सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
नन्ददीक्षा ] पञ्चमः सर्गः ९३
सन्, च = पुनः, चक्राङ्किततलेन -- चक्रस्य = विष्णोः अस्मभेदस्य, अङ्कः = चिह्नम्, तेन
युक्तं तलम् = प्रहस्तम्, तेन = चक्रचिह्नितकराग्रेण, करेण = हस्तेन, मूर्ध्नि = शिरसि,
पस्पर्श = स्पृष्टवान्, एनम् = नन्दम्, इदम् = एतत्, उवाच = जगाद ॥ २१ ॥
हिन्दी — तब परम दयालु बुद्ध ने उस तरह दुःखी नन्द को पल भर देखकर
दयापूर्वक चक्रचिह्नित अपनी हथेली उसके शिर पर रख दिया ॥ २१ ॥
यावन्न हिंस्रः समुपैति कालः शमाय तावत् कुरु सौम्य ! बुद्धिम् ।
सर्वास्ववस्थास्विह वर्तमानं सर्वाभिसारेण निहन्ति मृत्युः ॥२२॥
अन्वयः-सौम्य ! यावत् हिंस्रः कालः न समुपैति तावत् बुद्धिं शमाय कुरु, इह
सर्वासु अवस्थासु वर्त्तमानं मृत्युः सर्वाभिसारेण निहन्ति ॥ २२ ॥
व्याख्या-सौम्य = हे प्रियदर्शन ! यावत् = यावत्कालपर्यन्तम्, हिंस्रः = घातकः,
कालः = समयः, न = नहि, समुपैति = सम्यक्प्रकारेणायाति, तावत् = तावदेव कालम्,
बुद्धिम् = मतिम्, शमाय = शान्तये, कुरु = विधेहि, यतो हि-इह = संसारे, सर्वासु =
सकलासु, अवस्थासु = दशासु, वर्त्तमानम् = विद्यमानाम्, मृत्युः = अन्तकः,
सर्वाभिसारेण-सर्वः = सकलश्चासौ, अभिसारः = निश्चितस्थाने गमनम्, तेन निहन्ति =
हिनस्ति । अस्मिन् मर्त्यलोके सर्वेषां मृत्युर्निश्चितमेवेत्यस्मिन् विषये नन्दस्य ध्यानाकृष्टं
करोति भगवान् बुद्ध इति ॥ २२ ॥
हिन्दी-हे प्रियदर्शन ! जब तक यह घातक काल पास नहीं आ टपकता तब
तक अपनी बुद्धि को शान्ति में संलग्न करो, क्योंकि इस संसार में हर स्थिति में
रहने वाले लोगों को मौत हर तरह से दबोच लेती है ॥ २२ ॥
साधारणात् स्वप्ननिभादसारेल्लोलं मनः कामसुखान्नियच्छ ।
हव्यैरिवाग्नेः पवनेरितस्य लोकस्य कामैर्न हि तृप्तिरस्ति ॥ २३ ॥
अन्वयः-स्वप्ननिभात् असारात् साधारणात् कामसुखात् लोलं मनः नियच्छ, हि
पवनेरितस्य अग्नेः हव्यैः इव लोकस्य कामैः तृप्तिः नास्ति ॥ २३ ॥
व्याख्या-स्वप्ननिभात्-स्वप्नस्य = स्वापस्य, निभः = समानः, तस्मात्
प्रसुप्तज्ञानसदृशात्, असारात् = सारहीनात्, साधारणात् = सर्वसाधारणोपभोग्यात्,
कामसुखात् = विषयानन्दात्, लोलम् = चपलम्, मनः = चित्तम्, नियच्छ = निवारणं
कुरु, हि=यतः, पवनेरितस्य-पवनेन = वायुना, ईरितः = प्रेरितस्तस्य वातेनोत्तेजितस्य,
अग्नेः = वह्नेः, हव्यैः = घृतादि आहवनीयद्रव्यैः, इव = यथा, लोकस्य = संसारस्य,
कामैः = विषयोपभोगैः, तृप्तिः = सन्तुष्टिः, नास्ति = न भवति । भगवद्गीतायामपि
अस्य श्लोकस्य भावसाम्यं दर्शनीयमस्ति-
'न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मव भूय एवाभिवर्द्धते ॥'
हिन्दी-सपने की तरह सारहीन तथा सर्वसाधारणोपभोग्य इस विषयानन्द की
ओर भटकते अपने इस चंचल मन को रोको, क्योंकि पवन-प्रेरित आग की तृप्ति घ
सौ०-10
Here is the complete transcription of the text from the image, line by line:
९४ सौन्दरनन्दं महाकाव्यम्
की आहुति से कभी नहीं होती, ठीक उसी प्रकार विषयानन्द से मन सन्तुष्ट नहीं
होता ॥ २३ ॥
श्रद्धाधनं श्रेष्ठतमं धनेभ्यः प्रज्ञारसस्तृप्तिकरो रसेभ्यः ।
प्रधानमध्यात्मसुखं सुखेभ्योऽविद्यारतिर्दुःखतमारतिभ्यः ॥ २४ ॥
अन्वयः—धनेभ्यः श्रद्धाधनं श्रेष्ठतमं रसेभ्यः प्रज्ञारसः तृप्तिकरः सुखेभ्यः
अध्यात्मसुखं प्रधानम् अरतिभ्यः अविद्ययारतिः दुःखतमा ॥ २४ ॥
व्याख्या—धनेभ्यः = सम्पद्भ्यः, श्रद्धाधनम् = आस्थाधनम्, श्रेष्ठतमम् = सर्वोत्कृ-
ष्टम्, रसेभ्यः = आस्वादेभ्यः, प्रज्ञारसः = ज्ञानरसः, सदसद्विवेकिनी बुद्धिरेव प्रज्ञा भवति,
प्रज्ञातत्त्वेनोत्पन्नरस एव तृप्तिकरो भवति। तृप्तिकरः = आनन्ददायको भवति, सुखेभ्यः =
आनन्देभ्यः, अध्यात्मसुखम् = आत्मसुखम्, प्रधानम् = मुख्यम्, अरतिभ्यः = दुःखेभ्यः,
अविद्ययारतिः = अज्ञानजन्यदुःखम्, दुःखतमा = सर्वातिशयकष्टप्रदा भवति ॥ २४ ॥
हिन्दी—धनों में श्रद्धा रूपी धन ही सर्वोत्कृष्ट है। रसों में प्रज्ञारस ही तृप्तिकर
है। सुखों में अध्यात्म सुख ही मुख्य सुख है और दुःखों में अविद्यारूपी दुःख ही
सर्वाधिक दुःखदायी है ॥ २४ ॥
हितस्य वक्ता प्रवरः सुहृद्भ्यो धर्माय खेदो गुणवान् श्रमेभ्यः ।
ज्ञानाय कृत्यं परमं क्रियाभ्यः किमिन्द्रियाणामुपगम्य दास्यम् ॥ २५ ॥
अन्वयः—हितस्य वक्ता सुहृद्भ्यः प्रवरः धर्माय खेदः श्रमेभ्यः गुणवान् ज्ञानाय
कृत्यं क्रियाभ्यः परमम् इन्द्रियाणां दास्यम् उपगम्य किम् ? ॥ २५ ॥
व्याख्या—हितस्य = लाभदायकस्य, वक्ता = उपदेष्टा, सुहृद्भ्यः = सखिभ्यः,
प्रवरः = श्रेष्ठः, धर्माय खेदः = धर्माय कृतश्रमः, श्रमेभ्यः = परिश्रमेभ्यः, गुणवान् = दक्षः,
ज्ञानाय = बोधाय, कृत्यम् = कार्यम्, क्रियाभ्यः = कर्मेभ्यः, परमम् = उत्तमम्,
इन्द्रियाणाम् = विषायिणाम्, दास्यम् = सेवकत्वम्, उपगम्य = समीपमागत्य, किम् = न
किमपि भवतीति भावः । बुद्धस्य कथनमिदं नीतिपरकमध्यात्मकोन्मुखञ्चास्ति ॥२५॥
हिन्दी—हितकर उपदेष्टा मित्रों में उत्कृष्ट है, धर्म के लिए किया गया श्रम ही
सार्थक है, ज्ञानार्जन के लिए की गई क्रिया सारी क्रियाओं में श्रेष्ठ है; इसके अतिरिक्त,
इन्द्रियों का गुलाम बनने से क्या लाभ ? ॥ २५ ॥
तन्निश्चितं भीक्लमशुग्वियुक्तं परेष्वनायत्तसहार्यमन्यैः ।
नित्यं शिवं शान्तिसुखं वृणीष्व किमिन्द्रियार्थार्थमनर्थमूढ्वा ॥ २६ ॥
अन्वयः—तत् निश्चितं भीक्लमशुग्वियुक्तं परेषु अनायत्तम् अन्यैः अहार्यं नित्यं
शिवं शान्तिसुखं वृणीष्व इन्द्रियार्थार्थम् अनर्थम् ऊढ्वा किम् ? ॥ २६ ॥
व्याख्या—तत् = तेन, निश्चितम् = मुक्तचित्तम्, भीक्लमशुग्वियुक्तम् = त्रास-खेद-
परितापशून्यम्, परेषु = अपरेषु, अनायत्तम् = अनधीनम्, अन्यैः = अपरैः, अहार्यम् =
आहरणीयम्, नित्यम् = अनश्वरम्, शिवम् = शुभदम्, शान्तिसुखम् = वैराग्य-सुखम्,
नन्ददीक्षा ] पञ्चमः सर्गः ९५
वृणीष्व = आप्नुहि, इन्द्रियार्थार्थम् = विषयभोगनिमित्तम्, अनर्थम् = अनिष्टम्, ऊढ्वा =
वहित्वा, किम् = किमित्याक्षेपे, न किमपीत्यर्थः ॥ २६ ॥
हिन्दी—अतः मुक्तचित्त होकर डर, थकान और शोकरहित, स्वाधीन, दूसरों के
द्वारा न छीने जाने वाला, अविनाशी, कल्याणप्रद वैराग्य-सुख का वरण करो, विषय-
सुख के लिए विपत्ति मोल लेने से क्या फायदा ? ॥ २६ ॥
जरासमा नास्त्यमृजा प्रजानां व्याधेः समो नास्ति जगत्यनर्थः ।
मृत्योः समं नास्ति भयं पृथिव्यामेतत्रयं खल्ववशेन सेव्यम् ॥ २७ ॥
अन्वयः—प्रजानां जरासमा अमृजा जगति व्याधेः समः अनर्थः नास्ति मृत्योः समं
भयं नास्ति पृथिव्याम् एतत्त्रयम् अवशेन सेव्यं खलु ॥ २७ ॥
व्याख्या - प्रजानाम् = जनानाम्, जरासमा = वृद्धावस्थासदृशा, अमृजा = अस्व-
च्छता, नास्ति = न भवति, जगति = संसारे, व्याधेः = रोगस्य, समः = तुल्यः, अनर्थः =
अनिष्टम्, नास्ति, मृत्योः = अन्तकस्य, समम् = सदृशम्, भयम् = त्रासम्, नास्ति = न
विद्यते, एतत् = पूर्वोक्तम्, त्रयम् = जरा रुज्-मरणत्रयम्, खलु = निश्चयेन, अवशेन =
विवशभावेन, सेव्यम् = सेवनीयं भवति ॥ २७ ॥
हिन्दी—लोगों में बुढ़ौती की तरह कोई गन्दगी नहीं है, संसार में रोग की तरह
कोई बड़ा अनर्थ नहीं है और मृत्यु की तरह कोई दूसरा डर नहीं है। उस पर भी
तुर्रा यह कि संसार में सम्पूर्ण लोग इन तीनों को लाचार होकर स्वीकार करते हैं ॥
स्नेहेन कश्चिन्न समोऽस्ति पाशः स्रोतो न तृष्णासममस्ति हारि ।
रागाग्निना नास्ति समस्तथाग्निस्तच्चेत्रयं नास्ति सुखं च तेऽस्ति ॥ २८॥
अन्वयः—स्नेहेन समः कश्चित् पाशः नास्ति, तृष्णासमं हारि स्रोतः नास्ति, तथा
रागाग्निना समः अग्निः नास्ति, चेत् तत् त्रयं च नास्ति ते सुखम् अस्ति ॥ २८ ॥
व्याख्या - स्नेहेन = प्रेम्णा, समः = तुल्यः, कश्चित् = कोऽपि, पाशः = बन्धनम्,,
नास्ति = न भवति, तृष्णा = भोगेच्छा, समम् = सदृशम्, हारि = प्रवाहि, स्रोतः =
प्रवाहः, नास्ति = न विद्यते, तथा = अपि च, रागाग्निना समः = स्नेहानिलेन सदृशः,
अग्निः = ज्वालकः, नास्ति = न विद्यते, चेत् = यदि, तत् = पूर्वोक्तम्, त्रयम् = त्रिसङ्ख्य-
कम्, च = पुनः, नास्ति = न विद्यते, तर्हि, ते = तव, सुखम् = हर्षम्, अस्ति = विद्यते ।
अत्र हारि—हर्तृशीलमस्येति ( √ हृ+णिनि ) ‘स्रोतः’ इत्यस्य पदस्य विशेषणम् ।
अध्यात्ममुखीनीतिपरकोऽयं श्लोकः । ‘स्नेहेन’ तथा ‘रागाग्निना’ इत्यत्र तुल्यार्थकस्य
योगे तृतीयाविभक्तिर्भवति । रूपकाऽलङ्कारश्चेति ॥ २८ ॥
हिन्दी—प्रेम की तरह कोई बन्धन नहीं है, तृष्णा की तरह बहा ले जानेवाली
कोई तेज धारा नहीं है, अनुराग की आग की तरह जलाने वाली कोई आग नहीं है,
यदि ये तीनों नहीं है तो तुम्हारा जीवन सुखी है ॥ २८ ॥
अवश्यभावी प्रियविप्रयोगस्तस्माच्च शोको नियतं निषेव्यः ।
शोकेन चोन्मादमुपेयिवांसो राजर्षयोऽन्येऽप्यवशा विचेलुः ॥ २९ ॥
९६ सौन्दरनन्दं महाकाव्यम्
अन्वयः—प्रियविप्रयोगः अवश्यभावी तस्मात् च शोकः नियतं निषेव्यः शोकेन
उन्मादम् उपेयिवांसः राजर्षयः अन्येऽपि च अवशाः विचेलुः ॥ २९ ॥
व्याख्या—प्रियविप्रयोगः—प्रियस्य=दयितस्य, विप्रयोगः=विप्रलम्भः,
अवश्यभावी—अवश्यम्=नियतम्, भवतीति अवश्यभावी=अपरिहार्यम्, तस्मात् =
तेन कारणेन, च=पुनः, शोकः=कष्टम्, नियतम्=निश्चितम्, निषेव्यः=सेवितव्यः,
शोकेन=दुःखेन, उन्मादम्=चित्तविभ्रमम्, उपेयिवांसः=लब्धवन्तः, राजर्षयः=
नृपमुनयः, अन्येऽपि=अपरेऽपि, च=पुनः, अवशाः=विवशाः, विचेलुः=व्यचलन् ।
हिन्दी—प्रिय का वियोग अनिवार्य है, अतः दुःख तो झेलना ही पड़ेगा । ऐसे
शोक से विवश सामान्य जन को कौन पूछे, जब कि राजर्षि भी इससे विचलित हुए
हैं ? ॥ २९ ॥
प्रज्ञामयं वर्म बधान तस्मान्नो क्षान्तिनिघ्नस्य हि शोकबाणाः ।
महच्च दग्धुं भवकक्षजालं सन्धुक्षयाल्पानिमिवात्मतेजः ॥ ३० ॥
अन्वयः—तस्मात् प्रज्ञामयं वर्म बधान, हि क्षान्तिनिघ्नस्य नो शोकबाणाः महत्
भवकक्षजालं च दग्धुम् अल्पानिमिव तेजः सन्धुक्षय ॥ ३० ॥
व्याख्या—तस्मात् =कारणात्, प्रज्ञामयम्=ज्ञानमयम्, वर्म=कवचम्, बधान=
धारय, हि=इति निश्चयेन, क्षान्तिनिघ्नस्य=धैर्यायत्तस्य, नो=नहि, शोकबाणाः =
दुःखशराः, महत्=विशालः, भवकक्षजालम् =संसारजालम्, च=पुनः, दग्धुम् =
भस्मीभूतकर्तुम्, अल्पानिमिव=स्तोकज्वलनमिव, तेजः=आत्मज्योतिः, सन्धुक्षय =
प्रज्वलितं कुरु । भवकक्षजालम्—भवः =संसारः, एव कक्षः =काष्ठादिस्तेषाञ्जालः=
समूह इति ॥ ३० ॥
हिन्दी—अतः प्रज्ञारूपी कवच पहन लो, क्योंकि जो धैर्य के आश्रित है, उस पर
शोक रूपी तीरों का वश नहीं चलता । महाभवजाल को जलाने के लिए अपने तेज
को प्रदीप्त करो; जैसे बड़े तृण-समूह को जलाने के लिए थोड़ी-सी आग को प्रज्वलित
किया जाता है ॥ ३० ॥
यथौषधैर्हस्तगतैः सविद्यो न दश्यते कश्चन पन्नगेन ।
तथानपेक्षो जितलोकमोहो न दश्यते शोकभुजङ्गमेन ॥ ३१ ॥
अन्वयः—यथा हस्तगतैः औषधैः सविद्यः कश्चन पन्नगेन न दश्यते तथा अनपेक्षः
जितलोकमोहः शोकभुजङ्गमेन न दश्यते ॥ ३१ ॥
व्याख्या—यथा=येन प्रकारेण, हस्तगतैः=करस्थैः, औषधैः = औषधिभिः,
सविद्यः—विद्यया सहितः = सर्पविद्यायाः ज्ञाता, कश्चन =कोऽपि जनः, पन्नगेन=सर्पेण,
पतन् गच्छतीति पन्नगः=सर्पः, न=नहि, दश्यते=दष्टो भवति, तथा =तेन प्रकारेण,
अनपेक्षः—न विद्यते अपेक्षा यस्य सः =अपेक्षाशून्यः, जितलोकमोहः—जितः=परा-
जितः, लोकस्य=संसारस्य, मोहः=भ्रमः, येन सः संसारासङ्गशून्यः, शोकभुजङ्गमेन—
नन्ददीक्षा ] पञ्चमः सर्गः ९७
शोकः=चिन्ता, तदेव भुजङ्गमः=सर्पस्तेन=चिन्तासर्पेण, न दश्यते=न दष्टो
भवति ॥ ३१ ॥
हिन्दी—सर्पौषधि हाथ में लिए सर्पविद्या-ज्ञाता जैसे सांप से डँसा नहीं जाता,
उसी प्रकार संसार के मोह को जीत लेनेवाला निरपेक्ष व्यक्ति चिन्तारूपी सांप से
डँसा नहीं जाता ॥ ३१ ॥
आस्थाय योगं परिगम्य तत्त्वं न त्रासमागच्छति मृत्युकाले ।
आबद्धवर्मा सुधनुः कृतास्त्रो जिगीषया शूर इवाहवस्थः ॥ ३२ ॥
अन्वयः—योगम् आस्थाय तत्त्वं परिगम्य मृत्युकाले त्रासं न समागच्छति
आबद्धवर्मा सुधनुः कृतास्त्रः शूरः जिगीषया आहवस्थः शूरः इव ॥ ३२ ॥
व्याख्या—योगम् = मोक्षोपायम्, आस्थाय = आश्रित्य, तत्त्वम् = मूलकारणम्,
परिगम्य=अधिगम्य, मृत्युकाले=अन्तसमये, त्रासम् = भयम्, न = नहि, समागच्छति =
समायाति, आबद्धवर्मा—आबद्धम् = निगृहीतम्, वर्म = कवचं, येन सः आबद्धवर्मा =
धृतकवचः, सुधनुः = सुष्ठुचापम्, कृतास्त्रः—कृतम् = निर्मितम्, अस्त्रम् = आयुधम्,
येन सः कृतास्त्रः = धृतप्रहरणम्, शूरः = वीरः, जिगीषया = जेतुमिच्छया, आहवस्थः
—आहवे = सङ्ग्रामे, तिष्ठतीति = निवसतीति, शूरः = वीरः, इव = यथेति ॥ ३२ ॥
हिन्दी—योगाभ्यास और तत्त्वज्ञान से मनुष्य मौत से भी नहीं डरता। जैसे
रणभूमि में कोई वीर कवच पहन कर हाथों में सुन्दर आयुध लेकर किसी से भय नहीं
खाता ॥ ३२ ॥
इत्येवमुक्तः स तथागतेन सर्वेषु भूतेष्वनुकम्पकेन ।
धृष्टं गिरान्तर्हृदयेन सीदंस्तथेति नन्दः सुगतं बभाषे ॥ ३३ ॥
अन्वयः—सर्वेषु भूतेषु अनुकम्पकेन तथागतेन सः इत्येवम् उक्तः अन्तर्हृदयेन
सीदन् नन्दः धृष्टं गिरा 'तथेति' सुगतं बभाषे ॥ ३३ ॥
व्याख्या—सर्वेषु = सकलेषु, भूतेषु = जीवेषु, अनुकम्पकेन = कृपालुना, तथागतेन =
बुद्धेन, इत्येवम् = अनेन प्रकारेण, सः = असौ, उक्तः = उपदिष्टः, अन्तर्हृदयेन = अन्त-
मनसा, सीदन् = क्लिशन्, नन्दः = गौतमानुजः, धृष्टम् = साहसपूर्वकम्, गिरा =
वचनम् 'तथेति' = यथा भगवन् आदिशति तथैव, सुगतम् = बुद्धम्, बभाषे =
उवाच ॥ ३३ ॥
हिन्दी—सभी जीवों पर दया करने वाले बुद्ध का आदेश सुनकर अपना साहस
एकत्रित कर दुःखी मन से नन्द ने 'ऐसा ही होगा' इस प्रकार बुद्ध को कहा ॥ ३३ ॥
अथ प्रमादाच्च तमुज्जिहीर्षन्मत्वाऽऽगमस्यैव च पात्रभूतम् ।
प्रव्राजयानन्द शमाय नन्दमित्यब्रवीन्मैत्रमना महर्षिः ॥ ३४ ॥
अन्वयः—अथ च प्रमादात् उज्जिहीर्षन् आगमस्यैव पात्रभूतं च मत्वा मैत्रमना
महर्षिः आनन्द ! नन्दं शमाय प्रव्राजय इति अब्रवीत् ॥ ३४ ॥
९८ सौन्दरनन्द महाकाव्यम्
व्याख्या—अथ =अनन्तरम्, च = इति पादपूर्त्यर्थम्, प्रमादात् = अनवधानात्,
उज्जहीर्षन् = उद्धारकर्त्तुमभिलपन्, तम् = नन्दम्, आगमस्यैव=वैराग्यस्यैव, पात्रभूतम्=
भाजनस्वरूपम्, च, मत्वा = ज्ञात्वा, मैत्रमना = सौहृच्चेता, महर्षिः = गौतमबुद्धः,
आनन्द = एतदाख्यपट्टशिष्यं प्रति सम्बुद्धौ, नन्दम् = नृपम्, शमाय = वैराग्याय,
प्रव्राजय = प्रव्रजितं कुरु, इति अब्रवीत् = आदिष्टवान् ॥ ३४ ॥
हिन्दी—अज्ञान में डूबने से बचाने के लिए, उन्हें संन्यास ग्रहण करने योग्य
समझ कर भगवान् बुद्ध ने मैत्रीभाव से अपने शिष्य आनन्द को इन्हें प्रव्रजित करने का
आदेश दिया ॥ ३४ ॥
नन्दं ततोऽन्तर्मनसा रुदन्तमेहीति वैदेहमुनिर्जगाद ।
शनैस्ततस्तं समुपेत्य नन्दो न प्रव्रजिष्याम्यहमित्युवाच ॥ ३५ ॥
अन्वयः—ततः अन्तर्मनसा रुदन्तं नन्दं वैदेहमुनिः जगाद—'एहि इति' तत
शनैः नन्दः तं समुपेत्य 'अहं न प्रव्रजिष्यामि' इति उवाच ॥ ३५ ॥
व्याख्या—ततः = तत्पश्चात्, अन्तर्मनसा = अन्तःकरणेन, रुदन्तम् = विलपन्तम्,
नन्दम् = नृपम्, वैदेहमुनिः = आनन्दः, जगाद = उवाच, एहि = समागम्यताम्, इति =
एवम्, ततः = तदा, शनैः = मदं मन्दम्, नन्दः = गौतमानुजः, तम् = आनन्दम्,
समुपेत्य = समीपं गत्वा, अहम् = राजानन्दः' न प्रव्रजिष्यामि = सन्यासग्रहणं न
करिष्यामि, इति = इत्थम्, उवाच = अकथयत् ॥ ३५ ॥
हिन्दी—तब अन्तर्मन से कलपते नन्द को आनन्द ने अपने पास बुलाया, फिर
धीरे-धीरे उनके पास पहुँच कर नन्द ने कहा—मैं संन्यास ग्रहण नहीं करूँगा ॥ ३५ ॥
श्रुत्वाथ नन्दस्य मनीषितं तद्बुद्धाय वैदेहमुनिः शशंस ।
संश्रुत्य तस्मादपि तस्य भावं महामुनिर्नन्दमुवाच भूयः ॥ ३६ ॥
अन्वयः—अथ नन्दस्य तत् मनीषितं श्रुत्वा वैदेहमुनिः बुद्धाय शशंस, तस्मादपि
तस्य भावं संश्रुत्य महामुनिः नन्दं भूयः उवाच ॥ ३६ ॥
व्याख्या—अथ = अनन्तरम्, नन्दस्य = गौतमानुजस्य, तत् = पूर्वोक्तम्, मनीषि-
तम् = अभिलषितम्, श्रुत्वा = आकर्ण्य, वैदेहमुनिः = आनन्दः, बुद्धाय = तथागताय,
शशंस = कथयामास, तस्मादपि = आनन्दादपि, तस्य = नन्दस्य, भावम् = अभिप्रायम्,
संश्रुत्य = आकर्ण्य, महामुनिः = बुद्धः, नन्दम् = स्वानुजम्, भूयः = पुनः, उवाच =
जगादेति ॥ ३६ ॥
हिन्दी—नन्द के अभिप्राय को जानकर आनन्द ने तत्र बुद्ध को इससे अवगत
कराया । उनसे नन्द का विचार जानकर बुद्ध ने पुनः नन्द से कहा ॥ ३६ ॥
मय्यग्रजे प्रव्रजितेऽजितात्मन्
भ्रातृष्वनुप्रव्रजितेषु चास्मान् ।
ज्ञातींश्च दृष्ट्वा व्रतिनो गृहस्थान्
संविग्न किं तेऽस्ति न वास्ति चेतः ॥ ३७ ॥
नन्ददीक्षा ] पञ्चमः सर्गः ९९
अन्वयः—अजितात्मन् ! अग्रजे अपि प्रव्रजिते अस्मान् भ्रातृषु च अनुप्रव्रजितेषु
ज्ञातीन् च गृहस्थान् व्रतिनः दृष्ट्वा किं ते संवित् नास्ति चेतः वा नास्ति ॥ ३७ ॥
व्याख्या—अजितात्मन् = न = नहि, जितः = पराजितः, आत्मा = चित्तम्, येन
सः तत्सम्बुद्धौ अजितात्मन् = अवशिन्, अग्रजे = ज्येष्ठभ्रातरि, अपि बुद्धे, प्रव्रजिते =
प्रव्रज्यामुपगते, अस्मान् भ्रातृषु = सहोदरेषु, च = पुनः, अनुप्रव्रजितेषु = अनुसृत्य
संन्यस्तेषु, ज्ञातीन् = विदितान्, च = पुनः, गृहस्थान् = गृहे = सदने, तिष्ठतीति =
निवसतीति गृहस्थास्तान् = गृहिणः, व्रतिनः—व्रतमस्ति अस्य व्रती, ते = नियमवन्तः,
दृष्ट्वा = अवलोक्य, किं ते=तव, संवित्—सम्यक् वेत्तीति संवित् = ज्ञानम्, नास्ति =
न विद्यते, वा = आहोस्वित्, चेतः = चित्तम्, नास्ति = न विद्यते ॥ ३७ ॥
हिन्दी—हे अवशिन् ! मुझ अग्रज के संन्यास ग्रहण करने पर तथा हमारे छोटे
भाइयों के संन्यासी बन जाने पर तथा अपने परिचितों को घर में रहते हुए भी व्रत
पालन करते देखकर भी क्या तुम्हारी आँख नहीं खुलती अथवा तुम्हारे पास चित्त है
ही नहीं ॥ ३७ ॥
राजर्षयस्ते विदिता न नूनं वनानि ये शिश्रियिरे हसन्तः ।
निष्ठीव्य कामानुपशान्तिकामः कामेषु नैवं कृपणेषु सक्ताः ॥ ३८ ॥
अन्वयः—नूनं ते राजर्षयः न विदिताः ये हसन्तः वनानि शिश्रियिरे उपशान्ति-
कामाः कामान् निष्ठीव्य कृपणेषु कामेषु नैवं सक्ताः ॥ ३८ ॥
व्याख्या—नूनम् = निश्चयेन, ते = पुरातनाः, राजर्षयः = नृपमुनयः, न = नहि,
विदिताः = परिचिताः, ये = मुनयः, हसन्तः = मुदिताः सन्तः, वनानि = अरण्यानि,
शिश्रियिरे = सिषेविरे, उपशान्तिकामः = उपशमनम्, कामयन्ते = अभिलषन्ते, ये ते
शमप्राप्तकामाः, कामान् = विषयोपभोगान्, निष्ठीव्य = तिरस्कारं कृत्वा, कृपणेषु = तुच्छ-
विषयेषु, कामेषु = विषयेषु, न = नहि, एवम् = अनेन प्रकारेण, सक्ताः = आसक्ताः
भवन्ति ॥ ३८ ॥
हिन्दी—निश्चय ही तुम उन राजर्षियों को नहीं जानते, जिन्होंने हँसते हुए वन
गमन किये। उन्होंने तुच्छ वासना का तिरस्कार किया तथा कभी भी विषयोपभोग
में इस तरह आसक्त नहीं हुए ॥ ३८ ॥
भूयः समालोक्य गृहेषु दोषान्निशाम्य तत्त्यागकृतं च शर्म ।
नैवास्ति मोक्तुं मतिरालयं ते देशं मुमूर्षोरिव सोपसर्गम् ॥ ३९ ॥
अन्वयः—भूयः गृहेषु दोषान् निशाम्य तंत्त्यागकृतं शर्मं च समालोक्य ते सोपसर्गं
देशं मुमूर्षोः इव आलयं मोक्तुं मतिः नैव अस्ति ॥ ३९ ॥
व्याख्या—भूयः = पुनः, गृहेषु = गेहेषु, दोषान् = अवगुणान्, निशाम्य = अवलोक्य,
तत्त्यागकृतं = तेषाम् = दोषाणाम्, त्यागेन = मोचनेन, कृतं शर्म = शान्तिम्, च
समालोक्य = आलोक्य, ते = तव नन्दस्य, सोपसर्गम् = उपद्रवयुक्तम्, देशं = स्थानम्,
१०० सौन्दरनन्दं महाकाव्यम्
मुमूर्षोः = मोक्तुमिच्छोः, इव = यथा, आलयम् = गृहम्, मोक्तुम् = विमोचयितुम्, मतिः
= बुद्धिः, नैव अस्ति = विद्यते। अत्रोत्प्रेक्षालङ्कारः ॥ ३९ ॥
हिन्दी—फिर घर के दोषों तथा उसके त्याग से होने वाली शान्ति को देखकर;
जैसे कि मृत्यु की इच्छा करनेवाला व्यक्ति उपद्रवयुक्त स्थान को नहीं छोड़ना चाहता
है, उसी तरह तुम घर छोड़ने का विचार नहीं करते हो ॥ ३९ ॥
संसारकान्तारपरायणस्य शिवे कथं ते पथि नारुरुक्षा।
आरोप्यमाणस्य तमेव मार्गं भ्रष्टस्य सार्थादिव सार्थिकस्य ॥ ४० ॥
अन्वयः—संसारकान्तारपरायणस्य ते सार्थात् भ्रष्टस्य, सार्थिकस्य तमेव मार्गम्
आरोप्यमाणस्य इव शिवे पथे आरुरुक्षा कथं न ? ॥ ४० ॥
व्याख्या—संसारः = जगत्, एव कान्तारः = वनम्, तस्मिन् परायणः = निमग्न-
स्तस्य = जगदटवीप्रसक्तस्य, ते = तव, सार्थात् = सन्दोहात्, भ्रष्टस्य = वियुक्तस्य, सार्थि-
कस्य = व्यापारिणः, तमेव = पूर्वोक्तमेव, मार्गम् = पथम्, आरोप्यमाणस्यैव स्थिरी-
क्रियमाणस्यैव, शिवे = कल्याणप्रदे, पथे = मार्गे, आरुरुक्षा = आरोढुमिच्छा, कथं न =
कथन्न जायते ॥ ४० ॥
हिन्दी—काफिले से भटका व्यापारी जैसे अपनी सही राह नहीं पकड़ पाता है,
उसी तरह संसार रूपी सघन वन में भटकते हुए तुम्हारी इच्छा कल्याणकारी राह पर
क्यों नहीं चलना चाहती है ? ॥ ४० ॥
यः सर्वतो वेश्मनि दह्यमाने शयीत मोहान्न ततो व्यपेयात् ।
कालाग्निना व्याधिजराशिखेन लोके प्रदीप्ते स भवेत् प्रमत्तः ॥ ४१ ॥
अन्वयः—यः सर्वतः दह्यमाने वेश्मनि मोहात् शयीत ततो न व्यपेयात्, सः
व्याधिजराशिखेन कालाग्निना प्रदीप्ते लोके प्रमत्तः भवेत् ॥ ४१ ॥
व्याख्या—यः = पुरुषः, सर्वतः = चतुर्दिक्षु, दह्यमाने = जाज्वल्यमाने, वेश्मनि =
सदने, मोहात् = अज्ञानात्, शयीत = स्वप्यात्, ततः = तस्मात्, न = नहि, व्यपेयात् =
निर्गच्छेत्, सः = तादृग् जनः, व्याधिजराशिखेन—व्याधिश्च = रोगश्च, जरा च =
वृद्धावस्था च, ते शिखा = ज्वालः, यस्य तेन, कालाग्निना—कालः = समयः, एव
अग्निः = वह्निस्तेन, प्रदीप्ते = प्रज्वलिते, लोके = संसारे, प्रमत्तः = उन्मत्तः, भवेत् =
स्यादिति ॥ ४१ ॥
हिन्दी—जो चारों ओर से आग लगे हुए घर में सोता है, उससे बाहर नहीं
निकलता है; वही व्यक्ति रोग और बुढौती की लपटों वाली कालाग्नि से जलती दुनियाँ
में प्रमत्त की तरह रहता है ॥ ४१ ॥
प्रणीयमानश्च यथा वधाय मत्तो हसेच्च प्रलपेच्च वध्यः ।
मृत्यौ तथा तिष्ठति पाशहस्ते शोच्यः प्रमाद्यन्विपरीतचेताः ॥ ४२ ॥
अन्वयः—यथा वधाय प्रणीयमानः वध्यः मत्तः प्रलपेत् च हसेत् च तथा पाशहस्ते
मृत्यौ तिष्ठति प्रमाद्यन् विपरीतचेताः शोच्यः ॥ ४२ ॥
नन्ददीक्षा ] पञ्चमः सर्गः १०१
व्याख्या—यथाः = येन रूपेण, वधाय = हननाय, प्रणीयमानः = नीयमानः, वध्यः =
हन्तव्यो जनः, मत्तः = प्रमत्तः, प्रलपेत् = जल्पेत्, च = पुनः, हसेत् = हसनं कुर्यात्, तथा =
तेन प्रकारेण, पाशहस्ते = करधृतपाशे, मृत्यौ = अन्तके, तिष्ठति = उपस्थिते, प्रमाद्यन् =
प्रमादं कुर्वन्, विपरीतचेताः = विपरीतबुद्धिः, शोच्यः = चिन्त्यो भवति ॥ ४२ ॥
हिन्दी—जैसे वध के लिए ले जाया जाता बलि-पुरुष उन्मत्त होकर प्रलाप करता
है तथा हँसता है, उसी तरह हाथ मे पाश लेकर मौत के सामने रहने पर भी मस्त
रहने वाला विपरीतबुद्धि व्यक्ति चिन्तनीय है ॥ ४२ ॥
यदा नरेन्द्राश्च कुटुम्बिनश्च विहाय बन्धूंश्च परिग्रहांश्च ।
ययुश्च यास्यन्ति च यान्ति चैव प्रियेष्ष्वनित्येषु कुतोऽनुरोधः ॥ ४३ ॥
अन्वयः—यदा नरेन्द्राश्च कुटुम्बिनश्च परिग्रहांश्च बन्धूंश्च विहाय ययुश्च यास्यन्ति
च यान्ति च अनित्येषु प्रियेषु अनुरोधः कुतः ? ॥ ४३ ॥
व्याख्या—यदा = यस्मिन् काले, नरेन्द्राश्च = राजानश्च, कुटुम्बिनश्च = गृहस्थाश्च,
परिग्रहांश्च = परिजनांश्च, बन्धूंश्च = सगोत्रांश्च, विहाय = परित्यज्य, ययुश्च = जग्मुश्च,
यास्यन्ति च = व्रजिष्यन्ति च, यान्ति च = गच्छन्ति च, तदा अनित्येषु = नश्वरेषु,
प्रियेपु = मनोहरेषु, अनुरोधः = अभिनिवेशः, कुतः = कथम् ? ॥ ४३ ॥
हिन्दी—जब राजे-महाराजे भी अपने परिवार, परिजन और बन्धु-बान्धवों को
छोड़कर चले गये, चले जायेंगे और चले जा रहे हैं; तो फिर नश्वर, क्षणिक प्रिय-
वस्तुओं के प्रति आग्रह कैसा ? ॥ ४३ ॥
किञ्चिन्न पश्यामि रतस्य यत्र तदन्यभावेन भवेन्न दुःखम् ।
तस्मात् क्वचिन्न क्षमते प्रसक्तिर्यदि क्षमस्तद्विगमान्न शोकः ॥ ४४ ॥
अन्वयः—किञ्चित् न पश्यामि यत्र रतस्य तदन्यभावेन दुःखं न भवेत्, तस्मात्
क्वचित् प्रसक्तिः न क्षमते यदि क्षमः तद्विगमात् शोकः न ॥ ४४ ॥
व्याख्या—किञ्चित् = अहं किमपि, न = नहि, पश्यामि = अवलोकयामि, यत्र
यस्मिन् स्थाने, रतस्य = अनुरक्तस्य, तदन्यभावेन = तस्य अन्यथाभावस्तेन = तदन्यथा-
जातेन, दुःखम् = कष्टम्, न = नहि, भवेत् = स्यात्, तस्मात् = तेन कारणेन, क्वचित् =
कुत्रापि, प्रसक्तिः = आसक्तिः, न = नहि, क्षमते = सहते, यदि = चेत्, क्षमः = उचितः,
तद्विगमात् = तस्य = प्रियस्य, विगमः = वियोगस्तस्मात्, शोकः = दुःखम्, न = नहि
भवेदिति ॥ ४४ ॥
हिन्दी—मैं ऐसा कुछ भी नहीं देखता, जिसमें आसक्त होने वाले को उससे
बिछुड़ने पर दुःख न हो, अतः आसक्ति कहीं उचित नहीं है, यदि उचित है तो फिर
उसके बिछुड़ने पर कष्ट नहीं होना चाहिए ॥ ४४ ॥
तत् सौम्य ! लोलं परिगम्य लोकं मायोपमं चित्रमिवेन्द्रजालम् ।
प्रियाभिधानं त्यज मोहजालं छेतुं मतिस्ते यदि दुःखजालम् ॥४५॥
१०२ सौन्दरनन्दं महाकाव्यम्
अन्वयः—तत् हे सौम्य ! लोकं लोलं मायोपमम् इन्द्रजालम् इव चित्रं परिगम्य
यदि दुःखजालं छेत्तुं ते मतिः प्रियाभिधानं मोहजालं त्यज ॥ ४५ ॥
व्याख्या—तत् = तस्मात्, सौम्य = हे भद्र, लोकम् = जगत्, लोलम् = चपलम्,
मायोपमम्—माया = ममता, उपमा = तुलना, यस्य तम्, इन्द्रजालम् = मायाकृत्यम्,
इव = यथा, चित्रम् = विस्मयोत्पादकम्, परिगम्य = ज्ञात्वा, यदि = चेत्, दुःखजालम् =
शोकसमूहः, छेत्तुम् = भेत्तुम्, ते = तव, मतिः = बुद्धिः, तर्हि प्रियाभिधानम्—प्रिया =
कान्ता, अभिधानम् = नामकम्, यस्य तम्, मोहजालम् = अज्ञानबन्धनम्, त्यज = परित्य-
जेति कर्तव्यतेति भावः ॥ ४५ ॥
हिन्दी—अतः हे भद्र ! इस संसार को अस्थिर, मायापूर्ण तथा इन्द्रजाल की तरह
विस्मयोत्पादक जानकर यदि तुम्हारा विचार इस दुःखजाल को काटने का है तो
कान्ता नामक मोहपाश को काट डालो ॥ ४५ ॥
वरं हितोदर्कमनिष्टमन्नं न स्वादु यत्स्यादहितानुबद्धम् ।
यस्मादहं त्वां विनियोजयामि शिवे शुचौ वर्त्मनि विप्रियेऽपि ॥ ४६ ॥
अन्वयः—हितोदर्कम् अनिष्टम् अन्नं वरं स्यात् यत् अहितानुबद्धं स्वादु च न
वरं यस्मात् अहं त्वां शिवे शुचौ वर्त्मनि विप्रियेऽपि विनियोजयामि ॥ ४६ ॥
व्याख्या—हितोदर्कम्—हितः = लाभकरः, उदर्कः = अन्तः, यस्य तत् = लाभान्तम्,
अन्नम् = भक्ष्यपदार्थः, वरम् = श्रेष्ठम्, स्यात् = भवेत्, यत् अहितानुबद्धम्—अहितेन =
अकल्याणकरेण, अनुबद्धम् = नियन्त्रितम्, स्वादु = स्वादयुक्तम्, न = नोचितम्,
यस्मात् = येन कारणेन, अहम् = बुद्धः, त्वाम् = नन्दम्, शिवे = कल्याणप्रदे, शुचौ =
पवित्रे, वर्त्मनि = मार्गे, विप्रियेऽपि = अनिष्टकरे सत्यपि, विनियोजयामि = नियोज-
यामि ॥ ४६ ॥
हिन्दी—हितकर अप्रिय भोजन भी श्रेष्ठ होता है, किन्तु अहितकारी सुस्वादु
भोजन भी अग्राह्य होता है। अतः अप्रिय होने के बावजूद भी मैं तुम्हें मंगलमय
पवित्र रास्ते पर ले जा रहा हूँ ॥ ४६ ॥
बालस्य धात्री विनिगृह्य लोष्टं यथोद्धरत्यास्यपुटप्रविष्टम् ।
तथोज्जिहीर्षुः खलु रागशल्यं तत्त्वामवोचं परुषं हिताय ॥ ४७ ॥
अन्वयः—यथा धात्री बालस्य निगृह्य आस्यपुटप्रविष्टं लोष्टम् उद्धरति तथा
खलु रागशल्यम् उज्जिहीर्षुः हिताय तत्परुषं त्वाम् अवोचम् ॥ ४७ ॥
व्याख्या—यथा = येन रूपेण, धात्री = अङ्कपालिका, बालस्य = वटुकस्य, निगृह्य =
उपगृह्य, आस्यपुटप्रविष्टम्—आस्यपुटे = मुखपुटे, प्रविष्टम् = निविष्टम्, लोष्टम् =
मृत्खण्डम्, उद्धरति = निस्सारयति, तथा = तेन प्रकारेण, खलु = निश्चयेन, रागशल्यम्
= कष्टकण्टकम्, उज्जिहीर्षुः = उद्धर्तुमिच्छुः, हिताय = कल्याणाय, तत् = पूर्वोक्तम्,
परुषम् = कठोरम्, त्वाम् = नन्दम्, अवोचम् = अकथयम् ॥ ४७ ॥
नन्ददीक्षा ] पञ्चमः सर्गः १०३
हिन्दी—जैसे कोई धाय बालक को पकड़कर उसके मुँह से मिट्टी के ढेले को
बाहर निकालती है, वैसे ही अनुरागरूपी काँटे को निकालने की इच्छा से ही मैंने
तुम्हें कठोर बातें कही हैं ॥ ४७ ॥
अनिष्टमप्यौषधमातुराय ददाति वैद्यश्च यथा निगृह्य ।
तद्वन्मयोक्तं प्रतिकूलमेतत् तुभ्यं हितोदर्कमनुग्रहाय ॥ ४८ ॥
अन्वयः—यथा वैद्यः निगृह्य आतुराय अनिष्टम् अपि औषधं ददाति तद्वत् मया
अनुग्रहाय प्रतिकूलं हितोदर्कम् एतत् तुभ्यम् उक्तम् ॥ ४८ ॥
व्याख्या—यथा = येन विधिना, वैद्यः = चिकित्सकः, निगृह्य = गृहीत्वा,
आतुराय = दुःखिजनाय, अनिष्टमपि = कटु-कषायोऽपि, औषधम् = भेषज्यम्, ददाति =
प्रयच्छति, तद्वत् = तथैव, मया = बुद्धेन, अनुग्रहाय = दयायै, प्रतिकूलम् = विपरीतम्,
हितोदर्कम् = हितान्तम्, एतत् = पूर्वोक्तवचः, तुभ्यम् = नन्दाय, उक्तम् = निगदितम् ॥
हिन्दी—जैसे चिकित्सक रोगी को पकड़कर उसे अप्रिय औषधि का सेवन
कराता है, उसी प्रकार तुम पर दया कर मैंने अप्रिय, किन्तु परिणाम सुखकर अप्रिय
बातें तुमसे कही हैं ॥ ४८ ॥
तद्यावदेव क्षणसंन्निपातो न मृत्युरागच्छति यावदेव ।
यावद्वयो योगविधौ समर्थं बुद्धिं कुरु श्रेयसि तावदेव ॥ ४९ ॥
अन्वयः—तत् यावत् एव क्षणसन्निपातः यावत् एव मृत्युः न आगच्छति यावत्
वयः योगविधौ समर्थं तावत् एव श्रेयसि बुद्धिं कुरु ॥ ४९ ॥
व्याख्या—तत् = तस्मात्, यावत् = यावत्कालपर्यन्तम्, एवेति निश्चयेन, क्षणसन्नि-
पातः = क्षणे = अत्यल्पसमये, सन्निपातः = विनाशः, यावदेव = यावन्मात्रकाले, मृत्युः
= प्राणनाशः, न = नहि, आगच्छति = समायाति, यावद् वयः = आयुः, योगविधौ =
योगाभ्यासे, समर्थम् = सक्षमम्, तावदेव = तावदेव काले, श्रेयसि = कल्याणे, बुद्धिम् =
मतिम्, कुरु = विधेहि ॥ ४९ ॥
हिन्दी—अतः जब तक यह जीवन है, जब तक मौत नहीं दबोच लेती, जब तक
योगाभ्यास मे शरीर समर्थ है, तभी तक अपनी बुद्धि को कल्याण में लगाओ ॥ ४९ ॥
इत्येवमुक्तः स विनायकेन हितैषिणा कारुणिकेन नन्दः ।
कर्तास्मि सर्वं भगवन् वचस्ते तथा यथाऽऽज्ञापयसीत्युवाच ॥ ५० ॥
अन्वयः—हितैषिणा कारुणिकेन विनायकेन इत्येवम् उक्तः सः नन्दः उवाच
भगवन् ! यथा आज्ञापयसि तथैव ते सर्वं वचः कर्त्ता अस्मि ॥ ५० ॥
व्याख्या—हितैषिणा = कल्याणकारिणा, कारुणिकेन = करुणापरायणेन, विनाय-
केन = तथागतेन, इत्येवम् = अनेन रूपेण, उक्तः = उपदिष्टः, सः = पूर्वोक्तः, नन्दः =
गौतमानुजः, उवाच = जगाद, भगवन् = श्रीमन्, यथा = येन प्रकारेण, आज्ञापयसि =
आदिशसि, तथैव = तेन रूपेणैव, ते = तव, सर्वम् = सकलम्, वचः = वचनम्, कर्त्ता =
कारकः, अस्मि = भवामि ॥ ५० ॥
१०४ सौन्दरनन्दं महाकाव्यम्
हिन्दी—कल्याणकामी, दयालु भगवान् बुद्ध ने जब इस तरह समझाया तब नन्द
ने कहा—अब श्रीमान् जैसा कहेंगे, वैसा ही करूँगा ॥ ५० ॥
आदाय वैदेहमुनिस्ततस्तं निनाय संश्लिष्य विचेष्टमानम् ।
व्ययोजयच्चाश्रुपरिप्लुताक्षं केशश्रियं छत्रनिभस्य मूर्ध्नः ॥ ५१ ॥
अन्वयः—ततः वैदेहमुनिः तम् आदाय विचेष्टमानं संश्लिष्य ततः निनाय छत्र-
निभस्य मूर्ध्नः अश्रुपरिप्लुताक्षं केशश्रियं व्ययोजयत् ॥ ५१ ॥
व्याख्या—ततः = तत्पश्चात्, वैदेहमुनिः = आनन्दः, तम् = नन्दम्, आदाय =
नीत्वा, विचेष्टमानम् = अतिदुःखिनम्, संश्लिष्य = समालिङ्ग्य, ततः = तस्मात्स्था-
नात्, निनाय = अनयत्, छत्रनिभस्य—छत्रस्य = राजछत्रस्य, निभः = कान्तिर्यस्य तस्य,
मूर्ध्नः = शिरसः, अश्रुपरिप्लुताक्षम्—अश्रुपरिप्लुते अक्षिणी यस्मिन् तत् = बाष्पजल-
पूरितनेत्रम्, केशश्रियम्—केशस्य = लोमस्य, श्रियम् = शोभाम्, व्ययोजयत् = वियो-
जितवान् ॥ ५१ ॥
हिन्दी—तब आनन्दमुनि दुःख से तड़पते नन्द को वहाँ से पकड़ कर ले गये ।
उसकी आंखे आंसू से डबडबाई थी, फिर उनके छत्रतुल्य केश की शोभा को उनसे
अलग किया ॥ ५१ ॥
अथो नतं तस्य मुखं सबाष्पं प्रवास्यमानेषु शिरोरुहेषु ।
वक्राग्रनालं नलिनं तडागे वर्षोदकक्लिन्नमिवाबभासे ॥ ५२ ॥
अन्वयः—अथ शिरोरुहेषु प्रवास्यमानेषु तस्य सबाष्पं नतं मुखं तडागे वर्षोदक-
क्लिन्नं वक्राग्रनालं नलिनम् इव आबभासे ॥ ५२ ॥
व्याख्या—अथ = अनन्तरम्, शिरोरुहेषु = केशेषु, प्रवास्यमानेषु = कर्त्तनक्रियमाणेषु,
तस्य = नन्दस्य, सबाष्पम् = अश्रुपूर्णम्, नतम् = अवनतम्, मुखम् = आननम्, तडागे
= सरसि, वर्षोदकक्लिन्नम् = वर्षाजलेन सिक्तम्, वक्राग्रनालम्—अग्रञ्चासौ नालः अग्र-
नालः, वक्रः अग्रनालः यस्य तत् = वक्रीभूताग्रनालम्, नलिनम् = पद्मम्, इव = यथा,
आबभासे = शोभयामास ॥ ५२ ॥
हिन्दी—केश काटे जाते समय झुका हुआ नन्द का अश्रुपूर्ण मुख वर्षा जल से
भींगे टेढ़े अग्रनाल वाले कमल की तरह सुशोभित हुआ ॥ ५२ ॥
नन्दस्ततस्तरुषकषायविरक्तवासा-
श्चिन्तावशो नवगृहीत इव द्विपेन्द्रः ।
पूर्णः शशी बहुलपक्षगतः क्षपान्ते
बालातपेन परिशिक्त इवाबभासे ॥ ५३ ॥
सौन्दरनन्दे महाकाव्ये नन्दप्रव्राजनो नाम पञ्चमः सर्गः ॥ ५ ॥
नन्ददीक्षा ] पञ्चमः सर्गः १०५
अन्वयः—ततः तरुकषायविरक्तवासाः नवगृहीतः द्विपेन्द्रः इव चिन्तावशः नन्दः
बहुलपक्षगतः पूर्णः शशी बालातपेन परिषिक्त इव आबभाषे ॥ ५३ ॥
व्याख्या—ततः=तत्पश्चात्, तरुकषायविरक्तवासाः—तरोः = वृक्षस्य, कषायश्च=
गैरिकवर्णश्च, विरक्तानाम् = रागरहितानाम्, वासः=वस्त्रम्, यस्य सः, नवगृहीतः=
सद्यःवशीकृतः, द्विपेन्द्रः=गजराजः, इव = यथा, चिन्तावशः = शोकवशः, नन्दः =
तथागतानुजः, बहुलपक्षगतः—बहुले = कृष्णे, पक्षे = मासार्द्धे, गतः = प्राप्तः, पूर्णः =
सकलकलात्मकः, शशी = निशाकरः, बालातपेन—बालः = नवोदितश्चासौ, आतपः =
दिवाकरस्तेन = नवोदितसूर्येण, परिषिक्त इव = सिञ्चित इव, आबभासे = शुशुभे ॥५३॥
सौन्दरनन्द काव्य में नन्ददीक्षा नामक पञ्चम सर्ग समाप्त ।
षष्ठः सर्गः
भार्या-विलापः
धीमी धड़कन लिए सुन्दरी का दुर्बोला दिल दीखेगा।
तड़पीले जखमों से पीड़ित सिसकी का स्वर भी फूटेगा ॥
ततो हृते भर्तरि गौरवेण प्रीतौ हृतायामरतौ कृतायाम् ।
तत्रैव हर्म्योपरि वर्तमाना न सुन्दरी सैव तदा बभासे ॥ १ ॥
अन्वयः—ततो गौरवेण भर्त्तरि हृते प्रीतौ हृतायाम् अरतौ कृतायां तत्रैव
हर्म्योपरि वर्तमाना सैव सुन्दरी तदा न बभासे ॥ १ ॥
व्याख्या --ततः = तत्पश्चात्, गौरवेण = बुद्धभक्त्या, भर्त्तरि = स्वामिनि, हृते =
गृहीते, प्रीतौ = मुदे, हृतायाम् = विनष्टायाम्, अरतौ = कामक्रीडाभावे (आमोद-
प्रमोदाभावः यः प्रेम्णः प्रबलोत्कण्ठातः समुत्पन्नो भवति-'स्वाभीष्टवस्त्वलोभेन चेतसो
याऽनवस्थितिः। अरतिः सा'--सा० द० ।) कृतायाम् = समुत्पन्नायाम्, तत्रैव = तस्मि-
न्नेव, हर्म्योपरि = प्रासादोपरि, वर्त्तमाना = समुपस्थिता, सैव = पूर्वोक्तैव नन्दपत्नी,
सुन्दरी = एतदाख्या, तदा = तस्मिन् समये, न = नहि, बभासे = शुशुभे ॥ १ ॥
हिन्दी - भगवान् बुद्ध के गौरव से पति को ले जाने पर, प्रीति मिट जाने पर तथा
अरति जन्य कष्ट से उसी महल में वही सुन्दरी उस समय सुशोभित नहीं हुई ॥ १ ॥
सा भर्तुरभ्यागमनप्रतीक्षा गवाक्षमाक्रम्य पयोधराभ्याम् ।
द्वारोन्मुखी हर्म्यतलाल्ललम्बे मुखेन तिर्यङ्नतकुण्डलेन ॥ २ ॥
अन्वयः—सा भर्तुः अभ्यागमनप्रतीक्षा पयोधराभ्यां गवाक्षम् आक्रम्य द्वारोन्मुखी
तिर्यङ्नतकुण्डलेन मुखेन हर्म्यतलात् ललम्बे ॥ २ ॥
व्याख्या-सा = सुन्दरी, भर्तुः = पत्युः, अभ्यागमनप्रतीक्षा - अभ्यागमने = समा-
गमने, प्रतीक्षा = प्रत्याशा, यस्याः सा, पयोधराभ्याम् = कुचाभ्याम्, गवाक्षम् = वाता-
यनम्, गोः अक्षीव गवाक्षम्, आक्रम्य = भारं दत्वा, द्वारोन्मुखी = प्रतीहारोन्मुखी,
तिर्यङ्नतकुण्डलेन - तिर्यञ्चौ = वक्रितौ, नतौ = अवनतौ, च कुण्डलो = कर्णाभरणौ,
यस्य तेन, मुखेन = आननेन, हर्म्यतलात् = प्रासादपृष्ठात्, ललम्बे = अलम्बत् ॥ २ ॥
हिन्दी - वह अपने पति के आने की प्रतीक्षा में अपने पीनपयोधरों को खिड़की
के डंडे पर रखकर, कानों में झूलते टेढे कुण्डल वाले सुन्दर मुख से दरवाजे की ओर
टकटकी लगाये कोठे पर से देखने लगी ॥ २ ॥
विलम्बहारा चलयोक्त्रका सा तस्माद्विमानाद्विनता चकाशे ।
तपःक्षयादप्सरसां वरेव च्युतं विमानात् प्रियमीक्षमाणा ॥ ३ ॥
अन्वयः—विलम्बहारा चलयोक्त्रका तस्मात् विमानात् विनता सा तपःक्षयात्
विमानात् च्युतं प्रियम् ईक्षमाणा अप्सरसां वरा इव चकाशे ॥ ३ ॥
भार्या-विलापः ] षष्ठः सर्गः १०७
व्याख्या—विलम्बहारा—विलम्बः = आलम्ब्यमानः, हारः = माला, यस्याः सा
(ब० व्री०), चलयोक्त्रका—चलः = चपलः, योक्त्रकः = कण्ठालङ्कारः, यस्याः सा,
तस्मात् = तेन हेतुना, विमानात् = प्रासादात्, विनता = नम्रीभूता, सा = सुन्दरी, तपः-
क्षयात् = नियमभ्रष्टात्, विमानात् = स्वर्गात्, च्युतम् = पतितम्, प्रियम् = निजस्वामि-
नम्, ईक्षमाणा = आलोक्यमाना, अप्सरसाम् = उर्वश्यानाम्, वरा = श्रेष्ठा, इव=यथा,
चकाशे = वभासे ॥ ३ ॥
हिन्दी—गले में लटकते हार तथा हिलते कंठसूत्र वाली, झरोखे में झुकी वह
सुन्दरी अपने प्रियतम की बाट जोहती हुई तपोभ्रष्ट, स्वर्गपतित किसी अप्सरा की
तरह प्रतीत हो रही थी ॥ ३ ॥
सा खेदसंस्विन्नललाटकेन निःश्वासनिष्पीतविशेषकेण ।
चिन्ताचलाक्षेण मुखेन तस्थौ भर्तारमन्यत्र विशङ्कमाना ॥ ४ ॥
अन्वयः—सा खेदसंस्विन्नललाटकेन निःश्वासनिष्पीतविशेषकेण चिन्ताचलाक्षेण
मुखेन भर्तारम् अन्यत्र विशङ्कमाना तस्थौ ॥ ४ ॥
व्याख्या—सा = सुन्दरी, खेदसंस्विन्नललाटकेन—खेदेन = श्रमेण, संस्विन्नः =
संसिक्तः, ललाटः = मस्तकः, यस्य तेन, निःश्वासनिष्पीतविशेषकेण—निःश्वासेन =
उच्छ्वसितेन, निष्पीतः = शुष्कः, विशेषकः = अङ्गरागः, यस्य तेन, चिन्ताचलाक्षेण—
चिन्तया = शोकेन, अचले = निश्चले, अक्षिणी = नेत्रे, यस्य तेन, मुखेन = आननेन,
भर्तारम् = पतिम्, अन्यत्र = अन्यस्मिन् स्थाने, विशङ्कमाना = आशङ्कमाना, तस्थौ =
अतिष्ठत् ॥ ४ ॥
हिन्दी—उस सुन्दरी का चेहरा पसीने से तर था, उच्छ्वासों से अङ्गराग सूख
गये थे, चिन्ता के कारण आँखें स्थिर हो गई थीं, मन ही मन पति के अन्यत्र होने
की आशङ्का से वही खड़ी रही ॥ ४ ॥
ततश्चिरस्थानपरिश्रमेण स्थितैव पर्यङ्कतले पपात ।
तिर्यक्च शिश्ये प्रविकीर्णहारा सपादुकार्धविलम्बपादा ॥ ५ ॥
अन्वयः—ततः चिरस्थानपरिश्रमेण स्थितैव पर्यङ्कतले पपात, प्रविकीर्णहारा
सपादुका अर्धविलम्बपादा एव च तिर्यक् शिश्ये ॥ ५ ॥
व्याख्या—ततः = तत्पश्चात्, चिरस्थानपरिश्रमेण—चिरम् = चिरकालम्, स्थान-
स्य = स्थितस्य, परिश्रमेण = खेदेन, स्थिता एव = तिष्ठन्ती एव, पर्यङ्कतले = शयनीये,
पपात = न्यपतत् (√ पत् + लिट् तिपि रूपे), सपादुका—पादुकाभ्याम् = उपानहाभ्याम्,
सहिता = अन्विता, प्रविकीर्णहारा—प्रविकीर्णाः = प्रक्षिप्तः, हारः = माला, यस्याः सा,
अर्धविलम्बपादा—अर्धेन = अर्द्धभागेन, विलम्बौ = लम्बितौ, पादौ = चरणौ, यस्याः
सा, एव च, तिर्यक् = अवसर्पिन्, शिश्ये = सुष्वाप ॥ ५ ॥
हिन्दी—बहुत देर तक खड़ी रहने के कारण वह खड़ी-खड़ी ही पलंग पर गिर
१०८ सौन्दरनन्दं महाकाव्यम्
गई। उसके मंगलसूत्र एक ओर लटक गये। पैर से जूते उतारने की भी उसकी
स्थिति नहीं रही और आधे पाँव नीचे फैलाकर तिरछी होकर वह सो गई ॥ ५ ॥
अथात्र काचित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुमनीप्समाना ।
प्रासादसोपानतलप्रणादं चकार पद्भ्यां सहसा रुदन्ती ॥ ६ ॥
अन्वयः-अथ अत्र काचित् प्रमदा सबाष्पां तां दुःखितां द्रष्टुम् अनीप्समाना
रुदन्ती सहसा पद्भ्यां प्रासादसोपानतलप्रणादं चकार ॥ ६ ॥
व्याख्या-अथ = अनन्तरम्, अत्र = अस्मिन् स्थाने, काचित् = काप्यन्या, प्रमदा-
प्रकर्षः मदः यस्याः सा=स्त्री, सबाष्पाम् = बाष्पेण = अश्रुना, सह = युक्ताम्, ताम् =
सुन्दरीम्, दुःखिताम् = वियोगविधुराम्, द्रष्टुम् = अवलोकयितुम्, अनीप्समाना =
( √ईप्स् + शानच् टापि रूपमिदम् ) अनभिलषन्ती, रुदन्ती = विलपन्ती, सहसा =
अकस्मादेव, प्रासादसोपानतलप्रणादम्-प्रासादस्य = सौधस्य, सोपानतले = अधिरो-
हिणीमूले, प्रणादः = रवस्तम्, चकार = कृतवती ॥ ६ ॥
हिन्दी-इसके बाद किसी रोती हुई औरत के पदचाप उस महल की सीढ़ी पर
सुनाई पड़ा, जो उस सुन्दरी को दुःखी नहीं देखना चाहती थी ॥ ६ ॥
तस्याश्च सोपानतलप्रणादं श्रुत्वैव तूर्णं पुनरुत्पपात ।
प्रीत्या प्रसक्तैव च सञ्जहर्ष प्रियोपयानं परिशङ्कमाना ॥ ७ ॥
अन्वयः- तस्याः च सोपानतलप्रणादं श्रुत्वा एव पुनः तूर्णम् उत्पपात प्रियोपयानं
च परिशङ्कमाना एव प्रीत्या प्रसक्ता सञ्जहर्ष ॥ ७ ॥
व्याख्या-तस्याः = स्त्रियाः, च = पुनः, सोपानतलप्रणादम् = निःश्रयणीतले
कृतशब्दम्, श्रुत्वा = आकर्ण्य, एव = इति निश्चयेन, पुनः = भूयः, तूर्णम् = शीघ्रम्,
उत्पपात = उदपतत्, प्रियोपयानम्-प्रियस्य = प्रियतमस्य, उपयानम् = समागमनम्,
परिशङ्कमाना = आशङ्कमाना, एवम् = इति निश्चयेन, प्रीत्या = प्रेम्णा, प्रसक्ता=आसक्ता,
सञ्जहर्ष = हर्षितोऽभवत् ॥ ७ ॥
हिन्दी-उस औरत का सीढ़ी पर पदचाप सुनते ही प्रियतम के आगमन की
आशङ्का से हर्षविभोर होकर शीघ्र ही वह उठ बैठी तथा खुशी के मारे उसके रोंगटे
खड़े हो गये ॥ ७ ॥
सा त्रासयन्ती वलभीपुटस्थान् पारावतान्नूपुरनिस्वनेन ।
सोपानकुक्षिं प्रससार हर्षाद् भ्रष्टं दुकूलान्तमचिन्तयन्ती ॥ ८ ॥
अन्वयः-सा नूपुरनिस्वनेन वलभीपुटस्थान् पारावतान् त्रासयन्ती हर्षात् भ्रष्टं
दुकूलान्तम् अचिन्तयन्ती सोपानकुक्षिं प्रससार ॥ ८ ॥
व्याख्या-सा = नन्दपत्नी, नूपुरनिस्वनेन = पदकण्टकशब्देन, वलभीपुटस्था-
वलभीपुटे = गृहाच्छादनमध्ये, स्थिताः = तिष्ठन्तीति तान्, पारावतान् = कपोतान्,
त्रासयन्ती = भयमुत्पादयन्ती, हर्षात् = आनन्दात्, भ्रष्टम् = गलितम्, दुकूलान्तम्-
भार्या-विलापः ] षष्ठः सर्गः १०९
दुकूलस्य = वस्त्रस्य, अन्तम् = उपान्तम्, अचिन्तयन्तीम् = अविचारयन्तीम्, सोपान-
कुक्षिम् = पथ-पङ्क्तिमध्ये, प्रससार = प्रययौ ॥ ८ ॥
हिन्दी -- वह सुन्दरी अपने पायल की आवाज से छत की खोंप में पलने वाले
कबूतरों को डराती हुई, आनन्दविभोर होने के कारण सिर से सरक कर नीचे गिरे
आँचल का ख्याल किये बिना तेजी से सीढ़ी पर पहुँच गई ॥ ८ ॥
तामङ्गनां प्रेक्ष्य च विप्रलब्धा निःश्वस्य भूयः शयनं प्रपेदे ।
विवर्णवक्त्रा न रराज चाशु विवर्णचन्द्रेव हिमागमे द्यौः ॥ ९ ॥
अन्वयः—ताम् अङ्गनां प्रेक्ष्य विप्रलब्धा च निःश्वस्य भूयः शयनं प्रपेदे, हिमागमे
विवर्णचन्द्रा द्यौः इव विवर्णवक्त्रा आशु न रराज ॥ ९ ॥
व्याख्या—ताम् = पूर्वोक्ताम्, अङ्गनाम् = नारीम्, प्रेक्ष्य = अवलोक्य, विप्रलब्धा =
प्रवञ्चिता, च = पुनः, निःश्वस्य = उच्छ्वासं परित्यज्य, भूयः = पुनः, शयनम् =
पर्यङ्कम्, प्रपेदे = प्राप, हिमागमे = हेमन्ततौ, विवर्णचन्द्रा = विद्रूपसुधाकरा, द्यौः =
आकाशः, इव = यथा, विवर्णवक्त्रा—विवर्णम् = कान्तिहीनम्, वक्त्रम् = मुखम्,
यस्याः सा, आशु = त्वरितम्, न = नहि, रराज = शुशुभे ॥ ९ ॥
हिन्दी—पति की जगह उस महिला को देखकर वह सुन्दरी अत्यन्त निराश हुई,
लम्बी साँस खींचकर पुनः अपने पलंग पर लेट गई। हेमन्त ऋतु के आगमन पर
मन्द प्रकाश वाले चन्द्रमा से जैसे आकाश नहीं शोभित होता, वैसे ही आभाहीन मुख-
वाली वह सुशोभित नहीं हुई ॥ ९ ॥
सा दुःखिता भर्तुरदर्शनेन कामेन कोपेन च दह्यमाना ।
कृत्वा करे वक्त्रमुपोपविष्टा चिन्तानदीं शोकजलां ततार ॥ १० ॥
अन्वयः—सा दुःखिता भर्तुः अदर्शनेन कामेन कोपेन च दह्यमाना करे वक्त्रं
कृत्वा उपोपविष्टा शोकजलां चिन्तानदीं ततार ॥' १० ॥
व्याख्या—सा = नन्दभार्या, दुःखिता = पीडिता, भर्तुः = स्वामिनः, अदर्शनेन =
दर्शनाभावेन, कामेन = मन्मथेन, कोपेन = क्रोधेन, च = पुनः, दह्यमाना = प्रज्ज्वल-
न्तीम्, करे = हस्ते, वक्त्रम् = आननम्, कृत्वा = निधाय, उपोपविष्टा = समीपे समु-
पस्थिता सती, शोकजलाम् = प्रियविरहजन्यपीडासलिलम्, चिन्तानदीम् = औत्सुक्यतर-
ङ्गिणीम्, ततार = तरति स्म ॥ १० ॥
हिन्दी—पति के दर्शन नहीं होने के कारण अत्यन्त दुःखी वह सुन्दरी हाथ पर
मुख रखकर बैठी-बैठी शोकरूपी जलवाली नदी में तैरने लगी ॥ १० ॥
तस्या मुखं पद्म सपत्नभूतं पाणौ स्थितं पल्लवरागताम्रे ।
छायामयस्याम्भसि पङ्कजस्य बभौ न तं पद्ममिवोपरिष्टात् ॥ ११ ॥
अन्वयः—तस्याः पल्लवरागताम्रे पाणौ स्थितं पद्मसपत्नभूतं मुखम् अम्भसि
छायामयस्य पङ्कजस्य उपरिष्टात् नतं पद्ममिव बभौ ॥ ११ ॥
सौ०-11
११० सौन्दरनन्दं महाकाव्यम्
व्याख्या—तस्याः = नन्दपत्न्याः, पल्लवरागताम्रे—( 'पाणौ' पदस्य विशेषण-
मिदम् ) पल्लवस्य = किसलयस्य, रागः = लोहितवर्णः, इव = तद्वत्, ताम्रः = ताम्र-
वर्णकः, तस्मिन्, पाणौ = हस्ते, स्थितम् = उपस्थितम्, पद्मसपत्नभूतम्—पद्मस्य =
कमलस्य, सपत्नमिव—सह एकार्थे पतति ( पत् + न, सहस्य सः ), तम् = प्रतिद्वन्द्वी-
मिव, भूतम् = वर्तमानम्, मुखम् = आननम्, अम्भसि = सलिले, छायामयस्य—छायायाः
विकारः तस्य ( छाया + मयट् ) = प्रतिबिम्बस्य, पङ्कजस्य = पद्मस्य, उपरिष्टात् =
उपरि, नतम् = आपतितम्, पद्ममिव = पङ्कजमिव, बभौ = शोभयामास ॥ ११ ॥
हिन्दी—लाल-लाल तांबे के रंग के कोंपल की तरह उसकी हथेली पर कमल की
तरह उसका सुन्दर मुख ठीक वैसा ही लग रहा था, जैंसे पानी में पड़ने वाली कमल
की परछाईं पर झुका हुआ कमल हो ॥ ११ ॥
सा स्त्रीस्वभावेन विचिन्त्य तत्तद् दृष्टानुरागेऽभिमुखेऽपि पत्यौ ।
धर्माश्रिते तत्त्वमविन्दमाना सङ्कल्प्य तत्तद्विललाप तत्तत् ॥ १२ ॥
अन्वयः—सा स्त्रीस्वभावेन तत्तत् विचिन्त्य दृष्टानुरागे अभिमुखेऽपि पत्यौ धर्मा-
श्रिते तत्त्वम् अविन्दमाना तत्तत् सङ्कल्प्य तत्तत् विललाप ॥ १२ ॥
व्याख्या—सा = सुन्दरी, स्त्रीस्वभावेन = प्रमदाप्रकृत्या, तत्तत् = अनेकविधम्,
विचिन्त्य = विचार्य, दृष्टानुरागे—दृष्टः = प्रकटः, अनुरागः = प्रणयः, यस्य सः
तस्मिन्, अभिमुखेऽपि = अनुकूले सत्यपि, पत्यौ = भर्त्तरि, धर्माश्रिते—ध्रियते
लोकोऽनेन, धरति लोकं वा ( धृ + मन् ), धर्मस्य == नैतिकाचरणस्य, आश्रितः == अव-
लम्बितः, तस्मिन्, तत्त्वम् = याथार्थ्यम्, अविन्दमाना = अमन्यमाना, तत्तत् = बहुविधम्,
सङ्कल्प्य = अनेकविधं विचार्य, तत्तत् = विविधम्, विललाप = रुरोदेति ॥ १२ ॥
हिन्दी—नारी-स्वभाव की दुर्बलता के कारण अनेक दुश्चिन्ताओं से आक्रान्त
होकर, अपने प्रति अनुरक्त एवं अनुकूल पति के संन्यस्त होने की बात नकारती हुई
उस सुन्दरी ने बहुविध विलाप किया ॥ १२ ॥
एष्याम्यनाश्यानविशेषकायां त्वयीति कृत्वा मयि तां प्रतिज्ञाम् ।
कस्मान्नु हेतोर्दयितप्रतिज्ञः सोऽद्य प्रियो मे वितथप्रतिज्ञः ॥ १३ ॥
अन्वयः—त्वयि अनाश्यानविशेषकायाम् एष्यामि इति मयि तां प्रतिज्ञां कृत्वा
कस्मात् नु हेतोः अद्य दयितप्रतिज्ञः सः मे प्रियः वितथप्रतिज्ञः ॥ १३ ॥
व्याख्या—त्वयि = भवति, अनाश्यानविशेषकायाम्—अनाश्यानः = अशुष्कः,
विशेषकः = अङ्गरागः, यस्याः तस्याम्, एष्यामि = अत्रागमिष्यामि, इति = इत्थम्,
मयि = सुन्दर्याम्, प्रतिज्ञाम् = दृढसङ्कल्पम्, कृत्वा = विधाय, कस्मात् = केन, नु = इति
निश्चयेन, हेतोः = कारणेन, अद्य = सम्प्रति, दयितप्रतिज्ञः—दयिता = प्रिया, प्रतिज्ञा=
प्रतिवचनं, यस्य सः, सः = असौ, मे = मम, प्रियः = पतिः, वितथप्रतिज्ञः—वितथा=
मिथ्या, प्रतिज्ञा = सङ्कल्पः, यस्य सः, अभवत् ॥ १३ ॥
भार्या-विलापः ] षष्ठः सर्गः १११
हिन्दी—'तुम्हारे अंगराग सूखने से पहले मैं आ जाऊँगा' मुझसे ऐसी प्रतिज्ञा कर
मेरे प्रियतम, जिन्हें अपनी प्रतिज्ञा बड़ी प्रिय थी, आज उसे स्वयं क्यों झुठला रहे
हैं ? ॥ १३ ॥
आर्यस्य साधोः करुणात्मकस्य मन्नित्यभीरोरतिदक्षिणस्य ।
कुतो विकारोऽयमभूतपूर्वः स्वेनापरागेण ममापचारात् ॥ १४ ॥
अन्वयः—आर्यस्य करुणात्मकस्य साधोः मन्नित्यभीरोः अतिदक्षिणस्य अयम्
अभूतपूर्वः विकारः कुतः स्वेनापरागेण मम अपचारात् ॥ १४ ॥
व्याख्या—आर्यस्य = पत्युः, करुणात्मकस्य = दयालोः, साधोः = सत्पुरुषस्य,
मन्नित्यभीरोः—मत् = सुन्दर्याः, नित्यम् = ध्रुवम्, भीरुः = त्रस्नुः तस्य, अतिदक्षि-
णस्य = अत्यन्तानुकूलस्य ( दक्षिणनायकस्यायमेकभेदोऽस्ति; अयं हि नायकः सदानु-
कूलो भवति । ), अयम् = एषः, अभूतपूर्वः—पूर्वं भूतः भूतपूर्वः, न भूतपूर्वः अभूतपूर्वः =
आदिमः, विकारः = विक्रिया, कुतः = कस्मात्, स्वेन = निजेन, अपरागेण = वैराग्येण,
मम = सुन्दर्याः, अपचारात् = दुराचारात् वेति ॥ १४ ॥
हिन्दी—सज्जन, दयालु तथा मेरे प्रति सदैव भीरु एवं अनुकूल मेरे प्रियतम में
यह अभूतपूर्व परिवर्त्तन कहाँ से आया ? पता नहीं, ऐसा उनके स्वयं के प्रति वैराग्य से
अथवा मेरे किसी अपराध के कारण से हुआ है ? ॥ १४ ॥
रतिप्रियस्य प्रियवर्तिनो मे प्रियस्य नूनं हृदयं विरक्तम् ।
तथापि रागो यदि तस्य हि स्यान्मच्चित्तरक्षी न स नागतः स्यात् ॥१५॥
अन्वयः—रतिप्रियस्य प्रियवर्त्तिनः मे प्रियस्य हृदयं नूनं विरक्तं हि यदि तस्य
रागः तथा स्यात् मच्चित्तरक्षी अपि स नागतः न स्यात् ॥ १५ ॥
व्याख्या—रतिप्रियस्य—रतिः = सम्भोगः, प्रियः = अभीष्टः, यस्य सः, सम्भोग-
प्रेम्णः, प्रियवर्त्तिनः—प्रियं वर्त्तितुं शीलमस्येति प्रियवर्त्ती, तस्य = प्रियाचारिणः, मे =
मम, प्रियस्य = भर्तुः, हृदयम् = चित्तम्, नूनम् = निश्चयेन, विरक्तम् = अनुरागशून्यम्,
हि = यतः, यदि = चेत्, तस्य = मम प्रियस्य, रागः = अनुरागः, तथा = पूर्ववत्, स्यात् =
भवेत्, मच्चित्तरक्षी = मद्हृदयपालकः, अपि = चेत्, सः = असौ, नागतः = नायातः,
न = नहि, स्यात् = भवेत् ॥ १५ ॥
हिन्दी—रतिप्रिय तथा मेरे साथ मधुर व्यवहार करने वाले मेरे प्रियतम का
हृदय निश्चय ही मुझसे विरक्त हो गया है, क्योंकि यदि उनका अनुराग मेरे प्रति
पूर्ववत् होता, तो वे यहाँ नहीं आते, ऐसा नहीं होता ॥ १५ ॥
रूपेण भावेन च मद्विशिष्टा प्रियेण दृष्टा नियतं ततोऽन्या ।
तथा हि कृत्वा मयि मोघसान्त्वं लग्नां सतीं मामगमद्विहाय ॥ १६ ॥
अन्वयः—ततः नियतं प्रियेण रूपेण भावेन च मद्विशिष्टा अन्या दृष्टा तथा हि
मयि मोघसान्त्वं कृत्वा लग्नां सतीं मां विहाय अगमत् ॥ १६ ॥
११२ सौन्दरनन्दं महाकाव्यम्
व्याख्या—ततः = तत्पश्चात्, नियतम् = ध्रुवम्, रूपेण = आकृत्या, भावेन = गुण-
शीलेन, च = पुनः, मद्विशिष्टा = मत्तः उत्कृष्टतमा, अन्या = काऽप्यपरा, दृष्टा =
अवलोकिता, तथा हि = यतो हि, मयि = सुन्दर्याम्, मोघसान्त्वम् = व्यर्थसान्त्वम्,
कृत्वा = विधाय, लग्नाम् = अनुरक्ताम्, सतीम् = पतिव्रताम्, माम् = सुन्दरीम्, विहाय
= परित्यज्य, अगमत् = अगच्छत् ॥ १६ ॥
हिन्दी—निश्चय ही मेरे पति ने रूप और गुण में मुझसे विशिष्ट किसी अन्य
नायिका को देखा है, अन्यथा मेरी तरह अनुरक्ता पतिव्रता को झूठी सान्त्वना देकर
इस तरह छोड़कर नहीं जाते ॥ १६ ॥
भक्तिं स बुद्धं प्रति यामवोचत् तस्य प्रयातुं मयि सोऽपदेशः ।
मुनौ प्रसादो यदि तस्य हि स्यान्मृत्योरिवोग्रादनृताद् बिभीयात् ॥ १७ ॥
अन्वयः—सः बुद्धं प्रति यां भक्तिम् अवोचत् सः तस्य प्रयातुं मयि अपदेशः यदि
हि तस्य प्रसादः मुनौ स्यात् मृत्योः इव उग्रात् अनृतात् बिभीयात् ॥ १७ ॥
व्याख्या—सः = नन्दः, बुद्धं प्रति = तथागतम्प्रति, याम् = पूर्वोक्ताम्, भक्तिम् =
आत्मनिष्ठाम्, अवोचत् = उवाच, सः = असौ ( तत्कथनम् ), तस्य = मम प्रियस्य,
प्रयातुम् = गन्तुम्, मयि = सुन्दर्याम्, अपदेशः = व्याजमात्रम्, यदि हि = चेद्धि, तस्य =
मम प्रियस्य, नन्दस्य, प्रसादः = भक्तिः, मुनौ = तथागते, स्यात् = भवेत्, मृत्योः =
अन्तकस्य, इव = यथा, उग्रात् = प्रचण्डाद्, अनृतात् = असत्यात्, बिभीयात् = भय-
माप्नुयात् ॥ १७ ॥
हिन्दी—उन्होंने बुद्ध के प्रति जो अपनी भक्ति मेरे सामने व्यक्त की थी, वह तो
मुझे ठगने का मात्र एक बहाना था, अन्यथा मौत से भी प्रचण्ड असत्य भाषण का
भय उन्हें क्यों नहीं हुआ ? ॥ १७ ॥
सेवार्थमादर्शनमन्यचित्तो विभूषयन्त्या मम धारयित्वा ।
बिभर्ति सोऽन्यस्य जनस्य तं चेन्नमोऽस्तु तस्मै चलसौहृदाय ॥ १८ ॥
अन्वयः—विभूषयन्त्याः मम सेवार्थम् अन्यचित्तः आदर्शनं धारयित्वा चेत् सः
अन्यस्य जनस्य तं बिभर्त्ति तस्मै चलसौहृदाय नमोऽस्तु ॥ १८ ॥
व्याख्या—विभूषयन्त्याः = प्रसाधयन्त्याः, मम = सुन्दर्याः, सेवार्थम् = सहाय्यार्थम्,
अन्यचित्तः -- अनस्याम् = अपरस्याम्, चित्तम् = हृदयम्, यस्य सः, आदर्शनम्—दृश्यते
अनेन इति ( दृश्+ल्युट् ) = दर्पणम्, धारयित्वा = धारणं कृत्वा, चेत् = यदि, सः =
नन्दः, अन्यस्य = अपरस्य, जनस्य = नारीजनस्य, तम् = आदर्शनम्, बिभर्ति = धार-
यति, तस्मै = एवम्भूताय, चलसौहृदाय = अस्थिरप्रेमाय, नमोऽस्तु = दूरादेव नमस्कारः
अस्तु ॥ १८ ॥
हिन्दी—शृङ्गार करते समय मेरी सहायता के लिए, मन में किसी दूसरी औरत
को रखकर मुझे आइना दिखलाते रहे हैं तो ऐसे चपल प्रेम को नमस्कार है ॥ १८ ॥