सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 332, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 332

२७८ सौन्दरनन्दं महाकाव्यम्
प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।
कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ ३० ॥
अन्वयः—प्रदीप्ते वेश्मनि इव मृत्युव्याधिजराग्निभिः प्रदीप्ते जीवलोके हि
निरुद्वेगः कः शयीत ? ॥ ३० ॥
व्याख्या—प्रदीप्ते = प्रज्वलिते, वेश्मनि = सदने, इव = यथा, मृत्युव्याधि-
जराग्निभिः = निधनोपतापवार्द्धक्यानलैः, प्रदीप्ते = सन्दीप्ते, जीवलोके = संसारे, हि
= यतः, निरुद्वेगः—निर्गतः = निष्क्रान्तः, उद्वेगः = मनोद्विग्नता, यस्य सः, कः शयीत =
कः स्वपेत् ? न कोऽपीति भावः । मृत्युश्च व्याधिश्च जरा च ता एवाग्नयस्तैरित्यत्र
रूपकालङ्कारः ॥ ३० ॥
हिन्दी—जलते हुए घर में जैसे कोई भी आदमी निश्चिन्त होकर नहीं सो
सकता, उसी तरह मौत, व्याधि और जरारूपी आग से जलते जीवलोक में कौन
निर्भय होकर सोयेगा ॥ ३० ॥
तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि ।
अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुपु ॥ ३२ ॥
अन्वयः—तस्मात् सशस्त्रेषु शत्रुपु इव दोषेषु अप्रशान्तेषु निद्रां तम इति ज्ञात्वा
आवेष्टुं न अर्हसि ॥ ३१ ॥
व्याख्या—तस्मात् = तेन हेतुना, सशस्त्रेषु = शस्त्रयुक्तेषु, शत्रुपु = रिपुषु, इव =
यथा, दोषेषु = दुर्गुणेषु, अप्रशान्तेषु = शान्तिरहितेषु, निद्राम् = स्वापम्, तम इति =
तमिस्र इति, ज्ञात्वा = अवगम्य, आवेष्टुम् = संयमितुम्, न = नहि, अर्हसि =
योग्योऽसि ॥ ३१ ॥
हिन्दी—अतः जब तक हथियारबन्द दुश्मनों की तरह तुम्हारे दोष शान्त नहीं
हो जाते, तब तक नींद को अन्धकार समझकर अपने को उसके वशीभूत न होने
दो ॥ ३१ ॥
पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।
सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ ३२ ॥
अन्वयः—त्रियामायाः पूर्वं यामं तु प्रयोगेण अतिनाम्य स्वतन्त्रिणा शरीरस्य
विश्रामार्थं शय्या सेव्या ॥ ३२ ॥
व्याख्या—त्रियामायाः = रात्र्याः, पूर्वम् = प्राक्, यामम् = प्रहरम्, तु = किन्तु,
प्रयोगेण = योगाभ्यासेन, अतिनाम्य = व्यतीत्य, स्वतन्त्रिणा = स्वस्य=आत्मनः, तन्त्रम्
= अधीनता, स्वतन्त्रम्, तदस्ति अस्य तेनात्मवशीन्द्रियेण, शरीरस्य = देहस्य, विश्वा-
मार्थम् = श्रमोपशमनार्थम्, शय्या = आस्तरः, सेव्या = सेवनीयेति ॥ ३२ ॥
हिन्दी—तीन पहरवाली रात के पहले पहर में योगाभ्यास करना चाहिए, दूसरे
पहर में शारीरिक विश्राम के लिए बिछावन पर जाना चाहिए ॥ ३२ ॥