सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

१३० सौन्दरनन्दं महाकाव्यम्
तावद् दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा ।
यावद् दृढं बन्धनमेतदेव मुखं चलाक्षं ललितं च वाक्यम् ॥ १४ ॥
अन्वयः—लोके दारवं तान्तवम् आयसं वा बन्धनं तावत् दृढं नास्ति यावत् दृढं
चलाक्षं मुखं ललितं वाक्यं च एतदेव बन्धनम् ( अस्ति ) ॥ १४ ॥
व्याख्या—लोके = संसारे, दारवम् = काष्ठनिर्मितम्, तान्तवम् = तन्तुविनिर्मितम्,
आयसम् = लोहनिर्मितम्, वा = अथवा, बन्धनम् = प्रतिबन्धम्, तावत् = तावत्काल-
पर्यन्तम्, दृढम् = प्रगाढम्, नास्ति = न विद्यते, यावत् = यावत्कालपर्यन्तम्, दृढम् =
कठोरम्, चलाक्षम् = चपलनयनम्, मुखम् = आननम्, ललितम् = रम्यम्, च = पुनः,
वाक्यम् = कथनम्, च = पुनः, एतदेव = इदमेव, बन्धनम् = प्रतिबन्धम् अस्ति ॥१४॥
हिन्दी—संसार में लकड़ी, रस्सी अथवा लोहे का बंधन इतना मजबूत नहीं
होता, जितना मजबूत बन्धन चंचल आँखों वाला मुखड़ा तथा मीठी बातों का होता
है ॥ १४ ॥
छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच्चैव सुहृद्बलाच्च ।
ज्ञानाच्च रौक्ष्याच्च विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः ॥ १५ ॥
अन्वयः—स्वपौरुषात् च सुहृद्बलात् चैव हि तानि छित्त्वा च भित्त्वा च
( पारम् ) यान्ति, स्नेहमयस्तु पाशः ज्ञानात् च पाशात् च विना विमोक्तुं न
शक्यते ॥ १५ ॥
व्याख्या—स्वपौरुषात् = स्वकीयोद्योगात्, च = पुनः, सुहृद् = मित्रम्, बलात् =
सहयोगात्, च = पुनः, हि = यतः, तानि = पूर्वोक्तबन्धनानि, छित्त्वा = त्रोटयित्वा,
च = पुनः, भित्त्वा = भेदनं कृत्वा, च = पुनः, पारं यान्ति = व्रजन्ति, स्नेहमयस्तु = प्रण-
यान्वितस्तु, पाशः = बन्धनम्, ज्ञानात् = तत्त्वज्ञानात्, च = पुनः, पाशात् = बन्धनात्,
विना = रहितम्, विमोक्तुम् = मोचयितुम्, न = नहि, शक्यते = प्रभूयते ॥ १५ ॥
हिन्दी—रस्सी और कड़ी के बन्धन तो लोग अपने पुरुषार्थ एवं मित्र-बल से
तोड़ सकते हैं, किन्तु स्नेह के बन्धन तो तत्त्वज्ञान के बिना कोई तोड़ ही नहीं
सकता ॥ १५ ॥
ज्ञानं न मे तच्च शमाय यत्स्यान्न चास्ति रौक्ष्यं करुणात्मकोऽस्मि ।
कामात्मकश्चास्मि गुरुश्च बुद्धः स्थितोऽन्तरे चक्रगतेरिवास्मि ॥ १६ ॥
अन्वयः—मे तत् ज्ञानं नास्ति यत् शमाय स्यात् न च रौक्ष्यम् अस्ति ( अहं तु )
करुणात्मकः अस्मि कामात्मकः अस्मि च मे गुरुः बुद्धः चक्रगते अन्तरे इव स्थितः
अस्मि ॥ १६ ॥
व्याख्या—मे = मम नन्दस्य, तत् = पूर्वोक्तम्, ज्ञानम् = बुद्धिम्, नास्ति = न विद्यते,
यत् = सर्वः, शमाय = शान्त्यर्थम्, स्यात् = भवेत्, तत्त्वज्ञानादेव आत्मिकशान्तिर्भवति,
तदभावे नन्दाय शान्तिस्तु दुर्लभैव, न च = न तु, रौक्ष्यम् = स्नेहाभावः, अस्ति = विद्यते,

नन्द-विलापः ] सप्तमः सर्गः १३१
अहं तु, करुणात्मकः = दयालुः, अस्मि = भवामि, एकतस्तु अहम्, कामासक्तः = प्रणया-
सक्तः, अस्मि = भवामि, प्रथमं तावत् नन्दस्य कामासक्तत्वात् तस्य चित्तं प्रियतमा-
म्प्रति समाकृष्टमस्ति, अपरं तु तस्य गुरुः बुद्धोऽस्ति यो हि ज्ञानी वर्त्तते, तस्योपदेश-
प्रभावेन नन्दः आश्रमे स्थित्वा तत्त्वज्ञानाय प्रतिबद्धोऽस्ति, मे = मम, गुरुः = उपदेष्टा,
बुद्धः = सुगतः, अस्ति, चक्रगते, अन्तरे = मध्ये, इवाहम्, स्थितः = विद्यमानः, अस्मि
= भवामि ॥ १६ ॥
हिन्दी—मुझमें उस शान्ति की कमी है, जो तत्त्वज्ञान से मिलती है, मैं नीरस भी
नहीं हूँ, मैं तो दयालु एवं प्रणयासक्त हूँ, मेरे गुरु बुद्ध हैं । इस प्रकार मैं दो चक्कों के
बीच पिस रहा हूँ ॥ १६ ॥
अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातृषिणा द्विर्गुरुणानुशिष्टः ।
सर्वास्ववस्थासु लेभे न शान्तिं प्रियावियोगादिव चक्रवाकः ॥ १७ ॥
अन्वयः—अहं हि भिक्षुलिङ्गं गृहीत्वाऽपि भ्रातृषिणा द्विगुरुणा अनुशिष्टः सर्वासु
अवस्थासु प्रियावियोगात् चक्रवाकः इव शान्तिं न लेभे ॥ १७ ॥
व्याख्या—अहम् = नन्दः, हि = यतः, भिक्षुलिङ्गम् = संन्यासीवेषम्, गृहीत्वाऽपि
=धृत्वाऽपि, भ्रातृषिणा --भ्राता च =अग्रजश्च, ऋषिः =मुनिश्च, तेन द्विगुरुणा=द्विधा
गुरुस्तेन, अनुशिष्टः =समुपदिष्टः, सर्वासु =सकलासु, अवस्थासु =दशासु, प्रिया-
वियोगात् = कान्ताविरहात्, चक्रवाकः = कोकः, इव =तुल्यम्, शान्तिम् = शमम्, न=
नहि, लेभे = प्राप्नोमि ॥ १७ ॥
हिन्दी—यद्यपि मैंने भिक्षु वेष धारण कर लिया है तथा अग्रज एवं मुनि द्विविध
व्यक्तित्व वाले गुरु भगवान् बुद्ध से उपदेश ग्रहण किया है, फिर भी प्रियाविहीन चकवे
की तरह शान्ति नहीं पा रहा हूँ ॥ १७ ॥
अद्यापि तन्मे हृदि वर्तते च यद्दर्पणे व्याकुलिते मया सा ।
कृतानृतक्रोधकमब्रवीन्मां कथं कृतोऽसीति शठं हसन्तीम् ॥ १८ ॥
अन्वयः—मया दर्पणे व्याकुलिते सा हसन्तीं कृतानृतक्रोधकं शठं यत् माम्
अब्रवीत् ‘कथं कृतः असि’ इति तत् च अद्यापि मे हृदि वर्त्तते ॥ १८ ॥
व्याख्या—मया = नन्देन, दर्पणे = मुकुरे, व्याकुलिते = समलीकृते, सा = सुन्दरी,
हसन्तीम् = हासं कुर्वन्तीम्, कृतानृतक्रोधकम् — कृतम् = विहितम्, अनृतम् = मिथ्या,
क्रोधकम् = रोषम्, यथा तथा, शठम् = प्रवञ्चनापूर्वकैन, `यत् = यत्किञ्चित्, माम् =
नन्दम्, अब्रवीत् = अकथयत्, ‘कथम् = कया रीत्या, जातः = अनुष्ठितः, असि = भवसि’,
इति = इत्थम्, तत् च = पूर्वोक्तं च, अद्यापि = अधुनाऽपि, मे = मम नन्दस्य, हृदि =
चित्ते, वर्त्तते = अस्ति ॥ १८ ॥
'हिन्दी—मैंने जब उसके आईने को गन्दा कर दिया था, तब उसने झूठा क्रोध
दिखलाते हुए प्रतारणापूर्वक जो कहा था—‘कैसे हो गये हो ?’ यह आज भी मेरे
दिल में मौजूद है ॥ १८ ॥

१३२ सौन्दरनन्द महाकाव्यम्
यथैष्यनाश्यानविशेषकायां मयीति यन्मामवदच्च साश्रु ।
पारिप्लवाक्षेण मुखेन बाला तन्मे वचोऽद्यापि मनो रुणद्धि ॥ १९ ॥
अन्वयः—बाला साश्रु पारिप्लवाक्षेण मुखेन यथा अनाश्यानविशेषकायाम् मयि
एषि इति यत् माम् अवदत् तद्वचः अद्यापि मे मनः रुणद्धि ॥ १९ ॥
व्याख्या—बाला = सा सुन्दरी, साश्रु = अश्रुपूर्णेण, पारिप्लवाक्षेण = कातरनेत्रेण,
मुखेन = आननेन, यथा = येन प्रकारेण, अनाश्यानविशेषकायाम् = न=नहि, आश्यानः=
शुष्कः, विशेषकः = अङ्गरागः, यस्याः तस्यां ( साश्रुपदस्य पृथक् प्रयोगेण पारिप्लवस्य
चञ्चल एवार्थः समुचितः प्रतीतो भवत्यत्र । ), मयि=सुन्दर्याम्, एषि=आगच्छसि, इति=
एवम्, यत् = यत्किञ्चित्, माम् = नन्दम्, अवदत् = अकथयत्, तद्वचः = तत्कथनम्,
अद्यापि = सम्प्रत्यपि, मे = नन्दस्य, मनः = हृदयम्, रुणद्धि = व्यथयति ॥ १९ ॥
हिन्दी—चंचल, सहमी एवं डबडबाई आँखों वाली उस सुन्दरी ने चलते समय
मुझसे कहा था—'मेरे अङ्गराग सूखने के पहले ही तुम आ जाना।' उसका यह कथन
मेरे मन को आज भी मथ रहा है ॥ १९ ॥
बद्धवासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुरेषः ।
सक्तः क्वचिन्नाहमिवैष नूनं शान्तस्तथा तृप्त इवोपविष्टः ॥ २० ॥
अन्वयः—एषः भिक्षुः आसनं बध्वा पर्वतनिर्झरस्थः स्वस्थः यथा ध्यायति, नूनम्
एषः अहम् इव क्वचित् सक्तः न शान्तः तथा तृप्तः इव उपविष्टः ॥ २० ॥
व्याख्या —एषः = अयम्, भिक्षुः = बौद्धसंन्यासी, आसनम्=अष्टाङ्गयोगस्य तृतीय-
मङ्गम्, बध्वा = नियन्त्रयित्वा, पर्वतनिर्झरस्थः—पर्वतस्य = भूधरस्य, निर्झरे = प्रपाते,
तिष्ठति = स्थितोऽस्ति, इति गिरिनिर्झरस्थः, स्वस्थः = अनामयः, यथा = येन प्रकारेण,
ध्यायति = ध्यानं करोति, तथा नूनम् = निश्चयेन, एषः = अयं संन्यासी, अहम् =
नन्दः, इव = सदृशः, क्वचित् = कुत्राऽपि, सक्तः = आसक्तः, न = नहि, शान्तः = स्वस्थ-
चित्तः, तथा = अपि च, तृप्तः = तुष्टः, इव = समम्, उपविष्टः = तिष्ठतीति ॥ २० ॥
हिन्दी—यह बौद्धसंन्यासी पहाड़ की चोटी पर आसन बाँधकर जिस तरह ध्यान-
मग्न है, इससे पता चलता है कि निश्चय ही यह समस्त भोगों से संतुष्ट है तथा
इसका मन भी किसी में आसक्त नहीं है ॥ २० ॥
पुंस्कोकिलानांमविचिन्त्य घोषं वसन्तलक्ष्म्यामविचार्य चक्षुः ।
शास्त्रं यथाऽभ्यस्यति चैव युक्तः शङ्के प्रियाऽऽकर्षति नास्य चेतः ॥२१॥
अन्वयः—पुंस्कोकिलानां घोषम् अविचिन्त्य वसन्तलक्ष्म्यां चक्षुः अविचार्य च
युक्तः एषः यथा शास्त्रम् अभ्यस्यति, शङ्के अस्य चेतः प्रिया न आकर्षति ॥ २१ ॥
व्याख्या —पुंस्कोकिलानाम् = पिकानाम्, घोषम् = खगध्वनिः, अविचिन्त्य = अवि-
चार्य, वसन्तलक्ष्म्याम्=वसन्तश्रियाम्, चक्षुः = नयनम्, अविचार्य=असम्प्रेक्ष्य, च = पुनः,
युक्तः=निरुद्धचित्तवृत्तिः, एषः=अयं भिक्षुः, यथा=यया रीत्या, बौद्धभिक्षोः, चेतः

नन्द-विलापः ] सप्तमः सर्गः १३३
=हृदयम्, प्रिया=कान्ता, न=नहि, आकर्षति=आकर्षणं करोति। अस्मिन् श्लोके
'उत्प्रेक्षाऽलङ्कारः।' तद्यथा—
'सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
उक्तानुक्तापदाद्यत्र सिद्धासिद्धास्पदे परे ॥' २१ ॥
हिन्दी—यह भिक्षु शास्त्र के अध्ययन में इस तरह डूबा है कि इसे न तो कोयल
की काकली की चिन्ता है और न वसन्त-श्री ही इसकी आँखों को अपनी ओर खींचती
है। इससे स्पष्ट पता चलता है कि प्रिया इसके चित्त को आकृष्ट नहीं कर
रही है ॥ २१ ॥
अस्मै नमोऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।
शान्तात्मनेऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय ॥ २२ ॥
अन्वयः—स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय शान्तात्मने अन्तर्गतमानसाय
चङ्क्रम्यमाणाय निरुत्सुकाय अस्मै नमः अस्तु ॥ २२ ॥
व्याख्या—स्थिरनिश्चयाय—स्थिरः=सुदृढः, निश्चयः=निर्णयः, यस्य सः तस्मै,
निवृत्तकौतूहलविस्मयाय—निवृत्तौ=विरतौ, कौतूहल-विस्मयौ=उत्कण्ठा-चमत्कारौ,
यस्य सः तस्मै, शान्तात्मने—शान्तः=शमितः, आत्मा=चेतनः, यस्य सः तस्मै,
अन्तर्गतमानसाय—अन्तर्गतम्=अन्तर्भूतं समाविष्टं वा; मानसम्=चित्तम्, यस्य सः
तस्मै, चङ्क्रम्यमाणाय=बभ्रम्यमाणाय, निरुत्सुकाय=उत्सुकतारहिताय, अस्मै=
सम्मुखस्थभिक्षवे, नमः=नमस्कारः, अस्तु=भवतु ॥ २२ ॥
हिन्दी—दृढ निश्चयवाले, विस्मय एवं उत्कण्ठा से रहित, शान्तचित्त, अन्तर्मुख,
निरुत्सुक और भ्रमणशील इस भिक्षु को नमस्कार है ॥ २२ ॥
निरीक्षमाणस्य जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् ।
कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते ॥ २३ ॥
अन्वयः—धर्मसपत्नभूते मधौ मासे सपद्मं जलं फुल्लं परपुष्टजुष्टं च वनं
निरीक्षमाणस्य कस्य नवयौवनस्य धैर्यम् अस्ति ॥ २३ ॥
व्याख्या—धर्मसपत्नभूते=धर्मशत्रुभूते, मधौ=वसन्ते, मासे=ऋतौ, सपद्मम्=
सरसिजसहितम्, जलम्=सलिलम्, फुल्लम्=कुसुमितम्, परपुष्टजुष्टम्—परेण पुष्टः
परपुष्टस्तेन परपुष्टेन=कोकिलेन, जुष्टः=सेवितः, च=पुनः, वनम्=अरण्यम्,
निरीक्षमाणस्य=पश्यतः, कस्य=जनस्य, नवयौवनस्य=तरुणस्य, धैर्यम्=मनः-
स्थैर्यम्, अस्ति=विद्यते, न कस्यापीति ॥ २३ ॥
हिन्दी—धर्म के दुश्मन-स्वरूप वसन्त-मास में कमलयुक्त जलाशय एवं कोयल
की काकली से अनुगूंजित फूलों से लदे वन को देखकर किस युवक का धैर्य बना
रहेगा ॥ २३ ॥
भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।
जह्रुः स्त्रियो देवनृपर्षिसङ्घान् कस्माद्धि नास्मद्विधमाक्षिपेयुः ॥ २४॥

१३४ सौन्दरनन्दं महाकाव्यम्
अन्वयः—स्त्रियः भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः देव-
नृपर्षिसङ्घान् जह्रुः कस्माद्धि अस्मद्विधम् न आक्षिपेयुः ॥ २४ ॥
व्याख्या—स्त्रियः = वनिताः, भावेन = मनोविकारेण, गर्वेण = मदेन, गतेन =
यातेन, लक्ष्म्या = श्रिया, स्मितेन = मन्दहास्येन, कोपेन = रोषेण, मदेन = उन्मादेन,
वाग्भिः = वचनैः, देवनृपर्षिसङ्घान् = देवराजर्षिसमुदयान् जह्रुः = अहरन्, कस्माद्धि
कुतो हि, अस्मद्विधम् = मत्लुल्यम्, न = नहि, आक्षिपेयुः = आहरेयुः ॥ २४ ॥
हिन्दी—औरतों ने अपने हावभाव, अपनी चाल और सुन्दरता, मद, मुस्कान,
कोप, गर्व, और वचन से देवर्षियों और र्राजर्षियों के भी मन को जहाँ हरण किया
है, वहाँ मुझ जैसे लोगों को भला कैसे नहीं आकृष्ट करेगी ॥ २४ ॥
कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवानहल्याम् ।
सत्त्वेन सर्गेण च तेन हीनः स्त्रीनिर्जितः किं बत मानुषोऽहम् ॥२५॥
अन्वयः—कामाभिभूतः हि हिरण्यरेताः स्वाहां मघवान् अहल्यां सिषेवे तेन सत्त्वेन
सर्गेण च हीनः स्त्रीनिर्जितः मानुषः अहं किं बत ? ॥ २५ ॥
व्याख्या—कामाभिभूतः = कामेन = मदनेन, अभिभूतः = पीडितः, हीति निश्चयेन,
हिरण्यरेताः = हिरण्यमिव = सुवर्णमिव, रेत:=वेगवान् जलधारः, यस्य सोऽग्निः,
स्वाहाम् = अग्निप्रियाम्, ( 'स्वाहा' पदस्य प्रयोगस्तु देवेभ्यो दानाय एव प्रयुक्तो भवति,
किन्त्वत्राग्निप्रियार्थे प्रयोगोऽस्ति । ) मघवान् = इन्द्रः, अहल्याम् = गौतमपत्नीम्, सिषेवे
सेवयामासुः, तेन = पूर्वोक्तेन, सत्त्वेन = प्रकृतेर्गुणविशेषेण, सर्गेण = निश्चयेन, च =
पुनः, हीनः = रहितः, स्त्रीनिर्जितः = स्त्रिया = नार्या, निःशेषेण जितः निर्जितः =
वशीभूतः, मानुषः = मनुष्यः, अहम् = नन्दः, किं बत = का कथेति ? 'किं बत ?' इति
त्वत्राऽऽक्षेपार्थकोऽस्ति । दृष्टान्ताधिकस्योद्धरणमश्वघोषस्य विशेषताऽस्ति ॥ २५ ॥
हिन्दी—काम से पीड़ित अग्नि ने स्वाहा तथा इन्द्र ने गुरुपत्नी अहल्या का सेवन
किया, तो फिर सत्त्व और निश्चय विहीन मेरे जैसे सामान्य जन का कहना ही
क्या ? ॥ २५ ॥
सूर्यः सरण्यूं प्रति जातरागस्तत्प्रीतये तष्ट इति श्रुतं नः ।
यामश्वभूतोऽश्ववधूं समेत्य यतोऽश्विनौ तौ जनयाम्बभूव ॥२६॥
अन्वयः—सरण्यूं प्रति सूर्यः जातरागः तत्प्रीतये तष्टः इति नः श्रुतम् अश्वभूतः
याम् अश्ववधूं समेत्य यतः तौ अश्विनौ जनयाम्बभूव ॥ २६ ॥
व्याख्या —सरण्यूं प्रति = एतदाख्य अश्वाम्प्रति, सूर्यः = दिवाकरः, जातरागः—
जातः = समुत्पन्नः, रागः = प्रीतिः, यस्य सः, तत्प्रीतये = तस्याः = वडवायाः, प्रीतये=
प्रसन्नतायै, तष्टः = कर्त्तनमकरोत्, इति = एवम्, नः = अस्माकम्, श्रुतम् = आकर्णि-
तम्, अश्वभूतः = घोटकरूपमादाय, याम् = सरण्यूम्, अश्ववधूम् = वडवाम्, समेत्य =
सङ्गम्य, यतः = यस्मात्, तौ = पुराणप्रसिद्धौ, अश्विनौ = अश्विनीकुमारौ, जनया-
म्बभूव = उत्पादयामासेति ॥ २६ ॥

नन्द-विलापः ] सप्तमः सर्गः १३५
हिन्दी—सरण्यू नामक घोड़ी के प्रति उत्पन्न प्रेम से सूर्य ने अपना तेज क्षीण कर
उसकी खुशी के लिए उसके साथ संगम किया और हमने सुना है उसी से ही पुराण-
प्रसिद्ध अश्विनीकुमारों का जन्म हुआ ॥ २६ ॥
स्त्रीकारणं वैरविषक्तबुद्ध्योर्वैवस्वताग्न्योश्चलितात्मधृत्योः ।
बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेदिहान्यः ॥ २७ ॥
अन्वयः—स्त्रीकारणं चलितात्मधृत्योः वैरविषक्तबुद्धयोः वैवस्वताग्न्योः बहूनि
वर्षाणि युद्धं बभूव, इह स्त्रीनिमित्तम् अन्यः कः न चलेत् ॥ २७ ॥
व्याख्या—स्त्रीकारणम्—स्त्री = नारी, कारणम् = हेतुः, यस्मिंस्तत्, चलितात्म-
धृत्योः—चलिताः = विचलिताः, आत्मनः = स्वस्य, धृतिः = धैर्यम्, ययोस्तयोः, वैर-
विषक्तबुद्ध्योः—वैरेण = शत्रुत्वेन, विषक्ता = बद्धमूला, बुद्धिः = मतिः, ययोस्तयोः,
वैवस्वताग्न्योः—वैवस्वतश्च—विवस्वतोऽपत्यं ( 'तस्यापत्यमि'त्यनेनाण् ) वैवस्वतः =
अन्तकश्च, 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । अग्निश्च = वह्निश्च,
तयोः, बहूनि = बाहुल्याणि, वर्षाणि = वत्सराणि, युद्धम् = सङ्ग्रामः, बभूव = अभवत्,
इह = संसारे, स्त्रीनिमित्तम् = वनिताकारणम्, अन्यः = तद्भिन्नः, कः = पुरुषविशेषः,
न = नहि, चलेत् = विचलेत् ॥ २७ ॥
हिन्दी—इसी औरत के कारण जब अपना धीरज खोकर यमराज और अग्नि
एक-दूसरे के दुश्मन बनकर बहुत वर्षों तक युद्ध करते रहे, तो फिर इस संसार में
दूसरा कौन है, जो नारी के लिए विचलित न हो ॥ २७ ॥
भेजे श्वपाकीं मुनिरक्षमालां कामाद्वसिष्ठश्च स सद्धरिष्ठः ।
यस्यां विववानिव भूजलादः सुतः प्रसूतोऽस्य कपिञ्जलादः ॥ २८ ॥
अन्वयः—सद्धरिष्ठः सः वसिष्ठः मुनिः कामात् श्वपाकीम् अक्षमालां भेजे, यस्याम्
अस्य विवस्वान् इव भूजलादः सुतः कपिञ्जलादः प्रसूतः ॥ २८ ॥
व्याख्या—सद्धरिष्ठः—सत्सु = साधुषु, अतिशयेन वरः=श्रेष्ठः, योऽसौ ( सद् + वर +
इष्ठन् ), सः = असौ, वसिष्ठः = ऋषिविशेषः, मुनिः = ऋषिः, कामात् = मैथुनेच्छायाः,
श्वपाकीम्—श्वानम् = कुक्कुरम्, तं पचतीति श्वपाकीम् = चाण्डालकन्याम्, अक्ष-
मालाम् = एतदाख्याम्, भेजे = सम्भोगं कृतवान्, यस्याम् = चाण्डालकन्यायाम्, अस्य =
वसिष्ठमुनेः, विवस्वान् = सूर्यः, इव = सदृशः, भूजलादः = भुवः = पृथिव्याः, जलम् =
सलिलम्, आददाति = गृह्णातीति भूजलादः = तेजस्वी, सुतः = पुत्रः, कपिञ्जलादः =
एतन्नामकः ( अस्य पदस्यार्थो भवति मृज्जलञ्च भुक्त्वा यः जीवति सः कपिञ्जलः । )
प्रसूतः = असूत ॥ २८ ॥
हिन्दी—साधुओं में श्रेष्ठ वसिष्ठमुनि ने कामार्त होकर चाण्डाल-कन्या अक्षमाला
के साथ संभोग किया। उस स्त्री से वसिष्ठमुनि को सूर्य की तरह अत्यन्त तेजस्वी
कपिञ्जलाद नामक पुत्र उत्पन्न हुआ ॥ २८ ॥

१३६ सौन्दरनन्दं महाकाव्यम्
पराशरः शापशरस्तथर्षिः कालीं सिषेवे झषगर्भयोनिम् ।
सुतोऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता ॥ २९ ॥
अन्वयः—तथा शापशरः ऋषिः पराशरः झषगर्भयोनिं कालीं सिषेवे, यस्याम्
अस्य सुतः वेदविभागकर्ता महात्मा द्वैपायनः सुषुवे ॥ २९ ॥
व्याख्या—तथा = अपि च, शापशरः—शापमेव = अभिशाप एव, शरः = बाणः,
यस्य सः, ऋषिः=मुनिः, पराशरः = व्यासपितृ, झषगर्भयोनिम्—झषः=मीनः, गर्भस्य=
भ्रूणस्य, योनिः = निर्गमः, यस्याः सा ताम्, कालीम् = एतदाख्याम्, सिषेवे = असेवत,
यस्याम् = काल्याम्, अस्य = मुनेः, सुतः = तनयः, वेदविभागकर्ता—वेदस्य=निगमस्य,
विभागकर्त्ता = विभाजयिता (पूर्वं तु वेद एक एवासीत्, पश्चाद् वेदव्यासेन वेदस्य
विभाजनं कृतम्।), महात्मा = महानुभावः, द्वैपायनः = वेदव्यासः, सुषुवे =
प्रसूतः ॥ २९ ॥
हिन्दी—श्राप ही है बाण जिनका, ऐसे दिव्य मुनिपराशर ने मछली के पेट से
उत्पन्न काली नामक कन्या से संभोग किया। इसी से वेद के विभाजनकर्ता महामुनि
व्यास का जन्म हुआ ॥ २९ ॥
द्वैपायनो धर्मपरायणश्च रेमे समं काशिषु वेश्यवध्वा ।
यया हतोऽभूच्चलनूपुरेण पादेन विद्युल्लतयेव मेघः ॥ ३० ॥
अन्वयः—धर्मपरायणः द्वैपायनः काशिषु वेश्यवध्वा समं रेमे, यया चलनूपुरेण
पादेन विद्युल्लतया मेघः इव हतः अभूत् ॥ ३० ॥
व्याख्या—धर्मपरायणः = धर्मरतः, द्वैपायनः = वेदव्यासः, काशिषु = वाराणशीषु,
वेश्यवध्वा = गणिकया, समम् = सह, रेमे = अरमत्, यया = वाराङ्गनया, चलनूपुरेण—
चलः = चपलः, नूपुरः=मञ्जीरः, यस्य तेन, पादेन=चरणेन, विद्युल्लतया=तडिल्लतया,
मेघः = जलदः, इव = यथा, हतः = ताडितः, अभूत् = जातः। विद्युल्लतेत्यत्र रूपका-
ऽलङ्कारः। विद्युल्लता इत्यत्र सादृश्यमूलकाहार्यविद्युदभेदनिश्चयः, विद्युदपरलता इत्य-
त्रापरेति कथनात् न विद्युदभेदः, किन्तु विद्युत्कार्यकारित्वरूपं तादात्म्यमिति लक्षण-
समन्वयः। आहार्यत्वं च बाधकालीनेच्छाजन्यज्ञानत्वम् ॥ ३० ॥
हिन्दी—धर्मात्मा व्यास ने काशी में वेश्यागमन किया। जैसे विद्युल्लता मेघ पर
प्रहार करती है, उसी तरह उन वेश्याओं के नूपुरवाले चंचल पैरों का प्रहार
झेला ॥ ३० ॥
तथाऽङ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे ।
सारस्वतो यत्र सुतोऽस्य जज्ञे नष्टस्य वेदस्य पुनः प्रवक्ता ॥ ३१ ॥
अन्वयः—तथा रागपरीतचेताः ब्रह्मसुतः अङ्गिरा सरस्वतीं सिषेवे, यत्र अस्य
सुतः नष्टस्य वेदस्य पुनः प्रवक्ता सारस्वतः जज्ञे ॥ ३१ ॥
व्याख्या—तथा=तेनैव प्रकारेण, रागपरीतचेताः—रागेण = कामेन परीतम् =
परिव्याप्तम्, चेतः = हृदयम्, यस्य सः, ब्रह्मसुतः—ब्रह्मणः = विधातुः, सुतः=पुत्रः,

नन्द-विलापः ] सप्तमः सर्गः १३७
अङ्गिरा=एतदाख्यो मुनिः, सरस्वतीम्=शारदाम्, सिषेवे=असेवत, यत्र=यस्याम्,
अस्य=अङ्गिरसः, सुतः=तनयः, नष्टस्य=विलुप्तस्य, वेदस्य=निगमस्य, पुनः=
भूयः, प्रवक्ता=पुनरुद्धर्त्ता, सारस्वतः=सरस्वत्याः पुत्रः सारस्वतः=एतदाख्यो मुनिः,
जज्ञे=असूत ॥ ३१॥
हिन्दी-उसी तरह ब्रह्मा के पुत्र अङ्गिरा ने कामासक्त हृदय से सरस्वती का
सेवन किया। सरस्वती से ही उन्हें सारस्वत नामक पुत्र हुआ, इसी सारस्वत ने
विनष्ट वेदों का पुनः प्रवाचन किया ॥ ३१ ॥
तथा नृपर्षेर्दिलीपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः ।
स्रुवं गृहीत्वा स्रवदात्मतेजश्चिक्षेप वह्नावसितो यतोऽभूत् ॥ ३२ ॥
अन्वयः-तथा नृपर्षेः दिलीपस्य यज्ञे काश्यपः स्वर्गस्त्रियाम् आगतास्थः स्रुवं
गृहीत्वा स्रवत् आत्मतेजः वह्नौ चिक्षेप, यतः असितः अभूत् ॥ ३२ ॥
व्याख्या-तथा=पूर्वोक्तप्रकारेण, नृपर्षेः=राजर्षेः, दिलीपस्य=रघोः पितुः,
यज्ञे=अध्वरे, काश्यपः=एतदाख्यो मुनिः, स्वर्गस्त्रियाम्=दिव्यवनिताम्, आगतास्थः
=कामासक्तः, स्रुवम्=यज्ञोपकरणम्, गृहीत्वा=नीत्वा, स्रवत्=निःसरत्, आत्मतेजः
-आत्मनः=स्वस्य, तेजः=वीर्यम्, वह्नौ=याज्ञिकाग्नौ, चिक्षेप=अक्षिपत्, यतः
=यस्मात्, असितः=एतदाख्यः, अभूत्=समुत्पन्नोऽभवत् ॥ ३२ ॥
हिन्दी-उसी तरह राजर्षि दिलीप के यज्ञ में स्वर्ग की स्त्रियों के प्रति मुनि-
काश्यप कामासक्त हुए थे। उन्होंने शरीर से निकलते वीर्य को स्रुवा से यज्ञाग्नि में
फेंक दिया। इसी से इन्हें असित नामक पुत्र की उत्पत्ति हुई ॥ ३२ ॥
तथाङ्गदोऽन्तं तपसोऽपि गत्वा कामाभिभूतो यमुनाभगच्छत् ।
धीमत्तरं यत्र रथीतरं स सारङ्गजुष्टं जनयाम्बभूव ॥ ३३ ॥
अन्वयः-तथा अङ्गदः तपसः अन्तम् अपि गत्वा कामाभिभूतः यमुनाम् अगच्छत्,
यत्र धीमत्तरं सारङ्गजुष्टं रथीतरं सः जनयाम्बभूव ॥ ३३ ॥
व्याख्या-तथा=तादृश एव, अङ्गदः=एतन्नामकः, तपसः=तपस्यायाः, अन्तम्=
अवसानम्, अपि=चेत्, गत्वा=सम्प्राप्य, कामाभिभूतः=स्मरसम्पीडितः, यमुनाम्=
कालिन्दीम्, अगच्छत्=अगमत्, यत्र=यस्याम्, धीमत्तरम्=बुद्धिमतां वरिष्ठः,
सारङ्गजुष्टम्=मृगसेवितम्, रथीतरम्=एतदाख्यं सुतम्, सः=असौ, जनयाम्बभूव =
जनयामास ॥ ३३ ॥
हिन्दी-इसी प्रकार तपस्या के अन्त तक पहुँचक भी अङ्गद ने कामाभिभूत होकर
यमुना का संगम किया। इससे उन्हें मृगों से सेवित उस रथीतर का जन्म हुआ ॥३३॥
निशाम्य शान्तां नरदेवकन्यां वनेऽपि शान्तेऽपि च वर्तमानः ।
चचाल धैर्यान्मुनिरृष्यशृङ्गः शैलो महीकम्प इवोच्चशृङ्गः ॥३४॥
अन्वयः-शान्तेऽपि वनेऽपि च वर्त्तमानः मुनिः ऋष्यशृङ्गः नरदेवकन्यां शान्तां
निशाम्य महीकम्पे उच्चशृङ्गः शैलः इव धैर्यात् चचाल ॥ ३४ ॥

१३८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—शान्तेऽपि = शमितेऽपि, वनेऽपि = अरण्येऽपि, च = पुनः, वर्त्तमानः
= स्थितः, नरदेवकन्याम् = नृपसुताम्, शान्ताम् = एतन्नाम्नीम्, निशाम्य = अवलोक्य,
मुनिः = ऋषिः, ऋष्यशृङ्गः = ऋष्यशृङ्गीऋषिः, महीकम्पे=भूकम्पे, उच्चशृङ्गः = उन्नत-
शिखरः, शैलः = पर्वतः, इव = यथा, धैर्यात् = धृत्याः, चचाल = अचलत् ॥ ३४॥
हिन्दी—शान्त, एकान्त वनवासी शृंगी ऋषि भी राजकन्या शान्ता को देखकर
धैर्य से विचलित हो गये। ठीक उसी तरह, जैसे भूकम्प में ऊँची चोटी वाला पहाड़ भी
काँपने लगता है ॥ ३४ ॥
ब्रह्मर्षिभावार्थमपास्य राज्यं भेजे वनं यो विषयेष्वनास्थः ।
स गाधिजश्चापहृतः घृताच्या समा दशैकं दिवसं विवेद ॥ ३५ ॥
अन्वयः—यः विषयेषु अनास्थः ब्रह्मर्षिभावार्थं राज्यम् अपास्य वनं भेजे, सः च
गाधिजः घृताच्या अपहृतः दशसमाः एकं दिवसं विवेद ॥ ३५ ॥
व्याख्या—यः = मुनिः, विषयेषु = भोगेषु, अनास्थः—न आस्थः अनास्थः = अना-
सक्तः, ब्रह्मर्षिभावार्थम् = ब्रह्मर्षिभावावाप्तये, राज्यम् = राज्यश्रियम्, अपास्य=विहाय,
वनम् = अरण्यम्, भेजे = सिषेवे, सः = असौ, च = पुनः, गाधिजः = गाधिपुत्रः,
घृताच्या = इन्द्रलोकस्य वाराङ्गनया, अपहृतः = समाकृष्टः, दशसमाः = दश वत्सराणि,
एकं दिवसम् = मात्रैकदिनम्, विवेद = अमन्यत ॥ ३५ ॥
हिन्दी—ब्रह्मर्षि बनने के लिए गाधिपुत्र विश्वामित्र ने विषयों से विरक्त होकर
अपना राज्य छोड़कर वन का आश्रय लिया। घृताची नामक अप्सरा से अपहृत
होकर उसी विश्वामित्र ने दस साल को मात्र एक दिन माना ॥ ३५ ॥
तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्थूलशिरा मुमूच्छं ।
यः कामरोषात्मतयानपेक्षः शशाप तामप्रतिगृह्यमाणः ॥ ३६ ॥
अन्वयः—तथैव स्थूलशिरा कन्दर्पशराभिमृष्टः रम्भां प्रति मुमूच्छं, अनपेक्षः यः
अप्रतिगृह्यमाणः कामरोषात्मतया तां शशाप ॥ ३६ ॥
व्याख्या—तथैव=तत्सम एव, स्थूलशिरा = एतदाख्यो मुनिः, कन्दर्पशराभिमृष्टः—
कन्दर्पस्य = मदनस्य, शरः = बाणः, तेन अभिमृष्टः = आहतः, रम्भाम्प्रति =
अप्सरोविशेषम्प्रति, मुमूच्छं = अमूच्छत्, अनपेक्षः = अनभीष्टः, यः = मुनिः, अप्रति-
गृह्यमाणः = अप्रत्याददानः, कामरोषात्मतया—कामश्च = मदनश्च, रोषश्च = क्रोधश्च,
कामरोषौ, ताभ्याम् आत्मतया = युक्ततया, ताम् = रम्भाम्, शशाप = अशपत् ॥३६॥
हिन्दी—उसी तरह कामवाण से घायल होकर स्थूलशिरा रम्भा को देखते ही
मूर्च्छित हो गया। जब उसने उसे स्वीकार नहीं किया तब काम और क्रोध के वशी-
भूत होकर उसने उसे श्राप दे दिया ॥ ३६ ॥
प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् ।
सन्दृश्य सन्दृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष ॥ ३७ ॥

नन्द-विलापः ] सप्तमः सर्गः १३९
अन्वयः—प्रियायां प्रमद्वरायां भुजङ्गमेन अपहृतेन्द्रियायां च रुरुः सन्दृश्य सन्दृश्य
सर्पान् जघान रोषेण प्रियं तपः न ररक्ष ॥ ३७ ॥
व्याख्या—प्रियायाम् = प्रियतमायाम्, प्रमद्वरायाम् = उत्तमयोषित् श्रेष्ठायाम्,
भुजङ्गमेन = सर्पेण, अपहृतेन्द्रियायाम् = अपहृतम् = अपवाहितम्, इन्द्रियम् = करणम्,
यस्याः तस्याम्, च = पुनः, रुरुः = एतदाख्य मुनिः, सन्दृश्य सन्दृश्य = अन्विष्य-
अन्विष्य, सर्पान् = नागान्, जघान = हतवान्, रोषेण = क्रोधेन, प्रियम् = रुचिकरम्,
तपः = तपस्याम्, न = नहि, ररक्ष = अरक्षत् ॥ ३७ ॥
हिन्दी—प्रिया प्रमद्वरा के इन्द्रिय रूपी सर्प द्वारा अपहृत होने पर रुरु ने खोज-
खोज-कर साँपों को मारा और क्रोध के कारण अपने प्रिय तप की रक्षा नहीं
की ॥ ३७ ॥
नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर्विबुधप्रभावः ।
तथोर्वशीमप्सरसं विचिन्त्य राजर्षिरुन्मादमगच्छदैडः ॥ ३८ ॥
अन्वयः—तथा शशाङ्कस्य नप्ता बुधस्य पुत्रः विबुधप्रभावः यशोगुणाङ्कः राजर्षिः
ऐडः उर्वशीम् अप्सरसं विचिन्त्य उन्मादम् अगच्छत् ॥ ३८ ॥
व्याख्या—तथा = तेनैव रूपेण, शशाङ्कस्य = चन्द्रमसः, नप्ता = प्रपौत्रः, बुधस्य =
चन्द्रसुतस्य, पुत्रः = आत्मजः, विबुधप्रभावः = देवसामर्थ्यम्, यशोगुणाङ्कः—यशः =
कीर्त्तिः, गुणश्च = धर्मश्च, अङ्कः = अभिज्ञानम्, यस्य, सः, राजर्षिः = नृपमुनिः, ऐडः =
एतदाख्यः, उर्वशीम्—उरून् महतोऽपि अश्नुते वशीकरोतीति उर्वशी । इन्द्रलोकस्यैका
पुराणप्रसिद्धाऽप्सरा, या पुरुरवानामकस्य नृपतेः पत्नी आसीत् । ऋग्वेदे अस्याः
अत्यधिकोल्लेखाः मिलन्ति । अप्सरसम् = नाकनर्तकीम्, विचिन्त्य = स्मृत्वा, उन्मादम्
= विक्षिप्तावस्थाम्, अगच्छत् = जगाम ॥ ३८ ॥
हिन्दी—चन्द्रमा का नाती, यशस्वी, गुणवान् बुध का पुत्र प्रभावशाली उस राजर्षि
ऐड भी अप्सरा उर्वशी को याद कर उन्मादग्रस्त हुआ ॥ ३८ ॥
रक्तो गिरेर्मूर्धनि मेनकायां कामात्मकत्वाच्च स तालजङ्घः ।
पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने ॥ ३९ ॥
अन्वयः—गिरेः मूर्धनि मेनकायां कामात्मकत्वात् च रक्तः सः तालजङ्घः
विश्वावसुना सरोषं वज्रेण, हिन्तालः इव पादेन अभिजघ्ने ॥ ३९ ॥
व्याख्या—गिरेः = अद्रेः, मूर्धनि = शिखरे, मेनकायाम् = एतदाख्यम् अप्सरसम्प्रति,
कामात्मकत्वात् = रागात्मकत्वात्, च = पुनः, रक्तः = अनुरक्तः, सः = ख्यातः, ताल-
जङ्घः = एतन्नामकः, विश्वावसुना = एतदाख्यमुनिना, सरोषम् = सक्रोधम्, वज्रेण =
अशनिना, हिन्तालः = एतदाख्यतरुः, इव = सदृशः, पादेन = चरणेन, अभिजघ्ने =
अभिहतः ॥ ३९ ॥
हिन्दी—पहाड़ की चोटी पर मेनका के लिए कामासक्त होकर वह तालजङ्घ
अनुरक्त हो गया । फिर विश्वावसु ने उस पर उसी तरह प्रहार किया जैसे वज्र
हिन्ताल वृक्ष पर प्रहार करता है ॥ ३९ ॥

१४० सौन्दरनन्दं महाकाव्यम्
नाशं गतायां परमाङ्गनायां गङ्गाजलेऽनङ्गपरीतचेताः।
जह्नुश्च गङ्गां नृपतिर्भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः ॥ ४० ॥
अन्वयः—गङ्गाजले परमाङ्गनायां नाशं गतायाम् अनङ्गपरीतचेताः नृपतिः जह्नुः
अचलेन्द्रः मैनाक इव गङ्गां भुजाभ्यां रुरोध ॥ ४० ॥
व्याख्या—गङ्गाजले = त्रिपथगासलिले, परमाङ्गनायाम् = परमा चासौ अङ्गनाम्,
तस्याम् = उत्तमप्रियायाम्, नाशम् = विनाशम्, गतायाम् = प्राप्तायाम्, अनङ्गपरीतचेताः—
अनङ्गेन = कामेन, परीतम् = आसक्तम्, चेतः = हृदयः, यस्य सः, नृपतिः = भूपतिः,
जह्नुः = एतन्नामकः, अचलेन्द्रः = गिरिराजमैनाकः, प्रसिद्धपर्वतः, इव = सदृशः,
गङ्गाम् = भागीरथीम्, भुजाभ्याम् = बाहुभ्याम्, रुरोध = रुरुधे ॥ ४० ॥
हिन्दी—गंगाजल में अपनी प्रिया के विनष्ट होने पर राजा जह्नु ने कामासक्त
होकर गिरिराज मैनाक की तरह बाँहों से गंगा को रोक लिया ॥ ४० ॥
नृपश्च गङ्गाविरहाज्जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः।
कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शान्तनुरस्वतन्त्रः ॥ ४१ ॥
अन्वयः—प्रतिपस्य सूनुः कुलप्रदीपः श्रीमत्तनुः नृपः शान्तनुः गङ्गाविरहात् अस्व-
तन्त्रः गङ्गाम्भसा आत्तमूलः सालः इव जुघूर्ण ॥ ४१ ॥
व्याख्या—प्रतिपस्य = प्रतिपाख्यनृपतेः, सूनुः = पुत्रः, कुलप्रदीपः—कुलस्य =
वंशस्य, प्रदीपः = दीपकः, श्रिया = शोभया युक्तः, तनुः = देहम्, यस्य सः, नृपः = राजा,
शान्तनुः = पितामहभीष्मस्य पिता, गङ्गाविरहात्—गङ्गायाः = भागीरथ्याः, विरहात्
= वियोगात्, अस्वतन्त्रः—स्वस्य = आत्मनः, तन्त्रः = शासनम्, स्वतन्त्रः, न स्वतन्त्रः
अस्वतन्त्रः = अन्यमनस्कः, गङ्गाम्भसा—गङ्गायाः = त्रिपथगायाः, अम्भसा = जलेन,
आत्तमूलः—आत्तम् = उत्खातम्, मूलम् = अङ्घ्रिः, यस्य सः, सालः = चीरपर्णः,
इव = सदृशः, जुघूर्ण = अघूर्णत् ॥ ४१ ॥
हिन्दी—कुलदीपक, सुन्दर, प्रतिप-पुत्र राजा शान्तनु गंगा के विरह में वैसे ही
चक्कर काटने लगे, जैसे गंगा के प्रवाह में सालवृक्ष जड़ से उखड़ कर गंगाजल के
आवर्त्त में चक्कर काटता है ॥ ४१ ॥
हृतां च सौनन्दकिनानुशोचन् प्राप्तामिवोर्वीं स्त्रियमुरुर्वेशीं ताम्।
सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चित्तोद्भवभिन्नवर्मा ॥ ४२ ॥
अन्वयः—सौनन्दकिना च तां हृतां स्त्रियम् उर्वशीं प्राप्ताम् उर्वीम् इव अनुशोचन्
किल सद्वृत्तवर्मा सोमवर्मा चित्तोद्भवभिन्नवर्मा बभ्राम् ॥ ४२ ॥
व्याख्या—सौनन्दकिना = एतदाख्येन, च = पुनः, ताम् = विख्याताम्, हृताम् =
अपहृताम्, स्त्रियम् = पत्नीम्, उर्वशीम् = स्वर्गगणिकाम्, प्राप्ताम् = अधिकृताम्, उर्वीम्
= धरित्रीम्, इव = यथा, अनुशोचन् = अनुचिन्तयन्, किल = निश्चयेन, सद्वृत्तवर्मा—
सद्वृत्तम् = सदाचाररूपम्, वर्म = कवचम्, यस्य सः, सोमवर्मा = एतन्नामको राजा,

नन्द-विलापः ] सप्तमः सर्गः १४१
चित्तोद्भवभिन्नवर्मा—चित्तोद्भूवेन = मदनेन, भिन्नम् = विदीर्णम्, वर्म = कवचम्,
यस्य सः = कामविदीर्णवर्मा, बभ्राम = अभ्रमत् ॥ ४२ ॥
हिन्दी—सोमवर्मा की पत्नी उर्वशी का अपहरण जब सौन्दकी ने कर लिया, तब
कामजर्जर उसकी काया में उसे लगा जैसे उसकी सम्पूर्ण धरती ही किसी ने हरण
कर ली है और ऐसा ही सोचते हुए वह धरती पर इधर-उधर घूमने लगा ॥ ४२ ॥
भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः ।
बलेन सेनाक इति प्रकाशः सेनापतिर्देव इवात्तसेनः ॥ ४३ ॥
अन्वयः—भुवि भीमप्रभावः बलेन सेनाक इति प्रकाशः आत्तसेनः देव इव सेना-
पतिः च सः भीमकः राजा मृतां भार्याम् अनुममार ॥ ४३ ॥
व्याख्या—भुवि = पृथिव्याम्, भीमप्रभावः = भीमः = भीषणः, प्रभावः = प्रतापः,
यस्य सः, बलेन = शक्त्या, सेनाक इति = सेनाक इति नाम्ना, प्रकाशः = प्रसिद्धः, आत्त-
सेनः—आत्ता = प्राप्ता, सेना = सैन्यम्, देवः = देवराजः, इव = सदृशः, सेनापतिः =
चमूपतिः, च = पुनः, सः = प्रसिद्धः, भीमकः = एतदाख्यो राजा = भूपतिः, मृताम् =
उपरताम्, भार्याम् = पत्नीम्, अनुममार = मृत्युमन्ववाप ॥ ४३ ॥
हिन्दी—उस राजा भीम का धरती पर प्रबल प्रताप था। अपनी शक्ति के कारण
यह सेनाक नाम से विख्यात था। सेनापति देवराज इन्द्र की तरह सेना का अधिकारी
था। फिर भी पत्नी के मरने पर स्वयं भी मर गया ॥ ४३ ॥
स्वर्गङ्गते भर्तरि शन्तनौ च कालीं जिहीर्षन् जनमेजयः सः ।
अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्मथमुत्ससर्ज ॥ ४४ ॥
अन्वयः—भर्तरि शन्तनौ स्वर्गङ्गते च सः जनमेजयः कालीं जिहीर्षन् भीष्मात्
समवेत्य मृत्युम् अवाप, तद्गतं मन्मथं न उत्ससर्ज, ॥ ४४ ॥
व्याख्या—भर्तरि = स्वामिनि, शन्तनौ = एतदाख्यराज्ञि, स्वर्गङ्गते = उपरते, च =
पुनः, सः = असौ, जनमेजयः = एतदाख्यो नृपः, कालीम् = मत्स्यगन्धाम्, जिहीर्षन् =
हर्तुमिच्छन्, भीष्मात् = शन्तनुसुतात्, समवेत्य = युद्धं कृत्वा, मृत्युम् अवाप = ममार,
किन्तु तद्गतम् = आत्मरतम्, मन्मथम् = मदनम्, न = नहि, उत्ससर्ज = तत्याजेति ॥ ४४ ॥
हिन्दी—महाराज शान्तनु के स्वर्गीय हो जाने पर उनकी पत्नी मत्स्यगंधा को
अपहृत करने के प्रयास में भीष्म से लड़कर जनमेजय ने अपनी जान गँवाई, परन्तु
मन में बैठी कामवासना को नहीं छोड़ा ॥ ४४ ॥
शप्तश्च पाण्डुर्मदनेन नूनं स्त्रीसङ्गमे मृत्युमवाप्स्यसीति ।
जगाम माद्रीं न महर्षिशापादसेव्यसेवी विममर्श मृत्युम् ॥ ४५ ॥
अन्वयः—स्त्रीसङ्गमे नूनं मृत्युम् अवाप्स्यसि इति मदनेन शप्तः पाण्डुः माद्रीं
जगाम, महर्षिशापात् असेव्यसेवी ( सः ) मृत्युं न विममर्श ॥ ४५ ॥
सौ०-13

१४२ सौन्दरनन्दं महाकाव्यम्
व्याख्या-स्त्रीसङ्गमे = भार्यया सह सम्भोगकरणे, नूनम् = निश्चयेन, मृत्युम्
= मरणम्, अवाप्स्यसि = प्राप्स्यसि, इति = इत्थम्, मदनेन = कामेन, शप्तः = शापयुक्तः,
पाण्डुः = नृपपाण्डुः, माद्रीम् = एतदाख्यां स्वपत्नीम्, जगाम = अगच्छत्, महर्षिशापात् =
मदनशापात्, असेव्यसेवी-न = नहि, सेवितुम् = गन्तुं योग्यः, असेव्यः, असेव्यं सेवते
इति असेव्यसेवी = अभोग्यभोगी, सः = पाण्डुः, मृत्युम् = मरणम्, न = नहि, विममर्श
= चिन्तयामासेति ॥ ४५ ॥
हिन्दी—'नारी-संगम से तुम्हारी मौत निश्चित है' मदन के ऐसे शाप के बावजूद
पाण्डु ने माद्री के साथ रमण किया। उस असेव्यसेवी ने कामवश मृत्यु का भी
ख्याल नहीं किया ॥ ४५ ॥
एवंविधा देवनृपर्षिसङ्घाः स्त्रीणां वशं कामवशेन जग्मुः ।
धिया च सारेण दुर्बलः सन्प्रियामपश्यन् किमु विक्लवोऽहम् ॥ ४६ ॥
अन्वयः—एवंविधा देवनृपर्षिसङ्घाः कामवशेन स्त्रीणां वशं जग्मुः, धिया च
सारेण च दुर्बलः सन् प्रियाम् अपश्यन् अहं विक्लवः किमु ? ॥ ४६ ॥
व्याख्या—एवंविधा = अनेन प्रकारेण, देवनृपर्षिसङ्घाः—देवाः = सुराः, नृपाश्च =
राजानश्च, देवनृपाः, ते च ऋषयः = मुनयः, तेषां सङ्घाः = समूहाः, कामवशेन =
मदनाधीनेन, स्त्रीणाम् = नारीणाम्, वशम् = अधीनताम्, जग्मुः = अगच्छन्, धिया =
बुद्धया, च = पुनः, सारेण = बलेन, च = पुनः, दुर्बलः सन् = अशक्तः सन्, प्रियाम् =
दयिताम्, अपश्यन् = अनवलोकयन्, अहम् = नन्दः, विक्लवः = विह्वलः किमु ? ॥ ४६ ॥
हिन्दी—इस प्रकार देवर्षियों और राजर्षियों के समूह कामार्त्त होकर स्त्रियों के
वशवर्त्ती बने, तो फिर बुद्धि और बल से हीन मेरे जैसे लोग प्रियाविरह से विह्वल
हो रहा है तो उसमें आश्चर्य ही क्या है ? ॥ ४६ ॥
यास्यामि तस्माद् गृहमेव भूयः कामं करिष्ये विधिवत् सकामम् ।
न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य ॥ ४७ ॥
अन्वयः—तस्माद् भूयः गृहम् एव यास्यामि, विधिवत् सकामं कामं करिष्ये, हि
अन्यचित्तस्य चलेन्द्रियस्य धर्मपथाच्च्युतस्य लिङ्गं न क्षमम् ॥ ४७ ॥
व्याख्या-तस्मात् = तेन हेतुना, भूयः = पुनः, गृहमेव = सदनमेव, यास्यामि =
गमिष्यामि, विधिवत् = यथाविधि, सकामम् = इच्छानुसारम्, कामम् = विषयोपभोगम्,
करिष्ये = विधास्यामि, हि = यतः, अन्यचित्तस्य-अन्यस्मिन् = अपरस्मिन्, चित्तम् =
हृदयम्, यस्य = अन्यमनस्कस्य, चलेन्द्रियस्य—चलानि = चञ्चलानि, इन्द्रियाणि =
करणानि, यस्य तस्य, धर्मपथाच्च्युतस्य—धर्मस्य = सत्कर्मणः, पथः = मार्गः, तस्मात्
च्युतस्य = भ्रष्टस्य, लिङ्गम् = भिक्षुवेषम्, न = नहि, क्षमम् = उचितमिति ॥ ४७ ॥
हिन्दी—अतः अब मैं घर ही लौट जाऊँगा, फिर विधिपूर्वक यथेच्छ विषयोपभोग
करूँगा; क्योंकि जो अन्यमनस्क है, जिसकी इन्द्रियाँ चञ्चल हैं, धर्मपथ से जो च्युत
है, उसके लिए यह भिक्षु-वेष उचित नहीं है ॥ ४७ ॥

नन्द-विलापः ] सप्तमः सर्गः १४३
पाणौ कपालमवधार्य विधाय मौण्ड्यं
मानं निधाय विकृतं परिधाय वासः ।
यस्योद्भवो न धृतिरस्ति न शान्तिरस्ति
चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ॥ ४८ ॥
अन्वयः—पाणौ कपालम् अवधार्य मौण्ड्यं मानं निधाय विकृतं वासं परिधाय उद्भवः
यस्य धृतिः नास्ति शान्तिः नास्ति सः चित्र-प्रदीप इव च अस्ति नास्ति चैव ॥ ४८ ॥
व्याख्या—पाणौ = करे, कपालम् = भिक्षापात्रम्, अवधार्य = धृत्वा, मौण्ड्यम् =
मुण्डनम्, मानम् = गर्वः, निधाय = त्यक्त्वा, विकृतम् = काषायम्, वासम् = वस्त्रम्,
परिधाय = धारणं कृत्वा, उद्भवः = उद्विग्नः, यस्य = पूर्वोक्तस्य, धृतिः = धैर्यः, नास्ति =
न विद्यते, शान्तिः = शमम्, नास्ति, सः = पूर्वोक्तः, चित्र-प्रदीप इव = आलिखित-
दीपकमिव, च = पुनः, अस्ति = विद्यते, नास्ति = भिक्षु न विद्यते चैव ॥ ४८ ॥
हिन्दी—हाथों में भिक्षापात्र लेकर, मुण्ड मुड़ाकर, गर्व छोड़कर, गेरुआ वस्त्र
पहनकर जो उत्तेजना के अधीन है, जिसे न धैर्य है और न शान्ति है; वह चित्र में
प्रदर्शित दीपक की तरह है अर्थात् देखने में भिक्षु है, वास्तव में नहीं है ॥ ४८ ॥
यो निःसृतश्च न च निःसृतकामरागः
काषायमुद्वहति यो न च निष्कषायः ।
पात्रं बिभर्ति च गुणैर्न च पात्रभूतो
लिङ्गं वहन्नपि स नैव गृही न भिक्षुः ॥ ४९ ॥
अन्वयः—यश्च निःसृतः न च निःसृतकामरागः यः काषायम् उद्वहति न च
निष्कषायः पात्रं च बिभर्त्ति गुणैश्च न पात्रभूतः सः लिङ्गं वहन् अपि न गृही नैव
भिक्षुः ॥ ४९ ॥
व्याख्या—यश्च = पुनः यः पुरुषः, निःसृतः = गृहाद् बहिर्गतः, न च = न हि, निःसृत-
कामरागः—निःसृतः = निर्गतः, कामस्य = विषयस्य, रागः = अनुरागः, यस्य सः,
यः = जनः, काषायम् = गैरिकवस्त्रम्, उद्वहति = धारयति, न च निष्कषायः—निर्गतः
= विनिर्गतः, कषायः = मलम्, यस्य सः = चित्तमलरहितः, पात्रञ्च = भिक्षापात्रञ्च,
बिभर्त्ति = धारयति, गुणैश्च = सद्गुणैश्च, न = नहि, पात्रभूतः = आश्रयभूतः, सः =
पूर्वोक्तः, लिङ्गम् = भिक्षुचिह्नम्, वहन् = धारयन्, अपि, न = नहि, गृही = गृहस्थः,
नैव, भिक्षुः = परिव्राजकः अस्ति ॥ ४९ ॥
हिन्दी—जो घर से निकल गया है, परन्तु मन से कामवासना को नहीं निकाल
सका है; जो गैरिक वस्त्र तो धारण कर लिया है, परन्तु चित्त जिसका पवित्र नहीं है;
जो भिक्षापात्र तो हाथ में लिया है, परन्तु उसके गुण का अधिकारी नहीं है; वह
भिक्षुवेष धारण करने के बावजूद न तो गृहस्थ है और न भिक्षु ही है ॥ ४९ ॥

१४४ सौन्दरनन्दं महाकाव्यम्
न न्याय्यमन्वयवतः परिगृह्य लिङ्गं
भूयो विमोक्तुमिति योऽपि हि मे विचारः ।
सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरां-
स्तान्ये तपोवनमपास्य गृहाण्यतीयुः ॥ ५० ॥
अन्वयः—अन्वयवतः लिङ्गं परिगृह्य भूयः, विमोक्तुं न न्याय्यम् इत्यपि यो हि
मे विचारः तान् नृपप्रवीरान् ये तपोवनम् अपास्य गृहाणि अतीयुः विचिन्त्य सोऽपि
प्रणश्यति ॥ ५० ॥
व्याख्या—अन्वयवतः=कुलीनस्य, लिङ्गम्=भिक्षुचिह्नम्, परिगृह्य=धारणं
कृत्वा, भूयः=पुनः, विमोक्तुम्=पृथक्कर्त्तुम्, न=नहि, न्याय्यम्=समुचितम्,
इत्यपि—यो हि=योऽपि, मे=नन्दस्य, विचारः=चिन्तनं, तान्=पूर्ववर्णितान्, नृप-
प्रवीरान्=नरपतिश्रेष्ठान्, ये तपोवनम्=आश्रमम्, अपास्य=त्यक्त्वा, गृहाणि=सद-
नानि, अतीयुः=अतिजग्मुः, विचिन्त्य=विचार्य, सोऽपि=पूर्वोक्तविचारोऽपि, प्रण-
श्यति=विनश्यति ॥ ५० ॥
हिन्दी—कुलीन व्यक्ति के लिए एक बार भिक्षुवेष धारण कर फिर उसका परि-
त्याग करना उचित नहीं है। वे नृपतिश्रेष्ठ, जिन्होंने आश्रम छोड़कर घर का पुनः
सहारा लिया, यह सोचकर मेरा यह भी विचार नष्ट हो जाता है ॥ ५० ॥
शाल्वाधिपो हि ससुतोऽपि तथाम्बरीषो
रामोऽन्ध एव स च साङ्कृतिरन्तिदेवः ।
चीराण्यपास्य दधिरे पुनरंशुकानि
छित्त्वा जटाश्च कुटिला मुकुटानि बन्धुः ॥ ५१ ॥
अन्वयः—ससुतोऽपि हि शाल्वाधिपः तथा अम्बरीषः अन्धः रामः स च साङ्कृतिः
अन्तिदेवः चीराणि अपास्य पुनः अंशुकानि दधिरे, कुटिलाः जटाश्च छित्त्वा मुकुटानि
बभ्रुः ॥ ५१ ॥
व्याख्या—ससुतोऽपि=पुत्रसहितोऽपि, हि=इति निश्चयेन, शाल्वाधिपः=शाल्व-
नृपतिः, तथा=अपि च, अम्बरीषः=एतदाख्यनृपः, अन्धः=नेत्रहीनः, रामः=नृपतिः,
सः=असौ, च=पुनः, साङ्कृतिः अन्तिदेवः=एतदाख्यनृपः, चीराणि=वल्कलानि,
अपास्य=परित्यज्य, पुनः=भूयः, अंशुकानि=कौषेयानि, दधिरे = धृतवन्तः,
कुटिलाः=वक्राः, जटाः=सटाः, च=पुनः, छित्त्वा=कर्तयित्वा, मुकुटानि = राज-
चिह्नानि, बन्धुः = परिदधुः ॥ ५१ ॥
हिन्दी—पुत्र सहित शाल्वराज अम्बरीष, अन्धराम और उस सांकृति अन्तिदेव ने
गैरिकवस्त्र छोड़कर पुनः रेशम वस्त्र धारण किया और वक्रजटामण्डल काटकर
मुकुट धारण किया ॥ ५१ ॥

नन्द-विलापः ] सप्तमः सर्गः १४५
तस्माद्भिक्षार्थं मम गुरुरितो यावदेव प्रयात-
स्त्यक्त्वा काषायं गृहमहमितस्तावदेव प्रयास्ये ।
पूज्यं लिङ्गं हि स्खलितमनसो बिभ्रतः क्लिष्टबुद्धे-
र्नामुत्रार्थः स्यादुपहतमतेर्नाप्ययं जीवलोकः ॥ ५२ ॥
सौन्दरानन्दे महाकाव्ये नन्दविलापो नाम सप्तमः सर्गः ॥ ७ ॥
अन्वयः—तस्मात् यावदेव मम गुरुः भिक्षार्थम् इतः प्रयातः तावदेव अहं काषायं
त्यक्त्वा इतः गृहं प्रयास्ये, हि स्खलितमनसः पूज्यं बिभ्रतः क्लिष्टबुद्धेः उपहतमतेः
अमुत्रार्थः स्यात् नाप्ययं जीवलोकः ॥ ५२ ॥
व्याख्या--तस्मात् = तेन हेतुना, यावत् = इत्यवधारणार्थम्, मम = नृपनन्दस्य,
गुरुः = भगवान् बुद्धः, भिक्षार्थम् = भिक्षायै, इतः = अस्मात् स्थानात्, प्रयात:= गमि-
ष्यति, तावदेव = तस्मिन्नेव काले, अहम् = नन्दः, काषायम् = कषायवस्त्रम्, त्यक्त्वा =
परित्यज्य, इतः = आश्रमात्, गृहम् = सदनम्, प्रयास्ये = यास्यामि, हि = यतः,
स्खलितमनसः-स्खलितम् = चलितम्, मनः = चित्तम्, यस्य तस्य, पूज्यम् = पवित्रम्,
लिङ्गम् = भिक्षुवेषम्, बिभ्रतः = धारयतः, क्लिष्टबुद्धेः-क्लिष्टा = कठोरा, बुद्धिः =
मतिर्यस्य सः, उपहतमतेः--उपहताः=हताः, मतिः = बुद्धिर्यस्य सः तस्य, न = नहि,
अमुत्रार्थः = परलोकप्रयोजनः, स्यात् = भवेत्, नाप्ययम् = नैषः, जीवलोकः--जीवस्य
लोकः जीवलोकः = संसार इत्यर्थः ॥ ५२ ॥
हिन्दी-अतः ज्योंही मेरे गुरु भिक्षा के लिए यहाँ से प्रस्थान करेंगे, त्योंही इस
गेरुए वस्त्र को छोड़कर मैं भी यहाँ से घर चला जाऊँगा, क्योंकि पूज्य भिक्षु-वेष
को चंचल मन से धारण करते हुए पाप बुद्धिवाले का न तो इहलोक बनेगा और
शोकाकुल बुद्धि के कारण न ही परलोक ही बनेगा ॥ ५२ ॥
सोन्दरनन्द महाकाव्य में 'नन्द-विलाप' नामक सप्तम सर्ग समाप्त ॥ ७ ॥

अष्टमः सर्गः
स्त्री-विघ्नः
साथ छोड़ देता विवेक, जब प्राणों में पलती प्यारी ।
बाधा बन ऊपर उठने की राह रोक देती नारी ॥
अथ नन्दमधीरलोचनं गृहयानोत्सुकमुत्सुकोत्सुकम् ।
अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया ॥ १ ॥
अन्वयः—अथ कश्चित् श्रमणः अधीरलोचनं गृहयानोत्सुकम् उत्सुकोत्सुकं नन्दम्
अभिगम्य शिवेन चक्षुषा मैत्रया उवाच ॥ १ ॥
व्याख्या—सर्गारम्भे अथेति। अथ = तदनन्तरम्, कश्चित् = कोऽपि, श्रमणः =
भिक्षुः, अधीरलोचनम्—अधीरे= चञ्चले, लोचने = नयने, यस्य तम्, गृहयानोत्सुकम्—
गृहस्य = सदनस्य, यानाय = गमनाय, उत्सुकः = उत्कण्ठितस्तम्, उत्सुकोत्सुकम्—
उत्सुकेन = उत्कण्ठया, उत्सुकः = व्याकुलस्तम्, नन्दम् = बुद्धानुजम्, अभिगम्य = समीपं
गत्वा, शिवेन = कल्याणकारिणा, चक्षुषा = नेत्रेण, मैत्रया = सौहृदेन, उवाच =
जगाद ॥ १ ॥
हिन्दी—फिर नन्द की आँखें अधीर थीं और उत्सुकता से वह व्याकुल था ।
मंगलमयी आँखों से देखते हुए किसी भिक्षु ने मैत्रीपूर्वक उसे कहा ॥ १ ॥
किमिदं मुखमश्रुदुर्दिनं हृदयस्थं विवृणोति ते तमः ।
धृतिमेहि नियच्छ विक्रियां न हि बाष्पञ्च शमञ्च शोभते ॥ २ ॥
अन्वयः—ते इदं किम् ? हृदयस्थं तमः अश्रुदुर्दिनं मुखं विवृणोति धृतिम् एहि
विक्रियां नियच्छ; हि बाष्पञ्च शमञ्च न शोभते ॥ २ ॥
व्याख्या—ते = तव, इदम्=एतत्, किमिति प्रश्ने ? हृदयस्थम् = हृदि वर्त्तमानम्,
तमः = मोहः, अश्रुदुर्दिनम् = नयनाम्बुप्लावितम्, मुखम् = आननम्, विवृणोति =
व्यनक्ति, धृतिम् = धैर्यम्, एहि = प्राप्नुहि, विक्रियाम् = मनोवेगम्, नियच्छ = निरुद्ध,
हि = यतः, वाष्पञ्च = नयनजलञ्च, शमञ्च = शान्तिञ्च, युगपद्, न = नहि, शोभते =
विभाति ॥ २ ॥
हिन्दी—तुम्हारा आँसुओं से भींगा हुआ यह मुँह तुम्हारे मन के मैल को व्यक्त
कर रहा है। धीरज धरो और मनोवेग को रोको, क्योंकि आँसू और शान्ति एक
साथ नहीं शोभते ॥ २ ॥
द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।
श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः ॥ ३ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १४७
अन्वयः—नियतं वेदना द्विविधा समुदेति चेतसि देहे एव च तयोः चिकित्सकाः
श्रुतविध्युपचारकोविदाः द्विविधाः एव ॥ ३ ॥
व्याख्या—नियतम्=निश्चितम्, वेदना = पीडा, द्विविधा = द्विप्रकारिका, समुदेति=
समुत्पन्नो भवति, चेतसि = चित्ते, देहे = शरीरे, एव च = अपि च, तयोः = द्विविधयोः
पीडयोः, चिकित्सकाः=भिषजः, श्रुतिविध्युपचारकोविदः=शास्त्रविध्युपचारविधि-
वेत्तारः, द्विविधाः = द्विप्रकारका एवेति ॥ ३ ॥
हिन्दी-निश्चित रूप से पीड़ा दो तरह की होती है—मानसिक और शारीरिक ।
इनके दो तरह के चिकित्सक भी होते हैं—शास्त्रज्ञ और वैद्य ॥ ३ ॥
तदियं यदि कायिकी रुजा भिषजे तूर्णमनूनमुच्यताम् ।
विनिगुह्य हि रोगमातुरो नचिरात् तीव्रमनर्थमृच्छति ॥ ४ ॥
अन्वयः—तत् यदि इयं कायिकी रुजा नूनं भिषजे तूर्णम् उच्यताम्, हि आतुरः
रोगं विनिगुह्य नचिरात् तीव्रम् अनर्थम् ऋच्छति । ४ ॥
व्याख्या-तत् = तस्मात्, यदि = चेत्, इयम् = एषा, कायिकी = दैहिकी, रुजा =
रोगः, नूनम् = तर्हि निश्चयेन, भिषजे = उपचारकर्त्रे, तूर्णम् = पूर्णम्, उच्यताम् =
कथ्यताम्, हि = यतः, आतुरः = रोगापन्नः, रोगम् = रुजम्, विनिगुह्य = गोपयित्वा,
नचिरात् = शीघ्रम्, तीव्रम् = घोरम्, अनर्थम् = विपदम्, ऋच्छति = याति ॥ ४ ॥
हिन्दी—तो फिर, यदि यह दैहिक दुःख है तो शीघ्र वैद्य से मिलकर उन्हें पूरा
विवरण बतला दो, क्योंकि रोग छिपाकर रोगी घोर अनर्थ करता है ॥ ४ ॥
अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम् ।
मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः ॥ ५ ॥
अन्वयः—अथ इदं दुःखं मनोमयं ( तर्हि ) वद यत् अत्र भेषजं वक्ष्यामि, हि
रजस्तमस्विनः मनसः भिषजः अध्यात्मविदः परीक्षकाः ( सन्ति ) ॥ ५ ॥
व्याख्या-अथ = यदि, इदम् = एतत्, दुःखम् = कष्टम्, मनोमयम् = मानसिकम्,
तर्हि वद = कथय, यत् = यस्मात्, अत्र = अस्मिन् विषये, भेषजम् = औषधम्, वक्ष्यामि =
कथयिष्यामि, हि = यतः, रजस्तमस्विनः = रजस्तमोगुणयुक्तस्य, मनसः = चेतसः,
भिषजः = उपचारकर्त्तारः, अध्यात्मविदः-आत्मनि इति अध्यात्मम्, तद् वेत्तीति
अध्यात्मविद = आत्मज्ञानिनः, परीक्षकाः = परीक्षाकर्त्तारो भवन्ति ॥ ५ ॥
हिन्दी—और यदि यह मानसिक रोग है तो फिर कहो, यहां उपलब्ध जो औषधि
होगी उसे बतलाऊँगा, क्योंकि रज और तम से युक्त चित्त के चिकित्सक होते हैं और
अध्यात्म को जाननेवाले दार्शनिक होते हैं ॥ ५ ॥
निखिलेन च सत्यमुच्यतां यदि वाच्यं मयि सौम्य मन्यसे ।
गंतयो विविधा हि चेतसां बहुगुह्यानि महाकुलानि च ॥ ६ ॥

१४८ सौन्दरनन्द महाकाव्यम्
अन्वयः—सौम्य ! यदि मयि वाच्यं मन्यसे च निखिलेन सत्यम् उच्यताम्, हि
चेतसां गतयः विविधाः बहुगुह्यानि च महाकुलानि ॥ ६ ॥
व्याख्या—सौम्य = हे भद्र ! यदि = चेत्, मयि = भिक्षौ, वाच्यम् = कथनीयम्,
मन्यसे = ज्ञायसे, च = तर्हि, निखिलेन = अखिलेन, सत्यम् = तत्त्वम्, उच्यताम् =
कथ्यताम्. हि = यतः, चेतसां = मनसां, गतयः = गमनानि, विविधाः = बहुविधाः,
बहुगुह्यानि = अतिगोप्यानि, च = पुनः, महाकुलानि -- महान्ति च आकुलानि च
महाकुलानि = अतिव्याकुलानि भवन्ति। मानवीयचित्तानि बहुविधानि भवन्ति।
तेष्वतिगोपनीयाः वार्त्ताः भवन्ति, याश्चातिकष्टप्रदाः भवन्ति ॥ ६ ॥
हिन्दी—हे भद्र ! मुझसे कहने योग्य यदि तुम मानते हो तो सारी बातें सच-सच
बतला दो, क्योंकि मन की गति अनेक हैं, जिनमें अत्यन्त गोपनीयता और अति-
व्याकुलता होती है ॥ ६ ॥
इति तेन स चोदितस्तदा व्यवसायं प्रविवक्षुरात्मनः ।
अवलम्ब्य करे करेण तं प्रविवेशान्यतरद्वनान्तरम् ॥ ७ ॥
अन्वयः—तदा तेन इति चोदितः सः आत्मनः व्यवसायं प्रविवक्षुः करेण करम्
अवलम्ब्य तम् अन्यतरत् वनान्तरं प्रविवेश ॥ ७ ॥
व्याख्या—तदा = तस्मिन् काले, तेन = बौद्धभिक्षुना, इति = इत्थम्, चोदितः =
प्रेरितः, सः = नन्दः, आत्मनः = स्वकीयस्य, व्यवसायम् = निश्चयम्, प्रविवक्षुः = कथ-
यितुमिच्छुः, करेण = हस्तेन, करम् = भिक्षुहस्तम्, अवलम्ब्य = गृहीत्वा, तम् = साधुम्,
अन्यतरत् = अपरम्, वनान्तरम् = वनस्य अन्तरं वनान्तरम् = तस्मिन्नेव वनस्यान्य-
भागम्, प्रविवेश = प्रवेशयामास ॥ ७ ॥
हिन्दी—इसके बाद उस बौद्ध भिक्षु की प्रेरणा पाकर, उसे मन की सारी बातें
बतला देने की इच्छा से उस बौद्ध भिक्षु का हाथ अपने हाथ में लेकर उस वन के
दूसरे भाग में चला गया ॥ ७ ॥
अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः ।
मृदुभिर्मृदुमारुतेरितैरुपगूढाविव बालपल्लवैः ॥ ८ ॥
अन्वयः—अथ तत्र कुसुमोद्गारिणि शुचौ लतागृहे तौ निषेदतुः मृदुमारुतेरितैः
मृदुभिः बालपल्लवैः उपगूढौ इव ॥ ८ ॥
व्याख्या—अथ = अनन्तरम्, तत्र = तस्मिन् स्थाने, कुसुमोद्गारिणि—कुसुमानि
= पुष्पाणि, उद्गिरन्ति = वर्षन्ति, अस्मिन्निति, शुचौ = पवित्रे, लतागृहे = लतामण्डपे,
तौ = नन्दभिक्षू, निषेदतुः = उपविवेशतुः, मृदुमारुतेरितैः-मृदुभिः = मन्दैः, मारुतैः =
पवनैः, ईरितैः = प्रेरितैः इति, बालपल्लवैः = नूतनकिसलयैः, उपगूढौ = आलिङ्गितौ,
इव = यथेति ॥ ८ ॥
हिन्दी—इसके बाद फूल बरसाने वाली लता के मंडपों में वे दोनों बैठ गये। उस
पवित्र स्थान में मंद वायु से हिलते कोमल कोपलों ने उनका आलिङ्गन किया ॥ ८ ॥

स्त्री-विघ्नः ] अष्टमः सर्गः १४९
स जगाद ततश्चिकीर्षितं घननिःश्वासगृहीतमन्तरा ।
श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥ ९ ॥
अन्वयः—ततः सः घननिःश्वासगृहीतम् अन्तरा श्रुतवाग्विशदाय भिक्षवे
प्रव्रजितेन विदुषा दुर्वचं चिकीर्षितं जगाद ॥ ९ ॥
व्याख्या—ततः = तदनन्तरम्, सः = नन्दः, घननिःश्वासगृहीतम् = घनेन =
सघनेन, निःश्वासेन = उच्छ्वासेन, गृहीतम् = अधिगतम्, अन्तरा = मध्ये-मध्ये,
श्रुतवाग्विशदाय—श्रुतञ्च = शास्त्रञ्च, वाक् च = वाणी च, तयोः विशदः = निपुणः,
तस्मिन् भिक्षवे = साधवे, प्रव्रजितेन = भिक्षुना, विदुषा = कोविदेन, दुर्वचम् =
अकथ्यकथनम्, चिकीर्षितम् = कर्तुमिच्छतम्, जगाद = उवाच ॥ ९ ॥
हिन्दी—इसके बाद एक लम्बी उसांस लेकर शास्त्र और वाणी में अत्यन्त पटु
उस भिक्षु ने वह कहा, जो एक विद्वान् भिक्षु से कठिनाई से कहा जा सकता है ॥९॥
सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।
अधृतौ यदिदं हितैषिता मयि ते स्यात् करुणात्मनः सतः ॥ १० ॥
अन्वयः—यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः करुणात्मनः सतः ते यदिदं
हितैषिता अधृतौ मयि सदृशम् ॥ १० ॥
व्याख्या—यदि = चेत्, धर्मचारिणः = धर्मपरायणस्य, सततम् = प्रतिपलम्, प्राणिषु =
जीवेषु, मैत्रचेतसः—मैत्रम् = सौहृदम्, चेतः = हृदयम्, यस्य तस्य, करुणात्मनः—
करुणम् = दयार्द्रम्, आत्मा = जीवः, यस्य सः, सतः = श्रीमतः, ते = तव, यदिदम् =
यदेषा, हितैषिता—हितस्य = लाभदायकस्य, एषिता = इच्छा, अधृतौ = अधैर्य-
शालिनि, मयि = नन्दे, तत् सदृशम् = समीचीनमेव ॥ १० ॥
हिन्दी—यद्यपि आप सतत धर्माचारी हैं, सभी प्राणियों के प्रति आपके मैत्री
भाव हैं, आप परम दयालु हैं, मेरे जैसे अधीर लोगों के सच्चे हितैषी हैं ॥ १० ॥
अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।
न हि भावमिमं चलात्मने कथयेयं ब्रुवतेऽप्यसाधवे ॥ ११ ॥
अन्वयः—अत एव क्षमवादिनि त्वयि मे विशेषतः प्रविवक्षा हि चलात्मने
असाधवे ब्रुवते अपि इमं भावं न कथयेयम् ॥ ११ ॥
व्याख्या—अत एव = अतश्च, क्षमवादिनि—क्षमम् = समुचितम्, वक्तुम् =
वदितुम्, शीलम् = स्वभावम्, अस्येति तस्मिन्, त्वयि = भवति, मे = मम, विशेषतः =
प्रधानतः, प्रविवक्षा = वक्तुमिच्छा, हि = यतः, चलात्मने—चलः = चपलः, आत्मा =
चेतनः, यस्य तस्मै, असाधवे = दुर्जनाय, ब्रुवते = वक्त्रे, अपि = अवश्यम्, इमम् =
अमुम्, भावम् = मनोविकारम्, न = नहि, कथयेयम् = वदेयम् ॥ ११ ॥
हिन्दी—और फिर इसलिए भी कि आप एक उचित वक्ता हैं, अतः खासकर
आपको अपनी राम-कहानी सुनाना चाहता हूँ, क्योंकि वक्ता होने के बावजूद जिसका
मन चंचल है और दुष्ट है उसे मैं अपने मन की बात नहीं कह सकता ॥११॥