सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 203, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 203

स्त्री-विघ्नः ] अष्टमः सर्गः १४९
स जगाद ततश्चिकीर्षितं घननिःश्वासगृहीतमन्तरा ।
श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम् ॥ ९ ॥
अन्वयः—ततः सः घननिःश्वासगृहीतम् अन्तरा श्रुतवाग्विशदाय भिक्षवे
प्रव्रजितेन विदुषा दुर्वचं चिकीर्षितं जगाद ॥ ९ ॥
व्याख्या—ततः = तदनन्तरम्, सः = नन्दः, घननिःश्वासगृहीतम् = घनेन =
सघनेन, निःश्वासेन = उच्छ्वासेन, गृहीतम् = अधिगतम्, अन्तरा = मध्ये-मध्ये,
श्रुतवाग्विशदाय—श्रुतञ्च = शास्त्रञ्च, वाक् च = वाणी च, तयोः विशदः = निपुणः,
तस्मिन् भिक्षवे = साधवे, प्रव्रजितेन = भिक्षुना, विदुषा = कोविदेन, दुर्वचम् =
अकथ्यकथनम्, चिकीर्षितम् = कर्तुमिच्छतम्, जगाद = उवाच ॥ ९ ॥
हिन्दी—इसके बाद एक लम्बी उसांस लेकर शास्त्र और वाणी में अत्यन्त पटु
उस भिक्षु ने वह कहा, जो एक विद्वान् भिक्षु से कठिनाई से कहा जा सकता है ॥९॥
सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।
अधृतौ यदिदं हितैषिता मयि ते स्यात् करुणात्मनः सतः ॥ १० ॥
अन्वयः—यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः करुणात्मनः सतः ते यदिदं
हितैषिता अधृतौ मयि सदृशम् ॥ १० ॥
व्याख्या—यदि = चेत्, धर्मचारिणः = धर्मपरायणस्य, सततम् = प्रतिपलम्, प्राणिषु =
जीवेषु, मैत्रचेतसः—मैत्रम् = सौहृदम्, चेतः = हृदयम्, यस्य तस्य, करुणात्मनः—
करुणम् = दयार्द्रम्, आत्मा = जीवः, यस्य सः, सतः = श्रीमतः, ते = तव, यदिदम् =
यदेषा, हितैषिता—हितस्य = लाभदायकस्य, एषिता = इच्छा, अधृतौ = अधैर्य-
शालिनि, मयि = नन्दे, तत् सदृशम् = समीचीनमेव ॥ १० ॥
हिन्दी—यद्यपि आप सतत धर्माचारी हैं, सभी प्राणियों के प्रति आपके मैत्री
भाव हैं, आप परम दयालु हैं, मेरे जैसे अधीर लोगों के सच्चे हितैषी हैं ॥ १० ॥
अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।
न हि भावमिमं चलात्मने कथयेयं ब्रुवतेऽप्यसाधवे ॥ ११ ॥
अन्वयः—अत एव क्षमवादिनि त्वयि मे विशेषतः प्रविवक्षा हि चलात्मने
असाधवे ब्रुवते अपि इमं भावं न कथयेयम् ॥ ११ ॥
व्याख्या—अत एव = अतश्च, क्षमवादिनि—क्षमम् = समुचितम्, वक्तुम् =
वदितुम्, शीलम् = स्वभावम्, अस्येति तस्मिन्, त्वयि = भवति, मे = मम, विशेषतः =
प्रधानतः, प्रविवक्षा = वक्तुमिच्छा, हि = यतः, चलात्मने—चलः = चपलः, आत्मा =
चेतनः, यस्य तस्मै, असाधवे = दुर्जनाय, ब्रुवते = वक्त्रे, अपि = अवश्यम्, इमम् =
अमुम्, भावम् = मनोविकारम्, न = नहि, कथयेयम् = वदेयम् ॥ ११ ॥
हिन्दी—और फिर इसलिए भी कि आप एक उचित वक्ता हैं, अतः खासकर
आपको अपनी राम-कहानी सुनाना चाहता हूँ, क्योंकि वक्ता होने के बावजूद जिसका
मन चंचल है और दुष्ट है उसे मैं अपने मन की बात नहीं कह सकता ॥११॥