिन्, गुणे=धर्मे,
गुणम्=धर्मम्, पश्यति=अवलोकयति, वार्यमाणोऽपि=वारितः सन्नपि, ततः=गुणतः,
प्रयाति=याति ॥ ७५ ॥
हिन्दी—जो व्यक्ति दोष को दोष नहीं समझता, उससे उसको कौन हटा सकता
है और जो व्यक्ति जिस गुण को गुण समझता है, वह रोके जाने पर भी वहीं पहुँच
जाता है ॥ ७५ ॥
व्यपत्रपन्ते हि कुलप्रसूता मनःप्रचारैरशुभैः प्रवृत्तैः ।
कण्ठे मनस्वीव युवा वपुष्मानचाक्षुषैरप्रयतैर्विषक्तैः ॥ ७६ ॥
अन्वयः—कुलप्रसूताः हि अशुभैः मनःप्रचारैः प्रवृत्तैः मनस्वी वपुष्मान् युवाकण्ठे
विषक्तैः अचाक्षुषैः अप्रयतैः इव व्यपत्रपन्ते ॥ ७६ ॥
व्याख्या—कुलप्रसूताः—कुले=सद्वंशे, प्रसूताः=समुत्पन्नाः, अर्थात्कुलीनजनाः,
हीति निश्चयेन, अशुभैः=अशिवैः, मनःप्रचारैः=मानसिकैः, प्रवृत्तैः=परायणैः,
मनस्वी=दृढनिश्चयी, वपुष्मान्—वपुः अस्ति अस्येति=रूपवान्, युवा=तरुणः,
कण्ठे=गले, विषक्तैः=संसक्तैः, अचाक्षुषैः=चक्षुषा गृहीतं चाक्षुषम्, (चक्षुष्+अण्)

३३८ सौन्दरनन्दं महाकाव्यम्
न चाक्षुषम् अचाक्षुषं, तैः अचाक्षुषैः=अगोचरैः, अप्रयतैः—न प्रयताः अप्रयतास्तैः=
अनियन्त्रितैः, व्यपत्रपन्ते=लज्जिताः भवन्ति ॥ ७६ ॥
हिन्दी—कुलीन व्यक्ति अपनी अमांगलिक मानसिक प्रवृत्ति से स्वयं लजाते हैं,
ठीक उसी तरह जैसे कोई दृढ़निश्चयी रूपवान् युवा अपने गले में लटके अगोचर एवं
अपवित्र या अनियंत्रित वस्तुओं से लजाते हैं ॥ ७६ ॥
निर्धूयमानास्त्वथ लेशतोऽपि तिष्ठेयुरेवाकुशला वितर्काः ।
कार्यान्तरैरध्ययनक्रियाद्यैः सेव्यो विधिर्विस्मरणाय तेषाम् ॥ ७७ ॥
अन्वयः—अथ निर्धूयमानाः तु लेशतः अपि अकुशलाः वितर्काः तिष्ठेयुः, अध्ययन-
क्रियाद्यैः कार्यान्तरैः तेषां विस्मरणाय विधिः सेव्यः एव ॥ ७७ ॥
व्याख्या—अथ =तदनन्तरम्, निर्धूयमानाः=वियुज्यमानाः, तु इति पादपूर्त्य-
र्थम्, लेशतोऽपि = स्तोकमपि, अकुशलाः=अमङ्गलाः, वितर्काः=ऊहापोहाः, तिष्ठेयुः=
विचेरन्, अध्ययनक्रियाद्यैः =स्वाध्यायादिभिः, कार्यान्तरैः=अन्यकार्यैः, तेषाम्=
पूर्वोक्तवितर्काणाम्, विस्मरणाय =स्मृतिनाशाय, विधिः=उपायः, सेव्यः एव =
कर्त्तव्यमेवेत्याशयः ॥ ७७ ॥
हिन्दी—हटाये जाने पर यदि थोड़ा भी अशुभ विचार रह जाय तो अध्ययन
आदि दूसरे कामों के द्वारा उन्हें भुला देने का उपाय करना चाहिए ॥ ७७ ॥
स्वप्तव्यमप्येव विचक्षणेन कायक्लमो वापि निषेवितव्यः ।
न त्वेव सञ्चिन्त्यमसन्निमित्तं यत्रावसक्तस्य भवेदनर्थः ॥ ७८ ॥
अन्वयः—विचक्षणेन स्वप्तव्यम् अपि कायक्लमः वापि निषेवितव्यः एव,
असन्निमित्तं तु नैव सञ्चिन्त्यम्, यत्र अवसक्तस्य अनर्थः भवेत् ॥ ७८ ॥
व्याख्या—विचक्षणेन = विज्ञेन, स्वप्तव्यम्=शेतव्यम्, अपि = चेत्, कायक्लमः—
कायस्य =देहस्य, क्लमः=श्रान्तिः, वाऽपि =अथवाऽपि, निषेवितव्यः =उपासनीयः,
एव, असन्निमित्तम्=अशिवकारणम्, तु =किन्तु, नैव=नास्त्येव, सञ्चिन्त्यम् =विचार्यम्,
यत्र = यस्मिन्, अवसक्तस्य =समाविष्टस्य, अनर्थः=अनिष्टः, भवेत् =स्यात् । श्लोके-
ऽस्मिन् 'अपि' तथा 'एव' शब्दस्य प्रयोगो निरर्थकोऽस्ति ॥ ७८ ॥
हिन्दी—बुद्धिमान् व्यक्ति को या तो सो जाना चाहिए अथवा किसी शारीरिक
श्रम में लग जाना चाहिए, किन्तु कभी भी ऐसे अमङ्गलकारी निमित्त का चिन्तन नहीं
करना चाहिए, जिसमें लीन होने पर अनर्थ हो सकता है ॥ ७८ ॥
यथा हि भीतो निशि तस्करेभ्यो द्वारं प्रियेभ्योऽपि न दातुमिच्छेत् ।
प्राज्ञस्तथा संहरति प्रयोगं समं शुभस्याप्यशुभस्य दोषैः ॥७९॥
अन्वयः—हि यथा तस्करेभ्यः भीतः निशि प्रियेभ्योऽपि द्वारं दातुं न इच्छेत्,
तथा प्राज्ञः दोषैः भीतः शुभस्य अशुभस्यापि प्रयोगं समं संहरति ॥ ७९ ॥
व्याख्या—हि=यतः, यथा =येन प्रकारेण, तस्करेभ्यः=चोरेभ्यः, भीतः =
भयाक्रान्तः, निशि=रात्रौ, प्रियेभ्योऽपि = प्रेमपात्रेभ्योऽपि, द्वारम्=कपाटम्, दातुम्=

आर्यसत्यव्याख्यानम् ] षोडशः सर्गः ३३९
उद्घाटितुम्, न = नहि, इच्छेत् = अभिलषेत्, तथा = तेनैव प्रकारेण, प्राज्ञः = बुद्धि-
मान्, दोषैः = दुर्गुणैः, भीतः = भयपीडितः, शुभस्य = सतः, अशुभस्याऽपि = अमङ्गल-
स्याऽपि, प्रयोगम् = व्यवहारम्, समम् = युगपत्, संहरति = अवरुणद्धि ॥ ७९ ॥
हिन्दी—जैसे चोरों से डरा हुआ व्यक्ति रात में अपने प्रियजनों के लिए भी
दरवाजा नहीं खोलता, उसी तरह बुद्धिमान् व्यक्ति दोषों के डर से मांगलिक या
अमांगलिक दोनों ही तरह के विचारों का एक साथ अभ्यास रोक देते हैं ॥ ७९ ॥
एवम्प्रकारैरपि यद्युपायैर्निवार्यमाणा न पराङ्मुखाः स्युः ।
ततो यथास्थूलनिबर्हणेन सुवर्णदोषा इव ते प्रहेयाः ॥ ८० ॥
अन्वयः—यदि एवम्प्रकारैः उपायैः अपि निवार्यमाणाः पराङ्मुखाः न स्युः, ततः
यथास्थूलनिबर्हणेन सुवर्णदोषाः इ

३४० सौन्दरनन्दं महाकाव्यम्
विचाराः, नैव = नास्त्येव, उपशाम्येयुः = शान्तिं गच्छेयुः, मुहूर्त्तम् = क्षणम्, अपि =
चेत्, अप्रतिवध्यमानाः - न = नहि, प्रतिवध्यमानाः = विरुध्यमाणाः, गृहे = सदने,
भुजङ्गाः = उरगाः, इव = यथा, न = नहि, अधिवास्याः = निवसितव्याः ॥ ८२ ॥
हिन्दी—यदि उनके विपरीत भाव उत्पन्न न हो सकने के कारण वे बुरे विचार
शान्त न हों तो घर में घुसे हुए साँपों की तरह उन्हें क्षण भर के लिए भी निविरोध
नहीं टिकने देना चाहिए ॥ ८२ ॥
दन्तेऽपि दन्तं प्रणिधाय कामं ताल्वग्रमुत्पीड्य च जिह्वयापि ।
चित्तेन चित्तं परिगृह्य चापि कार्यः प्रयत्नो न तु तेऽनुवृत्ताः ॥ ८३ ॥
अन्वयः—कामं दन्ते दन्तं प्रणिधाय अपि जिह्वया ताल्वग्रम् उत्पीड्य चापि
चित्तेन चित्तं परिगृह्य चापि प्रयत्नः कार्यः, न तु ते अनुवृत्ताः ॥ ८३ ॥
व्याख्या—कामम् = निश्चितरूपेण, दन्ते = रदने, दन्तम् = रदनम्, प्रणिधाय =
स्थापयित्वा, अपि = चेत्, जिह्वया = रसनया, ताल्वग्रम् = काकुदमूलम्, उत्पीड्य =
बाधयित्वा, चापि, चित्तेन = चेतसा, चित्तम् = चेतसम्, परिगृह्य = निगृह्यीत्वा, चापि,
प्रयत्नः = उद्यमः, कार्यः = विधेयः, न = नहि, तु = किन्तु, ते = अशिवाः, अनुवृत्ताः =
अनुगताः स्युरिति । अत्र स्युरिति क्रियायाराक्षेपं कृत्वैवार्थसङ्गतो भवति । अतः
'अनुवृत्ताः' इत्यस्य स्थाने 'अनुवर्त्त्याः' पाठ एव युक्तिसङ्गतः प्रतीतो भवति ॥ ८३ ॥
हिन्दी—दाँत पर दाँत रखकर, जीभ से कण्ठमूल को दबाकर, मन से मन को
नियंत्रित कर उद्योग करना चाहिए, किन्तु इन अशुभों के आगे झुकना नहीं
चाहिए ॥ ८३ ॥
किमत्र चित्रं यदि वीतमोहो वनं गतः स्वस्थमना न मुह्येत् ।
आक्षिप्यमाणो हृदि तन्निमित्तैर्न क्षोभ्यते यः स कृती स धीरः ॥ ८४ ॥
अन्वयः—यदि वीतमोहः वनं गतः स्वस्थमना न मुह्येत् किमत्र चित्रम् ? तन्निमित्तैः
हृदि आक्षिप्यमाणः यः न क्षोभ्यते सः कृती सः धीरः ॥ ८४ ॥
व्याख्या—यदि = चेत्, वीतमोहः—वीतः = विगतः, मोहः = आसक्तिर्यस्य सः,
वनम् = काननम्, गतः = प्राप्तः, स्वस्थमना—स्वस्थम् = शान्तम्, मनः = चित्तम्, यस्य
सः, न = नहि, मुह्येत् = मोहितो न स्यात्, किमत्र चित्रम् = किमाश्चर्यमिह ? तन्नि-
मित्तैः = अमङ्गलैः कारणैः, हृदि = मनसि, आक्षिप्यमाणः = पीड्यमानः, यः = लोकः,
न = नहि, क्षोभ्यते = क्षुब्धो भवति, सः कृती = स एव कृतकार्यः, सः धीरः = स एव
धैर्यवान् अस्ति ॥ ८४ ॥
हिन्दी—यदि मोहरहित आदमी वन में जाकर मोहरहित शान्तचित्त रहे तो
इसमें आश्चर्य क्या ? धीर पुरुष तो वह है, जो मन में अशुभ निमित्तों से सताये जाने
के बावजूद धैर्य धारण करे ॥ ८४ ॥
तदार्यसत्याधिगमाय पूर्वं विशोधयानेन नयेन मार्गम् ।
यात्रागतः शत्रुविनिग्रहार्थं राजेव लक्ष्मीमजितां जिगीषन् ॥ ८५ ॥

आर्यसत्यव्याख्यानम् ] षोडशः सर्गः ३४१
अन्वयः— तत् आर्यसत्याधिगमाय पूर्वम् अनेन नयेन शत्रुः विनिग्रहार्थं यात्रागतः
अजितां लक्ष्मीं जिगीषन् राजा इव मार्गं विशोधय ।। ८५ ।।
व्याख्या — तत् = तेन हेतुना, आर्यसत्याधिगमाय - आर्यसत्यस्य = उत्तमसत्यस्य,
अधिगमाय = प्राप्तये, पूर्वम् = प्राक्, अनेन = एतेन, नयेन = नीत्या, शत्रुः = रिपुः,
विनिग्रहार्थम् = नियन्त्रणार्थम्, यात्रागतः = कृतप्रयाणः, अजिताम् = अविजिताम्,
लक्ष्मीम् = श्रियम्, जिगीषन् = जेतुमिच्छन्, राजा = भूपालः, इव = यथा, मार्गम् =
पथम्, विशोधय = प्रशस्तं कुरु ।। ८५ ।।
हिन्दी-अतः आर्यसत्य को पाने के लिए पहले पूर्वोक्त तरीके से मार्ग शुद्ध
करो, ठीक उसी तरह जैसे कोई राजा शत्रुओं को नियंत्रित करने के लिए यात्रा कर
अविजित लक्ष्मी को जीतने की इच्छा से पहले रास्ते की सफाई करवाता है ॥ ८५ ॥
एतान्यरण्यान्यभितः शिवानि योगानुकूलान्यजनेरितानि ।
कायस्य कृत्वा प्रविवेकमात्रं क्लेशप्रहाणाय भजस्व मार्गम् ।। ८६ ।।
अन्वयः—एतानि शिवानि योगानुकूलानि अजनेरितानि अरण्यानि अभितः कायस्य
प्रविवेकमात्रं कृत्वा क्लेशप्रहाणाय मार्गं भजस्व ।। ८६ ।।
व्याख्या —एतानि = इमानि, शिवानि = मङ्गलानि, योगानुकूलानि = चित्तवृत्ति-
निरोधकोपकारकानि, अजनेरितानि - जनैः = लोकैः, ईरितानि जनेरितानि, न जने-
रितानि अजनेरितानि = जनरहितानि, अरण्यानि = काननानि, अभितः = सर्वतः,
प्रसृतानि सन्ति, अत्राभितः योगे एव द्वितीयेति, कायस्य = देहस्य, प्रविवेकमात्रम् =
ज्ञानमात्रम्, कृत्वा = सम्पाद्य, क्लेशप्रहाणाय = दुःखविनाशाय, मार्गम् = पथम्, भजस्व
= सेवस्व ।। ८६ ।।
हिन्दी-योगानुकूल मंगलमय यह विजन वन चारो ओर फैले हैं। अपनी देह
को एकान्तसेवी बनाकर यथोचित उपाय करो ।। ८६ ।।
कौण्डिन्यनन्दकृमिलानिरुद्धास्तिष्योपसेनो विमलोऽथ राधः ।
बाष्पोत्तरौ धौतकिमोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः ।। ८७ ।।
अन्वयः—कौण्डिन्यनन्दकृमिलानिरुद्धाः तिष्योपसेनो विमलः अथ राधः बाष्पोत्तरौ
धौतकिमोहराजौ कात्यायनद्रव्यपिलिन्दवत्साः ।। ८७ ।।
व्याख्या- कौण्डिन्यनन्दकृमिलानिरुद्धाः = अत्र कौण्डिन्य-नन्द-कृमिल-अनिरुद्ध-तिष्य-
उपसेन-विमल-राध-बाष्प-उत्तर-धौतकि-मोहराज-कात्यायन-द्रव्य-पिलिन्द-वत्सादीनां
योगिनां नामानि निर्दिष्टानि एव सन्ति ।। ८७ ।।
हिन्दी-कौडिन्य, नन्द, कृमिल, अनिरुद्ध, तिष्य, उपसेन, विमल, राध, वाष्प,
उत्तर, धौतकि, मोहराज, कात्यायन, द्रव्य और पिलिन्दवत्स - ।। ८७ ।।
भद्दालिभद्रायणसर्पदाससुभूतिगोदत्तसुजातवत्साः ।
सङ्ग्रामजिद्भद्रजिदश्वजिच्च श्रोणश्च शोणश्च स कोटिकर्णः ।।८८।।

३४२ सौन्दरनन्दं महाकाव्यम्
अन्वयः—श्लोकानुसारी अन्वयक्रमः ॥ ८८ ॥
व्याख्या—अत्रापि महालिभद्रायणादयो हि योगाभ्यासिनां नामानि निर्द्दिष्टानि
सन्ति ॥ ८८ ॥
हिन्दी—महालि, भद्रायण, सर्पदास, सुभूति, गोदत्त, सुजात, वत्स, संग्रामजित्,
भद्रजित्, अश्वजित्, श्रोण, शोण तथा कोटिकर्ण—॥ ८८ ॥
क्षेमाजितो नन्दकनन्दमाता वुपालिवागीशयशोयशोदाः ।
महाह्वयो वल्कलिराष्ट्रपालौ सुदर्शनस्वागतमेधिकाश्च ॥ ८९ ॥
अन्वयः—क्षेमाजितः नन्दकनन्दमाता वुपालिवागीशयशोयशोदाः महाह्वयः,
वल्कलिराष्ट्रपालौ सुदर्शनस्वागतमेधिकाश्च ॥ ८९ ॥
व्याख्या—अस्मिन् श्लोकेऽपि भिक्षु-भिक्षुणीनां नामानि निर्द्दिष्टानि सन्ति । 'क्षेमा-
जितः' इति पदे 'क्षेमा तथा अजित इति पदद्वयस्य सन्धिरस्ति, अतः डॉ० टामस-
महोदयस्य मतानुसारेण 'क्षेमाजितौ' पाठस्यावश्यकता नास्ति । 'नन्दकनन्दमातावु-
पालि......' पाठोऽपि विचारणीय एवाऽस्ति । डॉ० टामसनमहोदयस्तु 'नन्दकनन्द-
मातावुपालि...' इति समस्तपदमेव मन्यते, किञ्च डॉ० जान्स्टनमहोदयस्य मतानु-
सारेण पृथक् पदमिदमस्ति । 'नन्दकनन्दमाते' महोदयोऽयं 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येक-
मभिसम्बध्यते' इति नियमानुसारेणास्य नन्दकमाता ( उत्तरा ) तथा नन्दमाता
( महाप्रजावती गौतमी ) इत्येवमेवार्थं करोति, यतः जान्स्टनमहोदयस्य मतानुसारे-
णाश्वघोषस्तु 'उत्तरा, गौतमी क्षेमा' इति तिसृणां भिक्षुणीनामुल्लेखोऽत्र वर्त्तते ।
'वुपालि' पदन्तु 'उपालि' पदस्यैव विकृतरूपमस्ति ॥ ८९ ॥
हिन्दी—क्षेमा, अजित, नन्दक, नन्दमाता ( महाप्रजावती गौतमी ), उपालि,
वागीश, यश, यशोद, महाह्वय ( महानाम ), वल्कलि, राष्ट्रपाल, सुदर्शन, स्वागत
तथा मेधिक—॥ ८९ ॥
स कप्फिनः काश्यप ओरुविल्वो महामहाकाश्यपतिष्यनन्दाः ।
पूर्णश्च पूर्णश्च स पूर्णकश्च शोणापरान्तश्च स पूर्ण एव ॥ ९० ॥
अन्वयः—सः कप्फिनः काश्यपः ओरुविल्वः महामहाकाश्यपतिष्यनन्दाः पूर्णश्च
पूर्णश्च सः पूर्णकश्च शोणापरान्तश्च सः पूर्णः एव च ॥ ९० ॥
व्याख्या—कप्फिनादयोऽपि नामान्येव भिक्षूणाम् ॥ ९० ॥
हिन्दी—कप्फिन, काश्यप, ओरुविल्व, महामहाकश्यप, तिष्य, नन्द, पूर्ण, पूर्ण,
पूर्णक, पूर्ण तथा शोणापरान्त—॥ ९० ॥
शारद्वतीपुत्रसुबाहुचुन्दाः कोन्देयकाप्यभृगुकुण्ठधानाः ।
सशैवलौ रेवतकौष्ठिलौ च मौद्गल्यगोत्रश्च गवाम्पतिश्च ॥ ९१ ॥
अन्वयः—शारद्वतीपुत्रसुबाहुचुन्दाः कौन्देयकाप्यभृगुकुण्ठधानाः स शैवलः रेवत-
कौष्ठिलो च मौद्गल्यगोत्रश्च गवाम्पतिश्च ॥ ९१ ॥