सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 383, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 383

आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३२९
व्याख्या—योगस्य = चित्तवृत्तिनिरोधस्य, मात्राम् = परिमाणम्, तत् = तस्मात्,
देशकालौ = स्थानसमयौ, अभ्युपायम् = उचितप्रयासम्, चापि, विधिवत् = यथाविधि,
परीक्ष्य = समीक्ष्य, आत्मनि=स्वकीये, बलाबले-बलम् = शक्तिम्, अबलम् = अशक्तिम्,
चेति बलावले=सामर्थ्यासामर्थ्ये, च=पुनः, सम्प्रधार्य = सम्यगवधार्य, प्रयत्नः = प्रयासः,
कार्यः = विधेयः, तु = किन्तु, तत् = पूर्वोक्तस्य, विरुद्धः = विपरीत:, प्रयत्नः नैव कार्य
इत्याशयः ॥ ५२ ॥
हिन्दी—अतः योगाभ्यास का अनुपात देश और काल तथा उपाय की समीक्षा
करके अपने सामर्थ्य का निश्चय करने के बाद ही प्रयास करना चाहिए, किन्तु उनके
विरुद्ध नहीं ॥ ५२ ॥
प्रग्राहकं यत्तु निमित्तमुक्तमुद्धत्यमाने हृदि तन्न सेव्यम् ।
एवं हि चित्तं प्रशमं न याति प्रवायुना वह्निरिवेर्यमाणः ॥ ५३ ॥
अन्वयः—हृदि उद्धन्यमाने यत्तु प्रग्राहकं निमित्तम् उक्तम्, तन्न सेव्यम्, एवं हि
प्रवायुना ईर्यमाणः वह्निः इव चित्तं प्रशमं न याति ॥ ५३ ॥
व्याख्या—हृदि = मनसि, उद्धन्यमाने = सन्तप्यमाने, यत्तु प्रग्राहकम् = उद्भावकम्,
निमित्तम् = कारणम्, तत् = पूर्वोक्तम्, न = नहि, सेव्यम् = उपासितव्यम्, एवम् =
अनेन रूपेण, हि = यतः, प्रवायुना = प्रकृष्टवाहिना, ईर्यमाणः = प्रेर्यमाणः, वह्निः =
अग्निः, इव = यथा , ' चित्तम् = चेतसम्, प्रशमम् = शान्तिम्, न = नहि, याति =
प्राप्नोति ॥ ५३ ॥
हिन्दी—जब मन में उत्तेजना भरी हो तो उद्योग में लगाने वाली वस्तु का सेवन
नहीं करना चाहिए, क्योंकि हवा से प्रेरित होकर जैसे आग नहीं बुझती, उसी तरह
इससे हृदय में शान्ति नहीं आती ॥ ५३ ॥
शमाय यत् स्यान्नियतं निमित्तं जातोद्धवे चेतसि तस्य कालः ।
एवं हि चित्तं प्रशमं नियच्छेत् प्रदीप्यमानोऽग्निरिवोदकेन ॥ ५४ ॥
अन्वयः—चेतसि शमाय जातोद्धवे यत् नियतं निमित्तं स्यात् तस्य कालः, एवं
हि चित्तं प्रदीप्यमानः अग्निः उदकेन इव प्रशमं नियच्छेत् ॥ ५४ ॥
व्याख्या—चेतसि=चित्ते, शमाय=प्रशमाय, जातोद्धवे—जातः=समुत्पन्नः, उद्भवः=
विकारः, यस्य सः तस्मिन् ( उत् + √हु + अच्; अस्य पदस्यार्थः यज्ञाग्निः किंवा
पर्वादि भवति । ), यत् नियतम् = स्थिरीकृतम्, निमित्तम् = साधनम्, तस्य = पूर्ववर्णि-
तस्य, कालः=अवसरः अस्ति, एवं हि = शमप्रदसाधनस्य सेवनेन, चित्तम् = चेतसम्,
प्रदीप्यमानः = जाज्वल्यमानः, अग्निः = वह्निः, उदकेन = सलिलेन, इव=यथा, प्रशमम्
=शान्तिम्, नियच्छेत् = आप्नुयात् ॥ ५४ ॥
हिन्दी—जब मन उत्तेजित हो रहा हो तब शान्तिकारक उपायों का सेवन करना
समयोचित है, क्योंकि इससे मन उसी तरह शान्त हो जाता है जैसे पानी से
आग ॥ ५४ ॥