सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 200, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 200

अष्टमः सर्गः
स्त्री-विघ्नः
साथ छोड़ देता विवेक, जब प्राणों में पलती प्यारी ।
बाधा बन ऊपर उठने की राह रोक देती नारी ॥
अथ नन्दमधीरलोचनं गृहयानोत्सुकमुत्सुकोत्सुकम् ।
अभिगम्य शिवेन चक्षुषा श्रमणः कश्चिदुवाच मैत्रया ॥ १ ॥
अन्वयः—अथ कश्चित् श्रमणः अधीरलोचनं गृहयानोत्सुकम् उत्सुकोत्सुकं नन्दम्
अभिगम्य शिवेन चक्षुषा मैत्रया उवाच ॥ १ ॥
व्याख्या—सर्गारम्भे अथेति। अथ = तदनन्तरम्, कश्चित् = कोऽपि, श्रमणः =
भिक्षुः, अधीरलोचनम्—अधीरे= चञ्चले, लोचने = नयने, यस्य तम्, गृहयानोत्सुकम्—
गृहस्य = सदनस्य, यानाय = गमनाय, उत्सुकः = उत्कण्ठितस्तम्, उत्सुकोत्सुकम्—
उत्सुकेन = उत्कण्ठया, उत्सुकः = व्याकुलस्तम्, नन्दम् = बुद्धानुजम्, अभिगम्य = समीपं
गत्वा, शिवेन = कल्याणकारिणा, चक्षुषा = नेत्रेण, मैत्रया = सौहृदेन, उवाच =
जगाद ॥ १ ॥
हिन्दी—फिर नन्द की आँखें अधीर थीं और उत्सुकता से वह व्याकुल था ।
मंगलमयी आँखों से देखते हुए किसी भिक्षु ने मैत्रीपूर्वक उसे कहा ॥ १ ॥
किमिदं मुखमश्रुदुर्दिनं हृदयस्थं विवृणोति ते तमः ।
धृतिमेहि नियच्छ विक्रियां न हि बाष्पञ्च शमञ्च शोभते ॥ २ ॥
अन्वयः—ते इदं किम् ? हृदयस्थं तमः अश्रुदुर्दिनं मुखं विवृणोति धृतिम् एहि
विक्रियां नियच्छ; हि बाष्पञ्च शमञ्च न शोभते ॥ २ ॥
व्याख्या—ते = तव, इदम्=एतत्, किमिति प्रश्ने ? हृदयस्थम् = हृदि वर्त्तमानम्,
तमः = मोहः, अश्रुदुर्दिनम् = नयनाम्बुप्लावितम्, मुखम् = आननम्, विवृणोति =
व्यनक्ति, धृतिम् = धैर्यम्, एहि = प्राप्नुहि, विक्रियाम् = मनोवेगम्, नियच्छ = निरुद्ध,
हि = यतः, वाष्पञ्च = नयनजलञ्च, शमञ्च = शान्तिञ्च, युगपद्, न = नहि, शोभते =
विभाति ॥ २ ॥
हिन्दी—तुम्हारा आँसुओं से भींगा हुआ यह मुँह तुम्हारे मन के मैल को व्यक्त
कर रहा है। धीरज धरो और मनोवेग को रोको, क्योंकि आँसू और शान्ति एक
साथ नहीं शोभते ॥ २ ॥
द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।
श्रुतविध्युपचारकोविदा द्विविधा एव तयोश्चिकित्सकाः ॥ ३ ॥