सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 201, कुल 496 में से
संदर्भ में पढ़ेंस्त्री-विघ्नः ] अष्टमः सर्गः १४७
अन्वयः—नियतं वेदना द्विविधा समुदेति चेतसि देहे एव च तयोः चिकित्सकाः
श्रुतविध्युपचारकोविदाः द्विविधाः एव ॥ ३ ॥
व्याख्या—नियतम्=निश्चितम्, वेदना = पीडा, द्विविधा = द्विप्रकारिका, समुदेति=
समुत्पन्नो भवति, चेतसि = चित्ते, देहे = शरीरे, एव च = अपि च, तयोः = द्विविधयोः
पीडयोः, चिकित्सकाः=भिषजः, श्रुतिविध्युपचारकोविदः=शास्त्रविध्युपचारविधि-
वेत्तारः, द्विविधाः = द्विप्रकारका एवेति ॥ ३ ॥
हिन्दी-निश्चित रूप से पीड़ा दो तरह की होती है—मानसिक और शारीरिक ।
इनके दो तरह के चिकित्सक भी होते हैं—शास्त्रज्ञ और वैद्य ॥ ३ ॥
तदियं यदि कायिकी रुजा भिषजे तूर्णमनूनमुच्यताम् ।
विनिगुह्य हि रोगमातुरो नचिरात् तीव्रमनर्थमृच्छति ॥ ४ ॥
अन्वयः—तत् यदि इयं कायिकी रुजा नूनं भिषजे तूर्णम् उच्यताम्, हि आतुरः
रोगं विनिगुह्य नचिरात् तीव्रम् अनर्थम् ऋच्छति । ४ ॥
व्याख्या-तत् = तस्मात्, यदि = चेत्, इयम् = एषा, कायिकी = दैहिकी, रुजा =
रोगः, नूनम् = तर्हि निश्चयेन, भिषजे = उपचारकर्त्रे, तूर्णम् = पूर्णम्, उच्यताम् =
कथ्यताम्, हि = यतः, आतुरः = रोगापन्नः, रोगम् = रुजम्, विनिगुह्य = गोपयित्वा,
नचिरात् = शीघ्रम्, तीव्रम् = घोरम्, अनर्थम् = विपदम्, ऋच्छति = याति ॥ ४ ॥
हिन्दी—तो फिर, यदि यह दैहिक दुःख है तो शीघ्र वैद्य से मिलकर उन्हें पूरा
विवरण बतला दो, क्योंकि रोग छिपाकर रोगी घोर अनर्थ करता है ॥ ४ ॥
अथ दुःखमिदं मनोमयं वद वक्ष्यामि यदत्र भेषजम् ।
मनसो हि रजस्तमस्विनो भिषजोऽध्यात्मविदः परीक्षकाः ॥ ५ ॥
अन्वयः—अथ इदं दुःखं मनोमयं ( तर्हि ) वद यत् अत्र भेषजं वक्ष्यामि, हि
रजस्तमस्विनः मनसः भिषजः अध्यात्मविदः परीक्षकाः ( सन्ति ) ॥ ५ ॥
व्याख्या-अथ = यदि, इदम् = एतत्, दुःखम् = कष्टम्, मनोमयम् = मानसिकम्,
तर्हि वद = कथय, यत् = यस्मात्, अत्र = अस्मिन् विषये, भेषजम् = औषधम्, वक्ष्यामि =
कथयिष्यामि, हि = यतः, रजस्तमस्विनः = रजस्तमोगुणयुक्तस्य, मनसः = चेतसः,
भिषजः = उपचारकर्त्तारः, अध्यात्मविदः-आत्मनि इति अध्यात्मम्, तद् वेत्तीति
अध्यात्मविद = आत्मज्ञानिनः, परीक्षकाः = परीक्षाकर्त्तारो भवन्ति ॥ ५ ॥
हिन्दी—और यदि यह मानसिक रोग है तो फिर कहो, यहां उपलब्ध जो औषधि
होगी उसे बतलाऊँगा, क्योंकि रज और तम से युक्त चित्त के चिकित्सक होते हैं और
अध्यात्म को जाननेवाले दार्शनिक होते हैं ॥ ५ ॥
निखिलेन च सत्यमुच्यतां यदि वाच्यं मयि सौम्य मन्यसे ।
गंतयो विविधा हि चेतसां बहुगुह्यानि महाकुलानि च ॥ ६ ॥