सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 337, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 337

आदिप्रस्थानः ] चतुर्दशः सर्गः २८३
योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य ! तथा भजस्व ।
कायस्य कृत्वा हि विवेकमादौ सुखोऽधिगन्तुं मनसो विवेकः ॥ ४६॥
अन्वयः—सौम्य ! योगानुलोमं विजनं तथा विशब्दं शय्यासनं भजस्व, हि आदौ
कायस्य विवेकं कृत्वा मनसः विवेकः अधिगन्तुं सुखः ( भवति ) ॥ ४६ ॥
व्याख्या—सौम्य ! = हे साधु ! योगानुलोमम्—योगावतरणम्, योगस्य = चित्त-
वृत्तिनिरोधस्य, अनुलोमम् = अनुकूलम्, विजनम् = निर्जनम्, जनशून्यं वा, विशब्दम्—
विगतः = निर्गतः, शब्दः = स्वनः, यस्य तत्, शय्यासनम् = शयनासनम्, भजस्व =
सेवस्व, हि = यतः, आदौ = प्रथमम्, कायस्य = देहस्य, विवेकम् = एकाग्रम्, कृत्वा =
विधाय, मनसः = चेतसः, विवेकः = सदसज्ज्ञानम्, अधिगन्तुम् = प्राप्तुम्, सुखः =
सुकरः, अस्ति । शारीरिकयोगपूर्वकं मानसिकयोगस्य प्रक्रिया सहजा स्वाभाविकी च
भवति ॥ ४६ ॥
हिन्दी—हे साधु ! योगानुकूल निर्जन और निःशब्द शय्या और आसन ग्रहण
करो, क्योंकि पहले देह को एकान्त में कर लेने पर मानसिक एकाग्रता सहज हो
जाती है ॥ ४६ ॥
अलब्धचेतःप्रशमंः सरागो यो न प्रचारं भजते विविक्तम् ।
स क्षण्यते ह्यप्रतिलब्धमार्गश्चरन्निवोर्व्यां बहुकण्टकायाम् ॥ ४७ ॥
अन्वयः—यः अलब्धचेतःप्रशमः सरागः विविक्तं प्रचारं न भजते, सः हि
अप्रतिलब्धमार्गः बहुकण्टकायाम् उर्व्यां चरन् इव क्षण्यते ॥ ४७ ॥
व्याख्या—यः = जनः, अलब्धचेतःप्रशमः—न = नहि, लब्धः = प्राप्तः, चेतसः =
मनसः, प्रशमः = शान्तिर्येन सः = अप्राप्तचित्तशमः, सरागः—रागेण = अनुरागेण,
सहितः = युक्तः, विविक्तम् = एकान्तम्, प्रचारम् = सततोपयोगम्, न = नहि,
भजते = सेवते, सः = असौ, हि = यतः, अप्रतिलब्धमार्गः—न = नहि, प्रतिलब्धः =
प्राप्तः, मार्गः = पथः, येन सः, बहुकण्टकायाम्—बहूनि = अत्याधिकानि, कण्टकानि =
शल्यानि, यस्यां सा तस्याम्, उर्व्याम् = भूम्याम्, चरन् = परिभ्रमन्, इव = यथा,
क्षण्यते = कष्टमनुभूयते ॥ ४७ ॥
हिन्दी—जो रागयुक्त है, एकान्तसेवी नहीं है, जिन्हें मानसिक शान्ति नहीं है—
वह सही रास्ता नहीं पा सकने के कारण कँटीली धरती पर चलते हुए की तरह कष्ट
का अनुभव करते हैं ॥ ४७ ॥
अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।
चित्तं निषेद्धुर्न सुखेन शक्यं कृष्टादको गौरिव सस्यमध्यात् ॥ ४८ ॥
अन्वयः—चित्रे विषयप्रंचारे स्थितेन अदृष्टतत्त्वेन परीक्षकेण सस्यमध्यात्
कृष्टादकः गौः इव सुखेन चित्तं निषेद्धं न शक्यम् ॥ ४८ ॥