सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
३०२ सौन्दरनन्दं महाकाव्यम्
हिन्दी-जहां-जहां यह देह जाती है, वहां-वहां दुःख भी पीछा करता है, संसार
में ऐसी कोई जगह नहीं जहाँ जाने पर इससे छुटकारा मिल सके ॥ ४७ ॥
रमणीयोऽपि देशः सन् सुभिक्षः क्षेम एव च ।
कुदेश इति विज्ञेयो यत्र क्लेशैर्विदह्यते ॥ ४८ ॥
अन्वयः—रमणीयः सुभिक्षः क्षेमञ्च सन् अपि देशः कुदेश इति एवं विज्ञेयः
यत्र क्लेशैः विदह्यते ॥ ४८ ॥
व्याख्या—रमणीयः = मनोहरः, सुभिक्षः = सुकालः, क्षेमश्च = लब्धरक्षणम्, सन्=
वर्त्तमानः, अपि सः देशः = जनपदः, कुदेशः = कुत्सितराष्ट्रः, इति = इत्थम्, एवं
विज्ञेयः = बोद्धव्यः, यत्र = यस्मिन् देशे, क्लेशै = पीडाभिः, ( जनः ) विदह्यते =
क्लिश्यते ॥ ४८ ॥
हिन्दी-धन-धान्य से भरे, रमणीय एवं शान्तिप्रद होने के बावजूद ऐसा कोई
स्थान नहीं है, जहाँ जाने पर लोग पीड़ित न होते हों ॥ ४८ ॥
लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः ।
क्षेमः कश्चिन्न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ॥ ४९ ॥
अन्वयः—शरीरमानसैः दुःखैः अभ्याहतस्य अस्य लोकस्य कश्चित् क्षेमः देशः न
अस्ति यत्र गतः स्वस्थो भवेत् ॥ ४९ ॥
व्याख्या—शरीरमानसैः = शरीरञ्च = दैहिकञ्च, मांसञ्च = मानसिकञ्च, तैः,
दुःखैः = पीडाभिः, अभ्याहतस्य = आक्रमितस्य, अस्य = एतस्य, लोकस्य = मर्त्यलोक-
स्य, कश्चित् = कोऽपि, क्षेत्रः = भूभागः, देशः = जनपदः, न = नहि, अस्ति = विद्यते,
यत्र = यस्मिन् स्थाने, गतः = प्रयात:, लोकः स्वस्थः = दुःखरहितः, भवेत् =
स्यात् ॥ ४९ ॥
हिन्दी-शारीरिक एवं मानसिक कष्टों से पीड़ित रहने वाले लोगों के लिए ऐसा
कोई शान्तिप्रद स्थान या देश नहीं हैं, जहाँ जाकर वे स्वस्थ रह सकें ॥ ४९ ॥
दुःखं सर्वत्र सर्वस्य वर्तते सर्वदा यदा ।
छन्दरागमत्ः सौम्य ! लोकचित्रेषु मा कृथाः ॥ ५० ॥
अन्वयः—सौम्य ! यदा सर्वस्य सर्वत्र सर्वदा दुःखं वर्त्तते, अतः लोकचित्रेषु छन्द-
रागं मा कृथाः ॥ ५० ॥
व्याख्या—सौम्य = हे साधु ! यदा = यतोहि, सर्वस्य = अखिललोकस्य, सर्वत्र =
सम्पूर्णमर्त्यलोके, सर्वदा = निरन्तरम्, दुःखम् = कष्टम्, वर्त्तते = विद्यते, अतः = अस्मात्
कारणात्, लोकचित्रेषु—लोकस्य = मर्त्यलोकस्य, चित्राणि = विचित्रतानि, तेषु, छन्द-
रागम् = आसक्तिः, मा = नहि,, कृथा = कुरु ॥ ५० ॥
हिन्दी-जब कि सभी को सभी समय, सब जगह दुःख होता ही है; तब हे
सौम्य ! संसार की इस चित्रमयता में आसक्ति मत करो ॥ ५० ॥
वितर्कप्रहाणः ] पञ्चदशः सर्गः ३०३
यदा तस्मान्निवृत्तस्ते.छन्दरागो भविष्यति ।
जीवलोकं तदा सर्वमादीप्तमिव मंस्यसे ॥ ५१ ॥
अन्वयः—तस्मात् यदा ते छन्दरागो निवृत्तः भविष्यति, तदा सर्वं जीवलोकम्
आदीप्तम् इव मंस्यते ॥ ५१ ॥
व्याख्या—तस्मात् = तेन हेतुना, यदा = यस्मिन् काले, ते = तव,. छन्दरागः =
आसक्तिः, निवृत्तः = विरतो भविष्यति, तदा = तस्मिन् काले, सर्वम् = निखिलम्,
जीवलोकम् = मर्त्यलोकम्, आदीप्तम् = प्रज्ज्वलितम्, इव = तुल्यम्, मंस्यते = बोधयि-
ष्यति । उत्प्रेक्षाऽलङ्कार इति ॥ ५१ ॥
हिन्दी—अतः अब तुम्हारी आसक्ति मिट जायेगी तब यह सम्पूर्ण मर्त्यलोक
आग में धधकते दीख पड़ेंगे ॥ ५१ ॥
अथ कश्चिद्वितर्कस्ते भवेदमरणाश्रयः ।
यत्नेन स विहन्तव्यो व्याधिरात्मगतो यथा ॥ ५२ ॥
अन्वयः—अथ ते कश्चित् अमरणाश्रयः वितर्कः भवेत् सः यत्नेन विहन्तव्यः; यथा
आत्मगतः व्याधिः ॥ ५२ ॥
व्याख्या—अथ = अनन्तरम्, ते = तव, कश्चित् = कोऽपि, अमरणाश्रयः = नास्ति
मरणम् इति अमरणम्, तदाश्रयः यस्य सः = अमराश्रितः, वितर्कः = विसंवादः, भवेत् =
स्यात्, तर्हि सः = पूर्वोक्ताश्रयवितर्कः, यत्नेन = प्रयासपूर्वकेन, विहन्तव्यः = घातितव्यः,
यथा = येन रूपेण, आत्मगतः — आत्मनि = स्वस्मिन्, गतः = प्राप्तः, देहव्यासः, व्याधिः
= रोगः, विहन्तव्य इति । उपमालङ्कारः ॥ ५२ ॥
हिन्दी—'मैं कभी मरूँगा ही नहीं' यदि इस तरह का कोई विचार तुम्हारे मन
में उत्पन्न हो तो देह में उपस्थित रोग की तरह उसे समझ कर मार डालो ॥ ५२ ॥
मुहूर्तंमपि विश्रम्भः कार्यो न खलु जीविते ।
निलीन इव हि व्याघ्रः कालो'विश्वस्तघातकः ॥ ५३ ॥
अन्वयः—खलु जीविते मुहूर्त्तमपि विश्रम्भः न कार्यः, हि निलीनः व्याघ्रः इव
कालः विश्वस्तघातकः ॥ ५३ ॥
व्याख्या—खलु = निश्चयेन, जीविते = जीवने, मुहूर्तमपि = क्षणमपि, विश्रम्भः =
प्रत्ययः, न = नहि, कार्यः = विधेयः, हि = यतः, निलीनः = अन्तरितः, व्याघ्रः =
शार्दूलः, इव = यथा, कालः = अन्तकः, विश्वस्तघातकः — विश्वस्तस्य = विश्वसनी-
यस्य, घातकः = मारकः, अर्थात् विश्वब्धहन्ता भवति । यो हि जनः विश्वसिति यत् नर-
जीवनं मरणशीलं नास्ति, तं कालः तथैव हन्ति यथान्तरितो व्याघ्रो निःशङ्को भूत्वा
मृगान् हन्ति । 'व्याघ्र इव' अत्रोपमालङ्कारः । अस्य श्लोकस्योत्तराद्धंस्तु पूर्वार्द्धम्प्रति
कारणमस्ति, अत एव काव्यलिङ्गोऽप्यलङ्कारोऽस्ति ॥ ५३ ॥
हिन्दी—एक क्षण के लिए भी इस जीवन पर भरोसा नहीं करना चाहिए, क्योंकि
छिपे हुए बाघ की तरह काल विश्वास करने वाले की हत्या करता है ॥ ५३ ॥
३०४ सौन्दरनन्दं महाकाव्यम्
बलस्थोऽहं युवा वेति न ते भवितुमर्हति ।
मृत्युः सर्वास्ववस्थासु हन्ति नावेक्षते वयः ॥ ५४ ॥
अन्वयः—अहं बलस्थः युवा वा इति ते मनसि भवितुं न अर्हति, मृत्युः सर्वासु
अवस्थासु हन्ति, वयः न अवेक्षते ॥ ५४ ॥
व्याख्या—अहं बलस्थः=शक्तिशाली, युवा=तरुणः, वा=अथवा, इति=
इत्थम्, ते=भवतः, मनसि=चित्ते, भवितुम्=वर्तितुम्, नार्हति=योग्यो नास्ति,
यतो हि—मृत्युः=अन्तकः, सर्वासु=सकलासु, अवस्थासु=दशासु, हन्ति=मारयति,
वयः=आयुम्, न=नहि, अवेक्षते=विचारयते । पूर्वार्द्धम्प्रति उत्तरार्द्धस्य कारणत्वेनात्र
काव्यलिङ्गालङ्कारः ॥ ५४ ॥
हिन्दी—'मैं बलवान् हूँ या युवा हूँ' ऐसी भावना तुम्हारे मन में नहीं होनी चाहिए,
मृत्यु किसी की अवस्था का ख्याल किये बिना मारती है ॥ ५४ ॥
क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः ।
स्वास्थ्याशा जीविताशा वा न दृष्टार्थस्य जायते ॥ ५५ ॥
अन्वयः—अनर्थानां क्षेत्रभूतं शरीरं परिकर्षतः दृष्टार्थस्य स्वास्थ्याशा जीविताशा
वा न जायते ॥ ५५ ॥
व्याख्या—अनर्थानाम्=अनिष्टानाम्, क्षेत्रभूतम्=आवासरूपम्, शरीरम्=देहम्,
परिकर्षतः=निःस्पृहभावेन दधतः, दृष्टार्थस्य—दृष्टः=अवलोकितः, अर्थः=तत्त्वम्,
येन, तस्य=मोक्षार्थिनः, स्वास्थ्याशा=आरोग्याशंसा, जीविताशा=जीवनाभिलाषा,
वा=अथ वा, न=नहि, जायते=उत्पद्यते ॥ ५५ ॥
हिन्दी—अनिष्टों के घर देह को घसीटते हुए तत्त्वदर्शी को स्वास्थ्य या जीवन
की तृष्णा नहीं होती है ॥ ५५ ॥
निर्वृतः को भवेत् कायं महाभूताश्रयं वहन् ।
परस्परविरुद्धानामहीनामिव भाजनम् ॥ ५६ ॥
अन्वयः—परस्परविरुद्धानाम् अहीनां भाजनम् इव महाभूताश्रयं कायं वहन्
को निर्वृतः भवेत् ? ॥ ५६ ॥
व्याख्या—परस्परविरुद्धानाम् = इतरेतरप्रतिकूलानाम्, अहीनाम् = नागानाम्,
भाजनम्=आश्रयस्थलम्, इव=सदृशम्, महाभूताश्रयम्—महाभूतानाम्=पञ्चमहा-
भूतानाम्, आश्रयः=शरणम्, तम्, कायम्=शरीरम्, वहन्=दधन्, को निर्वृतः =
कः प्रसन्नः, भवेत् = स्यात् ? इवेत्युपमायां तेनात्रोपमालङ्कारः । 'कः निर्वृतः भवेत्'
इत्यस्याशयः—'कोऽपि सुखी न भविष्यती'ति, अत एवार्थापत्तिरलङ्कारश्चेति ॥ ५६ ॥
हिन्दी—परस्पर विरोधी साँपों की एक साथ शरणस्थली की पञ्चमहाभूतों के
आश्रय-स्वरूप इस देह को ढोता हुआ कौन मनुष्य सुखी हो सकता है ? ॥ ५६ ॥
प्रश्वसित्ययमन्वक्षं यदुच्छ्वसिति मानवः ।
अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम् ॥ ५७ ॥
वितर्कप्रहाणः ] पञ्चदशः सर्गः ३०५
अन्वयः—अयं मानवः प्रश्वसिति अन्वक्षं तदुच्छ्वसिति, तत् आश्चर्यम् अवगच्छ;
हि जीवितम् अविश्वास्यम् ॥ ५७ ॥
व्याख्या — अयम् = एषः, मानवः = मनुष्यः, प्रश्वसिति = श्वासं गृह्णाति, अन्वक्षम्
=अनुपलम्, तत् = पूर्वोक्तप्राणाः, उच्छ्वसिति = आहरति, तत् = उच्छ्वासप्रक्रियाम्,
आश्चर्यम् = विस्मयावहम्, अवगच्छ = जानीहि, हि = यतः, जीवितम् = प्राणधारणम्,
अविश्वास्यम् = अविश्वसनीयं भवति ॥ ५७ ॥
हिन्दी—यह मनुष्य जो सांस लेता और छोड़ता है, इसे आश्चर्य ही समझो, क्योंकि
यह जिन्दगी ही विश्वास के लायक नहीं है ॥ ५७ ॥
इदमाश्चर्यमपरं यत्सुप्तः प्रतिबुध्यते ।
स्वपित्युत्थाय वा भूयो बह्वमित्रा हि देहिनः ॥ ५८ ॥
अन्वयः—इदम् अपरम् आश्चर्यं यत् सुप्तः प्रतिबुध्यते, उत्थाय भूयो स्वपिति वा,
हि देहिनः बह्वमित्राः ॥ ५८ ॥
व्याख्या—इदम् = एतत्, अपरम् = अन्यत्, आश्चर्यम् = विस्मयम्, यत् सुप्तः =
प्रसुप्तो जनः, प्रतिबुध्यते = जगर्यते, उत्थाय = समुत्थाय, भूयः = पुनः, स्वपिति =
शेते, वा = अथवा, हि = यतः, देहिनः = शरीरिणः, बह्वमित्राः—बहवः = अनेके,
अमित्राः = रिपवः, इति सन्ति । जागतिकजीवनेषु लिप्तो जनः मुक्तिमार्गं प्रति गुरुणा
प्रेरितः सन्नपि रागेर्ष्याद्वेषमोहादयो रिपवः ते मुक्तिमार्गात् निवारयितुं सततं प्रयन्तन्ते,
इत्यर्थोऽप्यस्य ध्वन्यते ॥ ५८ ॥
हिन्दी—यह दूसरा भी आश्चर्य है कि सोया हुआ आदमी जागता है और जागकर
फिर सो जाता है, क्योंकि देहियों के अनेक दुश्मन हैं ॥ ५८ ॥
गर्भात् प्रभृति यो लोकं जिघांसुरनुगच्छति ।
कस्तस्मिन् विश्वसेन्मृत्यावुद्यतासावराविव ॥ ५९ ॥
अन्वयः—यः जिघांसुः गर्भात् प्रभृति लोकम् अनुगच्छति, उद्यतासौ अरौ इव
तस्मिन् मृत्यौ कः विश्वसेत् ? ॥ ५९ ॥
व्याख्या—यः = अदृश्यः, जिघांसुः—प्राणान् जिहीर्षुः = मारकः, गर्भात् = भ्रूणात्,
प्रभृति = तदारभ्य, लोकम् = जनान्, अनुगच्छति = पश्चाच्चलति, उद्यतासौ — उद्यतः =
-तत्परः, असिः = कृपाणः, येन तस्मिन्, अरौ = शत्रौ, तस्मिन् = अमुष्मिन्, मृत्यौ =
अन्तके, कः = जनः, विश्वसेत् = प्रत्ययं कुर्यात् । इवेत्युपमायाम्, तेनोपमालङ्कारः ॥५९॥
हिन्दी—गर्भावस्या से ही यह मौत जातक को मारने के पीछे लगी रहती है,
तलवार उठाये दुश्मन की तरह उस मौत में कौन विश्वास करेगा ? ॥ ५९ ॥
प्रसूतः पुरुषो लोके श्रुतवान् बलवानपि ।
न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति ॥ ६० ॥
अन्वयः—लोके प्रसूतः कश्चिदपि पुरुषः श्रुतवान् बलवान् अपि अन्तकं न जयति,
न अजयत्, न जेष्यति ॥ ६० ॥
३०६ सौन्दरनन्दं महाकाव्यम्
व्याख्या—लोके = अस्मिन् मर्त्यलोके, प्रसूतः = समुत्पन्नः, कश्चिदपि = कोऽपि,
पुरुषः = व्यक्तिः, श्रुतवान् = विद्वान्, बलवान् = शक्तिसम्पन्नः, अपि = चेत्, अन्तकम् =
मारकम्, न = नहि, जयति = विजयते, न = नहि, अजयत् = जेतुमशक्नोत्, वा न
जेष्यति = नहि जेतुं शक्ष्यति चेति ॥ ६० ॥
हिन्दी—इस संसार में जन्म लेने वाला कोई व्यक्ति विद्वान् और बलवान् होने के
बावजूद इस मौत को न जीत सकता है, न जीत सका है और न जीत सकेगा ॥६०॥
साम्ना दानेन भेदेन दण्डेन नियमेन वा ।
प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥ ६१ ॥
अन्वयः—हि रभसः प्राप्तः मृत्युः साम्ना दानेन भेदेन दण्डेन नियमेन वा प्रति-
हन्तुं न शक्यते ॥ ६१ ॥
व्याख्या—हि = यतः, रभसः = जवात्, प्राप्तः = समागतः, मृत्युः = अन्तकः,
साम्ना = शान्त्या, दानेन = त्यागेन, भेदेन = भेदनीत्या, दण्डेन = निग्रहेण, नियमेन =
नियोगेन, वा = अथवा, प्रतिहन्तुम् = घातयितुम्, हन्तुं वा, न = नहि, शक्यते =
समर्थो भवति ॥ ६१ ॥
हिन्दी—साम, दान, भेद, दण्ड और नियम किसी भी उपाय से वेगपूर्वक आई
मौत को कोई मार नहीं सकता ॥ ६१ ॥
तस्मान्नायुषि विश्वासं चञ्चले कर्तुमर्हसि ।
नित्यं हरति कालो हि स्थाविर्यं न प्रतीक्षते ॥ ६२ ॥
अन्वयः—तस्मात् चञ्चले आयुषि विश्वासं कर्तुं न अर्हसि, हि कालः नित्यं
हरति, स्थाविर्यं न प्रतीक्षते ॥ ६२ ॥
व्याख्या—तस्मात् = तेन हेतुना, चञ्चले = चपले, आयुषि = जीवने, विश्वासम् =
प्रत्ययम्, कर्तुम् = विधातुम्, न = नहि, अर्हसि = योग्योऽसि, हि = यतः, कालः =
मृत्युः, नित्यम् = अनुपलम्, प्राणान् हरति = नाशयति, स्थाविर्यम् = वार्द्धक्यम्, न =
नहि, प्रतीक्षते = प्रतीक्षां करोति ॥ ६२ ॥
हिन्दी—अतः इस चपल जीवन में तुम्हें विश्वास नहीं करना चाहिए, क्योंकि
यह मौत हर रोज लोगों को मार रही है, यह वृद्धावस्था की प्रतीक्षा नहीं करती
है ॥ ६२ ॥
निःसारं पश्यतो लोकं तोयबुद्बुददुर्बलम् ।
कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः ॥ ६३ ॥
अन्वयः—तोयबुद्बुददुर्बलं निस्सारं लोकं पश्यतः कस्य अनुन्मत्तचेतसः अमर-
वितर्कः स्यात् ? ॥ ६३ ॥
व्याख्या—तोयबुद्बुददुर्बलम्—तोयस्य = जलस्य, बुद्बुदः = विकारस्तद्वत् दुर्बलम्
= निर्बलम्, निःसारम् = सारविहीनम्, लोकम् = मर्त्यलोकम्, पश्यतः = अवलोकयतः,
वितर्कप्रहाणः ] पञ्चदशः सर्गः ३०७
कस्य = पुरुषविशेषस्य, अनुन्मत्तचेतसः—नास्ति उन्मत्तम् = विक्षिप्तम्, चित्तम् =
मानसं, यस्य तस्य, अमरवितर्कः—अमरस्य = देवस्य, वितर्कः = विसंवादः विचारो
वेति, स्यात् = भवेत् । 'तोयबुद्बुद्बुर्बले' इत्यत्र लुप्तोपमालङ्कारः ॥ ६३ ॥
हिन्दी—संसार को पानी के बुलबुले की तरह क्षणभंगुर एवं सार-विहीन देखकर
कौन स्वस्थचित्त व्यक्ति अपने को अमर समझेगा ? ॥ ६३ ॥
तस्मादेषां वितर्काणां प्रहाणार्थं समासतः ।
आनापानस्मृतिं सौम्य ! विषयीकर्तुमर्हसि ॥ ६४ ॥
अन्वयः—सौम्य ! तस्मात् एषां वितर्काणां प्रहाणार्थं समासतः आनापानस्मृतिं
विषयीकर्त्तुम् अर्हसि ॥ ६४ ॥
व्याख्या—सौम्य = हे प्रियदर्शन ! तस्मात् = तेन हेतुना, वितर्काणाम् = अनिष्ट-
विचाराणाम्, प्रहाणार्थम्—प्रहाणस्यायमिति प्रहाणार्थम् = परित्यागाय, समासतः =
सङ्क्षेपतः, आनापानस्मृतिम् — आनश्च = प्राणवायुश्च, अपानश्च = निःश्वासश्च, तयोः
स्मृतिम् = अवधारणाम्, विषयीकर्तुम् = वशे कर्त्तुम्, अर्हसि = योग्योऽसि ॥ ६४ ॥
हिन्दी—अतः हे सौम्य ! इस अनिष्ट विचार को त्यागने के लिए संक्षेप में प्राण
और अपान वायु की याद करो ॥ ६४ ॥
इत्यनेन प्रयोगेण काले सेवितुमर्हसि ।
प्रतिपक्षान् वितर्काणां गदानामगदानिव ॥ ६५ ॥
अन्वयः—इति अनेन प्रयोगेण काले वितर्काणां प्रतिपक्षान् गदानाम् अगदान् इव
सेवितुम् अर्हसि ॥ ६५ ॥
व्याख्या—इति = एतावता, अनेन = पूर्वोक्तप्रकारेण, प्रयोगेण = व्यवहारेण, काले
= यथावसरे, वितर्काणाम् = अनिष्टचिन्तनानाम्, प्रतिपक्षान् = विरुद्धविचारान्,
गदानाम् = व्याधीनाम्, अगदान् = भेषजम्, इव = यथा, सेवितुम् = चिन्तयितुम्, अर्हसि
= योग्योऽसि । उपमालङ्कारः ॥ ६५ ॥
हिन्दी—जैसे रोग से मुक्ति के लिए औषधि सेवन है, उसी तरह इन अनिष्ट
विचारों को विनष्ट करने के लिए तुम्हें इनके विपरीत विचारों का चिन्तन करना
चाहिए ॥ ६५ ॥
सुवर्णहेतोरपि पांसुधावको
विहाय पांसून बृहतो यथाऽऽदितः ।
जहाति सूक्ष्मानपि तद्विशुद्धये
विशोध्य हेमावयवान् नियच्छति ॥ ६६ ॥
अन्वयः—यथा पांसुधावकः सुवर्णहेतोः आदितः बृहतः पांसून् विहाय तद्विशुद्धये
सूक्ष्मान् अपि जहाति हेमावयवान् विशोध्य नियच्छति ॥ ६६ ॥
व्याख्या—यथा = येन प्रकारेण, पांसुधावकः—पांसूनाम् = धूलीनाम्, धावकः =
शोधकः, सुवर्णहेतोः = कनकग्रहीतुम्, आदितः = आरम्भादेव, बृहतः = गुरून्, पांसून्
३०८ सौन्दरनन्दं महाकाव्यम्
= रजःकणान्, विहाय = परित्यज्य, तत् = सुवर्णस्य, विशुद्धये = शोधनार्थम्, सूक्ष्मान्
= क्षीणकणानपि, जहाति = परित्यजति, हेमावयवान् = कनककणान्, विशोध्य-प्रमृज्य,
नियच्छति = प्रयच्छति ॥ ६६ ॥
हिन्दी-जैसे सोने को पाने के लिए सुनार या धूल धोनेवाला आदमी शुरू से ही
बड़े-बड़े धूलिकणों को निकालता हुआ उसकी शुद्धि के लिए बारीक से बारीक कणों
को भी निकालकर शुद्ध सोना रख लेता है ॥ ६६ ॥
विमोक्षहेतोरपि युक्तमानसो
विहाय दोषान् बृहतस्तथाऽऽदितः ।
जहाति सूक्ष्मानपि तद्विशुद्धये
विशोध्य धर्मावयवान् नियच्छति ॥ ६७ ॥
अन्वयः-तथा युक्तमानसः विमोक्षहेतोः आदितः बृहतः दोषान् विहाय तद्विशुद्धये
सूक्ष्मानपि जहाति धर्मावयवान् विशोध्य नियच्छति ॥ ६७ ॥
व्याख्या-तथा = तेनैव प्रकारेण, युक्तमानसः = युक्तम् = उचितम्, मनः = चित्तः,
यस्य सः युक्तमानसः = उपयुक्तविचारकः, विमोक्षहेतोः = मुक्त्यर्थम्, आदितः =
प्रारम्भादेव, बृहतः = विस्तृतः, दोषान् = अवगुणान्, विहाय = त्यक्त्वा, तत् = मनसः,
विशुद्धये = शोधनाय, सूक्ष्मान् = अतिलघून् अपि दोषान्, जहाति = परित्यजति, धर्मा-
वयवान् = नियमानुकूलान् गुणान्, विशोध्य = संशोध्य, नियच्छति = गृह्णाति । उपमा-
लङ्कारः ॥ ६७ ॥
हिन्दी-उसी तरह मुक्ति पाने के लिए योगी प्रारम्भ से ही बड़े-बड़े अवगुणों को
छोड़ता हुआ चित्त-शुद्धि के लिए छोटे से छोटे दोषों को भी छोड़ देता है और अन्त में
धर्म के अवयवों को परिष्कृत रूप में अपने पास रख लेता है ॥ ६७ ॥
क्रमेणाद्भिः शुद्धं कनकमिह पांसुव्यवहितं
यथाग्नौ कर्मारः पचति भृशमावर्तयति च ।
तथा योगाचारो निपुणमिह दोषव्यवहितं
विशोध्य क्लेशेभ्यः शमयति मनः सङ्क्षिपति च ॥ ६८ ॥
अन्वयः-यथा इह कर्मारः पांसुव्यवहितं क्रमेण अद्भिः शुद्धं कनकम् अग्नौ
पचति भृशम् आवर्तयति च, तथा इह योगाचारः दोषव्यवहितं मनः निपुणं विशोध्य
क्लेशेभ्यः शमयति सङ्क्षिपति च ॥ ६८ ॥
व्याख्या-यथा = येन प्रकारेण, इह = संसारे, कर्मारः = स्वर्णकारः, पांसुव्यव-
हितम्-पांसुभिः = धूलिकणैः, व्यवहितम् = आच्छन्नम्, पांसुव्यवहितम्, क्रमेण =
पारम्पर्येण, अद्भिः = सलिलेन, शुद्धम् = परिष्कृतम्, कनकम् = सुवर्णम्, अग्नौ =
अनले, पचति = तापयति, भृशम् = अत्यर्थम्, आवर्तयति = आवर्तनं करोति, च=पुनः,
तथा = तेनैव प्रकारेण, इह = अस्मिन् संसारे, योगाचारः-योगम् = मनःस्थैर्यम्, आच-
रति = व्यवहरति, इति योगाचारः, दोषव्यवहितम् = अवगुणाच्छन्नम्, मनः = चेतः,
वितर्कप्रहाणः ] पञ्चदशः सर्गः ३०९
निपुणम् = दक्षतया, विशोध्य = परिष्कृत्य, क्लेशेभ्यः = कष्टेभ्यः, शमयति = शान्तं
करोति, सङ्क्षिपति = सङ्कोचयति चेति। उपमालङ्कारः ॥ ६८ ॥
हिन्दी—जैसे सुनार संसार में धूल से ढँके सोने को क्रमशः पानी से धोकर फिर
आग में पकाता है और बार-बार उलटता-पलटता है, उसी तरह योगाभ्यासी व्यक्ति
दोषयुक्त चित्त को दोषों से अच्छी तरह परिमार्जित कर अपने मन को शान्त एवं
संकुचित करता है ॥ ६८ ॥
यथा च स्वच्छन्दादुपनयति कर्माश्रयसुखं
सुवर्णं कर्मारो बहुविधमलङ्कारविधिषु ।
मनःशुद्धो भिक्षुर्वशगतमभिज्ञास्वपि तथा
यथेच्छं यत्रेच्छं शमयति मनः प्रेरयति च ॥ ६९ ॥
सौन्दरनन्दे महाकाव्ये वितर्कप्रहाणो नाम पञ्चदशः सर्गः ॥ १५ ॥
अन्वयः—यथा च कर्माश्रयसुखं सुवर्णं कर्मारः स्वच्छन्दात् अलङ्कारविधिषु
बहुविधम् उपनयति, तथा मनःशुद्धः भिक्षुः वशगतं मनः अभिज्ञासु अपि यथेच्छं
यत्रेच्छं शमयति प्रेरयति च ॥ ६९ ॥
व्याख्या—यथा=येन रूपेण, च=पुनः, कर्माश्रयसुखम्—सुखेन = सहजभावेन,
कर्म = कृत्यम्, कर्तुं = विधातुम्, शक्यम् = समर्थमिति कर्माश्रयसुखम्, सुवर्णम् =
हेमम्, कर्मारः=सुवर्णकारः, स्वच्छन्दात् = निरङ्कुशात्, अलङ्कारविधिषु = आभूषण-
प्रकारेषु, बहुविधम् = अनेकप्रकारकम्, उपनयति = समीपमानयति, तथा = तेनैव रूपेण,
मनः = चित्तः, शुद्धः = संस्कृतः, संस्कृतमनः, भिक्षुः = भगवान् बुद्धः, मनः = चेतः,
अभिज्ञा = दिव्यशक्तिसु, अपि = चेत्, यथेच्छम् = इच्छानुसारम्, यत्रेच्छम् = यथा-
भिलषितम्, शमयति = शान्तिं नयति, प्रेरयति = प्रेरणां ददाति। अत्राप्युपमालङ्कारः ॥६९॥
हिन्दी—और जिस तरह सुनार अनेक प्रकार से प्रस्तुत तथा आसानी से काम
करने लायक सोने को स्वेच्छानुसार भाँति-भाँति के आभूषणों में बदल देता है। उसी
प्रकार भगवान् बुद्ध ने मन को शुद्ध कर लिया है और दिव्यशक्तियों के सम्बन्ध में अपने
मन को वशवर्ती बना लिया है, वह जैसे चाहता है और जहाँ चाहता है, अपने मन को
शान्त कर लेता है और प्रेरित करता है ॥ ६९ ॥
सौन्दरनन्द-महाकाव्य में 'वितर्कप्रहाण' नामक पञ्चदश सर्ग समाप्त ॥ १५ ॥
षोडशः सर्गः
आर्यसत्यव्याख्यानः
कार्य सफल उसका होता है जो उत्तम उद्योगी है।
अनुद्योग पापों की जड़ है कर्मनिरत नित योगी है॥
एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित् समुपोह्य किञ्चित् ।
ध्यानानि चत्वार्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च ॥ १ ॥
अन्वयः—एवं मनोधारणया क्रमेण किञ्चित् व्यपोह्य किञ्चित् समुपोह्य योगी
चत्वारि ध्यानानि अधिगम्य नियमेन पञ्च अभिज्ञाः प्राप्नोति ॥ १ ॥
व्याख्या—एवम् = इत्थम्, मनोधारणया = मानसिकसङ्कल्पेन, क्रमेण = आनु-
पूर्व्येण, किञ्चित् = किमपि, व्यपोह्य = पृथक्कृत्वा, किञ्चित् = कतिचित्, समुपोह्य =
सञ्चयित्वा, योगी = योगाभ्यासी, चत्वारि = तुरीयानि, ध्यानानि = चित्तस्थैर्याणि,
अधिगम्य = उपलभ्य, नियमेन = नियोगेन, पञ्च = पञ्चविधाः, अभिज्ञाः = विज्ञताः,
प्राप्नोति = अधिगच्छति ॥ १ ॥
हिन्दी—इस प्रकार मानसिक एकाग्रता के द्वारा योगी कुछ छोड़कर और कुछ
'लेकर चार तरह के ध्यानों को प्राप्तकर निश्चय ही पाँच तरह की अभिज्ञाओं को प्राप्त
करता है ॥ १ ॥
ऋद्धिप्रवेकं च बहुप्रकारं परस्य चेतश्चरितावबोधम् ।
अतीतजन्मस्मरणं च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ २ ॥
अन्वयः—बहुप्रकारम् ऋद्धिप्रवेकं परस्य चेतश्चरितावबोधं च दीर्घम् अतीतजन्म-
स्मरणं च दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥ २ ॥
व्याख्या—बहुप्रकारम् = बहुविधम्, ऋद्धिप्रवेकम् = ऋद्धिषु = समृद्धिषु, प्रवेकम्=
उत्कृष्टम्, परस्य = अपरस्य, चेतश्चरितावबोधम् = चेतः = मनसः, सः चरितस्य =
आचरणस्य, अवबोधम् = जागरणम्, च = पुनः, दीर्घम् = विस्तृतम्, अतीतजन्मस्मरणम्—
अतीतस्य = व्यतीतस्य, जन्मनः = उत्पत्तेः, स्मरणम् = आख्यानम्, च = पुनः, दिव्ये =
भव्ये, विशुद्धे = परिष्कृते, श्रुतिचक्षुषी = श्रवणनयने, च प्राप्नोति ॥ २ ॥
हिन्दी—अनेक तरह की सिद्धियां, दूसरों के मन की गति का ज्ञान, अनेक पूर्व-
जन्मों का वृत्तान्त तथा अलोकिक श्रवण, अवलोकन शक्ति—॥ २ ॥
अतःपरं तत्त्वपरीक्षणेन मनो दधात्यास्रवसङ्क्षयाय ।
ततो हि दुःखप्रभृतीनि सम्यक्चत्वारि सत्यानि पदान्यवैति ॥ ३ ॥
आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३११
अन्वयः—अतःपरं तत्त्वपरीक्षणेन मनः आस्रवसङ्क्षयाय दधाति, हि ततः
दुःखप्रभृतीनि चत्वारि सत्यानि पदानि सम्यक् अवैति ॥ ३ ॥
व्याख्या—अतःपरम् = तदनन्तरम्, तत्त्वपरीक्षणेन = तत्त्वस्य = याथार्थ्यस्य, परी-
क्षणेन = आलोकनेन, मनः = चित्तम्, आस्रवसङ्क्षयाय = अन्तर्मनमलप्रवाहविनाशाय,
दधाति = धारयति, हि = यतः, ततः = तत्पश्चात्, दुःखप्रभृतीनि = दुःखादिकारणादीनि,
चत्वारि = चतुःसङ्ख्याकानि, सत्यानि = तथ्यानि, पदानि = आर्यसत्यानि, सम्यक् =
सुष्ठुतया, अवैति = जानाति । अव + √इण् + लट्; पाणिनिव्याकरणानुसारेण 'अवेति'
रूपं भवति ॥ ३ ॥
हिन्दी—और तब वह दुःखादि चार आर्यसत्यों से पूर्ण परिचित होने के बाद
तत्त्व-परीक्षण के द्वारा अपने अन्तर्मन की बहती गन्दगी की सफाई करता है ॥ ३ ॥
बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयम् ।
दुःखक्षयो निःसरणात्मकोऽयं त्राणात्मकोऽयं प्रशमाय मार्गः ॥ ४ ॥
अन्वयः—बाधात्मकम् इदं प्रसक्तं दुःखम्, दुःखस्य अयं हेतुः प्रभवात्मकः, अयं
दुःखक्षयः निःसरणात्मकः प्रशमाय अयं त्राणात्मकः मार्गः ॥ ४ ॥
व्याख्या—बाधात्मकम् = वेदनात्मकम्, इदम् = एतत्, प्रसक्तम् = निरन्तरम्,
दुःखम् = कष्टम्, दुःखस्य = पीडायाः, अयम् = एषः, हेतुः = कारणम्, प्रभवात्मकः—
प्रभवः = उत्पत्तिः, आत्मा = जीवः, यस्य सः, अयम् = एषः, मार्गः = पन्थाः, अयम् = एषः,
दुःखक्षयः = कष्टविनाशः, निःसरणात्मकः = अपसारणात्मकः, प्रशमाय = शान्तये,
अयम् = एषः, त्राणात्मकः = रक्षात्मकः, मार्गः = पन्थाः । दुखं दुःखस्य कारणम्,
दुःखविनाशः दुःखविनाशस्य पन्थाः इत्यादेः सम्यग् ज्ञानं भवति ॥ ४ ॥
हिन्दी—यह दुःख निरन्तर रहने वाला है, इसकी आत्मा पीड़ा है, यह दुःख का
कारण है, इसकी आत्मा उत्पत्ति है, यह दुःख का विनाश है, इसकी आत्मा निकलती
है, यह शान्ति का मार्ग है, रक्षा इसकी आत्मा हे ॥ ४ ॥
इत्यार्यसत्यान्यवबुध्य बुद्ध्या चत्वारि सम्यक् प्रतिविध्य चैव ।
सर्वास्रवान् भावनयाऽभिभूय न जायते क्षान्तिमवाप्य भूयः ॥ ५ ॥
अन्वयः—इति चत्वारि आर्यसत्यान् बु द्धया सम्यक् अवबुध्य प्रतिविध्य चैव
भावनया सर्वास्रवान् अभिभूय शान्तिम् अवाप्य भूयः न जायते ॥ ५ ॥
व्याख्या—इति = इत्थम्, चत्वारि = चतुःसङ्ख्याकानि, आर्यसत्यान् = दुःखादीन्
आर्यसत्यान्, बुद्ध्या = ज्ञानेन, सम्यक् = सुष्ठुतया, अवबुध्य = अवगम्य, प्रतिविध्य =
उपचारं कृत्वा, चैव = पुनः, भावनया = ध्यानेन, सर्वास्रवान् = सकलमनोमलान्, अभि-
भूय = पराजित्य, शान्तिम् = शमम्, अवाप्य = प्राप्य, भूयः = पुनः, न = नहि, जायते =
उत्पन्नो भवति ॥ ५ ॥
३१२ सौन्दरनन्दं महाकाव्यम्
हिन्दी—इस प्रकार इन चार आर्यसत्यों को ज्ञानपूर्वक ठीक-ठीक समझकर और
भावना से मन के मैलों को साफ कर वह शान्ति प्राप्त करता है और फिर जन्म ग्रहण
नहीं करता है ॥ ५ ॥
अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टयस्य ।
भवाद्भवं याति न शान्तिमेति संसारडोलामधिरुह्य लोकः ॥ ६ ॥
अन्वयः—अस्य तत्त्वात्मकस्य चतुष्टयस्य हि अबोधतः च अप्रतिवेधतः लोकः
संसारडोलाम् अधिरुह्य भवात् भवं याति शान्तिं न एति ॥ ६ ॥
व्याख्या—अस्य = एतस्य, तत्त्वात्मकस्य = तथ्यभूतस्य, चतुष्टयस्य = चतुष्कस्य,
हि = यतः, अबोधतः = मौर्ख्यात्, च = पुनः, अप्रतिवेधतः = अजागरणतः, लोकः =
जनः, संसारडोलाम् = संसार एव = जगदेव, डोला = प्रेङ्खा, ताम्, अधिरुह्य = आरोहणं
कृत्वा, भवात् = जन्मनः, भवम् = जन्म, याति = प्राप्नोति, शान्तिम् = तृष्णाक्षयम्,
न = नहि, एति = प्राप्नोति ॥ ६ ॥
हिन्दी—इस तत्त्वात्मक चार. आर्यसत्यों को नासमझदारी एवं अप्रतिवेधता के
कारण मनुष्य संसाररूपी झूले पर चढ़कर एक जन्म से दूसरे जन्म में जाता है; उसे
शान्ति कहीं नहीं मिलती है ॥ ६ ॥
तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखमवेहि जन्म ।
सर्वौषधीनामिव भूर्भवाय सर्वापदां क्षेत्रमिदं हि जन्म ॥ ७ ॥
अन्वयः—तस्मात् समासतः जरादेः व्यसनस्य मूलं दुःखं जन्म अवैहि, सर्वौष-
धीनां भवाय भूः इव सर्वापदां क्षेत्रं हि इदं जन्म ॥ ७ ॥
व्याख्या—तस्मात् = तेन कारणेन, समासतः = सङ्क्षेपतः, जरादेः = वार्द्धक्यादेः,
व्यसनस्य = विपत्तेः, मूलम् = बीजम्, दुःखम् = पीडाम्, जन्म = उत्पत्तिः, अवैहि =
जानीहि, सर्वौषधीनाम् = भेषजानाम्, भवाय = जन्मग्रहणाय, भूः = पृथ्वी, इव = यथा,
सर्वापदाम् = सकलविपदाम्, क्षेत्रम् = जननहेतुः, हि = यतः, इदम् = एतत्, जन्म =
उत्पत्तिरस्ति ॥ ७ ॥
हिन्दी—अतः संक्षेप में यह जानो कि वृद्धावस्था आदि विपत्तियों की जड़ जन्म-
रूपी दुःख है, जैसे सभी ओषधियां धरती से उत्पन्न होती है, उसी तरह सभी
विपत्तियों का क्षेत्र जन्म है ॥ ७ ॥
यज्जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म ।
यः सम्भवश्चास्य समुच्चयस्य मृत्योश्च रोगस्य च सम्भवः सः ॥ ८ ॥
अन्वयः—सेन्द्रियस्य रूपस्य हि यद् जन्म तत् नैकविधस्य दुःखस्य जन्म, अस्य
समुच्चयस्य यः सम्भवः सः मृत्योश्च रोगस्य च सम्भवः ॥ ८ ॥
व्याख्या—सेन्द्रियस्य = इन्द्रियैः = करणैः, सहितम् = सार्द्धम्, तस्य, रूपस्य =
सौन्दर्यस्य, हि = यतः, यत् = यः, जन्म = उत्पत्तिः, तत् = तदेव, नैकविधस्य = न =
नहि, एकविधः = एकप्रकारकः, इति नैकविधस्तस्य, दुःखस्य = क्लेशस्य, जन्म =
आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३१३
उत्पत्तिः, अस्य = एतस्य, समुच्छ्रयस्य = देहस्य, यः सम्भवः = यो जन्म, सः = एषः,
मृत्योश्च = अन्तकश्च, रोगस्य च = आमयश्च, सम्भवः = उत्पत्तिरस्ति ॥ ८ ॥
हिन्दी — इन्द्रियों के साथ रूप की उत्पत्ति ही अनेक प्रकार के दुःखों का कारण
है, मृत्यु और रोगों का भी वही कारण है, जो देह का है ॥ ८ ॥
सद्राप्यसद्वा विषमिश्रमन्नं यथा विनाशाय न धारणाय ।
लोके तथा तिर्यगुपर्यधो वा दुःखाय सर्वं न सुखाय जन्म ॥ ९ ॥
अन्वयः — यथा विषमिश्रम् अन्नं सद् वा असद् वा अपि विनाशाय न धारणाय
तथा लोके तिर्यगुपरि अधः वा जन्म सर्वं दुःखाय न सुखाय ॥ ९ ॥
व्याख्या — यथा = येन प्रकारेण, विषमिश्रम् = गरलमिश्रितम्, अन्नम् = भोज्य-
पदार्थम्, सद् = उत्कृष्टम्, वा = अथवा, असद् = अनुत्कृष्टम्, वा = अथवा, अपि =
चेत्, विनाशाय = मारणाय, न = नहि, धारणाय = संरक्षणाय भवति, तथा = तेनैव
प्रकारेण, लोके = मर्त्यलोके, तिर्यगुपरि = विहगानामूर्ध्वम्, अधो वा = निम्नोऽथवा,
जन्म = जननम्, सर्वम् = सकलम्, दुःखाय = पीडनाय, न = नहि, सुखाय = सुख-
बोधाय भवति ॥ ९ ॥
हिन्दी — जैसे जहरीला भोजन अच्छा हो या बुरा — मारक ही होता है, न कि
पालक । उसी तरह अण्डज से ऊपर या नीचे किसी भी योनि में जन्म लेना दुःख का
कारण होता है, न कि सुख का ॥ ९ ॥
जरादयो नैकविधाः प्रजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः ।
प्रवात्सु घोरेष्वपि मारुतेषु न ह्यप्रसूतास्तरवश्चलन्ति ॥ १० ॥
अन्वयः — प्रवृत्तौ सत्यां प्रजानां जरादयः नैकविधाः अनर्थाः प्रभवन्ति, हि घोरेषु
अपि मारुतेषु प्रवात्सुः अप्रसूताः तरवः न चलन्ति ॥ १० ॥
व्याख्या — प्रवृत्तौ = उत्पत्तौ, सत्याम् = सति, प्रजानाम् = जनानाम्, जरादयः =
वृद्धत्वादयः, नैकविधाः = विविधरूपाः, अनर्थाः = अयुक्तार्थाः, प्रभवन्ति = जायन्ते,
हि = यतः, घोरेषु = प्रबलेषु, अपि, मारुतेषु = प्रभञ्जनेषु, अप्रसूताः = अनुत्पन्नाः,
तरवः = द्रुमाः, न = नहि, चलन्ति = कम्पन्ति ॥ १० ॥
हिन्दी — जन्म लेने का क्रम जब तक चलता रहेगा तब तक प्राणियों की वृद्धावस्था
प्रभृति दुःखों का अन्त नहीं है । जो पौधे जन्म नहीं लेते, उन्हें प्रबल प्रभंज भी नहीं
हिला पाता ॥ १० ॥
आकाशयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताशः ।
आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनिः ॥ ११ ॥
अन्वयः — यथा हि आकाशयोनिः पवनः यथा शमीगर्भशयः हुताशः यथा च अन्त-
र्वसुधाशयाः आपः तथा चित्तशरीरयोनिः दुःखम् ॥ ११ ॥
व्याख्या — यथा = यद्वत्, हि = यतः, आकाशयोनिः — आकाशः = गगनम्, योनिः =
उत्पत्तिस्थानम्, यस्य सः, पवनः = वायुः, यथा = यद्वत्, शमीगर्भशयः — शमी = काष्ठ-
३१४ सौन्दरनन्दं महाकाव्यम्
विशेषः, गर्भशयः = गर्भकोशस्थः, हुताशः = अग्निः, यस्य सः, च = पुनः, यथा =
येन रूपेण, अन्तर्वसुधाशयाः = वसुधाम् = पृथिव्याम्, अन्तरे = अभ्यन्तरे, आशयाः =
उत्पत्तिस्थानम्, यस्य सः, आपः = जलानि, तथा = तेनैव प्रकारेण, चित्तशरीरयोनिः —
चित्तशरीरम् = मनोदेहम्, योनिः = उत्पत्तिस्थानम्, यस्य तत्, दुःखम् = उत्पीडनम्
अस्ति ॥ ११ ॥
हिन्दी—जैसे आकाश में हवा, शमी नामक लकड़ी के भीतर आग तथा धरती
के नीचे पानी की उत्पत्ति होती है, उसी तरह मन और देह में दुःख की उत्पत्ति
होती है ॥ ११ ॥
अपां द्रवत्वं कठिनत्वमुर्व्या वायोश्चलत्वं यद्धुवमौष्ण्यमग्नेः ।
यथा स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च ॥ १२ ॥
अन्वयः—यथा हि अपां द्रवत्वम्, उर्व्याः कठिनत्वम्, वायोः चलत्वम्, अग्नेः
औष्ण्यं ध्रुवं स्वभावः, तथा शरीरस्य च चेतसश्च दुःखं स्वभावः ॥ १२ ॥
व्याख्या—यथा = येन प्रकारेण, हीति निश्चयेन, अपाम् = सलिलानाम्, द्रवत्वम् =
द्रवणत्वम्, उर्व्याः = भूमेः, कठिनत्वम् = कठोरत्वम्, वायोः = अनिलस्य, चलत्वम् =
प्रवहणशीलत्वम्, अग्नेः = अनलस्य, औष्ण्यम् = उष्णत्वम्, ध्रुवम् = निश्चितम्,
स्वभावः = प्रकृतिः, तथा = तेनैव प्रकारेण, शरीरस्य = देहस्य, चेतसश्च = मनसश्च,
दुःखम् = क्लेशम्, स्वभावः = प्रकृतिरस्ति ॥ १२ ॥
हिन्दी—जैसे पानी का पिघलना, पवन का बहना, पृथ्वी की घनता, आग का
जलना स्वभाव है; वैसे ही मन और देह का स्वभाव दुःख है ॥ १२ ॥
काये सति व्याधिजरादि दुःखं क्षुतर्षवर्षोष्णहिमादि चैव ।
रूपाश्रिते चेतसि सानुबन्धे शोकारतिक्रोधभयादि दुःखम् ॥ १३ ॥
अन्वयः—काये सति व्याधिजरादिदुःखं क्षुतर्षवर्षोष्णहिमादि चैव रूपाश्रिते
सानुबन्धे चेतसि शोकारतिक्रोधभयादिदुःखम् ॥ १३ ॥
व्याख्या—काये = देहे, सति = सत्याम्, व्याधिजरादिदुःखम् = रुज्-वार्द्धक्यादि-
कष्टम्, क्षुतर्षवर्षोष्णहिमादि चैव = बुभुक्षा-पिपासा-वर्षा-ताप-शैत्यादि चैव, रूपाश्रिते =
रूपसमन्विते, सानुबन्धे = संस्कारसमन्विते, चेतसि = मनसि, शोकारतिक्रोधभयादि—
शोकश्च = चिन्ता च, अरतिश्च = दौर्भाग्यञ्च, क्रोधश्च = कोपश्च, 'भयञ्च = भीतिश्च,
आदौ यस्य तत्, दुःखम् = कष्टम्, विद्यत एवेति ॥ १३ ॥
हिन्दी—देह रहते रोग, बुढ़ापा आदि तथा भूख-प्यास, सर्दी-गर्मी, वर्षा आदि से
दुःख होते ही हैं; वैसे ही रूप में आश्रित तथा संस्कार-सम्पन्न मन में शोक, दुर्भाग्य,
क्रोध, भय आदि दुःख होते ही हैं ॥ १३ ॥
प्रत्यक्षमालोक्य च जन्मदुःखं दुःखं तथातीतमपीति विद्धि ।
यथा च तद्दुःखमिदं च दुःखं दुःखं तथानागतमप्यवेहि ॥ १४ ॥
आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३१५
अन्वयः—जन्मदुःखं प्रत्यक्षम् आलोक्य अतीतम् अपि च दुःखं तथेति विद्धि
यथा च तद् दुःखम् इदं च दुःखं तथा च अनागतम् अपि दुःखम् अवेहि ॥ १४ ॥
व्याख्या—जन्मदुःखम् = उत्पत्तिजन्यपीडाम्, प्रत्यक्षम् = दृग्गोचरम्, आलोक्य =
अवलोक्य, अतीतम् = विगतम्, अपि च दुःखम् = क्लेशम्, तथेति = तेन रूपेणैव, विद्धि =
अवेहि, यथा च = येन रूपेण च, तत् = पूर्वोक्तम्, दुःखम् = पीडाम्, इदञ्च = एतच्च,
दुःखम् = केष्टम्, तथा = तेनैव रूपेण, अनागतम् = भावी, अपि = चेत्, दुःखम् = पीडा,
अवेहि = जानीहि ॥ १४ ॥
हिन्दी—जन्म के दुःख को प्रत्यक्ष देखकर बीते हुए दुःख को भी वैसा ही समझो
और जैसा कि वह (बीता हुआ) दुःख था और यह (वर्तमान) दुःख है वैसा ही
भावी दुःख को भी समझो ॥ १४ ॥
बीजस्वभावो हि यथेह दृष्टो भूतोऽपि भव्योऽपि तथानुमेयः ।
प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योऽपि तथोष्ण एव ॥ १५ ॥
अन्वयः—इह हि यथा बीजस्वभावः दृष्टः भूतः अपि भव्यः अपि तथा अनुमेयः
प्रत्यक्षतः ज्वलनः यथा उष्णः भूतः अपि तथैव उष्णः ॥ १५ ॥
व्याख्या—इह = अस्मिन् संसारे, हीति निश्चयेन, यथा = येन रूपेण, बीजस्वभावः =
रोहि-प्रकृतिः, दृष्टः = अवलोकितः, भूतः = व्यतीतः, अपि = चेत्, भव्यः अपि = भवि-
ष्येऽपि, तथा = तेनैव रूपेण, अनुमेयः = तर्कणीयः, प्रत्यक्षतः = पुरःस्थितः, ज्वलनः =
कृशानुः, यथा च = येन रूपेण च, उष्णः = सन्तप्तः, भूतोऽपि = व्यतीतोऽपि, तथैव =
तेनैव प्रकारेण, उष्णः = उत्तप्तो भवति ॥ १५ ॥
हिन्दी—बीज का स्वभाव जैसा वर्तमान में है वैसा ही अतीत में था और उसी
तरह भविष्य में भी रहेगा—ऐसा अनुमान करना चाहिए; क्योंकि आग में जो गर्मी
अभी है, वही अतीत में थी और भविष्य में भी रहेगी ॥ १५ ॥
तन्नामरूपस्य गुणानुरूपं यत्रैव निर्वृत्तिरुदारवृत्त ।
तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद् भवेद्वा ॥ १६ ॥
अन्वयः—उदारवृत्त ! यत्रैव नामरूपस्य गुणानुरूपं निर्वृत्तिः, तत्रैव हि तद्दुःखं
तद्विमुक्तं दुःखं न भविष्यति, अभवत् भवेत् वा ॥ १६ ॥
व्याख्या—उदारवृत्त !—उदारम्=त्यागशीलम्, वृत्तम्=आचरणम्, यस्य तत्सम्बुद्धौ;
यत्रैव = यस्मिन् स्थाने एव, नामरूपस्य = संज्ञास्वरूपात्मकस्य व्यवहारस्य, जगन्नामरूपा-
त्मकोऽस्ति, अस्य निष्पत्तिः गुणानुसारेण भवति । गुणानुरूपम्—गुणस्य = स्वभावस्य,
अनुरूपम् = तुल्यम्, निर्वृत्तिः = निष्पत्तिः, तत्रैव = तस्मिन्नेव स्थाने, हीति निश्चयेन,
तद्दुःखम् = पूर्वोक्तकष्टम्, तद्विमुक्तम् = तन्निरोधरहितम्, दुःखम् = क्लेशम्, न = नहि,
भविष्यति = भविता, नाभवत् = न बभूव, वा = अथवा, न भवेत् = न स्यात् ॥ १६ ॥
हिन्दी—अरे ओ उदारचरित ! गुणों के अनुसार ही जहाँ नामरूप की निष्पत्ति
होती है, वहीं पीड़ा है। इसे छोड़कर अन्यत्र न कहीं दुःख है, न था और न तो
होगा ही ॥ १६ ॥
३१६ सौन्दरनन्दं महाकाव्यम्
प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम्।
नैवेश्वरो न प्रकृतिर्न कालो नापि स्वभावो न विधिर्यदृच्छा॥ १७॥
अन्वयः—च तस्य प्रवृत्तिदुःखस्य निमित्तं लोके तृष्णादयः दोषगणाः नैव ईश्वरः
नैव प्रकृतिः न कालः नैव स्वभावः न यदृच्छा न विधिः॥ १७॥
व्याख्या—च=पुनः, तस्य=पूर्ववर्णितस्य, प्रवृत्तिदुःखस्य=विषयासङ्गरूपक्लेशस्य,
निमित्तम्=कारणम्, लोके=अस्मिन् संसारे, तृष्णादयः=लोभप्रभृतयः, दोषगणाः=
दुर्गुणसमुदयाः, नैव ईश्वरः=न तु परमात्मा, न प्रवृत्तिः=न स्वभावः, न कालः=
नावसरः, नैव स्वभावः=न तु धर्मः, न यदृच्छा=न संयोगः, न विधिः=नैव नियोगः,
कारणमस्ति ॥ १७॥
हिन्दी—इस विषयासक्ति रूप पीड़ा का कारण इस संसार में जन्म-जन्य दुर्गुणों का
समूह है। ईश्वर, प्रकृति, काल, स्वभाव, विधि या संयोग इसका कारण नहीं है॥ १७॥
ज्ञातव्यमेतेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः।
यस्मान्म्रियन्ते सरजस्तमस्का न जायते वीतरजस्तमस्कः॥ १८॥
अन्वयः—एतेन च कारणेन दोषेभ्यः लोकस्य प्रवृत्तिः इति ज्ञातव्यम्, यस्मात्
सरजस्तमस्काः म्रियन्ते वीतरजस्तमस्कः न जायते॥ १८॥
व्याख्या—एतेन च=पुरोवर्त्तमानेन च, कारणेन=हेतुना, दोषेभ्यः=दुर्गुणेभ्यः,
लोकस्य=मर्त्यलोकस्य, प्रवृत्तिः=जननम्, इति=इत्थम्, ज्ञातव्यम्=अवगन्तव्यम्,
यस्मात्=येन हेतुना, सरजस्तमस्कः—रजः=रजोगुणः, तमोभ्याम्=तमोगुणाभ्याम्,
सहिताः=संयुक्ताः, म्रियन्ते=पञ्चत्वं यान्ति, वीतरजस्तमस्कः—वीते=विगते, रज-
स्तमसी यस्य सः=रजस्तमोगुणरहितः, कदापि, न=नहि, जायते=समुत्पन्नो भवति।
हिन्दी—अतः जानना चाहिए कि इन्हीं दुर्गुणों से संसार की उत्पत्ति होती है, जो
मन का मैल और चित्त के अन्धकार से ढंका है, फिर जन्म लेने के लिए तो वे मरते
हैं, किन्तु जिनका रज और तम नष्ट हो गया है, वे कभी जन्म नहीं लेते॥ १८॥
इच्छाविशेषे सति तत्र तत्र यानासनादेर्भवति प्रयोगः।
यस्मादतस्तर्षवशात् तथैव जन्म प्रजानामिति वेदितव्यम्॥ १९॥
अन्वयः—यस्मात् इच्छाविशेषे सति तत्र तत्र यानासनादेः प्रयोगः भवति, अतः
तर्षवशात् प्रजानां तथैव जन्म इति वेदितव्यम्॥ १९॥
व्याख्या—यस्मात्=येन हेतुना, इच्छाविशेषे सति=स्पृहाविशिष्टे सति, तत्र तत्र=
तस्मिन्, यानासनादेः=प्रवहणोपवेशनप्रकारादेः, प्रयोगः=व्यवहारः, भवति=जायते;
अतः=अस्मात् कारणात्, तर्षवशात्=तृष्णाप्रभावात्, प्रजानाम्=जनानाम्, तथैव=
तेनैव रूपेण, जन्म=जननम्, इति=इत्थम्, वेदितव्यम्=बोद्धव्यम्॥ १९॥
हिन्दी—चलने या बैठने आदि की क्रियाएँ तभी होती है जब उन विषयों की
इच्छा होती है। अतः यह जानना चाहिए कि तृष्णा के प्रभाव से ही प्राणियों का
जन्म होता है॥ १९॥
आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३१७
सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव ।
अभ्यासयोगादुपपादितानि तैरेव दोषैरिति तानि विद्धि ॥ २० ॥
अन्वयः—स्वजातिषु अभिष्वङ्गवशानि अतीव प्रीतिपराणि सत्त्वानि दृष्ट्वा
अभ्यासयोगात् तैरेव दोषैः उपपादितानि तानि इति विद्धि ॥ २० ॥
व्याख्या—स्वजातिषु = स्वकीयजन्मसु, अभिष्वङ्गवशानि = आसक्तिसामर्थ्यानि,
अतीव = अत्यधिकम्, प्रीतिपराणि = प्रेमयुक्तानि, सत्त्वानि = जीवानि, दृष्ट्वा = अव-
लोक्य, अभ्यासयोगात् = अनुशीलनसामर्थ्यात्, तैरेव = पूर्ववर्णितैरेव, दोषैः = दुर्गुणैः,
उपपादितानि = समुत्पादितानि, तानि = एतानि, इति = एवम्, विद्धि = जानीहि।
हिन्दी—प्राणी आसक्ति के अधीन एवं अपनी योनि से प्रेम करते हुए देखे जाते
हैं, अभ्यास के कारण ही वे उन दोषों के साथ फिर जन्म लेते हैं, ऐसा जानो ॥ २०॥
क्रोधप्रहर्षादिभिराश्रयाणामुत्पद्यते चेह यथा विशेषः ।
तथैव जन्मस्वपि नैकरूपो निर्वर्तते क्लेशकृतो विशेषः ॥ २१ ॥
अन्वयः—इह च यथा क्रोधप्रहर्षादिभिः आश्रयाणां विशेषः उत्पद्यते, तथैव जन्मसु
अपि न एकरूपः विशेषः क्लेशकृतः निर्वर्त्तते ॥ २१ ॥
व्याख्या—इह = मर्त्यलोके, च = पुनः, यथा = येन प्रकारेण, क्रोधप्रहर्षादिभिः—
क्रोधः = कोपः, प्रहर्षाः = प्रसन्नताः, आदौ येषां तैः, आश्रयाणाम् = जीवानाम्, विशेषः =
विशिष्टः, उत्पद्यते = जायते, तथैव = तेनैव प्रकारेण, जन्मसु = जननेषु, अपि = चेत्,
न = नहि, एकरूपः = एकप्रकारकः, विशेषः = वैशिष्ट्यम्, क्लेशकृतः = पीडादायकः,
निर्वर्त्तते = सम्पद्यते ॥ २१ ॥
हिन्दी—इस संसार में क्रोध और प्रसन्नता के कारण विविधता पायी जाती है,
उसी तरह अनेक जन्मों में अपने-अपने दोषों के कारण उनमें अनेक विशिष्टताऐं
होती हैं ॥ २१ ॥
दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः ।
मोहाधिके मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः ॥ २२ ॥
अन्वयः—जन्मनि दोषाधिके तीव्रदोषः उत्पद्यते, रागिणि तीव्ररागः मोहाधिके
मोहबलाधिकश्च तदल्पदोषे च तदल्पदोषः ॥ २२ ॥
व्याख्या—जन्मनि = उत्पत्तौ, दोषाधिके = दुर्गुणातिशये, तीव्रदोषः = प्रचण्डदुर्गुणः,
उत्पद्यते = जायते, रागिणि—रागः = अनुरागोऽस्त्यस्येति तस्मिन्, तीव्ररागः = उग्रा-
सक्तिः, मोहाधिके—मोहस्य = ममत्वस्य, अधिकम् = प्रभूतम्, यस्मिन् सः तस्मिन्,
मोहबलाधिकः = स्नेहबलाधिक्यम्, च = पुनः, तदल्पदोषे = तन्यूनदुर्गुणे, च = पुनः,
तदल्पदोषः = तन्यूनदोषः, उत्पद्यते ॥ २२ ॥
हिन्दी—जिस व्यक्ति में दोषों की अधिकता होती है, उसका जन्म होने पर उसमें
प्रचण्ड दोष उत्पन्न होता है; उसी तरह अधिक राग वाले में तीव्रासक्ति, मोहाधिक्य के
सौ०-24
३१८ सौन्दरनन्दं महाकाव्यम्
कारण प्रचण्ड मोह पाये जाते हैं और जिनमें अल्पदोष होता है, उनमें जन्म लेने पर
अल्पदोष होता है ॥ २२ ॥
फलं हि यादृक् समवैति साक्षात् तदागमाद् बीजमवैत्यतीतम् ।
अवेत्य बीजप्रकृतिं च साक्षादनागतं तत्फलमभ्युपैति ॥ २३ ॥
अन्वयः—यादृक् फलं हि साक्षात् समवैति, तदागमात् अतीतं बीजम् अवैति,
बीजप्रकृतिं च साक्षात् अवेत्य अनागतं तत्फलम् अभ्युपैति ॥ २३ ॥
व्याख्या—यादृक्=यत्स्वरूपम्, हीति निश्चयेन, फलम्=परिणामम्, साक्षात्=
पुरतः, समवैति=अवगम्यते, तदागमात्=तदनुसारात्, अतीतम्=व्यतीतकालम्,
बीजम्=रोहिः कारणञ्च, अवैति=जानाति, बीजप्रकृतिम्=रोहिस्वभावम्, च=
पुनः, साक्षात्=समक्षम्, अवेत्य=अवगम्य, अनागतम्=भविष्यत्, फलम्=
परिणामम्, अभ्युपैति=अवेति ॥ २३ ॥
हिन्दी—प्रत्यक्षतः मनुष्य जैसा परिणाम देखता है उसी के अनुसार उसके भूत-
कालिक कारण को भी जान लेता है और बीज को साक्षात् देखकर उसके भावी फल
को भी समझ लेता है ॥ २३ ॥
दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः ।
दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र ॥ २४ ॥
अन्वयः—यासु जातिषु यस्य दोषक्षयः वैराग्यतः सः तासु न जायते यत्र यस्य
दोषाशयः तिष्ठति, तत्र तस्य विवशस्य उपपत्तिः ॥ २४ ॥
व्याख्या—यासु=येषु, जातिषु=जननेषु, यस्य=लोकस्य, दोषक्षयः=दोषाणाम्
=दुर्गुणानाम्, क्षयः=विनाशः, असौ, वैराग्यतः=अनासक्तिभावतः, सः=असौ, तासु=
तेषु, न=नहि, जायते=समुत्पद्यते, यत्र=यस्मिन् स्थाने, यस्य=जनस्य, दोषाशयः=
दुर्गुणसमुदयः, तिष्ठति=विद्यते, तत्र=तस्मिन् स्थाने, तस्य=जनस्य, विवशस्य=
अवशीभूतस्य, उपपत्तिः=जन्म जायते ॥ २४ ॥
हिन्दी—जिस तरह की योनि में जिसके दोष विनष्ट हो गये हैं, उनमें वैराग्य
होने के कारण वह फिर जन्म नहीं लेगा, किन्तु जिस तरह की योनि में जिसका
दोषाशय रह जाता है, उनमें विवश होकर उसे जन्म लेना पड़ता है ॥ २४ ॥
तज्जन्मनो नैकविधस्य सौम्य ! तृष्णादयो हेतव इत्यवेत्य ।
तांश्छिन्धि दुःखायदि निर्मुमुक्षा कार्यक्षयः कारणसङ्क्षयाद्धि ॥ २५ ॥
अन्वयः—सौम्य ! तस्मात् नैकविधस्य तज्जन्मनः तृष्णादयः हेतवः इति अवेत्य
यदि दुःखात् निर्मुमुक्षा तान् छिन्धि, हि कारणसङ्क्षयात् कार्यक्षयः ॥ २५ ॥
व्याख्या—सौम्य=हे साधु ! तस्मात्=तेन हेतुना, नैकविधस्य=बहुप्रकारकस्य,
तज्जन्मनः=तदुत्पत्तेः, तृष्णादयः=अभिलाषादयः, हेतवः=कारणानि, इति=एतत्,
अवेत्य=अवगम्य, यदि=चेत्, दुःखात्=क्लेशात्, निर्मुमुक्षा=निर्मोक्तुमिच्छाऽस्ति,
आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३१९
तर्हि, तान् = पूर्वोक्तान् तृष्णादिहेतून्, छिन्धि = खण्डय, हि = यतः, कारणमङ्गक्षयात् =
हेतुविनाशात्, कार्यक्षयः = कार्यविनष्टो भवति ॥ २५ ॥
हिन्दी - अतः हे साधु पुरुष ! विभिन्न योनि में जन्मों के कारण अभिलाषाजन्य
दोष ही हैं। यदि दुःख रो छुटकारा चाहते हो तो उन दोषों को काटो, क्योंकि कारण
के नाश होते ही कार्य स्वतः नष्ट हो जाता है ॥ २५ ॥
दुःखक्षयो हेतुपरिक्षयाच्च शान्तं शिवं साक्षिकुरुष्व धर्मम् ।
तृष्णाविरागं लयनं निरोधं सनातनं त्राणमहार्यमार्यम् ॥ २६ ॥
अन्वयः—हेतुपरिक्षयात् च दुःखक्षयः, शान्तं शिवं तृष्णाविरागं लयनं निरोधं
सनातनं त्राणम् अहार्यम् आर्यं धर्मं साक्षिकुरुष्व ॥ २६ ॥
व्याख्या—हेतुपरिक्षयात् च = कारणनाशाच्च, दुःखक्षयः = दुःखनाशः, तस्मात्
शान्तम् = स्वस्थचित्तताम्, शिवम् = कल्याणप्रदम्, तृष्णाविरागम् = अभिलाषत्यागम्,
लयनम् = विलयनम्, निरोधम् = निवारकम्, सनातनम् = पुरातनम्, त्राणम् = संरक्षकम्,
अहार्यम् = अविनाशिनम्, आर्यम् = मान्यम्, धर्मम् = नियमम्, साक्षिकुरुष्व = प्रत्यक्ष-
दर्शनं कुरु ॥ २६ ॥
हिन्दी—कारण नाश होते ही दुःख का नाश हो जाता है। तृष्णा-विनाशक,
शरण्य, निरोध रूप, सनातन, अविनाशी, पवित्र, शान्त एवं कल्याणप्रद धर्म का
प्रत्यक्ष दर्शन करो ॥ २६ ॥
यस्मिन्न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसम्प्रयोगः ।
नेच्छाविपन्न प्रियविप्रयोगः क्षेमं पदं नैष्ठिकमच्युतं तत् ॥ २७ ॥
अन्वयः—यस्मिन् न जातिः न जरा न मृत्युः न व्याधयः न अप्रियसंयोगः न
इच्छाविपत् न प्रियविप्रयोगः तत् क्षेमं पदं नैष्ठिकम् अच्युतं च अस्ति ॥ २७ ॥
व्याख्या—यस्मिन् = नियमे, न जातिः = नहि जननम्, न जरा = न तु वार्द्धक्यम्,
न मृत्युः = न तु मरणम्, न व्याधयः = न तु रोगाः, न अप्रियसयोगः = नानभिलषित-
प्राप्तिः, न इच्छाविपत् = नेच्छाविघातः, न प्रियविप्रयोगः = नास्ति प्रियविरहः, तत्,
क्षेमम् = माङ्गलिकम्, पदम् = स्थानम्, नैष्ठिकम् = श्रद्धास्पदम्, अच्युतम् = विनाश-
रहितम्, च = पुनः, अस्ति = भवति ॥ २७ ॥
हिन्दी—उस पद की खोज करो, जिसे पा लेने पर न जन्म होता है, न बुढ़ापा; न
मौत होती है, न रोग; न तो अनभिलषित वस्तु मिलती है, न प्रिय-वियोग होता है;
वह मंगलमय स्थान श्रद्धास्पद एवं अविनाशी है ॥ २७ ॥
दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
दिशं न काञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ॥२८॥
अन्वयः—यथा दीपः निर्वृतिम् अभ्युपेतः, नैव अवनिं गच्छति, न अन्तरिक्षम्, न
काञ्चिद् दिशम्, न काञ्चित् विदिशम्, स्नेहक्षयात् केवलं शान्तिम् एति ॥ २८ ॥
३२० सौन्दरनन्दं महाकाव्यम्
व्याख्या - यथा = येन प्रकारेण, दीपः = दीपकः, निर्वृतिम् = निर्वापितम्, अभ्यु-
पेतः = प्राप्तः, नैव = नहि, अवनिम् = भूमिम्, गच्छति = व्रजति, न = नहि, अन्त-
रिक्षम् = आकाशम्, न = नहि, काञ्चित्, दिशम् = आशाम्, न काञ्चित् विदिशम् =
उपदिशम्, स्नेहक्षयात् = तैलक्षयात्, केवलम् = एकमात्रम्, शान्तिम् = निर्वापनम्,
एति = प्राप्नोति ॥ २८ ॥
हिन्दी - जैसे बुझा हुआ दीपक न धरती पर न आकाश में, न किसी दिशा या
विदिशा में जाता है, किन्तु तेल समाप्त हो जाने पर केवल बुझ जाता है ॥ २८ ॥
एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
दिशं न काञ्चिद्विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥२९॥
अन्वयः—एवं निर्वृतिम् अभ्युपेतः कृती नैव अवनिं गच्छति, न अन्तरिक्षम्, न
काञ्चित् दिशम्, न काञ्चित् विदिशम्, क्लेशक्षयात् केवलं शान्तिम् एति ॥ २९ ॥
व्याख्या - एवम् = अनेनैव प्रकारेण, निर्वृतिम् = तृष्णाक्षयः, अभ्युपेतः = प्राप्तः,
कृती = धर्मात्मा, नैव अवनिम् = पृथ्वीम्, गच्छति = याति, न = नहि, अन्तरिक्षम् =
आकाशम्, न काञ्चित् दिशम् = आशाम्, न काञ्चित् विदिशम् = उपदिशम्, प्रयाति,
प्रत्युत क्लेशक्षयात् = दुःखविनाशात्, केवलम् = एकमात्रम्, शान्तिम् = वैराग्यम्,
एति = प्राप्नोति ॥ २९ ॥
हिन्दी - इसी तरह निर्वाण को प्राप्त पुरुष न तो धरती पर रहता है और न
आकाश में ही, वह न किसी दिशा या विदिशा मे जाता है, प्रत्युत् दोषों के नष्ट होते
ही वह धर्मात्मा शान्ति पा जाता है ॥ २९ ॥
अस्याभ्युपायोऽधिगमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः ।
स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन ॥ ३० ॥
अन्वयः—अस्य अधिगमाय अभ्युपायः मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः शुचौ
त्रिप्रमुखे शीले स्थितेन बुधेन सः विधिवत् भावनीयः ॥ ३० ॥
व्याख्या - अस्य = वैराग्यस्य, अधिगमाय = प्राप्तये, अभ्युपायः = कारणभूतः,
मार्गः = पन्थाः, प्रज्ञात्रिकल्पः = त्रिविधा प्रज्ञा, प्रशमद्विकल्पः = द्विविधा शान्तिः, शुचौ =
पवित्रे, त्रिप्रमुखे = प्रमुखत्रये, शीले = सदाचारे, स्थितेन = तिष्ठितेन, बुधेन = विज्ञेन,
सः = मार्गः, विधिवत् = विधिपूर्वकम्, भावनीयः = भावयितव्यम् ॥ ३० ॥
हिन्दी - इसे पाने का उपाय है वह मार्ग, जो त्रिविध प्रज्ञा ( सम्यक् दृष्टि,
सम्यक् विचार और सम्यक् प्रयत्न ) एवं द्विविध शान्ति ( सम्यक् स्मृति और सम्यक्
समाधि ) से युक्त है; पवित्र त्रिविध शील ( सम्यक् वाणी, सम्यक् कर्म और शुद्ध
आजीविका ) में स्थित होकर बुद्धिमान् मनुष्य को उस मार्ग की भावना करनी
चाहिए ॥ ३० ॥
वाक्कर्म सम्यक् सहकायकर्म यथावदाजीवनयश्च शुद्धः ।
इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ ३१ ॥
आर्यसत्यव्याख्यानः ] षोडशः सर्गः ३२१
अन्वयः—सहकायकर्म सम्यक् वाक्कर्म यथावत् शुद्धः आजीवनयः च इदं त्रयं
वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ ३१ ॥
व्याख्या—सहकायकर्म—कायकर्मणा = देहकृत्येन, सहितम्=समन्वितम्, सम्यक्=
सुष्ठुतया, वाक्कर्म = वाणीरूपकृत्यम्, यथावत् = विधिवत्, शुद्धः = परिष्कृतः,
आजीवनयः—आजीवस्य = वृत्तेः, नयः = आचरणं वा दिनचर्या, च = पुनः, इदम् =
एतत्, त्रयम् = त्रिविधम्, वृत्तविधौ—वृत्तस्य = आचरणस्य, विधिः = कल्पः, तस्मिन्,
प्रवृत्तम् = सम्बन्धि, शीलाश्रयम्—शीलः = चरित्रम्, आश्रयः = शरणम्, यस्य तत्,
कर्मपरिग्रहाय = कर्मनियोगाय, च भवति । अस्मिन् श्लोके त्रिविधशीलानां प्रतिपादन-
मस्ति ॥ ३१ ॥
हिन्दी—वाणी, दैहिक कर्म और शुद्ध आजीविका—ये तीनों मनुष्य के आचरण
से सम्बन्धित हैं, इनका आश्रय शील है, इन्हीं के द्वारा कर्मों का निग्रह होता है ॥ ३१॥
सत्येषु दुःखादिषु दृष्टिरार्या सम्यग्वितर्कश्च पराक्रमश्च ।
इदं त्रयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ ३२ ॥
अन्वयः—दुःखादिषु सत्येषु आर्यादृष्टिः सम्यक् वितर्कश्च पराक्रमश्च इदं त्रयं
ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥ ३२ ॥
व्याख्या—दुःखादिषु = पीडाप्रभृतिषु ( संसारे दुःखं दुःखस्य कारणत्वादिसत्य-
मस्ति, यतो हि एतेषां कारणस्य विनाशं विना दुःखादीनां विनाशो भवितुं नार्हति,
एतेषां दुःखानां परम्परा प्रचलत्येव । ), सत्येषु=अवितथेषु, आर्यादृष्टिः=सम्यग्दर्शनम्
(दुःखादिविषये सम्यक् दृष्टि-विचार-प्रयत्नश्च करणीयम्, अनेनैव प्रयत्नेन दुःखादीनां
विनाशः सम्भवति, यतो ह्यस्य सम्बन्धं ज्ञानेनास्ति, एतेषामाश्रयः प्रज्ञा भवति, प्रज्ञा
च सत्यज्ञानमूलकमस्ति—'ऋतम्भरा तत्र प्रज्ञा ।' ), सम्यक् वितर्कश्च=सम्यग्विचारश्च,
पराक्रमश्च=सम्यक् प्रयत्नश्च, इदम् = पूर्वोक्तम्, त्रयम् = त्रिसङ्ख्याकम्, ज्ञानविधौ =
बोधानुशासने, प्रवृत्तम् = परायणम्, प्रज्ञाश्रयम् = एकाग्रताऽधारः, क्लेशपरिक्षयाय =
दुःखविनाशाय भवति ॥ ३२ ॥
हिन्दी—दुःखादि सत्यों के विषय में सम्यक् दृष्टि, सम्यक् विचार और सम्यक्
प्रयत्न—ये तीन ज्ञान से सम्बन्धित हैं, इनका आश्रय प्रज्ञा है, इनके द्वारा ही क्लेशों
का विनाश होता है ॥ ३२ ॥
न्यायेन सत्याधिगमाय युक्ता सम्यक् स्मृतिः सम्यगथो समाधिः ।
इदं द्वयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ ३३ ॥
अन्वयः—सत्याधिगमाय न्यायेन युक्ता स्मृतिः, अथ सम्यक् समाधिः, इदं द्वयं
योगविधौ प्रवृत्तं शमाश्रयं चित्तपरिग्रहाय ॥ ३३ ॥
व्याख्या—सत्याधिगमाय—सत्यस्य=ऋतस्य, अधिगमाय = लाभाय, न्यायेन
युक्ता = समदर्शित्वेन संवलिता, स्मृतिः = आध्यानम्, अथ = अपि च, (सत्यस्याधि-
गमाय नियमपूर्वकेन पौनःपुन्येन स्मरणेन चित्तस्य निग्रहो भवति । ) समाधिः=ब्रह्मणि