सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 334, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 334

२८० सौन्दरनन्दं महाकाव्यम्
व्याख्या—द्वारि = प्रतिहारे, द्वाराध्यक्षः = द्वारपालः, इव = यथा, यस्य = लोक-
स्य, स्मृतिः = अनुचिन्तनम्, प्रणिहिताः = अचञ्चलाः, दोषाः = पापाः, तम् = पूर्वोक्तम्,
अरयः = रिपवः, गुप्तम् = संरक्षितम्, पुरमिव = नगरवत्, न = नहि, धर्षयन्ति =
आक्रमन्ते ॥ ३६ ॥
हिन्दी—दरवाजे पर नियुक्त द्वारपाल की तरह जिसका अनुचिन्तन स्थिर है, उस
पर पापों का प्रहार नहीं होता है; ठीक उसी तरह जैसे सभी ओर से सुरक्षित नगर
पर शत्रुओं का आक्रमण नहीं होता है ॥ ३६ ॥
न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।
चित्तं सर्वास्ववस्थासु बालं धात्रीव रक्षति ॥ ३७ ॥
अन्वयः—तस्य क्लेशः न उत्पद्यते, यस्य कायगता स्मृतिः सर्वासु अवस्थासु चित्तं
धात्री बालम् इव रक्षति ॥ ३७ ॥
व्याख्या—तस्य = जनस्य, क्लेशः = पीडा, न = नहि, उत्पद्यते = समुत्पन्नो भवति,
यस्य = जनस्य, कायगता—काये = शरीरे, गता = प्राप्ता, स्मृतिः = स्मरणम्, सर्वासु
= अखिलासु, अवस्थासु = स्थितिषु, चित्तम् = हृदयम्, धात्री = उपमाता, बालम् =
शिशुम्, इव = यथा, रक्षति = रक्षां करोति ॥ ३७ ॥
हिन्दी—उस मनुष्य को कभी कष्ट नहीं होता, जिसकी देह में लगी स्मृति सभी
अवस्थाओं में उसके चित्त की उसी तरह रक्षा करती है, जैसे धाई किसी बालक
की ॥ ३७ ॥
शरव्यः-स तु दोषाणां यो हीनः स्मृतिवर्मणा ।
रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ ३८ ॥
अन्वयः—तु दोषाणां शरव्यः सः यः स्मृतिवर्मणा हीनः प्रतिशत्रूणां वर्मणा विहीनः
रणस्थः इव ॥ ३८ ॥
व्याख्या—तु = किन्तु, दोषाणाम् = विकाराणाम्, शरव्यः = लक्ष्यः, सः =
पूर्वोक्तः, यः = जनः, स्मृतिवर्मणा—स्मृतिः = अवध्यानम्, एव वर्म = कवचम्, यस्य
तेन, हीनः = रहितः, प्रतिशत्रूणाम् = प्रतिपक्षरिपूणाम्, वर्मणा = कवचेन, विहीनः =
रहितः, रणस्थः—रणे = युद्धाङ्गने, तिष्ठतीति रणस्थः = योद्धा, इव = वत्, इति ।
रूपकालङ्कारः ॥ ३८ ॥
हिन्दी—स्मृतिरूपी कवच से विहीन व्यक्ति ही विकारों का लक्ष्य बनता है।
जैसे प्रतिपक्षी शत्रुओं का लक्ष्य वही योद्धा होता है, जो कवच-विहीन है ॥ ३८ ॥
अनाथं तन्मनो ज्ञेयं यत्स्मृतिर्नाभिरक्षति ।
निर्णेता दृष्टिरहितो विषमेषु चरन्निवं ॥ ३९ ॥
अन्वयः—यत् मनः स्मृतिः न अभिरक्षति, तत् अनाथं ज्ञेयं दृष्टिरहितः विषमेषु
चरन् निर्णेता इव ॥ ३९ ॥