सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 381, कुल 496 में से
संदर्भ में पढ़ेंआर्यसत्यव्याख्यानः ] षोडशः सर्गः ३२७
क्षयम्, च = पुनः, पश्यतः = अवलोकयतः, विजानतः = ज्ञातुश्चैव, आस्रवाणाम् =
मनोमलानाम्, सम्यक् = सम्पूर्णरूपेण, क्षयम् = विनाशम्, अहम् = बुद्धः, ब्रवीमि =
कथयामि ॥ ४६ ॥
हिन्दी—जो व्यक्ति नामरूप के वास्तविक प्रकृति, उसके हेतु और उसके विनाश
होने को देखता और समझता है, मैं कहता हूँ निश्चय ही उसके मन के मैल धुल
जाते हैं ॥ ४६ ॥
तस्मात् परं सौम्य ! विधाय वीर्यं शीघ्रं घटस्वास्रवसङ्क्षयाय ।
दुःखानित्यांश्च निरात्मकांश्च धातून् विशेषेण परीक्षमाणः ॥४७॥
अन्वयः—तस्मात् सौम्य ! परं वीर्यं विधाय आस्रवसङ्क्षयाय घटस्व, दुःखान्
अनित्यान् च निरात्मकान् च धातून् विशेषेण परीक्षमाणः ॥ ४७ ॥
व्याख्या—तस्मात् = तेन हेतुना, सौम्य = हे साधु ! परम् = श्रेष्ठम्, वीर्यम् =