सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 374, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 374

३२० सौन्दरनन्दं महाकाव्यम्
व्याख्या - यथा = येन प्रकारेण, दीपः = दीपकः, निर्वृतिम् = निर्वापितम्, अभ्यु-
पेतः = प्राप्तः, नैव = नहि, अवनिम् = भूमिम्, गच्छति = व्रजति, न = नहि, अन्त-
रिक्षम् = आकाशम्, न = नहि, काञ्चित्, दिशम् = आशाम्, न काञ्चित् विदिशम् =
उपदिशम्, स्नेहक्षयात् = तैलक्षयात्, केवलम् = एकमात्रम्, शान्तिम् = निर्वापनम्,
एति = प्राप्नोति ॥ २८ ॥
हिन्दी - जैसे बुझा हुआ दीपक न धरती पर न आकाश में, न किसी दिशा या
विदिशा में जाता है, किन्तु तेल समाप्त हो जाने पर केवल बुझ जाता है ॥ २८ ॥
एवं कृती निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् ।
दिशं न काञ्चिद्विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥२९॥
अन्वयः—एवं निर्वृतिम् अभ्युपेतः कृती नैव अवनिं गच्छति, न अन्तरिक्षम्, न
काञ्चित् दिशम्, न काञ्चित् विदिशम्, क्लेशक्षयात् केवलं शान्तिम् एति ॥ २९ ॥
व्याख्या - एवम् = अनेनैव प्रकारेण, निर्वृतिम् = तृष्णाक्षयः, अभ्युपेतः = प्राप्तः,
कृती = धर्मात्मा, नैव अवनिम् = पृथ्वीम्, गच्छति = याति, न = नहि, अन्तरिक्षम् =
आकाशम्, न काञ्चित् दिशम् = आशाम्, न काञ्चित् विदिशम् = उपदिशम्, प्रयाति,
प्रत्युत क्लेशक्षयात् = दुःखविनाशात्, केवलम् = एकमात्रम्, शान्तिम् = वैराग्यम्,
एति = प्राप्नोति ॥ २९ ॥
हिन्दी - इसी तरह निर्वाण को प्राप्त पुरुष न तो धरती पर रहता है और न
आकाश में ही, वह न किसी दिशा या विदिशा मे जाता है, प्रत्युत् दोषों के नष्ट होते
ही वह धर्मात्मा शान्ति पा जाता है ॥ २९ ॥
अस्याभ्युपायोऽधिगमाय मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः ।
स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन ॥ ३० ॥
अन्वयः—अस्य अधिगमाय अभ्युपायः मार्गः प्रज्ञात्रिकल्पः प्रशमद्विकल्पः शुचौ
त्रिप्रमुखे शीले स्थितेन बुधेन सः विधिवत् भावनीयः ॥ ३० ॥
व्याख्या - अस्य = वैराग्यस्य, अधिगमाय = प्राप्तये, अभ्युपायः = कारणभूतः,
मार्गः = पन्थाः, प्रज्ञात्रिकल्पः = त्रिविधा प्रज्ञा, प्रशमद्विकल्पः = द्विविधा शान्तिः, शुचौ =
पवित्रे, त्रिप्रमुखे = प्रमुखत्रये, शीले = सदाचारे, स्थितेन = तिष्ठितेन, बुधेन = विज्ञेन,
सः = मार्गः, विधिवत् = विधिपूर्वकम्, भावनीयः = भावयितव्यम् ॥ ३० ॥
हिन्दी - इसे पाने का उपाय है वह मार्ग, जो त्रिविध प्रज्ञा ( सम्यक् दृष्टि,
सम्यक् विचार और सम्यक् प्रयत्न ) एवं द्विविध शान्ति ( सम्यक् स्मृति और सम्यक्
समाधि ) से युक्त है; पवित्र त्रिविध शील ( सम्यक् वाणी, सम्यक् कर्म और शुद्ध
आजीविका ) में स्थित होकर बुद्धिमान् मनुष्य को उस मार्ग की भावना करनी
चाहिए ॥ ३० ॥
वाक्कर्म सम्यक् सहकायकर्म यथावदाजीवनयश्च शुद्धः ।
इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं कर्मपरिग्रहाय ॥ ३१ ॥