रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 287, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् २५५
रेफघटितसंयोगस्यासकृत्प्रयोगो यथा—
तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः ।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥
यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु ।
स्पष्टः । अत्र णकारस्याप्यसकृत्प्रयोगमननुकूलमभिमन्यते रसगिचन्द्रकाकृत्, तस्य-
स्मिन् परिष्कृते पाठे 'हरिणाक्षि' इति पूर्वपाठस्थाने 'सखि'-शब्दप्रयोगं कारणं
मत्वा । वस्तुतस्तु नेदं सम्यक्, णकारस्य माधुर्यानुगुणत्वस्य पण्डितराजसम्मत-
त्वात् । कथमन्यथा पूर्णा करुणेति णकारप्राचुर्यस्य पूर्वार्धे सत्त्वेऽपि उत्तरार्धमात्र-
मननुगुणं मत्वा तत्तस्थान एव पाठान्तरं कल्पयेत् ? यस्तु 'हरिणाक्षि' इत्यत्र 'सखि'
इति पाठान्तरं कृतं तन्न णकारस्यामधुरत्वादपि तु विवक्षितस्य तत्रेति पदस्य समा-
वेशायैवेति बोध्यम् । तदेवं पूर्वस्मिन् पाठे उत्तरार्धे टवर्गप्राचुर्यं प्रदर्शितम् ।
अन्येषां टवर्गसहचरितानां ककारादीनां झयामपि प्राचुर्यं व्यक्तमेवात्र ।
तुलामनालोक्येत्यादि । हे गौराङ्गि ! निजां तुलां स्वकीयगुणसादृश्यमापात-
तोऽन्यस्यां कामिन्यामनालोक्य कदापि अखर्वं गर्वं न कुर्याः, यतो नानाफलभार-
सम्पन्नाः कियत्योऽपरिमिता लता गहनान्तरेषु वनान्तःप्रदेशेषु लसन्ति ।
अतस्त्वमतुलनीया न वर्त्तस इत्याशयः । अत्र पद्ये अखर्वं गर्वं कुर्या इत्येतेषु
पदेषु त्रयाणां रेफघटितसंयोगानां सत्त्वादानुगुण्याभाव इति हेतोः पाठान्तरं प्रदर्श-
यति—'तुलामनालोक्य महीतलेऽस्मिन्' इति । एतावताऽपि 'गर्वं कुर्याः' इत्युभयत्र
रेफघटितसंयोगस्य सत्त्वाद् द्विःप्रयोगेऽपि असकृत्त्वस्य निर्वाहात् कथमानुगुण्यमिति न
ज्ञायते । 'न कदापि' इत्यनेन व्यवधानेऽपि नैकट्यं त्वक्षतमेव, कथमन्यथा सङ्गतिः
स्यादुदाहरणान्तराणाम् । अतोऽत्रानुगुण्यसम्पादनाय 'तुलामनालोक्य महीतलेऽस्मिन्
गौराङ्गि मानं न कदापि कुर्याः' इति, 'तुला .... गौराङ्गि गर्वं न कदापि धेयाः'
इति वा पाठान्तरं कल्पनीयम् । द्वितीयपादे गर्वं कुर्या इत्यादेः सत्त्वेऽपि
रेफघटित संयोग के प्रचुर प्रयोग का उदाहरण 'तुलामनालोक्य.....' आदि पद्य
है । इसमें 'अखर्वं'; 'गर्वं', और 'कुर्याः' इन पदों में तीन बार रेफघटित संयोग
हैं । ये शृङ्गाररस के प्रतिकूल हैं । हां, यदि इसके पूर्वार्द्ध का 'तुलामनालोक्य
महीतलेऽस्मिन् गौराङ्गि मानं न कदाऽपि कुर्याः' यह पाठ हो तो पूर्वोक्त दोष नहीं
रह जाता । उदाहृत पद्य का अर्थ है—
"अरी गौराङ्गी सखी ! स्तनों के भार से अवनत अपनी देहयष्टि की अन्य
युवतियों में समानता न पाने मात्र से इतना असीम अहङ्कार कदापि मत कर,
क्योंकि नाना प्रकार के फलों के भार से अवनत कितनी हीं लताएं जङ्गल के
अन्दर सुशोभित हो रही हैं ।"