सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 134, कुल 496 में से
संदर्भ में पढ़ें८० सौन्दरनन्दं महाकाव्यम्
शीघ्रम् = सत्वरम्, एहि = समागम्यताम्, यावत् = यावत्कालपर्यन्तम्, अयम् = एषः,
विशेषकः = अङ्गरागः, शुष्कः = आर्द्रतारहितः, न = नहि भवेत् ॥ ३४ ॥
हिन्दी--गुरु-दर्शन तो आपके धार्मिक अनुष्ठान हैं, ऐसे काम में मैं आपको
बाधा नहीं डाल सकती। अतः हे आर्यपुत्र ! आप वहाँ अवश्य जाएँ, किन्तु जब तक
यह अङ्गराग सूख न जाय-इसके पहले आप लौट आएँ ॥ ३४ ॥
स चेद्भवेस्त्वं खलु दीर्घसूत्रो दण्डं महान्तं त्वयि पातयेयम् ।
मुहुर्मुहुस्त्वां शयितं कुचाभ्यां विबोधयेयं च न चालपेयम् ॥ ३५ ॥
अन्वयः-स चेत् त्वं दीर्घसूत्रः भवेः खलु त्वयि महान्तं दण्डं पातयेयं शयितं
त्वां मुहुर्मुहुः कुचाभ्यां विबाधयेयं न च आलपेयम् ॥ ३५ ॥
व्याख्या-स चेत् = एवम्भूतश्चेत्, त्वम् = भवान्, दीर्घसूत्रः = विलम्बकरः,
भवेः = स्याः, खलु = तर्हि, त्वयि = भवति, महान्तम् = कठिनम्, दण्डम् = शासनम्,
पातयेयम् = देयासम्, शयितम् = प्रसुप्तम्, त्वाम् = भवन्तम्, मुहुर्मुहुः = वारं-वारम्,
कुचाभ्याम् = स्तनाभ्याम्, विबोधयेयम् = जागरणं कारयेयम्, न च = नहि तु, आल-
पेयम् = वदेयम् ॥ ३५ ॥
हिन्दी-अगर तुमने देर की तो तुम्हें मैं भारी दण्ड दूंगी। जब तुम सोये रहोगे,
तो तुम्हें अपने कुचों से बार-बार जगाऊँगी, परन्तु बोलूंगी नहीं ॥ ३५ ॥
अथाप्यनाश्यानविशेषकायां मय्येष्यसि त्वं त्वरितं ततस्त्वाम् ।
निपीडयिष्यामि भुजद्वयेन निर्भूषणेनार्द्रविलेपनेन ॥ ३६ ॥
अन्वयः-अथाऽपि अनाश्यानविशेषकायां मयि त्वं त्वरितम् एष्यसि, ततः त्वां
निर्भूषणेनार्द्रविलेपनेन भुजद्वयेन निपीडयिष्यामि ॥ ३६ ॥
व्याख्या-अथाऽपि = अथ च, अनाश्यानविशेषकायाम्—न = नहि, आश्यानः =
शुष्कः, विशेषकः = अङ्गरागः, यस्याः सा तस्याम्, मयि = सुन्दर्याम्, त्वम् = भवान्,
त्वरितम् = शीघ्रम्, एष्यसि = आगमिष्यसि, ततः = तदनन्तरम्, त्वाम् = भवन्तम्,
निर्भूषणेन = निर्गतानि = निःसृतानि, भूषणानि = अलङ्करणानि, यस्मात् सः तेन,
आर्द्रविलेपनेन = आर्द्रम् = सिक्तम्, विलेपनम्=देहलेपनम्, तेन, भुजद्वयेन=करोभयेन,
निपीडयिष्यामि = आलिङ्गनं करिष्यामि ॥ ३६ ॥
हिन्दी-और यदि मेरे अङ्गराग सूखने से पहले तुम आ गये तो आभूषण रहित
गीले लेप सनी अपनी बाँहों में तुम्हें जकड़ लूंगी ॥ ३६ ॥
इत्येवमुक्तश्च निपीडितश्च तयासवर्णस्वनया जगाद ।
एवं करिष्यामि विमुञ्च चण्डि यावद् गुरुर्दूरगतो न मे सः ॥ ३७ ॥
अन्वयः-तया असवर्णस्वनया इत्येवम् उक्तः च निपीडितश्च सः जगाद-
चण्डि ! एवं करिष्यामि विमुञ्च यावत् मे गुरुः दूरगतः न (स्यात्) ॥ ३७ ॥
व्याख्या-तया = नन्दभार्यया, असवर्णस्वनया-न सवर्णं स्वनं यस्याः सा,
तया असवर्णस्वनया = प्रकम्पितगिरा, इत्येवम् = इत्थम्, उक्तः = कथितः च = पुनः,