सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
७० सौन्दरनन्दं महाकाव्यम्
हिन्दी—यदि नन्द उस सुन्दरी को नहीं पाता अथवा वह टेढ़ी भौंहों वाली सुन्दरी
नन्द को नहीं पाती तो निश्चय ही वे एक-दूसरे के अभाव में दुःखी दम्पति वैसे ही
नहीं शोभते, जैसे एक-दूसरे के अभाव में रात और चन्द्रमा ॥ ७ ॥
कन्दर्परत्योरिव लक्ष्यभूतं प्रमोदनन्द्वोरिव नीडभूतम् ।
प्रहर्षतुष्ट्योरिव पात्रभूतं द्वन्द्वं सहारंस्त मदान्धभूतम् ॥ ८ ॥
अन्वयः—कन्दर्परत्योः लक्ष्यभूतम् इव प्रमोदानन्द्वोः नीडभूतम् इव प्रहर्षतुष्टयोः
पात्रभूतम् इव मदान्धभूतम् द्वन्द्वं सह अरंस्त ॥ ८ ॥
व्याख्या—कन्दर्पश्च = मदनश्च, रतिश्च = मदनपत्नी च तयोः, लक्ष्यभूतम् =
उद्देश्यभूतम्, इव = यथा, प्रमोदानन्द्वोः—प्रमोदश्च = हर्षश्च, नन्दश्च = मोदश्च तयोः,
नीडभूतम् = आश्रयभूतम्, इव = यथा, प्रहर्षतुष्टयोः—प्रहर्षश्च = आनन्दश्च, तुष्टिश्च =
आत्मतोषश्च तयोः, पात्रभूतम् = आश्रयभूतम्, द्वन्द्वम् = युगलम्, इव = यथा, मदान्ध-
भूतम् = कामासक्तो भूत्वा, मदेन अन्धं भूतम् इति, अरंस्त = रमणं कृतवान् । प्रस्तुत-
श्लोके नन्ददम्पतिपदयोः लक्ष्य-नीड-पात्राणाम् सम्भावना कृताऽस्ति, तेनाऽत्रोत्प्रेक्षा-
ऽलङ्कारोऽस्ति ॥ ८ ॥
हिन्दी—काम और रति का लक्ष्य बनकर, प्रसन्नता और आनन्द की मानो
निवासभूमि बनकर तथा हर्ष और आत्मतोष का पात्र बनकर उस कामान्ध दम्पती
ने रमण किया ॥ ८ ॥
परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तम् ।
परस्पराश्लेषहृताङ्गरागं परस्परं तन्मिथुनं जहार ॥ ९ ॥
अन्वयः—परस्परोद्वीक्षणतत्पराक्षं परस्परव्याहृतसक्तचित्तं परस्पराश्लेषहृताङ्गरागं
तन्मिथुनं परस्परं जहार ॥ ९ ॥
व्याख्या—परस्परम् = अन्योन्यम्, उद्वीक्षणे = अवलोकने, तत्परे = निरते, अक्षिणी
= नेत्रे, यस्य तत् = परस्परावलोकननिरताक्षम्, परस्परव्याहृतसक्तचित्तम्—पर-
स्परम् = इतरेतरम्, व्याहृते = वार्त्तालापे, सक्तम् = व्यस्तम्, चित्तम् = मनः, यस्य
तत् = अन्योन्यजल्पने व्यस्तहृदयम्, परस्पराश्लेषहृताङ्गरागम्—परस्परम् = अन्योन्यम्,
आश्लेषेण = आलिङ्गनेन, हृतः = दूरीकृतः, अङ्गरागः = गात्ररञ्जनम्, यस्य तत्, तन्मि-
थुनम् = तद्द्वन्द्वम्, परस्परम् = मिथः, जहार = अहार्षीत् ॥ ९ ॥
हिन्दी—उन दोनों की आँखें एक-दूसरे को देखने में लीन थी, उनके दिल एक-
दूसरे से बातें करके अघाते नहीं थे, परस्पर आलिङ्गन करने से उन दोनों के अङ्गराग
मिट गए थे—इस तरह वे पति-पत्नी एक-दूसरे में खोये हुए थे ॥ ९ ॥
भावानुरक्तौ गिरिनिर्झरस्थौ तौ किन्नरीकिम्पुरुषाविवोभौ ।
चिक्रीडतुश्चाभिविरेजतुश्च रूपश्रियान्योन्यमिवाक्षिपन्तौ ॥ १० ॥
अन्वयः—भावानुरक्तौ गिरिनिर्झरस्थौ च तौ उभौ किन्नरीकिम्पुरुषौ इव
चिक्रीडतुः, रूपश्रिया अन्योन्यम् आक्षिपन्तौ इव च अभिविरेजतुः ॥ १० ॥
व्याख्या—भावानुरक्तौ—भावैः = प्रणयैः, अनुरक्तौ = आसक्तौ, गिरिनिर्झरस्थौ—
गिरौ=पर्वते, यः निर्झरः=प्रपातस्तस्मिन् तिष्ठति = निवसति तौ, च=पुनः, तौ =
दम्पती, उभौ = द्वौ, किन्नरी-किम्पुरुषौ = गन्धर्वजातिविशेषौ, इव=यथा, अक्रीडतुः
=अक्रीडताम्, रूपश्रिया=सौन्दर्यच्छविविभवेन, अन्योन्यम् = परस्परम्, आक्षिपन्तौ =
अनुकर्षन्तौ, इव = यथा, च=पुनः, अभिविरेजतुः = शुशुभाते ॥ १० ॥
हिन्दी—शैल-शिखर पर झरने में क्रीड़ारत यक्ष-यक्षिणी की तरह वे दोनों प्रेम-
विह्वल होकर अपनी सौन्दर्य-छवि से एक-दूसरे को चुनौती देते हुए सुशोभित
हुए ॥ १० ॥
अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वमन्योन्यमरीरमच्च ।
क्लमान्तरेऽन्योन्यविनोदनेन सलीलमन्योन्यममीमदच्च ॥ ११ ॥
अन्वयः—तद्द्वन्द्वम् अन्योन्यरागविवर्धनेन अन्योन्यम् अरीरमत् क्लमान्तरे च
अन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदत् च ॥ ११ ॥
व्याख्या—तद्द्वन्द्वम्=तद्दम्पती, अन्योन्यरागविवर्धनेन — अन्योन्यम् = परस्परम्,
रागस्य = प्रेम्णः, विवर्धनेन = उत्कर्षेण, तेन = मिथोऽनुरागसंवर्धनेन, अन्योन्यम् =
इतरेतरम्, अरीरमत् = रमयामास, क्लमान्तरे=श्रान्तेऽनन्तरम्, च=पुनः, अन्योन्य-
विनोदेन = पारस्परिकमनोविनोदेन, सलीलम् — लीलया सहितम् = लीलापूर्वकम्,
अन्योन्यम् = परस्परम्, अमीमदत् = प्रमत्तमकरोत् ॥ ११ ॥
हिन्दी—नन्द-दम्पती ने परस्पर प्रेम-संवर्धन के कारण जमकर एक-दूसरे का उप-
भोग किया। थक जाने पर मनोविनोद के लिए लीलापूर्वक एक-दूसरे को सम्मोहित
किया ॥ ११ ॥
विभूषयामास ततः प्रियां स सिषेविषुस्तां न मृजावहार्यम् ।
स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा ॥ १२ ॥
अन्वयः—ततः सः सिषेविषुः न मृजावहार्यं तां प्रियां विभूषयामास, हि स्वेनैव
रूपेण विभूषिता सा विभूषणानाम् अपि भूषणम् ॥ १२ ॥
व्याख्या—ततः = तत्पश्चात्, सः = नन्दः, सिषेविषुः = सेवितुमिच्छुः ( सेव् +
सन् + उ; सः इत्यस्य विशेषणम् ), न=नहि, मृजावहार्यम् — मृजां वहतीति मृजावह-
स्तदर्थम् = विभूषितार्थम्, ताम् = सुन्दरीम्, प्रियाम् = पत्नीम्, विभूषयामास = विभू-
षितः कृतवान्, हि = यतः, स्वेनैव = स्वकीयेनैव, रूपेण = सौन्दर्यशक्त्या, विभूषिता=
अलङ्कृता, सा = सुन्दरी, विभूषणानामपि = अलङ्करणानामपि, भूषणम् =
अलङ्करणम् ॥ १२ ॥
हिन्दी—इसके बाद नन्द ने उस सुन्दरी की सेवा करने की इच्छा से न कि उसे
अलङ्कृत करने की इच्छा से विभूषित किया, क्योंकि उस सुन्दरी को किसी भी जेवर
की आवश्यकता नहीं थी, वह तो स्वयं आभूषणों का आभूषण थी ॥ १२ ॥
सर्ग ६ से १०: सुन्दरी का विलाप, नन्द का प्रव्रज्या-दुःख, स्वर्ग-गमन व अप्सरा-दर्शन
७२ सौन्दरनन्दं महाकाव्यम्
दत्वाथ सा दर्पणमस्य हस्ते ममाग्रतो धारय तावदेनम् ।
विशेषकं यावदहं करोमीत्युवाच कान्तं स च तं बभार ॥ १३ ॥
अन्वयः -- अथ अस्य हस्ते दर्पणं दत्वा मम अग्रतः एनं तावत् धारय यावत् अहं
विशेषकं करोमि इति सा कान्तम् उवाच स च तं बभार ॥ १३ ॥
व्याख्या - अथ = ततः, अस्य = नन्दस्य, हस्ते = करे, दर्पणम् = प्रतिबिम्बम्,
दत्वा = प्रदाय, मम = मदीया सुन्दर्याः, अग्रतः = अभिमुखम्, एनम् = दर्पणम्, तावत् =
तावत्कालपर्यन्तम्, तावदित्यवधारणे, धारय = धारणं कुरु, यावत् = यावत्काल-
पर्यन्तम्, अहम् = सुन्दरी, -विशेषकम् = अङ्गरागम्, करोमि = सम्पादयामि, इति =
एवम्, सा = नन्दभार्या, उवाच = अवदत्, कान्तम् = निजपति नन्दम्, सः = पूर्वोक्तः,
च = पुनः, तम् = दर्पणम्, बभार = दधार ॥ १३॥
हिन्दी-तब अपने प्रिय के हाथों में ऐनक थमाकर उसने कहा-इसे आप तब
तक पकड़े रहिए, जब तक मैं अपना अङ्गराग न कर लूं-नन्द ने उस ऐनक को
अपने हाथों में थाम लिया ॥ १३ ॥
भर्तुस्ततः श्मश्रु निरीक्षमाणा विशेषकं सापि चकार तादृक् ।
निःश्वासवातेन च दर्पणस्य चिकित्सयित्वा निजघान नन्दः ॥ १४ ॥
अन्वयः - ततः भर्तुः श्मश्रु निरीक्षमाणा साऽपि तादृग् विशेषकम् चकार, नन्दः
चिकित्सयित्वा निःश्वासवातेन च दर्पणस्य निजघान ॥ १४ ॥
व्याख्या - ततः = तत्पश्चात्, भर्तुः = पत्युः, श्मश्रु = ओष्ठलोम, निरीक्षमाणा =
अवलोकयन्ती, साऽपि = नन्दभार्याऽपि, तादृक् = तथैव, विशेषकम् - विशेषम् = अङ्ग-
रागादिकम्, करोतीति विशेषकम्, चकार = कृतवान्, नन्दः = गौतमानुजः, चिकित्स्-
यित्वा = ज्ञात्वा, निःश्वासवातेन = उच्छ्वासपवनेन, च = पुनः, दर्पणस्य = मुकुरस्य,
निजघान = मलिनमकरोत् ॥ १४ ॥
हिन्दी-तब वह सुन्दरी अपने पति की मूँछ को देखती हुई, उसी तरह की मूँछें
बना ली, यह देखकर नन्द ने अपनी गहरी साँसों से दर्पण को मलिन कर दिया ॥१४॥
सा तेन चेष्टाललितेन भर्तुः शाठयेन चान्तर्मनसा जहास ।
भवेच्च रुष्टा किल नाम तस्मै ललाटजिह्मां भ्रुकुटिं चकार ॥ १५ ॥
अन्वयः - सा भर्तुः तेन शाठयेन चेष्टाललितेन च अन्तर्मनसा जहास किल नाम
रुष्टा च भवेत् तस्मै ललाटजिह्मां भ्रुकुटिं चकार ॥ १५ ॥
व्याख्या - सा = नन्दपत्नी, भर्तुः = पत्युः, तेन = पूर्वोक्तप्रकारेण, शाठयेन -
शठस्य = धूर्तस्य, भावः = सत्ता, तेन = प्रतारणेन, चेष्टाललितेन - चेष्टया = लीलया,
ललितम् = सुन्दरम्, तेन = लीलामधुरेण, च = पुनः, अन्तर्मनसा = अन्तहृदयेन,
जहास = अट्टहासमकरोत्, किल नाम = इत्यव्ययपदम्, रुष्टा = क्रुद्धा, च = पुनः,
भवेत् = स्यात्, तस्मै = नन्दाय, ललाटजिह्माम् - ललाटेन = भालेन, जिह्माम् =
कुटिलाम्, ताम्, भ्रुकुटिम् = भ्रुवम्, चकार = अकरोत् ॥ १५ ॥
भार्या-याचितकम् ] चतुर्थः सर्गः ७३
हिन्दी—तब वह सुन्दरी अपने पति की इस ललित चेष्टा और धूर्तता को देख
कर मन ही मन हँसी, परन्तु ऊपर से भौंहें टेढ़ी कर क्रुद्ध होने का भाव प्रदर्शन किया ।
चिक्षेप कर्णोत्पलमस्य चांसे करेण सव्येन मदालसेन ।
पत्राङ्गुलिं चार्धनिमीलिताक्षे वक्त्रेऽस्य तामेव विनिर्दुधाव ॥ १६ ॥
अन्वयः—मदालसेनं सव्येन करेण अस्य अंसे कर्णोत्पलं चिक्षेप अस्य च अर्द्ध-
निमीलिताक्षे वक्त्रे तामेव पत्राङ्गुलिं विनिर्दुधान ॥ १६ ॥
व्याख्या—मदालसेन = कामजनितशैथिल्येन, सव्येन = दक्षिणेतरेण, करेण =
हस्तेन, अस्य = नृपस्य, च = पुनः, अंसे = स्कन्धे, कर्णोत्पलम् = कर्णस्य = श्रोत्रस्य,
उत्पलम् = नीलकमलम्, चिक्षेप = प्राक्षिपत्, अस्य च = नृपस्य च, अर्धनिमीलिताक्षे-
अर्धम् = अर्द्धांशम्, निमीलिते = उन्मीलिते, अक्षिणी = नेत्रे, नयने, यस्य तस्मिन्,
मुखे = वक्त्रे, तामेव = पूर्वोक्तामेव, पत्राङ्गुलिम् = शरीराङ्गरागम्, विनिर्दुधाव =
निश्चिक्षेप ॥ १६ ॥
हिन्दी—मदन-मद से शिथिल बने अपने बाँयें हाथ से नन्द के कन्धे पर उस
सुन्दरी ने अपने कान में लगे नीले कमल के बने आभूषण को उतार कर फेंका, फिर
अधखुली आँखों वाले उसके सुन्दर मुख पर अपना अङ्गराग लेप दिया ॥ १६ ॥
ततश्चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोद्भासितराङ्गुलिभ्याम् ।
पद्भ्यां प्रियाया नलिनोपमाभ्यां मूर्ध्ना भयान्नाम ननाम नन्दः ॥ १७ ॥
अन्वयः—ततः नन्दः भयात् प्रियायाः चलन्नूपुरयोक्त्रिताभ्यां नखप्रभोद्भासित-
राङ्गुलिभ्यां नलिनोपमाभ्यां पद्भ्यां मूर्ध्ना ननाम नाम ॥ १७ ॥
व्याख्या—ततः = तत्पश्चात्, नन्दः = गौतमानुजः, भयात् = त्रासात्, प्रियायाः=
प्रियतमायाः, चलन्नूपुरयोक्त्रिताम्—चलन्तौ = वेपन्तौ, यौ नूपुरौ = पादकटकौ,
ताभ्यां योक्त्रितौ = नियन्त्रितौ, ताभ्याम्, नखप्रभोद्भासितराङ्गुलिभ्याम्—नखानां =
नखराणाम्, प्रभा = कान्तिस्तया उद्भासितराः = दीप्तितराः, अङ्गुल्योः=करशाखयोः,
ययोः ताभ्याम्, नलिनोपमाभ्याम्—नलिनम् = कमलम्, उपमा = तुलना, यस्य
ताभ्याम्, पद्भ्याम् = चरणाभ्याम्, मूर्ध्ना = शिरसा, ननाम नाम = निश्चयेन नमश्च-
कार। अत्राप्युपमाऽलङ्कारः ॥ १७ ॥
हिन्दी—इसके बाद डर कर नन्द ने प्रियतमा के पाँवों को प्रणाम किया, उसके
पैर में चञ्चल पायल थे, नाखूनों की कान्ति से अङ्गुलियां प्रदीप्त थी और वे पैर
कमल की तरह सुन्दर और कोमल थे ॥ १७ ॥
स मुक्तपुष्पोन्मिषितेन मूर्ध्ना ततः प्रियायाः प्रियकृद् बभासे ।
सुवर्णवेद्यामनिलावभग्नः पुष्पातिभारादिव नागवृक्षः ॥ १८ ॥
अन्वयः—ततः मुक्तपुष्पोन्मिषितेन मूर्ध्ना प्रियायाः प्रियकृत् सः पुष्पातिभारात्
सुवर्णवेद्याम् अनिलावभग्नः नागवृक्षः इव बभासे ॥ १८ ॥
व्याख्या—ततः = तदनन्तरम्, मुक्तपुष्पोन्मिषितेन—मुक्तैः = विकसितैः, पुष्पैः=
७४ सौन्दरनन्दं महाकाव्यम्
सुमनैः, उन्मिषितेन = प्रस्फुटितेन, मूर्ध्ना = शिरसा, प्रियायाः = प्रियतमायाः, प्रियकृत् =
मनोऽनुकूलकर्ता, सः = राजा, पुष्पातिभारात् = पुष्पाणाम् = कुसुमानाम्, अतिभारात् =
अत्यधिकभारयुक्तात्, सुवर्णवेद्याम् = कनकवेद्याम्, अनिलावभग्नः = अनिलेन = वायुना,
अवभग्नः = त्रुटितः, नागवृक्षः = फणिकेशरतरुः, इव = यथा, बभासे = अभासत्।
अत्राप्युपमाऽलङ्कार इति ॥ १८ ॥
हिन्दी - उसके बाद नीचे लटकते हुए फूलों से उसका मस्तक चमकने लगा, उस
समय प्रिया को मनाने में लगा हुआ नन्द ऐसे शोभित हुआ, जैसे सुवर्ण-वेदी पर वायु
के वेग से और फूलों के भार से टूटा हुआ नागवृक्ष शोभित होता है ॥ १८ ॥
सा तं स्तनोद्वर्तितहारयष्टिरुत्थापयामास निपीड्य दोर्भ्याम् ।
कथं कृतोऽसीति जहास चोच्चैर्मुखेन साचीकृतकुण्डलेन ॥ १९ ॥
अन्वयः-स्तनोद्वर्तितहारयष्टिः सा तं दोर्भ्यां निपीड्य उत्थापयामास साचीकृत-
कुण्डलेन मुखेन कथं कृतोऽसीति च उच्चैः जहास ॥ १९ ॥
व्याख्या - स्तनाभ्याम् = कुचाभ्याम्, उद्वर्तिता = अधोगच्छता, हारयष्टिः = कण्ठा-
भरणम्, यस्याः, सा = सुन्दरी, तम् = नन्दम्, दोर्भ्याम् = बाहुभ्याम्, निपीड्य = समा-
लिङ्गय, उत्थापयामास = उत्थापितवती, साचीकृतकुण्डलेन - साचीकृतम् = वक्री-
कृतम्, कुण्डलम् = कर्णभूषणम्, यस्य, तेन = रूपेण, मुखेन = आननेन, कथं कृतोऽसि =
कीदृक् कारितोऽसि, इति = एवमुक्त्वा, उच्चैः = तारस्वरेण, जहास = अहसदिति ॥१९॥
हिन्दी - जिसके गले का हार उन्नत उरोजों से नीचे लटक रहा था, उस सुन्दरी
ने अपने पति नन्द को दोनों भुजाओं से जकड़ कर ऊपर उठा लिया - इस आलिंगन
से उसके कानों के कुण्डल टेढ़े हो गये, जिसे देखकर उसने कहा- कैसे बना दिये
गये हो ? और फिर ठठाकर हँस पड़ी ॥ १९ ॥
पत्युस्ततो दर्पणसक्तपाणेर्मुहुर्मुहुर्वक्त्रमवेक्षमाणा ।
तमालपत्रार्द्रतले कपोले समापयामास विशेषकं तत् ॥ २० ॥
अन्वयः - ततः दर्पणसक्तपाणेः पत्युः वक्त्रं मुहुर्मुहुः अवेक्षमाणा तमालपत्रार्द्रतले
कपोले तत् विशेषकं समापयामास ॥ २० ॥
व्याख्या - ततः = तत्पश्चात्, दर्पणसक्तपाणेः = दर्पणेन = मुकुरेण, सक्तः = संलग्नः,
पाणिः = करः, यस्य = तस्य नन्दस्य, वक्त्रम् = आननम्, मुहुर्मुहुः = वारम्बारम्,
अवेक्षमाणा = अवलोकयन्ती सती, तमालपत्रार्द्रतले = तमालस्य = कालनीलतालस्य,
पत्रेण = दलेन, आर्द्रम् = क्लिन्नम्, तलम् = अधोभागं, यस्य तस्मिन्, कपोले = गण्डे,
तत् = पूर्वोक्तम्, विशेषकम् = अङ्गरागम्, समापयामास = सम्पादयामास ॥ २० ॥
हिन्दी - तब हाथ में दर्पण लिए अपने पति के मुँह को बार-बार निहारती हुई
उस बाला ने आबनूस के पत्ते से गीले तल वाले उनके गालों पर अङ्गराग का लेप
लगा दिया ॥ २० ॥
तस्या मुखं तत्सतमालपत्रं ताम्राधरोष्ठं चिकुरायताक्षम् ।
रक्ताधिकाग्रं पतितद्विरेफं सशैवलं पद्ममिवाबभासे ॥ २१ ॥
भार्या-याचितकम् ] चतुर्थः सर्गः ७५
अन्वयः—तस्याः तत् मुखं सतमालपत्रं ताम्राधरोष्ठं चिकुरायताक्षं सशैवलं
रक्ताधिकाग्रं पतितद्विरेफं पद्म इव आबभासे ॥ २१ ॥
व्याख्या—तस्याः =सुन्दर्यः, तत् =पूर्वकथितम्, मुखम् = आननम्, सतमालपत्रम्—
तमालस्य = नीलतालस्य, पत्रेण सह = दलेन युक्तम्, ताम्राधरोष्ठम् — ताम्रम् = मुनिपित्तलम्,
इव = तद्वद्रक्तवर्णम्, अधरोष्ठम् -- अधस्तनः ओष्ठः यस्य तत् (मुखस्य विशेषणपदमिदम्;
अधरेणैव अधस्तनीयोष्ठस्य प्रतीतिर्भवति, अतः ओष्ठपक्षोल्लेखस्याऽत्र काऽपि
विशेषाऽवश्यकता नास्ति । 'अधर + ओष्ठः' इत्यस्मिन् पदे 'ओत्वोष्ठयोः समासे वा'
इत्यनेन सूत्रेण वैकल्पिकवृद्धिर्भवति । ), चिकुरायताक्षम्—चिकुरे = चपले, आयते =
विशाले, च अक्षिणी = नयने, यस्य = सुन्दर्यस्तत्, सशैवलम्—शैवलेन सह = शैवलयुक्तम्,
रक्ताधिकाग्रम् = अतिलोहिताग्रभागम्, पतितद्विरेफम् -- पतितः = स्थितः, द्विरेफाः =
भ्रमराः, यस्मिन् तत्, पूर्वोक्तपदत्रयमिदं पद्मस्य विशेषणमस्ति । पद्मम् = कमलम्, इव
= यथा, आबभासे = शोभितो बभूव ॥ २१ ॥
हिन्दी—आबनूस के नीले पत्ते वाले, ताम्र की तरह लाल-लाल ओष्ठ वाले, चञ्चल
काली कजरारी लम्बी फाँकदार आंखों वाले वह मुख सेवार से घिरे लाल कोपल पर
बैठे भौंरे वाले कमल की तरह शोभित हो रहा था ॥ २१ ॥
नन्दस्ततो दर्पणमादरेण बिभ्रत्तदामण्डनसाक्षिभूतम् ।
विशेषकावेक्षणकेकराक्षो लडत्प्रियाया वदनं ददर्श ॥ २२ ॥
अन्वयः—ततः नन्दः तदामण्डनसाक्षिभूतं दर्पणम् आदरेण बिभ्रत् विशेषकावेक्षण-
केकराक्षः प्रियायाः लडत् वदनं ददर्श ॥ २२ ॥
व्याख्या--ततः = तत्पश्चात्, नन्दः = नृपतिः, तदामण्डनसाक्षिभूतम्—तत् =
तस्याः, मण्डनम् = प्रसाधनम्, साक्षिभूतम् = प्रत्यक्षकारि, दर्पणम् = मुकुरम्, आदरेण
= सम्मानेन, बिभ्रत् = धारयत्, विशेषकावेक्षणकेकराक्षः—विशेषकस्य = अङ्गरागस्य,
अवेक्षणाय = अवलोकनाय, केकराक्षः = तिर्यग्दृष्टिः, प्रियायाः = सुन्दर्यः, लडत् =
भावयुक्तम्, वदनम् = मुखम्, ददर्श = अपश्यत् ॥ २२ ॥
हिन्दी—तब नन्द ने प्रिया के प्रसाधन के साक्षी उस दर्पण को ससम्मान हाथ
में उठा लिया तथा उसके अङ्गराग को देखने के लिए तिरछी आँखों से उसके सुन्दर
मुख को देखा ॥ २२ ॥
तत्कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टमिवारविन्दम् ।
नन्दः प्रियाया मुखमीक्षमाणो भूयः प्रयानन्दकरो बभूव ॥ २३ ॥
अन्वयः—नन्दः प्रियायाः कुण्डलादष्टविशेषकान्तं कारण्डवक्लिष्टम् अरविन्दम्
इव तत् मुखम् ईक्षमाणः भूयः प्रयानन्दकरः बभूव ॥ २३ ॥
व्याख्या—नन्दः = नृपः, प्रियायाः = निजप्रियपल्याः, कुण्डलादष्टविशेषकान्तम्—
कुण्डलाभ्याम् = कर्णाभूषणाभ्याम्, आदष्टः = मृष्टः, विशेषकस्य = अङ्गरागस्य, अन्त-
र्यस्य तत्, कारण्डवक्लिष्टम्—कारण्डवेन = एतदाख्यखगविशेषेण, क्लिष्टम् =
यहाँ पृष्ठ का पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण प्रस्तुत है:
७६ · सौन्दरनन्दं महाकाव्यम्
पीडितम्, अरविन्दम् = कमलम्, इव = यथा, तत् = सुन्दर्यः, मुखम् = वदनम्, ईक्ष-
माणः = अवलोकयन्, भूयः = पुनः, प्रयानन्दकरः = आनन्दं करोतीति आनन्दकरः,
प्रियायाः आनन्दकरः प्रयानन्दकरः = भार्याप्रीतिकरः, बभूव = अभवत् ॥ २३ ॥
हिन्दी—कारण्डव पक्षी से पीड़ित कमल की तरह, कुण्डल से घिस कर मिटे हुए
अङ्गराग के छोर वाले प्रियतमा के मुख को राजा नन्द ने फिर से प्रसन्न कर
दिया ॥ २३ ॥
विमानकल्पे स विमानगर्भे ततस्तथा चैव ननन्द नन्दः ।
तथागतश्चागतभैक्षकालो भैक्षाय तस्य प्रविवेश वेश्म ॥ २४ ॥
अन्वयः—सः नन्दः विमानकल्पे विमानगर्भे तथा चैव ननन्द ततः आगतभैक्षकालः
तथागतः च भैक्षाय तस्य वेश्म प्राविवेश ॥ २४ ॥
[
भार्या-याचितकम् ] युवती चतुर्थः सर्गः ७७
अन्वयः-काचित् अङ्गविलेपनं पिपेष काचित् च अङ्गना वासः अवासयत् तथा
अन्या स्नानविधिम् अयोजयत् अन्याः च सुरभीः स्रजः जग्रन्थुः ॥ २६ ॥
व्याख्या-काचित् = काऽपि नारी, अङ्गविलेपनम् = अङ्गस्य = शरीरावयवस्य,
विलेपनम् = उद्वर्तनम्, पिपेष = अपेपीष्ट, च = पुनः, काचित् = काऽपि, अङ्गना =
नारी, वासः = वस्त्रम्, अवासयत् = वासयामास, तथा, अन्या = अपरा, स्नानविधिम्-
स्नानस्य = मज्जनस्य, विधिः = युक्तिस्तम्, अयोजयत् = योजनाञ्चकार, अन्याः =
अपराः, च = पुनः, सुरभीः = सुवासिताः, स्रजः = मालाः, जग्रन्थुः = अग्रन्थन् ॥ २६ ॥
हिन्दी-कोई महिला उबटन पीस रही थी, कोई औरत कपड़ों को सुगन्धित
बना रही थी, कोई स्नान-विधि का आयोजन कर रही थी और कुछ औरतें सुगन्धित
फूलों की मालाएं गूंथ रही थी ॥ २६ ॥
तस्मिन् गृहे भर्तुरतश्चरन्त्यः क्रीडानुरूपं ललितं नियोगम् ।
काश्चिन्न बुद्धं ददृशुर्युवत्यो बुद्धस्य वैषा नियतं मनीषा ॥ २७ ॥
अन्वयः-अतः तस्मिन् गृहे भर्तुः क्रीडानुरूपं ललितं नियोगं चरन्त्यः काश्चित
युवत्यः बुद्धं न ददृशुः वा बुद्धस्य नियतम् एषा मनीषा ॥ २७ ॥
व्याख्या-अतः = अस्मात् कारणात्, तस्मिन् = पूर्वोक्ते, गृहे = सद्मनि, भर्तुः =
स्वामिनः, क्रीडानुरूपम् - क्रीडायाः = प्रणयलीलायाः, अनुरूपम् - रूपस्य योग्यमनु-
रूपम् = अनुकूलं, ललितम् = मनोरमम्, नियोगम् = आयोजनम्, चरन्त्यः = साधय-
न्त्यः, काश्चित् = काऽपि, युवत्यः = तरुण्यः, बुद्धम् = तथागतम्, न = नहि, ददृशुः =
दर्शयामास, वा = अथवा, बुद्धस्य = गौतमस्य, नियतम् = निश्चितम्, एषा मनीषा-
मनसः ईषा मनीषा = इच्छेति ॥ २७ ॥
हिन्दी-उस घर में मालिक की विलास-लीला के अनुरूप काम करती हुई
किसी युवती ने बुद्ध को नहीं देखा या यों कहें कि भगवान् बुद्ध की यही इच्छा थी।
काचित् स्थिता तत्र तु हर्म्यपृष्ठे गवाक्षपक्षे प्रणिधाय चक्षुः ।
विनिष्पतन्तं सुगतं ददर्श पयोदगर्भादिव दीप्तमर्कम् ॥ २८ ॥
अन्वयः-तत्र तु काचित् हर्म्यपृष्ठे गवाक्षपक्षे चक्षुः प्रणिधाय स्थिता पयोदगर्भात्
दीप्तम् अर्कम् इव विनिष्पतन्तं सुगतं ददर्श ॥ २८ ॥
व्याख्या-तत्र = तस्मिन् स्थाने, तु = पादपूर्त्यर्थमिदम्, काचित् = काऽपि नारी,
हर्म्यपृष्ठे = भवनपटले, गवाक्षपक्षे - गोः अक्षीव गवाक्षस्तस्य गवाक्षस्य = वातायनस्य,
पक्षे = पार्श्वभागे, चक्षुः = नयनम्, प्रणिधाय = निक्षिप्य, स्थिता = तिष्ठन्ती, पयोद-
गर्भात् = मेघमध्यात्, दीप्तम् = प्रकाशितम्, अर्कमिव = रविरिव, विनिष्पतन्तम् =
बहिर्गच्छन्तम्, सुगतम् = तथागतम्, ददर्श = अपश्यत् ॥ २८ ॥
हिन्दी-राजमहल की छत पर खड़ी कोई युवती महल की खिड़की की ओर
देख रही थी, उसने बादलों को चीरकर निकलते प्रज्ज्वलित सूर्य की तरह भगवान्
बुद्ध को बाहर निकलते देखा ॥ २८ ॥
सौ०-९
७८ सौन्दरनन्दं महाकाव्यम्
सा गौरवं तत्र विचार्य भर्तुः स्वया च भक्त्यार्हंतयार्हतश्च ।
नन्दस्य तस्थौ पुरतो विवक्षुस्तदाज्ञया चेति तदाचचक्षे ॥ २९ ॥
अन्वयः—तत्र सा भर्तुः गौरवं विचार्य अर्हतः अर्हंतया स्वया भक्त्या च विवक्षुः
नन्दस्य पुरतः तस्थौ तदाज्ञया च तदा इति आचचक्षे ॥ २९ ॥
व्याख्या—तत्र=तस्मिन् गृहे, सा=पूर्वोक्ता तरुणी, भर्तुः=राज्ञः, गौरवं=
महिमानम्, विचिन्त्य=विचार्य, अर्हतः=पूज्यस्य, अर्हंतया=पूज्यतया, स्वया=
स्वात्मना, भक्त्या=श्रद्धया, च=पुनः, विवक्षुः=किञ्चिद्वक्तुमिच्छुः, नन्दस्य=
नृपस्य, पुरतः=अग्रतः, तस्थौ=अतिष्ठत्, तदाज्ञया=नृपादेशेन, च तदा=तस्मिन्,
इति=इत्थम्, आचचक्षे=निवेदयामास ॥ २९ ॥
हिन्दी—राजा के गौरव और बुद्ध की गरिमा को विचार कर वह युवती कुछ
कहने की इच्छा से राजा नन्द के सामने खड़ी हुई और उनका आदेश पाकर कुछ
निवेदित किया ॥ २९ ॥
अनुग्रहायास्य जनस्य शङ्के गुरुर्गृहं नो भगवान् प्रविष्टः ।
भिक्षामलब्ध्वा गिरमासनं वा शून्यादरण्यादिव याति भूयः ॥ ३० ॥
अन्वयः—अहं शङ्के अस्य जनस्य अनुग्रहाय नः गृहं प्रविष्टः भगवान् गुरुः
भिक्षां गिरम् आसनं वा अलब्ध्वा शून्यात् अरण्यात् इव भूयः याति ॥ ३० ॥
व्याख्या—अहम्=पूर्वोक्ता परिचारिका, शङ्के=संशयामि, अस्य=एतस्य,
जनस्य=लोकस्य, अनुग्रहाय=दया कर्त्तुम्, नः=अस्माकम्, गृहम्=राजप्रासादम्,
प्रविष्टः=समागतः, भगवान्=जिनः, गुरुः=बुद्धः, भिक्षाम्=याचनाम्, गिरम्=
वाणीम्, आसनम्=उपवेशनम्, वा=अथवा, अलब्ध्वा=अप्राप्य, शून्यात्=जन-
हीनात्, अरण्यात्=वनात्, इव=यथा, भूयः=पुनः, याति=निर्गच्छति ॥ ३० ॥
हिन्दी—मुझे लगता है—हम लोगों पर कृपा करने के लिए स्वयं भगवान् बुद्ध
ने इस राजमहल में प्रवेश किया, किन्तु जनशून्य जंगल की तरह इस महल से बिना
भिक्षा, अभ्यर्थना के सुवचन और आसन पाये ही लौट रहे हैं ॥ ३० ॥
श्रुत्वा महर्षेः स गृहप्रवेशं सत्कारहीनं च पुनः प्रयाणम् ।
चचाल चित्राभरणाम्बरस्रक्कल्पद्रुमो धूत इवानिलेन ॥ ३१ ॥
अन्वयः—महर्षेः गृहप्रवेशं पुनः सत्कारहीनं प्रयाणं च श्रुत्वा सः चित्राभरणाम्बर-
स्रक् अनिलेन धूतः कल्पद्रुम इव चचाल ॥ ३१ ॥
व्याख्या—महर्षेः=बुद्धस्य, गृहप्रवेशम्=गृहे=राजभवने, प्रवेशम्=समागमनम्,
पुनः=भूयः, सत्कारहीनम्=सत्कारेण=समादरेण, हीनम्=रहितम्, च=पुनः,
श्रुत्वा=आकर्ण्य, सः=राजा नन्दः, चित्राभरणाम्बरस्रक्—चित्राणि=विविधवर्णानि,
आभरणानि=आभूषणानि, अम्बराणि=वस्त्राणि, स्रजश्च=मालाश्च, यस्याऽसौ,
अनिलेन=पवनेन, धूतः=प्रकम्पितः, कल्पद्रुमः=कल्पवृक्षः, इव=यथा, चचाल=
चकम्पे ॥ ३१ ॥
भार्या-याचितकम् ] चतुर्थः सर्गः ७९
हिन्दी-महात्मा बुद्ध घर आये और बिना सत्कार पाये ही लौट गये, यह जान-
कर विविध वस्त्राभूषण और मालाओं से सुसज्जित राजा नन्द उसी तरह काँप उठे
जैसे वायुवेग से प्रकम्पित कल्पवृक्ष ॥ ३१ ॥
कृत्वाञ्जलिं मूर्धनि पद्मकल्पं ततः स कान्तां गमनं ययाचे ।
कर्तुं गमिष्यामि गुरौ प्रणामं मामभ्यनुज्ञातुमिहार्हसीति ॥ ३२ ॥
अन्वयः—ततः स मूर्धनि पद्मकल्पम् अञ्जलिं कृत्वा कान्तां गमनं ययाचे, गुरौ
प्रणामं कर्तुं गमिष्यामि इह अभ्यनुज्ञातुम् अर्हसि इति ॥ ३२ ॥
व्याख्या—ततः =तत्पश्चात्, सः =नृपतिर्नन्दः, मूर्धनि = शिरसि, पद्मकल्पम् =
कमलतुल्यम्, अञ्जलिं कृत्वा = हस्तसम्पुटं विधाय, कान्ताम् = स्वप्रियाम्, गमनम् =
चलनम्, ययाचे =याचितवान्, गुरौ =मुनौ, प्रणामम् = अभिवादनम्, कर्तुम् =करणाय,
गमिष्यामि = यास्यामि, माम् = नन्दाख्यनृपतिम्, अभ्यनुज्ञातुम् = अनुमतिं प्रदातुम्,
इह =अस्मिन् विषये, अर्हसि = योग्याऽसि, इति=एवं निवेदयामास ॥ ३२ ॥
हिन्दी—इसके बाद दोनों हाथ जोड़कर अपनी प्रिय पत्नी से गुरु के दर्शन हेतु
जाने की अनुमति माँगी ॥ ३२ ॥
सा वेपमाना परिसस्वजे तं शालं लता वातसमीरितेव ।
ददर्श चाश्रुप्लुतलोलनेत्रा दीर्घं च निःश्वस्य वचोऽभ्युवाच ॥ ३३ ॥
अन्वयः—वातसमीरिता लता इव तं शालं सा वेपमाना परिसस्वजे, च अश्रु-
पूर्णनेत्रा ददर्श च दीर्घं निःश्वस्य वचः अभ्युवाच ॥ ३३ ॥
व्याख्या—वातसमीरिता—वातेन = वायुना, समीरिता = प्रकम्पिता, लता =
वल्लरी, इव = यथा, तम् = नृपनन्दम्, शालम् = शङ्कुद्रुमम्, सा =सुन्दरी, वेपमाना =
कम्पमाना, परिसस्वजे = आश्लेषमकरोत्, च =पुनः, अश्रुपूर्णनेत्रा =सजलनयना,
ददर्श =अपश्यत्, च =पुनः, दीर्घम् = दीर्घकालिकम्, निःश्वस्य =उच्छ्वस्य, वचः=
गिरः, अभ्युवाच =निवेदयामास । उपमालङ्कारः ॥ ३३ ॥
हिन्दी—( यह सुनकर ) वह काँपने लगी और उसका आलिङ्गन किया, जैसे
हवा से हिलाई गई लता शालवृक्ष का आलिङ्गन कर रही हो । अश्रुपूरित चञ्चल
नेत्रों से उसे देखकर दीर्घ श्वास लेती हुई वह बोली ॥ ३३ ॥
नाहं यियासोर्गुरुदर्शनार्थमर्हामि कर्तुं तव धर्मपीडाम् ।
गच्छार्यपुत्रैहि च शीघ्रमेव विशेषको यावदयं न शुष्कः ॥ ३४ ॥
अन्वयः—गुरुदर्शनार्थं यियासोः तव धर्मपीडां कर्तुं न अहम् अर्हामि, आर्यपुत्र !
गच्छ च शीघ्रम् एहि यावत् अयं विशेषकः शुष्कः न ( भवेत् ) ॥ ३४ ॥
व्याख्या—गुरुदर्शनार्थम् = मुनिदर्शनाय, यियासोः =गन्तुमिच्छुकस्य, तव =
भवतः, धर्मपीडाम् = धार्मिककृत्ये बाधाम्, कर्तुम् =विधातुम्, न=नहि, अहम् =
सुन्दरी, अर्हामि =योग्याऽस्मि, तेन, आर्यपुत्र =हे स्वामिन् ! गच्छ=व्रज, च=पुनः,
८० सौन्दरनन्दं महाकाव्यम्
शीघ्रम् = सत्वरम्, एहि = समागम्यताम्, यावत् = यावत्कालपर्यन्तम्, अयम् = एषः,
विशेषकः = अङ्गरागः, शुष्कः = आर्द्रतारहितः, न = नहि भवेत् ॥ ३४ ॥
हिन्दी--गुरु-दर्शन तो आपके धार्मिक अनुष्ठान हैं, ऐसे काम में मैं आपको
बाधा नहीं डाल सकती। अतः हे आर्यपुत्र ! आप वहाँ अवश्य जाएँ, किन्तु जब तक
यह अङ्गराग सूख न जाय-इसके पहले आप लौट आएँ ॥ ३४ ॥
स चेद्भवेस्त्वं खलु दीर्घसूत्रो दण्डं महान्तं त्वयि पातयेयम् ।
मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ ३५ ॥
अन्वयः-स चेत् त्वं दीर्घसूत्रः भवेः खलु त्वयि महान्तं दण्डं पातयेयं शयितं
त्वां मुहुर्मुहुः कुचाभ्यां विबाधयेयं न च आलपेयम् ॥ ३५ ॥
व्याख्या-स चेत् = एवम्भूतश्चेत्, त्वम् = भवान्, दीर्घसूत्रः = विलम्बकरः,
भवेः = स्याः, खलु = तर्हि, त्वयि = भवति, महान्तम् = कठिनम्, दण्डम् = शासनम्,
पातयेयम् = देयासम्, शयितम् = प्रसुप्तम्, त्वाम् = भवन्तम्, मुहुर्मुहुः = वारं-वारम्,
कुचाभ्याम् = स्तनाभ्याम्, विबोधयेयम् = जागरणं कारयेयम्, न च = नहि तु, आल-
पेयम् = वदेयम् ॥ ३५ ॥
हिन्दी-अगर तुमने देर की तो तुम्हें मैं भारी दण्ड दूंगी। जब तुम सोये रहोगे,
तो तुम्हें अपने कुचों से बार-बार जगाऊँगी, परन्तु बोलूंगी नहीं ॥ ३५ ॥
अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वाम् ।
निपीडयिष्यामि भुजद्वयेन निर्भूषणेनार्द्रविलेपनेन ॥ ३६ ॥
अन्वयः-अथाऽपि अनाश्यानविशेषकायां मयि त्वं त्वरितम् एष्यसि, ततः त्वां
निर्भूषणेनार्द्रविलेपनेन भुजद्वयेन निपीडयिष्यामि ॥ ३६ ॥
व्याख्या-अथाऽपि = अथ च, अनाश्यानविशेषकायाम्—न = नहि, आश्यानः =
शुष्कः, विशेषकः = अङ्गरागः, यस्याः सा तस्याम्, मयि = सुन्दर्याम्, त्वम् = भवान्,
त्वरितम् = शीघ्रम्, एष्यसि = आगमिष्यसि, ततः = तदनन्तरम्, त्वाम् = भवन्तम्,
निर्भूषणेन = निर्गतानि = निःसृतानि, भूषणानि = अलङ्करणानि, यस्मात् सः तेन,
आर्द्रविलेपनेन = आर्द्रम् = सिक्तम्, विलेपनम्=देहलेपनम्, तेन, भुजद्वयेन=करोभयेन,
निपीडयिष्यामि = आलिङ्गनं करिष्यामि ॥ ३६ ॥
हिन्दी-और यदि मेरे अङ्गराग सूखने से पहले तुम आ गये तो आभूषण रहित
गीले लेप सनी अपनी बाँहों में तुम्हें जकड़ लूंगी ॥ ३६ ॥
इत्येवमुक्तश्च निपीडितश्च तयासवर्णस्वनया जगाद ।
एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर्दूरगतो न मे सः ॥ ३७ ॥
अन्वयः-तया असवर्णस्वनया इत्येवम् उक्तः च निपीडितश्च सः जगाद-
चण्डि ! एवं करिष्यामि विमुञ्च यावत् मे गुरुः दूरगतः न (स्यात्) ॥ ३७ ॥
व्याख्या-तया = नन्दभार्यया, असवर्णस्वनया-न सवर्णं स्वनं यस्याः सा,
तया असवर्णस्वनया = प्रकम्पितगिरा, इत्येवम् = इत्थम्, उक्तः = कथितः च = पुनः,
भार्या-याचितकम् ] चतुर्थः सर्गः ८१
निपीडितश्च = आश्लेषितश्च, सः = नन्दः, जगाद = उवाच, चण्डि = हे कोपशीले !
एवम् = अनेनैव प्रकारेण, करिष्यामि = सम्पादयिष्यामि, विमुञ्च = त्यज, यावत् =
यावत्कालपर्यन्तम्, मे=मम, गुरुः = उपदेष्टा, न = नहि, दूरगतः = दूरं गच्छेत् ॥३७॥
हिन्दी—थरथराती आवाज में उसकी ऐसी बातें सुनकर महाराज नन्द ने
कहा—हे चण्डि ! ऐसा ही होगा, मुझे अपने आलिङ्गन से मुक्त तो करो, कहीं ऐसा
न हो कि मेरे गुरु दूर निकल जाएँ ॥ ३७ ॥
ततः स्तनोद्वर्त्तितचन्दनाभ्यां मुक्तो भुजाभ्यां न तु मानसेन ।
विहाय वेषं मदनानुरूपं सत्कारयोग्यं स वपुर्बभार ॥ ३८ ॥
अन्वयः—ततः स्तनोद्वर्त्तितचन्दनाभ्यां भुजाभ्यां न तु मानसेन मुक्तः सः मदनानु-
रूपं सत्कारयोग्यं वपुः बभार ॥ ३८ ॥
व्याख्या—ततः = तदनन्तरम्, स्तनोद्वर्त्तितचन्दनाभ्याम्—स्तनाभ्याम्=कुचाभ्याम्,
उद्वर्त्तितम्=परिमृष्टम्, चन्दनम्=मलयजम्, ययोः ताभ्याम्, भुजाभ्याम् = करा-
भ्याम्, न तु मानसेन = मनसा, मुक्तः = परित्यक्तः, सः=नृपः, मदनानुरूपम्—मदनस्य
= कामस्य, अनुरूपम्=योग्यम्, वेषम् = परिधानम्, विहाय=परित्यज्य, सत्कार-
योग्यम् = समादरानुरूपम्, वपुः = शरीरम्, बभार=दधार ॥ ३८ ॥
हिन्दी—तब उरोजों की रगड़ से जिनका चन्दन-लेप मिट गया हो ऐसी बाहों से,
न कि मन से, अपने को उसने मुक्त किया । फिर कामीजन के अनुरूप वेशभूषा का
त्याग कर बुद्ध के सत्कार योग्य वेश धारण किया ॥ ३८ ॥
सा तं प्रयान्तं रमणं प्रदध्यौ प्रध्यानशून्यस्थितनिश्चलाक्षी ।
स्थितोच्चकर्णा व्यपविद्धशष्पा भ्रान्तं मृगं भ्रान्तमुखी मृगीव ॥ ३९ ॥
अन्वयः—प्रध्यानशून्यस्थितनिश्चलाक्षी सा तं रमणं प्रयान्तम् स्थितोच्चकर्णा-
व्यपविद्धशष्पा भ्रान्तमुखी मृगीव भ्रान्तं मृगम् इव प्रदध्यौ ॥ ३९ ॥
व्याख्या—प्रध्यानेन = प्रकृष्टचिन्तनेन, शून्ये = रिक्ते, स्थिता = वर्त्तमाना, निश्चले
=अचञ्चले, अक्षिणी=नयने, यस्याः सा, प्रध्यानशून्यस्थिता या निश्चलाक्षी, सा=चिन्ता-
मुक्तस्थिताऽचञ्चलनयना, सा=नन्दपत्नी, तम् = पूर्वोक्तम्, रमणम् = प्रियनन्दम्,
प्रयान्तम्=गच्छन्तम्, उच्चैः=ऊर्ध्वस्थितैः, कर्णौ = श्रवणौ, यस्याः सा, स्थिता चासौ
उच्चकर्णा इति स्थितोच्चकर्णा=ऊर्ध्वश्रवणा, व्यपविद्धम् = परित्यक्तम्, शष्पम्=तृणम्,
यया सा व्यपविद्धशष्पा = परित्यक्ततृणा, भ्रान्तमुखी—भ्रान्तम्=परिवर्त्तितम्, मुखम्
=आननम्, यस्याः सा आवर्त्तितानना, मृगी=हरिणी, भ्रान्तम् = परिभ्रमितम्,
मृगम् = हरिणम्, इव = यथा, प्रदध्यौ = ध्यानं कृतवती ॥ ३९ ॥
हिन्दी—चिन्ता के कारण उदास एवं स्थिर आँखों वाली वह सुन्दरी दूर जाते
हुए तथा पलट कर देखते हुए पति को उसी तरह देखा जैसे दूर जाते हिरण को कोई
हिरणी मुँह के निवाले को छोड़कर, मुँह घुमाकर कान खड़ा कर देखती है ॥ ३९ ॥
८२ सौन्दरनन्दं महाकाव्यम्
दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्त्वरे च ।
विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन् स लडत्करेणुम् ॥ ४० ॥
अन्वयः—मुनेः दिदृक्षया आक्षिप्तमनाः तु नन्दः प्रयाणं प्रति च तत्त्वरे, विवृत्तदृष्टिः
च तां लडत्करेणुं करी इव पश्यन् शनैः ययौ ॥ ४० ॥
व्याख्या—मुनेः=बुद्धस्य, दिदृक्षया=द्रष्टुमिच्छया, आक्षिप्तमनाः-आक्षिप्तम्=
उत्कण्ठितम्, मनः=चित्तम्, यस्य सः, तु=किन्तु, नन्दः=नृपः, प्रयाणं प्रति=
गमनं प्रति, च=पुनः, तत्त्वरे==सत्वरे, विवृत्तदृष्टिः-विवृत्ताः=परिवर्तिताः, दृष्टिः
=दृक्शक्तिः, यस्य सः, च ताम्=सुन्दरीम्, लडत्करेणुम्-लडन्तीम्=विलसन्तीम्,
करेणुः=हस्तिनी ताम्, करी=गजः, इव=यथा, पश्यन्=अवलोकयन्, शनैः=मन्दं
मन्दम्, ययौ = अव्रजन् । उपमालङ्कारोऽत्र ॥ ४० ॥
हिन्दी—बुद्ध-दर्शन की प्रबल उत्कण्ठा के कारण यद्यपि राजा नन्द ने प्रस्थान में
शीघ्रता की, किन्तु आँखें घुमाते ही जब उसकी दृष्टि सुन्दरी पर गई तो उसकी चाल
उसी तरह धीमी हो गई जैसे विलासिनी हथिनी को देखकर हाथी की चाल धीमी हो
जाती है ॥ ४० ॥
छातोदरीं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीमिवाद्रेः ।
काक्षेण पश्यन्न ततर्प नन्दः पिवन्निवैकेन जलं करेण ॥ ४१ ॥
अन्वयः—सः नन्दः अद्रेः रुक्मदरीम् इव छातोदरीं पीनपयोधरोरुं सुन्दरीं काक्षेण
पश्यन् एकेन करेण जलं पिबन् इव न ततर्प ॥ ४१ ॥
व्याख्या—सः=असौ, नन्दः=नृपतिः, अद्रेः=पर्वतस्य, रुक्मदरीमिव-रुक्मस्य=
कनकस्य, दरी=कन्दरा, ताम्=स्वर्णगह्वराम्, इव=यथा, छातोदरीम्-छात्ः=क्षीणः,
उदरः=कुक्षिः, यस्याः सा ताम्=कृशोदरीम्, पीनपयोधरोरुम्-पीनौ=स्थूलौ, पयो-
धरौ=कुचौ, ऊरू=प्रसृते, यस्याः सा ताम्=विशालकुचजङ्घाम्, सुन्दरीम् =
स्वपत्नीम्, काक्षेण=वक्रदृष्टया, पश्यन्=अवलोकयन्, एकेन=एकमात्रेण, करेण=
हस्तेन, जलम्=सलिलम्, पिवन्=गृह्णन्, इव=यथा, न=नहि, ततर्प=तृप्ति गतः ॥४१॥
हिन्दी—पहाड़ की सोने की कन्दरा की तरह अतिक्षीण पेट वाली तथा स्थूल स्तन
और जांघों वाली उस सुन्दरी को तिरछी आंख से देखता हुआ वह राजा नन्द उसी
तरह संतुष्ट नहीं हुआ जैसे कोई व्यक्ति एक हाथ से पानी पीकर नहीं अघाता ॥४१॥
तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष ।
सोऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरङ्गेष्विव राजहंसः ॥ ४२ ॥
अन्वयः—बुद्धगतं गौरवं तं चकर्ष भार्यानुरागः पुनः आचकर्ष सः अनिश्चयन्
तरङ्गेषु तुरन् राजहंस इव नाऽपि ययौ न तस्थौ ॥ ४२ ॥
व्याख्या—बुद्धगतम्=सुगतसम्बन्धिनम्, गौरवम् = भक्तिः, तम्=पूर्वोक्तं नृपम्,
चकर्ष = आकृष्टवान्, च=पुनः, भार्यानुरागः = पत्नीप्रेम, आचकर्ष=समन्तादाकृष्ट-
भार्या-याचितकम् ] चतुर्थः सर्गः ८३
वान्। सः=नन्दः, अनिश्चयन्=निश्चयमकुर्वन्, तरङ्गेषु=ऊर्मिषु, तुरन्=व्रजन्,
राजहंस इव=कलहंसवत्, नाऽपि=न तु, ययौ=चचाल, न=नहि, तस्थौ=अतिष्ठत् ।
हिन्दी-एक ओर उसे गुरुगत गौरव अपनी ओर खींच रहा था तो दूसरी ओर
पत्नी का प्रेम। बेचारा नन्द तरङ्ग पर उत्तोलित राजहंस की तरह न तो आगे बढ़
पा रहा था और न रुक ही पाता था ॥ ४२ ॥
अदर्शनं तूपगतश्च तस्या हर्म्यात् ततश्चावततार तूर्णम् ।
श्रुत्वा ततो नूपुरनिस्वनं स पुनर्ललम्बे हृदये गृहीतः ॥ ४३ ॥
अन्वयः—ततः सः तस्याः अदर्शनम् उपगतः तु हर्म्यात् तूर्णम् अवततार च ततः
नूपुरनिस्वनं श्रुत्वा हृदये गृहीतः पुनः ललम्बे ॥ ४३ ॥
व्याख्या-ततः=तदनन्तरम्, सः=नन्दः, तस्याः=सुन्दर्यः, अदर्शनम्=अनव-
लोकनम्, उपगतः=सम्प्राप्तः, तु हर्म्यात्=प्रासादपृष्ठात्, तूर्णम्=शीघ्रम्, अवततार
=नीचैः आगमत्, च=पुनस्ततः=तत्पश्चात्, नूपुरनिःस्वनम्=मञ्जीररवम्, श्रुत्वा
=आकर्ण्य, हृदये=चित्ते, गृहीतः=समाविष्टः, पुनः=भूयः, ललम्बे=तस्थौ ॥४३॥
हिन्दी-उसके बाद उसकी आँखों से ओझल होते ही वह कोठे पर से शीघ्र ही
नीचे उतर गया, किन्तु उसके पायल की आवाज सुनते ही मन में बसी उसकी
तस्वीर आँखों के सामने आते ही उसकी गति फिर रुक गई ॥ ४३ ॥
स कामरागेण निगृह्यमाणो धर्मानुरागेण च कृष्यमाणः ।
जगाम दुःखेन विवर्त्यमानः प्लवः प्रतिस्रोत इवापगायाः ॥ ४४ ॥
अन्वयः-सः कामरागेण निगृह्यमाणः च धर्मानुरागेण कृष्यमाणः अपगायाः
प्रतिस्रोतः प्लवः इव विवर्त्यमानः दुःखेन जगाम ॥ ४४ ॥
व्याख्या-सः=नृपतिनन्दः, कामरागेण=मदनासक्त्या, निगृह्यमाणः=बध्य-
मानः, च=पुनः, धर्मानुरागेण=धर्मंप्रति प्रेम्णा, कृष्यमाणः=आकृष्टः सन्, अपगायाः
=नद्याः, प्रतिस्रोतः=प्रतिकूलम्=विपरीतम्, स्रोतम्=धारा यस्या सा विपरीत-
धारः, प्लवः=नौः, इव=यथा, विवर्त्यमानः=परिवृत्तः सन्, दुःखेन=पीडया,
जगाम=अगमत् ॥ ४४ ॥
हिन्दी-राजा नन्द एक ओर कामजन्य आसक्ति में बँधता तो दूसरी ओर धर्म के
प्रति अनुराग उसे अपनी ओर खींचता। विपरीत धारा में फँसी नाव की तरह वह
बेचारा बड़ी पीड़ा के साथ अपने आपको घसीटता आगे की ओर बढ़ रहा था ॥४४॥
ततः क्रमैर्दीर्घतमैः प्रचक्रमे कथं नु यातो न गुरुर्भवेदिति ।
स्वजेय तां चैव विशेषकप्रियां कथं प्रियामार्द्रविशेषकामिति ॥ ४५ ॥
अन्वयः-ततः कथं गुरुः न यातः न भवेत् इति विशेषकप्रियाम् आर्द्रविशेषकां
प्रियां कथं चैव स्वजेय इति दीर्घतमैः क्रमैः प्रचक्रमे ॥ ४५ ॥
व्याख्या-ततः =तत्पश्चात्, कथं=केन प्रकारेण, गुरुः=मुनीन्द्रः, न=नहि,
यातः=गतं, भवेत्=स्यादिति, विशेषकप्रियाम्-विशेषकः=अङ्गरागः, प्रियः=
८४ सौन्दरनन्दं महाकाव्यम्
रुचिकरः, यस्याः सा, ताम् = अङ्गरागप्रियाम्, आर्द्रविशेषकाम् = आर्द्रः = जलसिक्तः,
विशेषकः = अङ्गरागः, यस्याः सा, ताम् = जलसिक्ताङ्गरागाम्, प्रियाम् = सुन्दरीम्,
कथम् = केन प्रकारेण, चैव, स्वजेय = आजुषेय, इति = अस्मात् कारणात्, दीर्घतमैः =
अतिविस्तृतैः, क्रमैः = पदसञ्चलनैः, प्रचक्रमे = अक्रामत् ॥ ४५ ॥
हिन्दी—तब देर होने पर गुरु कहीं चले न जांय तथा शीघ्र लौटकर अङ्गराग
से प्रेम करने वाली, भीगे लेप देह में लगाने वाली का शीघ्र लौटकर आलिङ्गन करूँ,
ऐसा सोचते हुए, लम्बा-लम्बा डग भरते नन्द आगे बढ़ चला ॥ ४५ ॥
अथ स पथि ददर्श मुक्तमानं पितृनगरेऽपि तथागताभिमानम् ।
दशबलमभितो विलम्बमानं ध्वजमनुयान इवेन्द्रमर्च्यमानम् ॥ ४६ ॥
सौन्दरनन्दे महाकाव्ये भार्यायाचितको नाम चतुर्थः सर्गः ॥ ४ ॥
अन्वयः—अथ सः पथि पितृनगरे अपि तथागताभिमानं मुक्तमानं दशबलम्
अभितः विलम्बमानम् ऐन्द्रं ध्वजम् अनुयानः इव अर्च्यमानं ददर्श ॥ ४६ ॥
व्याख्या—अथ = अनन्तरम्, सः = नृपतिः, पथि = मार्गे, पितृनगरे = स्वपुरे,
अपि = चेत्, तथागताभिमानम्—तथा = तेन प्रकारेण, गताभिमानम्—गतम् =
विनष्टम्, अभिमानम् = अहङ्कारम्, यस्य सः, तम् = अभिमानशून्यं, मुक्तमानम् =
मानशून्यम्, अभितः = सर्वतः, अर्च्यमानम् = पूज्यमानम्, विलम्बमानम् = स्थैर्यमानम्,
दशबलम् = बुद्धम्, ऐन्द्रम् = इन्द्रसम्बन्धिनम्, ध्वजम् = पताकाम्, अनुयानः =
अनुगम्यमानः, इव = यथा, ददर्श = अपश्यत् ॥ ४६ ॥
हिन्दी—इसके बाद राजा नन्द ने भगवान् बुद्ध को राह में जाते हुए देखा ।
अपने पिता के नगर में भी उन्हें मान और अभिमान छू नहीं पा रहा था, चारो
ओर जनता से पूजित होने के कारण वे रुक-रुक कर आगे बढ़ रहे थे । उनकी पूजा
रास्ते में इन्द्रध्वज की तरह की जा रही थी ॥ ४६ ॥
सौन्दरनन्दमहाकाव्य में 'भार्या-याचितक' नामक चतुर्थ सर्ग समाप्त ।
पञ्चमः सर्गः
नन्ददीक्षा
सोच-समझ प्रिय अनुज नन्द को गुरु ने दे दी दीक्षा।
बिना विचार किए ही उसने दे दी अग्नि-परीक्षा॥
अथावतीर्याश्वरथद्विपेभ्यः शाक्या यथास्वर्द्धिगृहीतवेषाः।
महापणेभ्यो व्यवहारिणश्च महामुनौ भक्तिवशात् प्रणेमुः ॥ १ ॥
अन्वयः—अथ अश्वरथद्विपेभ्यः अवतीर्य यथास्वर्द्धिगृहीतवेषाः शाक्याः महापणेभ्यः
व्यवहारिणश्च महामुनौ भक्तिवशात् प्रणेमुः ॥ १ ॥
व्याख्या—अथ = तत्पश्चात्, अश्वरथद्विपेभ्यः—अश्वाश्च = घोटकाश्च, रथाश्च =
स्यन्दनाश्च, द्विपाश्च = गजाश्चेति तेभ्यः = वाजिरथहस्तिभ्यः, अवतीर्य = अधोऽवगम्य,
यथास्वर्द्धिगृहीतवेषाः—स्वस्य ऋद्धिः स्वर्द्धिः, स्वर्द्धिमनतिक्रम्य गृहीताः वेषाः यैः
ते = निजसम्पदनुसारं धृतवेषाः, शाक्याः = शाक्यकुलोत्पन्नाः, महापणेभ्यः = उत्तम-
विपणिभिः, व्यवहारिणश्च = व्यापारिणः, महामुनौ = गौतमे, भक्तिवशात् = निष्ठा-
वशात्, प्रणेमुः = अनमन् ॥ १ ॥
हिन्दी—इसके बाद घोड़े, हाथी और रथों से उतर कर अपनी-अपनी सम्पत्ति के
अनुसार वेश-भूषा धारण किये शाक्यों तथा नगरसेठों ने बुद्ध को निष्ठापूर्वक प्रणाम
किया ॥ १ ॥
केचित् प्रणम्यानुययुर्मुहूर्तं केचित् प्रणम्यार्थवशेन जग्मुः।
केचित् स्वकेष्वावसथेषु तस्थुः कृत्वाऽञ्जलीन् वीक्षणतत्पराक्षाः ॥ २ ॥
अन्वयः—केचित् प्रणम्य मुहूर्त्तं अनुययुः, केचित् प्रणम्य अर्थवशेन जग्मुः, केचित्
अञ्जलीन् कृत्वा स्वकेषु आवसथेषु वीक्षणतत्पराक्षाः तस्थुः ॥ २ ॥
व्याख्या—केचित् = कतिपयजनाः, प्रणम्य = नत्वा, मुहूर्त्तम् = क्षणम्, अनुययुः =
अनुचचाल, केचित् = कतिचिदन्याः, प्रणम्य = प्रणामं कृत्वा, अर्थवशेन = प्रयोजनाधी-
नेन, जग्मुः = ययुः, केचित् = केऽपि, अञ्जलीन् = करसम्पुटम्, कृत्वा = विधाय,
स्वकेषु = स्वकीयेषु, आवसथेषु = निवासस्थानेषु, वीक्षणतत्पराक्षाः—वीक्षणे = अव-
लोकने, तत्परे = निरते, अक्षिणी = नेत्रे, येषां ते = दर्शननिरतनयनाः, तस्थुः = तत्रैव
जडवदतिष्ठन् ॥ २ ॥
हिन्दी—कुछ लोग मन्त्रमुग्ध की तरह उन्हें प्रणाम कर क्षण भर उनका अनुसरण
किया, कुछ लोग प्रणाम कर कार्यवश लोट गये और कुछ लोग हाथ जोड़कर अपने
घरों में ही स्थिर रहे ॥ २ ॥
८६ सौन्दरनन्दं महाकाव्यम्
बुद्धस्ततस्तत्र नरेन्द्रमार्गे स्रोतो महद्भक्तिमतो जनस्य ।
जगाम दुःखेन विगाहमानो जलागमे स्रोत इवापगायाः ॥ ३ ॥
अन्वयः—ततः बुद्धः तत्र नरेन्द्रमार्गे महद्भक्तिमतः जनस्य स्रोतः जलागमे अप-
गायाः स्रोत इव दुःखेन विगाहमानः जगाम ॥ ३ ॥
व्याख्या—ततः = तदनन्तरम्, बुद्धः = तथागतः, तत्र = तस्मिन् स्थाने, नरेन्द्रमार्गे =
राजपथि, महद्भक्तिमतः = महती = अत्यधिका, भक्तिः = श्रद्धा, यस्मिन् तस्य,
जनस्य = लोकस्य, स्रोतः = प्रवाहः, जलागमे = प्रावृट्काले, अपगायाः = नद्याः, स्रोतः
= प्रबलधारा, इव = यथा, दुःखेन = पीडया, विगाहमानः = प्रवेशं कुर्वन्, जगाम =
अगमत् ॥ ३ ॥
हिन्दी—इसके बाद उस राजमार्ग पर श्रद्धावनत उन भक्तों की उमड़ती भीड़ को
दुःख के साथ चीरते हुए आगे बढ़ते गये, मानो वर्षागम में नदी की धारा में प्रवेश
कर रहे हो ॥ ३ ॥
अथो महद्भिः पथि सम्पतद्भिः सम्पूज्यमानाय तथागताय ।
कर्तुं प्रणामं न शशाक नन्दस्तेनाभिरेमे तु गुरोर्महिम्ना ॥ ४ ॥
अन्वयः—अथ पथि महद्भिः सम्पतद्भिः सम्पूज्यमानाय तथागताय नन्दः प्रणामं
कर्तुं न शशाक, तु तेन गुरोः महिम्ना अभिरेमे ॥ ४ ॥
व्याख्या—अथ = अनन्तरम्, पथि = मार्गे, महद्भिः = अतिशयैः, सम्पतद्भिः =
समागतजनैः, सम्पूज्यमानाय = सम्यक्प्रकारेण पूजिताय, तथागताय = सुगताय,
नन्दः = बुद्धानुजः, प्रणामम् = प्रणतिम्, कर्तुम् = विधातुम्, न = नहि, शशाक =
अशक्नोत्, तु = किन्तु, तेन = एतेन, गुरोः = तथागतस्य, महिम्ना = गौरवेण, अभि-
रेमे = आनन्दितो बभूव ॥ ४ ॥
हिन्दी—तब उस राजमार्ग पर बुद्ध को प्रणाम करने के लिए उमड़ती भीड़ को
चीर कर राजा नन्द गुरु को प्रणाम नहीं कर सका। फिर भी गुरु के इस गौरव से
उसे प्रसन्नता ही हुई ॥ ४ ॥
स्वं चावसङ्गं पथि निर्मुमुक्षुर्भक्तिं जनस्यान्यमतेश्च रक्षन् ।
नन्दं च गेहाभिमुखं जिघृक्षन् मार्गं ततोज्यं सुगतः प्रपेदे ॥ ५ ॥
अन्वयः—ततः पथि स्वम् अवसङ्गं च निर्मुमुक्षुः अन्यमतेः जनस्य च भक्तिं रक्षन्
गेहाभिमुखं च नन्दं जिघृक्षन् सुगतः अन्यं मार्गं प्रपेदे ॥ ५ ॥
व्याख्या—ततः = तत्पश्चात्, पथि = मार्गे, स्वम् = निजम्, अवसङ्गम् = अनुगच्छन्तं
जनम्, च = पुनः, निर्मुमुक्षुः = मोचितुमिच्छुः, अन्यमतेः = अन्या मतिर्यस्य सः,
तस्य = भिन्नसम्प्रदायाश्रितस्य, जनस्य = लोकस्य, च = पुनः, भक्तिम् = निरतिम्,
रक्षन् = रक्षां कुर्वन्, गेहाभिमुखम् = सदनगमनोत्सुकम्, च नन्दम् = स्वानुजम्,
जिघृक्षन् = ग्रहीतुमिच्छन्, सुगतः = बुद्धः, अन्यम् = अपरम्, मार्गम् = पथम्, प्रपेदे =
प्राप्तवान् ॥ ५ ॥
नन्ददीक्षा ] पञ्चमः सर्गः ८७
हिन्दी—तब रास्ते में आत्मीय जनों से छुटकारा पाने के इच्छुक, भिन्न सम्प्रदाय
वालों की भक्ति का संरक्षण करने वाले तथा अपने छोटे भाई नन्द से मिलने को
इच्छुक भगवान् बुद्ध ने दूसरी राह पकड़ ली ॥ ५ ॥
ततो विविक्तं च विविक्तचेताः सन्मार्गविन्मार्गमभिप्रतस्थे ।
गत्वाऽग्रतश्चाग्रचतमाय तस्मै नान्दीविमुक्ताय ननाम नन्दः ॥ ६ ॥
अन्वयः—ततः विविक्तचेताः सन्मार्गवित् च विविक्तम् मार्गम् अभिप्रतस्थे, नन्दः
अग्रतः गत्वा अग्रचतमाय नान्दीविमुक्ताय तस्मै ननाम ॥ ६ ॥
व्याख्या—ततः = तत्पश्चात्, विविक्तचेताः = विविक्तम् = शान्तम्, चेतः = चित्तं,
यस्य सः = शान्तचेताः, सन्मार्गवित् = सन्मार्गम् = पवित्रपथम्, वेत्ति = जानाति, यः
असौ = सत्पथवेत्ता, च = पुनः, विविक्तम् = जनशून्यम्, मार्गम् = पथम्, अभिप्रतस्थे =
जगाम, नन्दः = सुगतानूजः, अग्रतः = पुरतः, गत्वा = उपगम्य, अग्रचतमाय = पूज्य-
तमाय, नान्दीविमुक्ताय—नन्दन्ति देवाः अत्र इति नान्दीः, नान्द्याः = आनन्दः,
विमुक्तः = रहितः, तस्मै नान्दीविमुक्ताय = आनन्दरहिताय, तस्मै = बुद्धाय, ननाम =
नमश्चकार ॥ ६ ॥
हिन्दी—इसके बाद जब शान्तचित्त तथा पुण्य-पथ को जानने वाले बुद्ध उस
एकान्त पथ पर चले आये, तब राजा नन्द ने आगे बढ़कर उस आनन्दशून्य सुगत को
प्रणाम किया ॥ ६ ॥
शनैर्व्रजन्नेव स गौरवेण पटावृतांसो विनतार्धकायः ।
अधोनिवद्धाञ्जलिरूर्ध्वनेत्रः सगद्गदं वाक्यमिदं बभाषे ॥ ७ ॥
अन्वयः—पटावृतांसः विनतार्धकायः सः शनैः व्रजन्नेव अधोनिवद्धाञ्जलिरूर्ध्वनेत्रः
गौरवेण सगद्गदम् इदं वाक्यं बभाषे ॥ ७ ॥
व्याख्या—पटावृतांसः—पटेन = उत्तरीयेण, आवृतः = परिवेष्टितः, अंसः =
स्कन्धः, यस्य सः = वस्त्रावेष्टितस्कन्धः, विनतार्धकायः—विनतः = अवनतः, अर्द्ध-
कायः = शरीरार्द्धभागः, यस्य सः, सः = नन्दः, शनैः = मन्दम्, व्रजन्नेव = गच्छन्नेव,
अधोनिवद्धाञ्जलिः = अधोकृतकरसम्पुटः, ऊर्ध्वनेत्रः = उद्गतनयनः, सः = नन्दः,
गौरवेण = ससम्मानेन, सगद्गदं = अस्पष्टवाचा सहितं, इदं = वक्ष्यमाणम्, वाक्यं =
वचनं, बभाषे = जगाद ॥ ७ ॥
हिन्दी—जिसका कन्धा वस्त्र से ढँका हुआ था, उस नन्द ने सम्मानपूर्वक धीरे-
धीरे जाते हुए आधा शरीर झुकाकर नीचे की ओर हाथ जोड़कर और ऊपर की ओर
नेत्र उठाकर गद्गद स्वर से यह वचन कहा ॥ ७ ॥
प्रासादसंस्थो भगवन्तमन्तःप्रविष्टमश्रौषमनुग्रहाय ।
अतस्त्वरावानहमभ्युपेतो गृहस्य कक्ष्यामहतोऽभ्यसूयन् ॥ ८ ॥
अन्वयः—प्रासादसंस्थः अहम् अनुग्रहाय भगवन्तम् अन्तःप्रविष्टम् अश्रौषम्, अतः
कक्ष्यामहतः गृहस्य अभ्यसूयन् त्वरावान् अभ्युपेतः ( अस्मि ) ॥ ८ ॥
८८ सौन्दरनन्दं महाकाव्यम्
व्याख्या—प्रासादसंस्थः—प्रासादे = राजभवने, सन्तिष्ठति = निवसति, इति =
राजभवने स्थितः, अहम् = नन्दः, अनुग्रहाय = अनुकम्पार्थम्, भगवन्तम् = श्रीमन्तम्,
अन्तःप्रविष्टम् = राजभवने समागतम्, अश्रौषम् = शुश्राव, अतः = अत एव, कक्ष्या-
महतः = अन्तःपुरदीर्घस्य, गृहस्य = राजभवनस्य, अभ्यसूयन् = क्रुध्यन्, त्वरावान् =
त्वरायुक्तः, अभ्युपेतः = समागतः, अस्मीति भावः ॥ ८ ॥
हिन्दी—अपने राजमहल में स्थित मैंने सुना कि मुझ पर अनुग्रह कर श्रीमान्
राजभवन में पधारे थे, अतः उस विशाल भवन के परिचारकों को डांटकर मैं श्रीमान्
के सामने उपस्थित हूँ ॥ ८ ॥
तत्साधु साधुप्रिय मत्प्रियार्थं तत्रास्तु भिक्षूत्तम भैक्षकालः ।
असौ हि मध्यं नभसो यियासुः कालं प्रतिस्मारयतीव सूर्यः ॥ ९ ॥
अन्वयः—तत् साधु साधुप्रियः भिक्षूत्तमः मत्प्रियार्थं भैक्षकालः तत्रास्तु, असौ हि
नभसः मध्यं यियासुः सूर्यः काले प्रतिस्मारयति इव ॥ ९ ॥
व्याख्या—तत् = तस्माद् हेतोः, साधुप्रियः = साधूनां प्रियः अथवा साधवः
प्रियाः यस्य सः = परिव्राजकप्रियः, भिक्षूत्तमः = परिव्राजकश्रेष्ठः, मत्प्रियार्थम् = मदीय-
हितसाधनाय, भैक्षकालः = भिक्षासमयः, अत्रास्तु = मद्गृहे भवतु, असौ = अयम्, हि =
यतः, नभसः = आकाशस्य, मध्यम् = मध्यस्थानम्, यियासुः = गमनेच्छुः, सूर्यः =
दिनकरः, कालम् = समयम्, प्रतिस्मारयति = प्रतिबोधयति, इव = यथा ॥ ९ ॥
हिन्दी—अतः हे साधुप्रिय भिक्षुश्रेष्ठ ! मेरे हित-साधन की दृष्टि से आज आप
के भिक्षाटन का समय मेरे घर पर हों, क्योंकि भुवन-भास्कर अब आकाश के मध्य
भाग में पहुँचना ही चाह रहे हैं ॥ ९ ॥
इत्येवमुक्तः प्रणतेन तेन स्नेहाभिमानोन्मुखलोचनेन ।
तादृङ् निमित्तं सुगतश्चकार नाहारकृत्यं स यथा विवेद ॥ १० ॥
अन्वयः—प्रणतेन स्नेहाभिमानोन्मुखलोचनेन तेन इत्येवम् उक्तः सुगतः तादृग्
निमित्तं चकार यथा सः नाहारकृत्यं विवेद ॥ १० ॥
व्याख्या—प्रणतेन = वन्दमानेन, स्नेहाभिमानोन्मुखलोचनेन—स्नेहश्च = अनु-
रागश्च, अभिमानश्च = गर्वश्च, ताभ्याम् उन्मुखे = उत्कण्ठिते, लोचने = नयने, यस्य
सः तेन = अनुरागगर्वोत्कण्ठितनयनेन, तेन = राज्ञा, इत्येवम् = एवंविधम्, उक्तः =
निवेदितः, सुगतः = तथागतः, तादृग् = तेन प्रकारकम्, निमित्तम् = कारणम्, चकार =
कृतवान्, यथा = येन प्रकारेण, सः = नन्दः, आहारकृत्यम्—आहारस्य = भोजनस्य,
कृत्यम् = कार्यम्, न विवेद = नहि ज्ञातवान् ॥ १० ॥
हिन्दी—प्रेम, गर्व और सम्मान के साथ उन्मुख आँखों वाले राजा नन्द ने इस
प्रकार जब निवेदित किया तब भगवान् बुद्ध ने कुछ ऐसा संकेत किया, जिससे नन्द ने
समझा कि इन्हें भोजन नहीं करना है ॥ १० ॥
नन्ददीक्षा ] पञ्चमः सर्गः ८९
ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार ।
अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुष्करपत्रनेत्रः ॥ ११ ॥
अन्वयः—ततः सः मुनये प्रणामं कृत्वा गृहप्रयाणाय मतिं चकार तु पुष्करपत्रनेत्रः
सुगतः अनुग्रहार्थं तस्मै पात्रं ददौ ॥ ११ ॥
व्याख्या—ततः = तत्पश्चात्, सः = राजा, मुनये = गौतमाय, प्रणामं कृत्वा =
प्रणतिं विधाय, गृहप्रयाणाय = गृहे गमनाय, मतिम् = बुद्धिम्, चकार = अकरोत्, तु =
किन्तु, पुष्करपत्रनेत्रः—पुष्करस्य = पद्मस्य, पत्रमिव = दलवत्, नेत्रम् = नयनम्, यस्य
सः = कमलदलचक्षुः, सुगतः = तथागतः, अनुग्रहार्थम् = अनुकम्पितुम्, तस्मै = नृपनन्दाय,
पात्रम् = भिक्षापात्रम्, ददौ = अदात् ॥ ११ ॥
हिन्दी—तब राजा नन्द ने बुद्ध के चरणों में प्रणाम कर घर लौट जाना चाहा,
परन्तु उस कमलनयन ने नन्द पर अनुग्रह करते हुए अपना भिक्षापात्र उनके हाथों में
थमा दिया ॥ ११ ॥
ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् ।
जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् ॥ १२ ॥
अन्वयः—ततः लोके फलार्थं ददतः तस्य अप्रतिमस्य पात्रस्य पात्रं प्रयतः सः
चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां कराभ्यां जग्राह ॥ १२ ॥
व्याख्या—ततः = तदनन्तरम्, लोके = संसारे, फलार्थम् = लाभाय, ददतः = पात्रं
प्रयच्छतः, तस्य = सुगतस्य, अप्रतिमस्य = अतुल्यस्य, पात्रस्य = लोकस्य, पात्रम् =
भिक्षापात्रम्, प्रयतः = संयतः, सः = राजा नन्दः, चापग्रहणक्षमाभ्याम् = चापस्य = धनुषः,
ग्रहणाय = अङ्गीकरणाय, क्षमौ = समर्थौ ताभ्याम्, पद्मोपमाभ्याम् पद्मम् = कमलम्,
उपमा = तुलना, यस्य ताभ्याम्, कराभ्याम् = हस्ताभ्याम्, जग्राह = गृहीतवान् ॥ १२ ॥
हिन्दी—इसके बाद संसार में जन्म-ग्रहण के उद्देश्य की संपूर्ति हेतु उस अतुलनीय
व्यक्ति के भिक्षापात्र को उस संयमी ने अपने धनुष ग्रहण करने योग्य कमल के सदृश
हाथों से ग्रहण किया ॥ १२ ॥
पराङ्मुखन्त्वन्यमनस्कमाराद्विज्ञाय नन्दः सुगतं गतास्थम् ।
हस्तस्थपात्रोऽपि गृहं यियासुः ससार मार्गान्मुनिमीक्षमाणः ॥ १३ ॥
अन्वयः—सुगतं तु पराङ्मुखम् अन्यमनस्कं गतास्थं विज्ञाय हस्तस्थपात्रोऽपि गृहं
यियासुः नन्दः मुनिम् ईक्षमाणः मार्गात् ससार ॥ १३ ॥
व्याख्या—सुगतम् = तथागतम्, तु = किन्तु, पराङ्मुखम् = विमुखम्, अन्यमनस्कम्
—अन्यस्मिन् = अपरस्मिन्, मनः = चित्तम्, यस्य तम्, गतास्थम् = उदासीनम्,
विज्ञाय = ज्ञात्वा, हस्तस्थपात्रोऽपि = हस्ते = करे, तिष्ठति = धृतः, पात्रम् = भाजनम्,
यस्य सः = करधृतभिक्षाभाजनोऽपि, गृहम् = सदनम्, यियासुः = जिगमिषुः, नन्दः =
बुद्धानुजः, मुनिम् = बुद्धम्, ईक्षमाणः = अवलोकयन्, मार्गात् = पथात्, ससार =
पृथग्बभूव ॥ १३ ॥