सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 136, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 136

८२ सौन्दरनन्दं महाकाव्यम्
दिदृक्षयाक्षिप्तमना मुनेस्तु नन्दः प्रयाणं प्रति तत्त्वरे च ।
विवृत्तदृष्टिश्च शनैर्ययौ तां करीव पश्यन् स लडत्करेणुम् ॥ ४० ॥
अन्वयः—मुनेः दिदृक्षया आक्षिप्तमनाः तु नन्दः प्रयाणं प्रति च तत्त्वरे, विवृत्तदृष्टिः
च तां लडत्करेणुं करी इव पश्यन् शनैः ययौ ॥ ४० ॥
व्याख्या—मुनेः=बुद्धस्य, दिदृक्षया=द्रष्टुमिच्छया, आक्षिप्तमनाः-आक्षिप्तम्=
उत्कण्ठितम्, मनः=चित्तम्, यस्य सः, तु=किन्तु, नन्दः=नृपः, प्रयाणं प्रति=
गमनं प्रति, च=पुनः, तत्त्वरे==सत्वरे, विवृत्तदृष्टिः-विवृत्ताः=परिवर्तिताः, दृष्टिः
=दृक्शक्तिः, यस्य सः, च ताम्=सुन्दरीम्, लडत्करेणुम्-लडन्तीम्=विलसन्तीम्,
करेणुः=हस्तिनी ताम्, करी=गजः, इव=यथा, पश्यन्=अवलोकयन्, शनैः=मन्दं
मन्दम्, ययौ = अव्रजन् । उपमालङ्कारोऽत्र ॥ ४० ॥
हिन्दी—बुद्ध-दर्शन की प्रबल उत्कण्ठा के कारण यद्यपि राजा नन्द ने प्रस्थान में
शीघ्रता की, किन्तु आँखें घुमाते ही जब उसकी दृष्टि सुन्दरी पर गई तो उसकी चाल
उसी तरह धीमी हो गई जैसे विलासिनी हथिनी को देखकर हाथी की चाल धीमी हो
जाती है ॥ ४० ॥
छातोदरीं पीनपयोधरोरुं स सुन्दरीं रुक्मदरीमिवाद्रेः ।
काक्षेण पश्यन्न ततर्प नन्दः पिवन्निवैकेन जलं करेण ॥ ४१ ॥
अन्वयः—सः नन्दः अद्रेः रुक्मदरीम् इव छातोदरीं पीनपयोधरोरुं सुन्दरीं काक्षेण
पश्यन् एकेन करेण जलं पिबन् इव न ततर्प ॥ ४१ ॥
व्याख्या—सः=असौ, नन्दः=नृपतिः, अद्रेः=पर्वतस्य, रुक्मदरीमिव-रुक्मस्य=
कनकस्य, दरी=कन्दरा, ताम्=स्वर्णगह्वराम्, इव=यथा, छातोदरीम्-छात्ः=क्षीणः,
उदरः=कुक्षिः, यस्याः सा ताम्=कृशोदरीम्, पीनपयोधरोरुम्-पीनौ=स्थूलौ, पयो-
धरौ=कुचौ, ऊरू=प्रसृते, यस्याः सा ताम्=विशालकुचजङ्घाम्, सुन्दरीम् =
स्वपत्नीम्, काक्षेण=वक्रदृष्टया, पश्यन्=अवलोकयन्, एकेन=एकमात्रेण, करेण=
हस्तेन, जलम्=सलिलम्, पिवन्=गृह्णन्, इव=यथा, न=नहि, ततर्प=तृप्ति गतः ॥४१॥
हिन्दी—पहाड़ की सोने की कन्दरा की तरह अतिक्षीण पेट वाली तथा स्थूल स्तन
और जांघों वाली उस सुन्दरी को तिरछी आंख से देखता हुआ वह राजा नन्द उसी
तरह संतुष्ट नहीं हुआ जैसे कोई व्यक्ति एक हाथ से पानी पीकर नहीं अघाता ॥४१॥
तं गौरवं बुद्धगतं चकर्ष भार्यानुरागः पुनराचकर्ष ।
सोऽनिश्चयान्नापि ययौ न तस्थौ तुरंस्तरङ्गेष्विव राजहंसः ॥ ४२ ॥
अन्वयः—बुद्धगतं गौरवं तं चकर्ष भार्यानुरागः पुनः आचकर्ष सः अनिश्चयन्
तरङ्गेषु तुरन् राजहंस इव नाऽपि ययौ न तस्थौ ॥ ४२ ॥
व्याख्या—बुद्धगतम्=सुगतसम्बन्धिनम्, गौरवम् = भक्तिः, तम्=पूर्वोक्तं नृपम्,
चकर्ष = आकृष्टवान्, च=पुनः, भार्यानुरागः = पत्नीप्रेम, आचकर्ष=समन्तादाकृष्ट-