सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 143, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 143

नन्ददीक्षा ] पञ्चमः सर्गः ८९
ततः स कृत्वा मुनये प्रणामं गृहप्रयाणाय मतिं चकार ।
अनुग्रहार्थं सुगतस्तु तस्मै पात्रं ददौ पुष्करपत्रनेत्रः ॥ ११ ॥
अन्वयः—ततः सः मुनये प्रणामं कृत्वा गृहप्रयाणाय मतिं चकार तु पुष्करपत्रनेत्रः
सुगतः अनुग्रहार्थं तस्मै पात्रं ददौ ॥ ११ ॥
व्याख्या—ततः = तत्पश्चात्, सः = राजा, मुनये = गौतमाय, प्रणामं कृत्वा =
प्रणतिं विधाय, गृहप्रयाणाय = गृहे गमनाय, मतिम् = बुद्धिम्, चकार = अकरोत्, तु =
किन्तु, पुष्करपत्रनेत्रः—पुष्करस्य = पद्मस्य, पत्रमिव = दलवत्, नेत्रम् = नयनम्, यस्य
सः = कमलदलचक्षुः, सुगतः = तथागतः, अनुग्रहार्थम् = अनुकम्पितुम्, तस्मै = नृपनन्दाय,
पात्रम् = भिक्षापात्रम्, ददौ = अदात् ॥ ११ ॥
हिन्दी—तब राजा नन्द ने बुद्ध के चरणों में प्रणाम कर घर लौट जाना चाहा,
परन्तु उस कमलनयन ने नन्द पर अनुग्रह करते हुए अपना भिक्षापात्र उनके हाथों में
थमा दिया ॥ ११ ॥
ततः स लोके ददतः फलार्थं पात्रस्य तस्याप्रतिमस्य पात्रम् ।
जग्राह चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां प्रयतः कराभ्याम् ॥ १२ ॥
अन्वयः—ततः लोके फलार्थं ददतः तस्य अप्रतिमस्य पात्रस्य पात्रं प्रयतः सः
चापग्रहणक्षमाभ्यां पद्मोपमाभ्यां कराभ्यां जग्राह ॥ १२ ॥
व्याख्या—ततः = तदनन्तरम्, लोके = संसारे, फलार्थम् = लाभाय, ददतः = पात्रं
प्रयच्छतः, तस्य = सुगतस्य, अप्रतिमस्य = अतुल्यस्य, पात्रस्य = लोकस्य, पात्रम् =
भिक्षापात्रम्, प्रयतः = संयतः, सः = राजा नन्दः, चापग्रहणक्षमाभ्याम् = चापस्य = धनुषः,
ग्रहणाय = अङ्गीकरणाय, क्षमौ = समर्थौ ताभ्याम्, पद्मोपमाभ्याम् पद्मम् = कमलम्,
उपमा = तुलना, यस्य ताभ्याम्, कराभ्याम् = हस्ताभ्याम्, जग्राह = गृहीतवान् ॥ १२ ॥
हिन्दी—इसके बाद संसार में जन्म-ग्रहण के उद्देश्य की संपूर्ति हेतु उस अतुलनीय
व्यक्ति के भिक्षापात्र को उस संयमी ने अपने धनुष ग्रहण करने योग्य कमल के सदृश
हाथों से ग्रहण किया ॥ १२ ॥
पराङ्मुखन्त्वन्यमनस्कमाराद्विज्ञाय नन्दः सुगतं गतास्थम् ।
हस्तस्थपात्रोऽपि गृहं यियासुः ससार मार्गान्मुनिमीक्षमाणः ॥ १३ ॥
अन्वयः—सुगतं तु पराङ्मुखम् अन्यमनस्कं गतास्थं विज्ञाय हस्तस्थपात्रोऽपि गृहं
यियासुः नन्दः मुनिम् ईक्षमाणः मार्गात् ससार ॥ १३ ॥
व्याख्या—सुगतम् = तथागतम्, तु = किन्तु, पराङ्मुखम् = विमुखम्, अन्यमनस्कम्
—अन्यस्मिन् = अपरस्मिन्, मनः = चित्तम्, यस्य तम्, गतास्थम् = उदासीनम्,
विज्ञाय = ज्ञात्वा, हस्तस्थपात्रोऽपि = हस्ते = करे, तिष्ठति = धृतः, पात्रम् = भाजनम्,
यस्य सः = करधृतभिक्षाभाजनोऽपि, गृहम् = सदनम्, यियासुः = जिगमिषुः, नन्दः =
बुद्धानुजः, मुनिम् = बुद्धम्, ईक्षमाणः = अवलोकयन्, मार्गात् = पथात्, ससार =
पृथग्बभूव ॥ १३ ॥