सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 48, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 48

१६ रसगङ्गाधरः
लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति
काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधि निषेधजीवना-
पसंहरन्नाह —तस्मादिति ।
सगुणौ सालङ्कारावित्यादि निराचष्टे—लक्षण इत्यादिना । आदिपदेनात्र दोषा-
ऽभावो ग्राह्यः । उदितं मण्डलं विधोरित्यादौ न काव्यत्वमिति भामहोक्तं प्रकाश-
कृदिष्टं च खण्डयितुं तत्र काव्यत्वाधायकं व्यङ्ग्यार्थमाह—दूतीत्यादिना । अत्रापि
वक्तृबोद्धव्यादिवैशिष्ट्येन व्यङ्ग्यार्थप्रतीतेः काव्यत्वं दुरपह्नवमिति सन्दर्भशयः ।
तदाह दण्डी—
गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ।
इतीदमपि साध्वेव कालावस्थानिवेदने ।। इति ।।
दूतीत्यादिवचनमित्यं योजनीयम्—अभिसारिकां प्रति दूत्युदीरि