सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 196, कुल 496 में से
संदर्भ में पढ़ें१४२ सौन्दरनन्दं महाकाव्यम्
व्याख्या-स्त्रीसङ्गमे = भार्यया सह सम्भोगकरणे, नूनम् = निश्चयेन, मृत्युम्
= मरणम्, अवाप्स्यसि = प्राप्स्यसि, इति = इत्थम्, मदनेन = कामेन, शप्तः = शापयुक्तः,
पाण्डुः = नृपपाण्डुः, माद्रीम् = एतदाख्यां स्वपत्नीम्, जगाम = अगच्छत्, महर्षिशापात् =
मदनशापात्, असेव्यसेवी-न = नहि, सेवितुम् = गन्तुं योग्यः, असेव्यः, असेव्यं सेवते
इति असेव्यसेवी = अभोग्यभोगी, सः = पाण्डुः, मृत्युम् = मरणम्, न = नहि, विममर्श
= चिन्तयामासेति ॥ ४५ ॥
हिन्दी—'नारी-संगम से तुम्हारी मौत निश्चित है' मदन के ऐसे शाप के बावजूद
पाण्डु ने माद्री के साथ रमण किया। उस असेव्यसेवी ने कामवश मृत्यु का भी
ख्याल नहीं किया ॥ ४५ ॥
एवंविधा देवनृपर्षिसङ्घाः स्त्रीणां वशं कामवशेन जग्मुः ।
धिया च सारेण दुर्बलः सन्प्रियामपश्यन् किमु विक्लवोऽहम् ॥ ४६ ॥
अन्वयः—एवंविधा देवनृपर्षिसङ्घाः कामवशेन स्त्रीणां वशं जग्मुः, धिया च
सारेण च दुर्बलः सन् प्रियाम् अपश्यन् अहं विक्लवः किमु ? ॥ ४६ ॥
व्याख्या—एवंविधा = अनेन प्रकारेण, देवनृपर्षिसङ्घाः—देवाः = सुराः, नृपाश्च =
राजानश्च, देवनृपाः, ते च ऋषयः = मुनयः, तेषां सङ्घाः = समूहाः, कामवशेन =
मदनाधीनेन, स्त्रीणाम् = नारीणाम्, वशम् = अधीनताम्, जग्मुः = अगच्छन्, धिया =
बुद्धया, च = पुनः, सारेण = बलेन, च = पुनः, दुर्बलः सन् = अशक्तः सन्, प्रियाम् =
दयिताम्, अपश्यन् = अनवलोकयन्, अहम् = नन्दः, विक्लवः = विह्वलः किमु ? ॥ ४६ ॥
हिन्दी—इस प्रकार देवर्षियों और राजर्षियों के समूह कामार्त्त होकर स्त्रियों के
वशवर्त्ती बने, तो फिर बुद्धि और बल से हीन मेरे जैसे लोग प्रियाविरह से विह्वल
हो रहा है तो उसमें आश्चर्य ही क्या है ? ॥ ४६ ॥
यास्यामि तस्माद् गृहमेव भूयः कामं करिष्ये विधिवत् सकामम् ।
न ह्यन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच्च्युतस्य ॥ ४७ ॥
अन्वयः—तस्माद् भूयः गृहम् एव यास्यामि, विधिवत् सकामं कामं करिष्ये, हि
अन्यचित्तस्य चलेन्द्रियस्य धर्मपथाच्च्युतस्य लिङ्गं न क्षमम् ॥ ४७ ॥
व्याख्या-तस्मात् = तेन हेतुना, भूयः = पुनः, गृहमेव = सदनमेव, यास्यामि =
गमिष्यामि, विधिवत् = यथाविधि, सकामम् = इच्छानुसारम्, कामम् = विषयोपभोगम्,
करिष्ये = विधास्यामि, हि = यतः, अन्यचित्तस्य-अन्यस्मिन् = अपरस्मिन्, चित्तम् =
हृदयम्, यस्य = अन्यमनस्कस्य, चलेन्द्रियस्य—चलानि = चञ्चलानि, इन्द्रियाणि =
करणानि, यस्य तस्य, धर्मपथाच्च्युतस्य—धर्मस्य = सत्कर्मणः, पथः = मार्गः, तस्मात्
च्युतस्य = भ्रष्टस्य, लिङ्गम् = भिक्षुवेषम्, न = नहि, क्षमम् = उचितमिति ॥ ४७ ॥
हिन्दी—अतः अब मैं घर ही लौट जाऊँगा, फिर विधिपूर्वक यथेच्छ विषयोपभोग
करूँगा; क्योंकि जो अन्यमनस्क है, जिसकी इन्द्रियाँ चञ्चल हैं, धर्मपथ से जो च्युत
है, उसके लिए यह भिक्षु-वेष उचित नहीं है ॥ ४७ ॥