रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 294, कुल 414 में से
संदर्भ में पढ़ें२६२ रसगङ्गाधरः
ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च न पृथग्भावनामपेक्षन्ते, किं तु
रसचर्वणायामेव सुसुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो
युक्तः।
यथा-
कस्तूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम् ।
तत्परिहारे नाग्रहप्रहिलेन कविना भाव्यम्। प्रायेण यमकादीनां भूम्ना प्रयोग उद्वेज-
कत्वसम्भावनेति ध्वन्यत्।
तदेवं पूर्वकारिकार्थं संगृह्य-
रसाक्षिप्ततया येषां बन्धः शक्यक्रियो भवेत्।
अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारो ध्वनौ मतः ॥
इत्यनन्तरकारिकोक्तमर्थं संगृह्णाति--ये त्वित्यादिना। अक्लिष्टा इति।
क्लिष्टा उद्वेजकास्तदभिन्ना इत्यर्थः। 'क्लिष्टा विलम्बेनास्वादपथमवतीर्णाः' इति
रसचन्द्रिकोक्तमपव्याख्यानम्। यतो हि असंलक्ष्यक्रमव्यङ्ग्ये रसे ये तदभिव्यक्ति-
पूर्वकालिकाभिव्यक्तिविषया रसप्रतीतौ व्यवधायकास्त एव परिहरणीयत्वेनाभि-
मताः। तथा च परिहरणीयानां झटित्यास्वादविषयतैवोचिता, विलम्बेनास्वादपथा-
वतीर्णत्वे तु तदास्वादात्पूर्वं रसास्वादे सम्पन्ने किम्प्रयोजनं तेषां परिहरणीयत्वम्?
अनुन्नतस्कन्धा इति। पूर्वप्रतीतिविषया उन्नतस्कन्धास्तद्भिन्नाः। यद्वा विभावादि-
योजनाविशेषातिरिक्तो यो योजनाविशेषस्तद्धेतुभूतः प्रयत्नोऽत्र क्लेशः, तत्साध्याः
क्लिष्टास्तद्भिन्ना इत्यर्थोऽक्लिष्टा इत्यस्य। तथा चानुन्नतस्कन्धा इत्यस्य
विभावादियोजनानान्तरीयकतया योजिताः, रसप्रतीतिपूर्वकालिकप्रतीतिविषयत्वा-
भाववन्त इत्यभिप्रायः। शिष्टं निगदव्याख्यातम्।
कस्तूरिकेत्यादि। हे आलि! स्मेरानना सती त्वं सायं कस्तूरिकातिलकं विधाय
हां, जिन अनुप्रास आदि के निबन्धन के लिये कवि को स्वतन्त्र प्रयत्न न करना
पड़े-जो अनुप्रासादि रसाभिव्यञ्जक सामग्री के वर्णन में अनायास उपनिबद्ध हो
जांय और इस लिये रस-चर्वणा के बहिर्भूत न हों उनका यत्नपूर्वक परित्याग करना
भी अच्छा नहीं है।
जैसे 'कस्तूरिकातिलक...' आदि पद्य में अनायास-निबद्ध अनुप्रासादि रस-चर्वणा
के अनुकूल हैं, प्रतिकूल नहीं। पद्यार्थ निम्नलिखित है-
"अरी सखी ! शाम के वक्त अपने माथे पर कस्तूरी का टीका लगा कर मुसकु-