सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 125, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 125

व्याख्या—भावानुरक्तौ—भावैः = प्रणयैः, अनुरक्तौ = आसक्तौ, गिरिनिर्झरस्थौ—
गिरौ=पर्वते, यः निर्झरः=प्रपातस्तस्मिन् तिष्ठति = निवसति तौ, च=पुनः, तौ =
दम्पती, उभौ = द्वौ, किन्नरी-किम्पुरुषौ = गन्धर्वजातिविशेषौ, इव=यथा, अक्रीडतुः
=अक्रीडताम्, रूपश्रिया=सौन्दर्यच्छविविभवेन, अन्योन्यम् = परस्परम्, आक्षिपन्तौ =
अनुकर्षन्तौ, इव = यथा, च=पुनः, अभिविरेजतुः = शुशुभाते ॥ १० ॥
हिन्दी—शैल-शिखर पर झरने में क्रीड़ारत यक्ष-यक्षिणी की तरह वे दोनों प्रेम-
विह्वल होकर अपनी सौन्दर्य-छवि से एक-दूसरे को चुनौती देते हुए सुशोभित
हुए ॥ १० ॥
अन्योन्यसंरागविवर्धनेन तद्द्वन्द्वमन्योन्यमरीरमच्च ।
क्लमान्तरेऽन्योन्यविनोदनेन सलीलमन्योन्यममीमदच्च ॥ ११ ॥
अन्वयः—तद्द्वन्द्वम् अन्योन्यरागविवर्धनेन अन्योन्यम् अरीरमत् क्लमान्तरे च
अन्योन्यविनोदनेन सलीलम् अन्योन्यम् अमीमदत् च ॥ ११ ॥
व्याख्या—तद्द्वन्द्वम्=तद्दम्पती, अन्योन्यरागविवर्धनेन — अन्योन्यम् = परस्परम्,
रागस्य = प्रेम्णः, विवर्धनेन = उत्कर्षेण, तेन = मिथोऽनुरागसंवर्धनेन, अन्योन्यम् =
इतरेतरम्, अरीरमत् = रमयामास, क्लमान्तरे=श्रान्तेऽनन्तरम्, च=पुनः, अन्योन्य-
विनोदेन = पारस्परिकमनोविनोदेन, सलीलम् — लीलया सहितम् = लीलापूर्वकम्,
अन्योन्यम् = परस्परम्, अमीमदत् = प्रमत्तमकरोत् ॥ ११ ॥
हिन्दी—नन्द-दम्पती ने परस्पर प्रेम-संवर्धन के कारण जमकर एक-दूसरे का उप-
भोग किया। थक जाने पर मनोविनोद के लिए लीलापूर्वक एक-दूसरे को सम्मोहित
किया ॥ ११ ॥
विभूषयामास ततः प्रियां स सिषेविषुस्तां न मृजावहार्यम् ।
स्वेनैव रूपेण विभूषिता हि विभूषणानामपि भूषणं सा ॥ १२ ॥
अन्वयः—ततः सः सिषेविषुः न मृजावहार्यं तां प्रियां विभूषयामास, हि स्वेनैव
रूपेण विभूषिता सा विभूषणानाम् अपि भूषणम् ॥ १२ ॥
व्याख्या—ततः = तत्पश्चात्, सः = नन्दः, सिषेविषुः = सेवितुमिच्छुः ( सेव् +
सन् + उ; सः इत्यस्य विशेषणम् ), न=नहि, मृजावहार्यम् — मृजां वहतीति मृजावह-
स्तदर्थम् = विभूषितार्थम्, ताम् = सुन्दरीम्, प्रियाम् = पत्नीम्, विभूषयामास = विभू-
षितः कृतवान्, हि = यतः, स्वेनैव = स्वकीयेनैव, रूपेण = सौन्दर्यशक्त्या, विभूषिता=
अलङ्कृता, सा = सुन्दरी, विभूषणानामपि = अलङ्करणानामपि, भूषणम् =
अलङ्करणम् ॥ १२ ॥
हिन्दी—इसके बाद नन्द ने उस सुन्दरी की सेवा करने की इच्छा से न कि उसे
अलङ्कृत करने की इच्छा से विभूषित किया, क्योंकि उस सुन्दरी को किसी भी जेवर
की आवश्यकता नहीं थी, वह तो स्वयं आभूषणों का आभूषण थी ॥ १२ ॥