रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
२०० रसगङ्गाधरः
दिकमस्तु । व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवदक्षतः । प्रयोजकत्वं
चादृष्टादिविलक्षणं शब्दार्थरसरचनागतमेव ग्राह्यम् । अतो न व्यवहाराति-
प्रसक्तिरिति । अत्र च प्रयोजकत्वघटिते गुणलक्षणे प्रयोजकतात्वस्य शक्यतावच्छेदक-
कोटिप्रविष्टत्वम्, द्वितीये च प्रयोजकतायाः संसर्गतया संसर्गमर्यादया भानान्न तत्र
गुणपदशक्तिरिति न सा शक्यतावच्छेदककोटिप्रविष्टेति लाघवगौरवविचारः शास्त्र-
सम्मतः पन्थाः । प्रयोजकतासम्बन्धेन तद्वत्त्वस्य समर्थनाय दृष्टान्तमाह--व्यवहार-
स्त्वित्यादिना । वाजिगन्धा = अश्वगन्धा 'असगन्ध' इति नाम्ना लोके प्रसिद्धा ।
तस्या भक्षणेन उष्णत्वं जायते इति तत्र यथौष्णत्वप्रयोजकत्वमादाय प्रयोजकता-
सम्बन्धेनोष्णत्वमादाय वा 'अश्वगन्धा उष्णा' इति व्यवहारः प्रसिद्धो वैद्यके तथैव
'शृङ्गारो मधुरः' इत्यादि
प्रथमाननम् २०१
प्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यादेरीदृशस्य सत्त्वादुपचारो नैव कल्प्य
इति तु मादृशाः ॥
जरत्तरास्तु—
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥
त्वेनैवानुगम इत्याशयः । यद्वा आस्वाद एव द्रुत्यादिजनकः, तथा च द्रुत्यादि-
प्रयोजकत्वं माधुर्यादि--इति रीत्या स्वरूपत आस्वादे तद्विषयतया आस्वादजनके
रसे तदभिव्यञ्जकतया च शब्दादौ व्यवहार उपपाद्यः । तथा च शब्दार्थरसरचने-
त्यत्र रसेत्युपलक्षणं रसास्वादस्यापि । वृत्तेर्वृत्त्यन्तरजनने बाधकाभावान्नेद-
मनुपपन्नम् ।
तदेवं भामहाभिप्रेतं ध्वन्यालोककाराद्यनुमोदितं च मम्मटसम्मतं गुणत्रयवादं
विविच्य वामनाभिमतं 'दश शब्दगुणाः, दश चार्थगुणाः' इति पक्षं तन्निरासप्रकारञ्च
प्राचीनोक्तपथानुसारेण वक्तुमुपक्रमते—जरत्तरास्त्वित्यादिना । वामनोऽत्र
काव्यालङ्कारकर्त्ता परामृष्टः । अत्र त्रिगुणवादिषु काव्यप्रकाशकर्त्तुरेव कण्ठत
उपादानात्तदपेक्षया वामनो जरत्तर इत्युक्तम् । यत्तूक्तं रसचन्द्रिकायाम्—'त्रिगुण-
वादिनः काव्यप्रकाशकृदादयो जरसः, दशगुणवादिनो वामनादयो जरत्तराः, यद्यपि
प्राचीनो भामहोऽपि गुणत्रयवादी तथापि तन्मतस्यानतिप्रसिद्धेर्न तत्परिगणितम्'
इति तत्सम्प्रदायाऽपरिचयात् । गुणत्रयवादो भामहोपज्ञ एवेति काव्यप्रकाश-
जीवातुभूतस्य ध्वन्यालोकस्थवृत्तिग्रन्थस्याध्ययनेन स्पष्टमेव प्रतीयते । अत एव
लोचनेऽप्युपसंहृतम् -'एवं माधुर्यौजःप्रसादा एव त्रयो गुणा उपपन्ना भामहाभिप्रायेण'
इति ।
श्लेषः प्रसाद इत्यादि । इदं च पद्यं यद्यपि दण्डिनः, यद्यपि चैतेषां लक्षणेष्वपि
दण्डिसम्मतेषु क्वचित् क्वचिद्वामनोक्तलक्षणेभ्यो भेदस्तथापि नामसाम्यादिदं
वामनमतनिरूपणावसरे ग्रन्थकृता निर्दिष्टमिति बोध्यम् ।
हीं यहाँ सम्बन्ध रूप में विवक्षित है; अतः अदृष्टादि में माधुर्यवत्त्व के व्यवहार
की आपत्ति नहीं होती । इस प्रकार शब्द, अर्थ, रचना, बन्ध ओर रस में वर्त्तमान
विलक्षण प्रयोजकताओं के सम्बन्धरूप में विवक्षित होने से द्रुत्यादिमत्त्व-माधुर्यादि
से विशिष्ट जैसे रस होते वैसे शब्द, अर्थ आदि भी । अतः शब्द, अर्थ आदि में
गुणवत्त्व को औपचारिक कहने की कोई आवश्यकता नहीं है—ऐसा हम सोचते ।
वामन आदि कुछ प्राचीनतर आचार्य—श्लेष, प्रसाद, समता, माधुर्यं, सुकु-
मारता, अर्थव्यक्ति, उदारता, ओज, कान्ति और समाधि नामक दश शब्दगुण मानते ।
२०२ रसगङ्गाधरः
इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति । नामानि पुनस्तान्येव,
लक्षणं तु भिन्नम् ।
तथा हि—
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्ण-
विन्यासविशेषो गाढत्वापरपर्यायः श्लेषः ॥
यदाहुः—‘श्लिष्टमस्पष्टशैथिल्यम्’ इति । यथा—‘अनवरतविद्वद्द्रुमद्रोहि-
दारिद्र्यमाद्यद्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननः’ इति ।
उद्दिष्टान् गुणान् क्रमेण लक्षयति—तथाहीत्यादिना । शब्दानाम् = शक्तानां
पदानाम् । एकत्वप्रतिभानमभेदबुद्धिः, एषा चाहार्यविपर्ययात्मिका सहृदयानाम् ।
एकत्वं सादृश्यमित्यपव्याख्यानम् । संहितयेति । एतच्चोपलक्षणं दीर्घसमासस्येति
वक्ष्यते । ‘पृथक्पदत्वं माधुर्यम्’ इति वचनविवरणे पृथक्पदत्वं समासदैर्घ्यनिवृत्ति-
परमितिवदतो वामनस्याप्ययमेवाभिप्रायः । समासदैर्घ्यमेवैकत्वभाने हेतुः ।
एकजातीयेत्यादि । एकजातीयवर्णानामेकोऽनेको वा समूहोऽत्र विवक्षितः, तेन
चानुप्रासः सूच्यते । गाढत्वं च संयोगपरह्रस्वप्राचुर्यं वक्ष्यमाणम् ।
उक्तार्थे दण्ड्युक्ति प्रमाणयति—यदाहुरित्यादिना । अत्र यादृशं शैथिल्यं
दण्डिनोक्तम् अल्पप्राणाक्षरोत्तरम् इति तद् ग्रन्थकृतो नाभिप्रेतम्, उदाहरणस्यानल्प-
प्राणवर्णसमूहघटितत्वात् । अतोऽत्र प्राक्तगाढत्वविपरीतमेव शैथिल्यं विवक्षितं
मन्तव्यम् । अनवरतेत्यादि । विद्वांस एव फलदातृत्वाद् द्रुमाः, तेषामनवरतं द्रोही
यो द्रारिद्र्यरूपो माद्यन् द्विपस्तस्योद्दामपौँघस्य विद्रावणे प्रौढः पञ्चाननः सिंह
इन्हीं नामों के दश अर्थगुण भी उनके द्वारा स्वीकृत हैं, किन्तु इनका स्वरूप
शब्दगुणों के स्वरूप से भिन्न है ।
अब क्रमशः पूर्वोक्त शब्दगुणों और अर्थगुणों के लक्षण-उदाहरण दिये जा
रहे हैं—
पदों के वस्तुतः भिन्न-भिन्न होने पर भी संहिता (= पूर्वापर के अत्यन्त
सान्निध्य) के कारण उन सब पदों के एक होने की प्रतीति के निमित्तभूत और
अनुप्रास-समूहघटित रचना-विशेष को ही ‘श्लेष’ कहा जाता । इसे ही दूसरे शब्द
में ‘गाढ़ता’ भी कहते ।
आचार्य दण्डी ने कहा भी है—‘जिसमें शिथिलता (गाढ़ता के विपरीत
विन्यास) न हो—शिथिलता का आधिक्य न हो, उसी रचना-विशेष को ‘श्लिष्ट’
(= श्लेष) कहा जाता ।’
जैसे—‘अनवरतविद्वद्द्रुम...’ इत्यादि वाक्य में उपर्युक्त लक्षण के घटित
प्रथमाननम् २०३
गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः ॥
यथा—
किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल
क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥
इत्यर्थः । दानशीलस्य कस्यचिद्राज्ञां वर्णनमिदम् ।
प्रसादं लक्षयति—गाढत्वेत्यादिना । गाढत्वं शैथिल्यं चास्माभिर्वर्णितम् ।
व्युत्क्रमेणेति । विपरीतक्रमेणेत्यर्थः । पूर्वं शैथिल्यं पश्चाद् गाढत्वमिति तात्पर्यम् ।
तथैवोदाहरणमपि दृश्यते । यथा तु वामनग्रन्थस्तथा त्वोजःसम्पृक्तं शैथिल्यं प्रसाद
इति लभ्यते । अस्य तदुक्तसमाधेर्भेदश्चिन्त्यः । भरतादिभिः पुनराचार्यैः प्रसिद्धा-
र्थकत्वं प्रसाद इत्युक्तम् ।
किं ब्रूम इति । हे धराखण्डल महीपते ! तव वीरताममी अल्पज्ञा वयं किं ब्रूमो
वर्णयामः यस्मिन् क्रीडया कुण्डलिते वर्तुलीकृते वक्रीकृते भ्रुवौ, येन, अथ च शोणे
नयने यस्य तथाविधे त्वयि स्वदोर्मण्डलं पश्यति सति विन्ध्यारण्यम्, तद्गतपर्वतः
गुहाः, तदरण्यस्थं गृहम्, तत्रत्या अवनिहाश्च त्वद्भीत्या पलायितेन शत्रुराजसमूहेन
स्वमाणिक्यावलिकान्त्या दन्तुरतरैः शोभिततरैर्भूषाणां सहस्राणामुत्करैस्तत्कालमेव
समुल्लासिता इत्यर्थः । त्वद्भयात् प्रतिभटा राजानः पलायिताः सन्तो यथासम्भव-
होने से 'श्लेष' गुण विद्यमान है । उदाहरणवाक्य¹ का अर्थ यह है—'ये राजा
विद्वज्जनस्वरूप वृक्षों के नित्य-विद्रोही दारिद्र्यरूपी उन्मत्त गजराज के प्रचण्ड दर्प
को ध्वस्त करने में समर्थ सिंह हैं ।"
किसी भी बन्ध में गाढता और शिथिलता का विपरीत क्रम से, अर्थात् पहले
शिथिलता का और पश्चात् गाढ़ता का सम्मिश्रण हीं 'प्रसाद' नामक शब्दगुण
कहलाता ।
उदाहरणार्थ—
"हे महाराज ! हम साधारण जन आपकी वीरता के विषय में क्या कहें ?
आप विनोद के लिए भी अपनी भ्रुकुटियों को टेढ़ी कर और आखों को लाल करके
अपने भुजदण्ड को जिस क्षण देखते उसी क्षण आप के भय से पलायमान शत्रु-
राजाओं के हीरे-मोती की छटाओं से अत्यन्त आकर्षक दिखने वाले हजारों
१. यद्यपि शब्दगुण का अस्तित्व उदाहरण-पद्य में ही है, उसके अनुवाद में
नहीं, तथापि हिन्दी-टीका में शिष्यावबोधार्थं अनुवाद हीं दिया गया है ।
अन्य विषय के उदाहरणों में भी यथासम्भव यही समझना चाहिए ।
२०४ रसगङ्गाधरः
अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रूशब्दान्त गाढत्वम्, पुनर्नयनेत्यन्तं
प्रथममित्यादि बोध्यम् ।
उपक्रमादासमाप्ते रीत्यभेदः समता ॥
यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र ह्युपनागरिकयैवोपक्रमोपसंहारी ।
संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ॥
मात्मरक्षार्थं केचिद् विन्ध्यारण्य गताः, अन्ये तत्रत्यगिरिगुहामनुप्रविष्टाः, इतरे
तदरण्यस्थेषु गृहेषु मुन्यादीनामुटजेषु निलीनाः, एके पुनस्तदीयवृक्षानारूढा इति
तात्पर्यम् । अत्र च पश्यतीत्यत्र सतिसप्तम्या पलायनक्रियाया आक्षिप्यमाणाया
एव दर्शनक्रियासमकालिकत्वप्रतीतेः तत्कालमित्यनेन न पौनरुक्त्यम् । दर्शनसम-
कालं चोल्लासनक्रियाया असम्भवादतिशयोक्तिस्तद्वर्णनेनाभिव्यज्यते ।
अत्र प्रसादमुपपादयति—अत्रे त्यादिना । प्रथमं शैथिल्यम् ।
समतां लक्षयति—उपक्रमादिति । आरम्भादित्यर्थः । उपनागरिका वैदर्भी-
रीतिः । एवमेव उपक्रमात्समाप्तिपर्यन्तं बन्धे यदि गौडी यदि वा पाञ्चाली रीति-
स्तदापि गुणोऽयं निर्वहति । अतश्च रीतिभेदाद्बन्धस्यापि त्रैविध्यं फलति—मृदु-
वर्णविन्यासयोनिः, स्फुटवर्णविन्यासयोनिः, मिश्रवर्णविन्यासयोनिश्चेति । एतेषामेव
क्रमेण मृदुः, स्फुटः, मध्यम इति च व्यपदेशः । वैदर्भी, गौडी, पाञ्चाली चेति
क्रमेण तिस्रो रीतय उपनागरिका, परुषा, कोमला चेति व्यपदिश्यन्ते ।
माधुर्यस्य लक्षणमाह—संयोगेत्यादि । संयोगः परो येभ्यस्ते ह्रस्वास्तदति-
रिक्तेत्यादिरर्थः । संयोगश्चात्र परसवर्णाऽन्निष्पन्नहल्घटितो, ग्राह्यः, ईदृशस्यैव
आभूषणों के समूह से विन्ध्यवन, वहां की गुफाएं, वहां की झोपड़ियां और वहां
के वृक्ष चमक उठते ॥"
इसका तात्पर्य यही है कि शत्रु-राजा पल भर के लिए भी आपका सामना
नहीं कर पाते अपि तु आपके क्रुद्ध होने की थोड़ी आशङ्का होने पर भी भाग खड़े
होते । इस पद्य में 'यस्मिन्' तक शिथिलता 'धराखण्डल•••••••भ्रू' तक गाढ़ता,
'शोणनयने' में पुनः शिथिलता और 'भ्रूमण्डलम्' में पुनः गाढ़ता के होने से उपरि-
लक्षित 'प्रसाद' गुण विद्यमान है ।
प्रारम्भ से अन्त तक रीति (=शैली) की एकता को 'समता' कहते ।
इसका उदाहरण 'माधुर्य' गुण का दिया जाने वाला उदाहरण—'नितरां
परुषा•••' हीं है, क्योंकि इस पद्य में आरम्भ से अन्त तक उपनागरिका—वैदर्भी
रीति हीं उपलब्ध है ।
संयोग के पूर्ववर्त्ती ह्रस्व स्वरों से भिन्न वर्णों से घटित होने और पदों के
दीर्घसमास से रहित होने को "माधुर्य' - नामक गुण कहा जाता ।
प्रथमाननम् २०५
यथा—
नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥
अपरुषवर्णघटितत्वं सुकुमारता ॥
प्रतिषेधवर्णनात् । परसवर्णनिष्पन्नहल्घटितस्तु संयोगो न प्रतिकूलः अपि तु
मधुररसानुकूल एवेति वक्ष्यते । अत्र च माधुर्ये यादृशः संयोगो वर्जनीयस्तोऽपि
वक्ष्यमाणः । पृथक्पदत्वं श्लेषवद्दीर्घसमासाभावः ।
नितरामित्यादि । हे कामिनि ! यदि तव अनुकम्प्यानामङ्गानां कोमलता
विभाव्यते तर्हि सरोजमाला अपि तदपेक्षया परुषा कठोरैव प्रतीयते, मृणालान्यपि
विचारे पेशलानि रम्याणि न प्रतीयन्ते । एवमुभयेषां कठोरत्वनिर्णये कृते पल्लवानां
सम्बन्धिनी या कोमलता तद्विषयिणी कथाऽपि का नाम ? न कापि, तुच्छेत्यर्थः ।
तवाङ्गकानामित्यत्र 'ङ्ग' इत्यस्य परसवर्णनिष्पन्नहल्घटितसंयोगत्वेन तत्पूर्वस्य
आकारस्य च ह्रस्वत्वाभावेन पल्लवशब्दे च 'ल्ल' इत्यस्य परसवर्णनिष्पन्नहल्घटितत्वेन
न दोषः । अत्र 'संयोगश्चात्र परसवर्णानिष्पन्नहल्घटित एव ग्राह्यः' इति मर्मप्रकाशे
मुद्रितः पाठो भ्रष्टः । अत एवैतदनुरोधेन चन्द्रिका-रसचन्द्रिकयोः कृतं व्याख्या-
नमयुक्तम् ।
अपरुषेत्यादि । वर्णानां द्वितीयचतुर्थौ टवर्गादयश्च परुषा वर्णा वक्ष्यन्ते ।
तद्भिन्ना वर्णा अपरुषाः कोमला इत्यर्थः ।
यहां संयोग वही लिया जाता जो 'परसवर्ण' ( सन्धि-विशेष ) से निष्पन्न हल्
( व्यञ्जन ) से भिन्न व्यञ्जन से बना हुआ हो । यह विषय माधुर्य गुण के
अभिव्यञ्जक के वर्णन के प्रसङ्ग में स्पष्ट किया जायेगा । माधुर्य का उदाहरण
'नितरां...' आदि पद्य में देखा जा सकता है—
"अरी प्रियतमे ! जब तेरे अङ्गों की कोमलता के बारे में सोचता तो कमल-
पंक्ति भी उनकी अपेक्षा अत्यधिक कठोर प्रतीत होती ; विसतन्तु तो इस प्रसङ्ग में
विचार-योग्य भी नहीं । जब कमल-पंक्ति और विसतन्तु की कोमलता भी तेरे
अङ्गों की कोमलता के आगे तुच्छ हैं तो फिर पल्लवों की ( कोमलता की ) तो
चर्चा करना ही व्यर्थ है ।"
इस पद्य में न तो परसवर्ण-सन्धि से निष्पन्न व्यञ्जन से भिन्न व्यञ्जनों का
संयोग हैं और न दीर्घसमास हीं । अतः उपर्युक्त लक्षणानुसार 'माधुर्य' गुण
स्पष्ट है ।
टकार-आदि कठोर वर्णों से घटित न होना हीं रचना या बन्ध की
'सुकुमारता' है ।
२०६ रसगङ्गाधरः
यथा—
स्वेदाम्बुसान्द्रकणशालिकपोलपालि-
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति स्मरणेन काऽपि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥
अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यमपि ।
झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ॥
यथा ‘नितराम्’ इत्यादौ ।
स्वेदाम्बित्यादि । मदिरेक्षणायाः प्रेयस्याः कापि विलक्षणा रम्या या दशा
स्वेदाम्बुनो घर्मजलस्य सान्द्रैः कणैर्विन्दुभिः शालिन्यां शोभमानायां कपोलपालौ
दोलायिताभ्यां श्रवणकुण्डलाभ्यां वन्दनीया सा स्मरणेन मे मनसि आनन्द-
मङ्कुरयति । अत्र पद्ये ‘मनसि’ इति अपार्थम् । ‘रम्या दशा मयि परं...’
इति पठनीयम् ।
पूर्वार्धे इति । सुकुमारतेति शेषः । पूर्वार्धे दीर्घसमासान्माधुर्याभाव इत्यत्र
उत्तरार्धे सुकुमारतया माधुर्यस्यापि समुच्चय उक्तः । अत्रोपधेयसङ्करेऽप्युपाधीना-
मसाङ्कर्यं बोध्यम् ।
झगितीत्यादि । झगिति शीघ्रम्, प्रतीयमानोऽर्थानां पदार्थानामन्वयो यत्र बन्धे
स झगितिप्रतीयमानार्थान्वयकस्तस्य भाव इत्यर्थः । यत्राविलम्बेन वाक्यार्थबोध-
स्तत्रार्थव्यक्तिर्गुण इत्याशयः ।
जैसे—‘स्वेदाम्बु...’ आदि पद्य में
"मतवाली आँखों वाली रमणी की वह रमणीय दशा, जो पसीने की घनी
बूंदों से भरे उसके गालों पर झूलते कुण्डलों के कारण अत्यन्त अभिनन्दनीय और
पूर्णरूप से वर्णनातीत है, स्मरणमात्र से मेरे मन में आनन्द को अङ्कुरित कर
रही है ।।"
इस पद्य के पूर्वार्द्ध में उपरलिक्षित ‘सुकुमारता’ है जबकि उत्तरार्ध में ‘सुकु-
मारता’ के साथ-साथ माधुर्य गुण भी है। पूर्वार्द्ध में दीर्घसमास के कारण माधुर्य
गुण के लिए अपेक्षित ‘पृथक्पदत्व’ के अभाव में ‘माधुर्य’ मानना सम्भव नहीं ।
पदों के अर्थों का शीघ्र अन्वित हो जाना हीं ‘अर्थव्यक्ति’ गुण है ।
इसका भी उदाहरण ‘माधुर्य’ के उदाहरण के रूप में पूर्वनिर्दिष्ट ‘नितरां परुषा
सरोजमाला...’ इत्यादि पद्य हीं हैं ।
प्रथमाननम् २०७
कठिनवर्णघटनास्वरूपविकटत्वलक्षणोदारता ॥
यथा—
प्रमोदभरतुन्दिलप्रमथदत्ततालावली-
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि ।
ललाटतटविस्फुटन्नवकूपीटयोनिच्छटो
हठोद्धतजटोद्भटो गतपटो नटो नृत्यति ॥
‘पदानां नृत्यत्प्रायत्वं विकटता’ इति काव्यप्रकाशटीकाकारा व्याच-
क्षते । उदाहरन्ति च—‘स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमा-
कठिनेत्यादि । कठिना वर्णाः टकारादिरूपाः । विकटत्वं लक्षणं स्वरूपं यस्याः
सा । तथा च बन्धस्य विकटतैव उदारता, विकटतायाश्च स्वरूपं कठिनवर्ण-
घटितत्वम् पण्डितराजमते ।
प्रमोदेत्यादि । प्रमोदभरेणानन्दातिशयेन तुन्दिलै रुत्फुल्लोदरैरट्टहासं कुर्वद्भिः
प्रमथैर्गणैर्दत्ताभिस्तालावलीभिर्विनोदशीले अत एव डमरुं डिण्डिमं च वादयति
विनायके सति ललाटतटाद्विस्फुटन्ती नवस्य सद्यःप्रज्वलितस्य कृपीटयोनेरग्नेश्छटा
यस्य अथ च हठेन उद्धताभिर्जटाभिरुद्भटो विकटो गतपटः स्रस्तवासा नटः शिवो
नृत्यति-इति पदार्थः । अत्रोदारतायाः प्रोक्तलक्षणसङ्गतिः स्पष्टैव ।
सम्प्रति वामनाभिमतं काव्यप्रकाशटीकाकृद्विश्वनाथाद्यनुमोदितं विकटता-
लक्षणं खण्डयति-पदानामित्यादिना । नृत्यत्प्रायत्वम् इति । यस्मिन् विन्यासे
कृते पदानि नृत्यन्तीव उच्चावचानीव श्रवणादौ प्रतीयन्त इत्यर्थः । स्वचरणेत्याद्यु-
दाहरणं वामनेनैव पूर्वं प्रदत्तम् । अत्र ‘झण्’ इति नूपुरशब्दानुकरणम् । अत एव
‘झटिति’ इति क्वचिन्मुद्रितः पाठोऽयुक्तः । एतादृश्याम् = पदानां नृत्यत्प्रायतारूपायां
रचना की विकटता, अर्थात् टकार आदि कठोर वर्णों से घटित होना,
'उदारता' नामक शब्दगुण है ।
उदाहरण ‘प्रमोदभर ...’ आदि पद्य में देखिए—
“आनन्दातिरेक से अट्टहास करने के कारण फूले हुए उदरों वाले शृङ्गी आदि
गण द्वारा दी गयी तालियों से प्रमुदित गणेश डमरु और डिण्डिम नामक वाद्य-यन्त्र
बजा रहे हैं और दिगम्बर नटराज शिव, जिनके लालट-तट से सद्यःप्रज्वलित अग्नि
की ज्वाला निकल रही है और जो नृत्तमग्न होने के कारण जटा के ऊपर उठ जाने
से बड़े ही विकट भयङ्कर दिख रहे हैं, नाच रहे हैं ॥”
( वामन और) काव्यप्रकाश के विश्वनाथ-प्रभृति टीकाकार पदों की नृत्यत्-
प्रायता-ऐसी रचना जिसमें पद नाचते-से प्रतीत होते हों-को विकटता (= उदारता)
२०८ रसगङ्गाधरः
सीत्' इत्यादि। तत्र तेषामेतादृश्यां विकटत्वलक्षणायामुदारतामोजस्यन्तर्भा-
वयन् काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति। न ह्यत्रौजसो
वैपुल्येन प्रतिभानमस्ति। 'विनिविष्टैर्नूपुरैर्नर्तं'—इत्यत्र सन्नप्योजसो
लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः।
अंशान्तरे तु माधुर्यमेव।
विकटतालक्षणायामुदारतायाम्। एतादृशीमित्यपपाठः, तैर्वणिताया उदारतायाः
काव्यप्रकाशकारेणौजस्यन्तर्भावाऽकरणात्तथाविधाया अन्तर्भावक्रियाकर्मत्वानुपपत्तेः।
अथवा एतादृशामिति पठनीयम्। यद्वा शब्दगुणत्वेनाभिमतामित्यर्थं कृत्वा कथञ्चिद्
द्वितीयान्तपाठस्यापि सङ्गतिः कर्त्तव्या। कथमनुकूल इति। ओजःपर्याय-
भूतत्वाद्विकटताया ओजसि च पदानां नृत्यत्प्रायत्वस्य सर्वत्राभावात्तदभिन्ना विकटता
न तादृशी मन्तुं शक्यते मम्मटेनेत्यर्थः। तथा चैते टीकाकारा मूलविरुद्धा एवेति
नादरणीयाः। ननु ओजस्यन्तर्भावो विकटतालक्षणोदारताया न तदभिन्नतयाऽपि
तु तद्विशेषतयैवेत्यतः खण्डनयुक्त्यन्तरमाह—न वैपुल्येनेति। स्वचरणेत्यत्र
झणिति रणितमासीदित्यादौ चौजसोऽभावादिति भावः। लव इत्युक्तिरोजसोंऽशाव-
स्थितिमभिप्रेत्य। न चमत्कारीति। प्रकृतरसानुकूलत्वमत्र हेतुः। अंशान्तरे=
स्वचरणेत्यादौ।
कहते। इसका उदाहरण उन्होंने निम्नलिखित पद्यार्ध को दिया है—
स्वचरणविनिविष्टैर्नूपुरैर्नर्तंकीनां
झणिति रणितमासीत्तत्र चित्रं कलञ्च॥
किन्तु विकटतास्वरूप उदारता का ओजोगुण में अन्तर्भाव करने वाले काव्य-
प्रकाशकार का नृत्यत्प्रायतास्वरूप विकटता कैसे अभिमत हो सकती है? कारण
यह है कि काव्यप्रकाशकार इस विकटतास्वरूप उदारता को ओजोगुण से अभिन्न
मानते; ओजोगुण में सर्वत्र पदों की नृत्यत्प्रायता नहीं देखी जाती, अतः ओज से
अभिन्न विकटता में भी सर्वत्र नृत्यत्प्रायता न होने से उपर्युक्त व्याख्या मूलानुकूल
नहीं है, अतः उपेक्षणीय है। यदि तु उक्त अन्तर्भाव का उपपादन विकटता को
ओजोगुण से अभिन्न नहीं अपितु उसका एक विशेष प्रकार मानकर किया जाय
(यही उचित भी है) तो भी उक्त व्याख्या संगत नहीं है, क्योंकि उनके द्वारा प्रस्तुत
उदाहरण में भी सभी पदों में नृत्यत्प्रायता तो है नहीं। हां, 'विनिविष्टैर्नूपुरैर्नर्तं'
इस अंशमात्र में नृत्यत्प्रायता का प्रतिभास होता। किन्तु इस नृत्यत्प्रायतास्वरूप
ओज को (काव्यप्रकाशकार के मतानुसार) चमत्कारजनक न होने से गुण कहना
कहां तक संगत है—यह विचारणीय है। इसके चमत्कारजनक न होने का कारण यही
है कि उदाहरण में वीर आदि रसों की अभिव्यक्ति न होने से यह ओज रसानुकूल
प्रथमाननम् २०९
संयोगपरह्रस्वप्राचुर्यरूपं गाढत्वमोजः ॥
यथा—
साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः ।
तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥
यथा वा 'अयं पततु निर्दयं' इत्यादिप्रागुदाहृते ।
संयोगेत्यादि । संयोगश्चात्र परसवर्णनिष्पन्नहल्भिन्नहल्घटितो ग्राह्यः । अत्र
'संयोगश्च परसवर्णनिष्पन्नो ग्राह्यः' इति व्याचक्षाणा रसचन्द्रिका चिन्त्या । एवमेव
माधुर्यव्याख्यानान्तर्गताऽपि । इयं हि व्याख्या मर्मप्रकाशस्यपाठभ्रंशमूलिकैवेति
प्रागावेदितम् । प्राचुर्यं चैकाधिकत्वमतो द्विःप्रयोगेऽपि तत्त्वमक्षतम् ।
साहङ्कारेत्यादि । हे भूमीभूषण वसुधालङ्कारभूत राजन् ? साहङ्कारा या
सुराणामसुराणाञ्चावलिस्तस्याः करैराकृष्टत्वादभ्रमता मन्दरेण क्षुभ्यतः क्षीरब्धेः
समुद्रस्य वीचिवलयानां श्रिय उज्ज्वलताया गर्वस्य सर्वंकषाः पूर्णतयाऽपहारिकाः,
अथ च तृष्णया ताम्यद्भिराकुलैरमन्दानां तापसानां कुलैः सानन्दं सुधास दृश्यादा-
लोकिता भवतः कीर्तयो भुवनस्य आभोगं विस्तारं भूषयन्ति । कस्यचिद्राज्ञः स्तुति-
रियम् । ‘भूमी’ इति ‘कृदिकारादक्तिनः’ इति विकल्पेन ङीप्प्रत्यये रूपम् ।
शब्दशक्तिमूलध्वनिप्रसङ्गे विशेषोऽत्र वक्ष्यते । अयं पतत्वित्यादि । नवोच्छलि-
नहीं है । इसके अतिरिक्त यह भी सत्य है कि सहृदयों को 'विनिविष्टैर्नूपुरैर्नृत्तं'
इस अंश में भी नृत्यत्प्रायता का अनुभव नहीं होता, 'स्वचरण' आदि अंशों में तो
नृत्यत्प्रायता के विपरीत 'माधुर्य' का ही अनुभव होता । अतः न तो उदाहरण हीं
उपयुक्त है और न उपर्युक्त व्याख्या हीं ।
परसवर्ण-निष्पन्न व्यञ्जन से भिन्न व्यञ्जनों से घटित संयोगों से पूर्ववर्त्ती
ह्रस्व स्वर की रचनागत प्रचुरता को हीं 'ओज' कहते ।
उदाहरणार्थ 'साहङ्कार०' आदि पद्य द्रष्टव्य है—"हे महाराज ! अहङ्कारपूर्ण
देव-दानवों के समूह द्वारा आकृष्ट होने से तीव्र गति से घूमते हुए मन्दराचल द्वारा
आलोडित (= उन्मथित) क्षीरसमुद्र की रम्य तरङ्गों के समूह के सौन्दर्याभिमान को
समूल विनष्ट कर देने वाली और पिपासाकुल उत्तम तपस्वियों द्वारा स्वच्छ सुधा
के भ्रम से आनन्दपूर्वक देखी जाने वाली आपकी उज्ज्वल कीर्तिराशि समस्त ब्रह्माण्ड
को प्रकाशित कर रही है ।"
इसका दूसरा उदाहरण रौद्ररस के उदाहरण के रूप में पूर्वनिर्दिष्ट (नवोच्छ-
२१० रसगङ्गाधरः
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु
लोकोत्तरशोभारूपमोज्ज्वल्यं कान्तिः ॥
यथा 'नितराम्' इत्यादिप्रागुदाहृते ।
बन्धगाढत्वशैथिलत्वयोः क्रमेणावस्थापनं समाधिः ॥
अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसा-
तेत्यादिरौद्रोदाहरणभूतस्य पद्यस्योत्तरार्धमिदम् । तत्राप्योजः । उत्तरार्धमुपलक्षणं
सम्पूर्णस्य पद्यस्य । पादपृथक्त्वे तु द्वितीयं पादमपहाय । अत्र च परसवर्णनिष्पन्न-
हल्भिन्नहल्घटितसंयोगमादाय लक्षणसमन्वयो बोध्यः ।
वामनोक्तं कान्तिलक्षणं परिष्कृत्याह—अविदग्धेत्यादि । अविदग्धा अरसिका
ये वैदिकादयस्तेषां प्रयोगयोग्यानि यानि पदानि तेषां परिहारेण—तानि पदानि
परित्यज्य प्रयुज्यमानानि यानि सहृदयसुलभानि पदानि तेषु—इति रूपेणार्थोऽवसेयः ।
पदेषु शोभाया लोकोत्तरत्वं नाम तत्तद्रसानुकूलवर्णमात्रघटितत्वम् ।
बन्धगाढत्वेत्यादिना समाधिं लक्षयति । अनयोः=गाढत्वशैथिल्ययोः ।
प्राचीनैः=वामनादिभिः । व्यपदेश इति । तथा च वामनः—'आरोहावरोहयोः
क्रमः समाधिः' इति । क्रम एवेत्यादि । वामनस्तु आरोहपूर्वमवरोहमवरोहपूर्वं
लित० इत्यादि पद्य का उत्तरार्ध )
“अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥”
पद्यार्ध भी है । वस्तुतः पूर्ण पद्य हीं उदाहरण के रूप में विवक्षित है, द्वितीय
पाद में संयोगप्राचुर्य न होने पर भी पूर्वार्धघटक प्रथम पाद को लेकर द्वितीय पाद
को भी उदाहरणान्तर्गत माना जा सकता है । पृथक्-पृथक् पाद की विवेचना
करने पर तो प्रथम, तृतीय और चतुर्थ पादों का हीं उदाहरणत्व उपपन्न होगा ।
वैदग्ध्यरहित वैदिक-मीमांसकादि द्वारा प्रयोग करने योग्य पदों से भिन्न
( कवि द्वारा प्रयुज्यमान ) पदों के अलौकिक सौन्दर्य, जिसे पदों की उज्ज्वलता
भी कहा जाता, को 'कान्ति' कहते हैं ।
'माधुर्य' गुण का उदाहरणभूत 'नितरां परुषा सरोजमाला' इत्यादि पद्य में
'कान्ति' नामक गुण भी विद्यमान है ।
रचना में क्रमशः गाढ़ता और शिथिलता का होना हीं 'समाधि' नामक शब्द-
गुण है ।
गाढ़ता और शिथिलता को हीं वामन ने क्रमशः आरोह और अवरोह कहा है ।
प्रथमाननम् २११
दादस्य भेदकः । तत्र हि तयोर्व्यत्क्रमेण वृत्तेः ।
यथा-
स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम् ।
केवलाऽमृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥
अत्रारोहः प्रथमेऽर्धे ! तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य
चारोहमिहोदाहरति, तत्र च प्रसादेन साङ्कर्यमित्यतः पण्डितराजेनान्यथा
व्याख्यातम् । अत्र वामनग्रन्थे कश्चन विशेषो वर्णितस्तत एवावधेयः । अत्रापि पर-
सवर्णजन्यहल्भिन्नहल्घटितसंयोगमादाय समन्वयः कर्त्तव्यः ।
स्वर्गनिर्गतेत्यादि । कस्यचिद्विदुषो वर्णनमिदम् । यस्य विदुष आस्य-
सरोजम् = मुखकमलम्, स्वर्गान्निर्गताया निरर्गलाया गङ्गायास्तुङ्गैर्भङ्गुरैश्च
तरङ्गैः सदृशानां केवलस्यामृतस्य वर्षकाणां वचनानां लास्यगृहं नृत्यशाला वसंत
इत्यर्थः । केवलममृतं मुञ्चन्तीति क्विपि षष्ठीबहुवचनान्तं केवलामृतमुचामिति ।
अत्र वचनोपमानभूतानां तरङ्गाणां 'भङ्गुर' इति विशेषणं वचनेषु भङ्गियुक्तत्व-
प्रत्यायकत्या कथञ्चिद् व्याख्येयम्, अन्यथा वैरस्यापादकं स्यात् । अथवा
तुङ्गभङ्गुरत्यनेनोच्चावचत्वं प्रतिपादयतो विदग्धमुखाम्बुजेऽपि वचनानामुच्चावचत्वं
गाढत्वशैथिल्यवैशिष्ट्यरूपमभिप्रेतमिति व्याख्येयम् ।
तृतीयचरणेति । अत्र 'तृतीयचरण इति बहुव्रीहिः । द्वितीयेऽर्धे इत्यर्थः' इति
मर्मप्रकाशो युक्त एव, चतुर्थचरणे संयोगपरह्रस्वस्य यस्य-पदस्थयकारोत्तराकारमात्रे
सत्त्वेऽपि प्राचुर्याभावात्, अन्ययोश्च संयोगपरत्वेऽपि ह्रस्वत्वाभावात्पण्डितराजानु-
सारेण गाढत्वरूपारोहानुपपत्तेः । 'उत्तरार्धे तु सोऽपि' इत्यनेन स्वयमपि वक्ष्यत्येतत् ।
अतो यदुक्तं चन्द्रिकायाम् - 'इह तृतीयचरणे इत्यत्र बहुव्रीहिरिति केषाञ्चिद्
'प्रसाद' और 'समाधि' में गाढ़ता और शिथिलता का क्रम-भेद - 'समाधि' में
पहले गाढ़ता और पश्चात् शिथिलता जब कि 'प्रसाद' में पहले शिथिलता और
पश्चात् गाढ़ता का अवस्थान-हीं दोनों में परस्पर भेद का साधक है ।
इसका एक उदाहरण 'स्वर्गनिर्गत०' आदि पद्य है-
'ये ऐसे विलक्षण विदग्ध विद्वान् हैं जिनका मुखकमल स्वर्ग से निकल कर
अबाध गति से बहने वाली गङ्गा की ऊँची-नीची तरङ्गों का मित्र (अर्थात्
उन तरङ्गों के समान) और केवल अमृत बरसाने वाली वाणी (स्वरूप-नर्त्तकी)
की नृत्यशाला है ॥"
इस पद्य के प्रथमार्ध में तो आरोह-गाढ़ता है जब कि तृतीयचरणघटित उत्तरार्ध
में अवरोह - शिथिलता है। यद्यपि पूर्वार्ध के 'गङ्गातुङ्गभङ्गुरतरङ्ग' अंश में
१६ र०
२१२ रसगङ्गाधरः
व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तरार्धे
तु सोऽपि । एते दश शब्दगुणाः ॥
एवम्—
क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च
सामानाधिकरण्यरूपः श्लेषः ॥
विवरणं चिन्त्यम्, बहुव्रीहिणा तस्योत्तरार्धपरत्वाभ्युपगमे तद्घटकचतुर्थचरणे
बन्धशैथिल्याप्रतीतेर्लक्षणसमन्वयाऽसम्भवात्' इति तच्चिन्त्यम् । अत एव सरलाप्येवं
वर्णयन्ती सरलैव । अतो यत्पुनरुक्तं रसचन्द्रिकायाम्—'सरला तु चतुर्थचरणेऽवरोहं
नानुभवति । तत्सत्यम्, तृतीयचरणमपेक्ष्य नावरोहः, परं प्रथमार्धमपेक्ष्य द्वितीयार्धेऽव-
रोहमनुभवन् मर्मप्रकाशः प्रायो नाऽसमीचीन इति प्रतिभाति' इति तदप्य-
किञ्चित्करम् । माधुर्यलक्षणे संयोगस्य परसवर्णनिष्पन्नहल्भिन्नहल्घटितत्वस्योक्त-
त्वाद्वितीयचरणे कथं न माधुर्यस्यारोह इत्याशङ्कां निराचष्टे—गङ्गेत्यादावि-
त्यादिना । दीर्घसमासेत्यादि । एतेन माधुर्यार्थमपेक्ष्यमाणस्य पृथक्पदत्वस्या-
भावोपपादनम् । न प्ररोह इति । प्ररोहः = प्रकर्षः । समासघटकतया द्वितीयचरणस्य
प्रथमपादेन गाढत्वप्ररोहवता तथात्वमित्यभिप्रायः । सोऽपि = माधुर्यप्ररोहोऽपि ।
अतश्चोत्तरार्धे समाधिमाधुर्ययोरुभयोः सत्त्वं प्रतिपादितम् । एतावता दशशब्दगुण-
निरूपणं प्राचामनुसारेण परिष्कृत्य कृतम् ।'
अर्थगुणान्निरूपयितुमुपक्रमते—एवमित्यादिना ।
तदस्फुटत्वस्य = विदग्धचेष्टितस्य परेणाप्रतीयमानत्वस्य । तदुपपादकेत्यत्रापि
तत्पदेन विदग्धचेष्टितस्य ग्रहणम् । सामानाधिकरण्यमेकत्र वाक्ये महावाक्ये वा
माधुर्य-व्यंजक वर्ण विद्यमान हैं तथापि दीर्घसमास के कारण माधुर्य-लक्षणघटक
'पृथकपदत्व' का अभाव होने से यहां माधुर्य का उत्कर्ष नहीं माना जा सकता ।
उत्तरार्ध में माधुर्य-विरोधी दीर्घसमासादि लक्षणों के न होने और माधुर्य-व्यंजक
वर्णों के होने से शिथिलता के साथ-साथ माधुर्य का भी उत्कर्ष है ही ॥
इस प्रकार प्राचीन वामनादि द्वारा स्वीकृत दश शब्दगुणों का निरूपण
किया गया ॥
शब्दगुण के समान नाम वाले श्लेष, प्रसाद आदि दश अर्थगुण भी वामनादि
के अभिमत हैं । किन्तु नामसाम्य होने पर भी इनके स्वरूप में भेद है । अतः श्लेष,
प्रसाद आदि दश अर्थगुणों का क्रमशः लक्षण-उदाहरण के साथ निरूपण किया जा
रहा है—
एक के बाद एक क्रिया का निर्देश करते हुए क्रमशः किसी विदग्धजन की
चेष्टा उस चेष्टा की अव्यक्तता और उस चेष्टा के उपपादक युक्तियों का सामाना-
प्रथमाननम् २१३
प्रबन्धघटके निवेशः । प्रबन्धे प्रायेण सर्वत्र, मुक्तके तु क्वचिदेवाय गुणः ।
अस्योदाहरणं पण्डितराजग्रन्थे न दृश्यते । कथञ्चित् परिभ्रष्टमिति प्रतीयते ।
अतो वामनोक्तमुदाहरणं द्रष्टव्यम्—
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपैत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासिलसत्कपोलफलकां धूर्त्तोऽपरां चुम्बति ॥
अस्यार्थः—एकस्मिन्नेवासन उपविष्टे प्रियतमे ( द्वितीयाद्विवचने रूपम् ) दृष्ट्वा
धूर्त्तो नायकः पश्चात् पृष्ठदेशत आदरादतर्कितालिङ्गनकौतुकादस्या नायिकायाः
क्रीडानुबन्धच्छलेन नयने पिधाय मनाङ्नमितग्रीवः सरोमोद्गमश्च सन् प्रेमोल्ल-
सन्मानसां रहस्यसंगोपनेच्छया विहितेनान्तर्हासिनोत्फुल्लकपोलफलकां चापरां
नायिकां चुम्बतीति । उभयोर्नायिकयोः प्रियतमेतिनिर्देशात्प्रथमाया अपि चुम्बनादिकं
तेन क्रियत एव । सपुलक इत्युक्त्या पुनर्द्वितीयास्यामनुरागातिशयो द्योत्यते ।
अत्र चैकस्या वञ्चनेनापरस्याश्चुम्बनं विदग्धचेष्टितम्, एकयाऽपरचुम्बनस्याज्ञात-
त्वात्तदस्फुटत्वम्, क्रीडानुबन्धच्छलेन च प्रथमनायिकानयनपिधानादपरस्याश्चुम्बन-
स्योपपादनम् इत्येतत्सर्वं तदनुकूलक्रियापरम्परया पश्चादागमनादिरूपया समान एव
पद्ये ग्रथितमिति श्लेषोऽत्रार्थगुण इति समन्वयप्रकारः ।
धिकरणसम्बन्ध, अर्थात् किसी एक काव्यवाक्य या महावाक्य में वर्णन होना हीं
'श्लेष' नामक अर्थगुण है ।
यह अर्थगुण इसीलिए माना जाता कि उक्त सामानाधिकरण्य चेष्टा आदि
अर्थों का हीं विवक्षित है, तद्वाचक शब्दों का नहीं ।
इसका उदाहरण रसगङ्गाधर में उपलब्ध नहीं है । अतः वामन द्वारा उद्धृत
अमरुक कवि के 'दृष्टैकासनसंस्थिते' इत्यादि पद्य में ही इसका उदाहरण द्रष्टव्य
है । पद्य संस्कृत-टीका में उद्धृत है, इसका अर्थ निम्नलिखित है—
“जब धूर्त नायक ने देखा कि उसकी दोनों ही प्रियतमाएं एक हीं जगह बैठी
हुई हैं और उस स्थिति में उन दोनों में अनुकूलतर प्रियतमा को चूमना उसके लिए
सम्भव नहीं, क्योंकि वैसा करने पर एक प्रियतमा नाराज हो जाएगी तब उसने
उत्कण्ठापूर्वक पीछे जाकर खेल के बहाने उस एक प्रियतमा की आँखें बन्द कर
दीं । फिर धीरे से अपनी गर्दन को कुछ टेढ़ी करके प्रेम से उल्लसित होती हुई
और 'अन्य प्रियतमा कहीं यह रहस्य समझ न ले'—इस भय से भीतर हीं भीतर
हँसने के कारण फूले हुए गालों वाली दूसरी प्रियतमा को रोमाञ्चित होकर उस
( धूर्त्त नायक ) ने चूम लिया ।”
२१४ रसगङ्गाधरः
यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः ॥
यथा--'कमलानुकारि वदनं किल तस्याः' इत्यादि । प्रत्युदाहरणं तु
'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि ।
प्रक्रमाऽभङ्गे नार्थघटनात्मकमवैषम्यं समता ॥
यावदर्थकेत्यादि । यावन्तोऽर्थाः प्रतिपिपादयिषिताः तावतामेव शब्दानां न
न्यूनानां नाप्यधिकानां प्रयोगो यत्र तत्त्वं प्रसाद इत्यर्थः । अर्थेऽन्यूनानतिरिक्तपद-
प्रतिपाद्यत्वं प्रसादोऽर्थगुण इति तात्पर्यम् । इदं च 'अर्थवैमल्यं प्रसादः' इति
वामनोक्तलक्षणस्यैव स्फुटतरं वचनम् ।
कमलकान्तीत्यत्र प्रत्युदाहरणे कान्तिपदमधिकमित्याशयः । वामनेन तु अर्थपुन-
रुक्तावपि प्रत्युदाहरणत्वमङ्गीकृतम् । प्रकृतेऽपि तद् बोध्यम् । तादृशं प्रत्युदाहरणं
च वामनादिग्रन्थेष्वप्योऽविगन्तव्यम् । परन्तु भङ्ग्यन्तरेणार्थस्य पुनरुक्तिर्गुण एव, न
दोष इति कविसम्प्रदायः । वक्ष्यते चैवं माधुर्यं लक्षयता ग्रन्थकृता !
प्रक्रमाऽभङ्गेनेति । येन शब्देनार्थस्याभिधानमारम्भे तेनैव समाप्तिपर्यन्त-
मभिधानम्--समानशब्देनैवोपक्रमप्रभृत्युपसंहारपर्यन्तं प्रतिपाद्यमानत्वमर्थस्य समतेति
भावः । उद्देश्यस्यैक्येऽभिन्नेनैव पदेनोपादानं तस्य विशेषेणापेक्ष्यते, विच्छित्त्या-
एक को धोखा देकर दूसरी को चूमना विदग्धचेष्टित है, यह विदग्धचेष्टित
जिसकी आँखें बन्द हैं उसके लिए अव्यक्त भी है और पीछे से आकर एक की
आँखें बन्द कर देना इस विदग्धचेष्टित का उपपादक है । इस प्रकार एक ही पद्य में
चुम्बन-क्रिया द्वारा विदग्धचेष्टित का, खेल करने का बहाना करने की क्रिया द्वारा
उस विदग्धचेष्टित की एक नायिका के लिए अव्यक्तता का और पीछे से आकर
आँखें बन्द कर देने की क्रिया से उस विदग्धचेष्टित चुम्बन का उपपादन किये जाने
से यहाँ पूर्वलक्षित 'श्लेष' गुण की स्थिति स्पष्ट है ।
अर्थ की विमलता--स्पष्टता, अर्थात् प्रतिपाद्य अर्थ का प्रतिपादन करने
के लिए जितने शब्द आवश्यक हों उतने ही शब्दों द्वारा, उनसे कम या अधिक
शब्दों द्वारा नहीं, अर्थ-प्रतिपादन किया जाना 'प्रसाद' नामक अर्थगुण कहलाता ।
जैसे--'उस नायिका का मुख कमल का अनुकरण करने वाला, अर्थात् कमल-
सदृश मनोहर है" इस वाक्य द्वारा वर्णित अर्थ में 'प्रसाद' गुण है । इसके विपरीत,
'उस नायिका का मुख कमल की कान्ति का अनुकरण करने वाला है" इस वाक्य
में वर्णित अर्थ में 'प्रसाद' गुण नहीं है, क्योंकि इस वाक्य में विवक्षित अर्थ के
प्रतिपादन के लिए आवश्यक शब्दों से अधिक 'कान्ति' शब्द प्रयुक्त है ।
विवक्षित एक अर्थ का जिस शब्द से वर्णन के प्रारम्भ में प्रतिपादन किया गया
प्रथमाननम् २१५
यथा—
हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत् ।
हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति मे ॥
अत्र विष्णुर्भ्रातेत्यादिनिर्माणे प्रक्रमभङ्गात्मकं वैषम्यम् ।
एकस्या एवोक्तेर्भङ्ग्यन्तरेण पुनः कथनात्मकमुक्तिवैचित्र्यं
माधुर्यम् ।
धानार्थत्वादस्यान्यत्रापि तथा । यदि तु एकपदप्रयोगे न विच्छित्तिस्तदा परिहरणीय
एव सः ।
हरिरित्यादिपद्ये हरिशब्देनैवोपक्रमादुपसंहारपर्यन्तं परमेश्वररूपार्थस्याभिधीय-
मानत्वं स्पष्टमेव । पर्यायशब्दानां परस्परं भिन्नत्वं नार्थभिन्नत्वे कारणमिति यद्यप्या-
पाततः प्रतीयते तथापि शब्दस्यापि शाब्दबोधे भानस्य वैयाकरणादिसम्मतत्वेन
एकशब्देनार्थबोधे एकरूपेणार्थः प्रतीयते शब्दान्तरेण पुनर्बोधे तच्छब्दविशिष्टः प्रतीयत
इति विशेषणभेदादर्थभेदोऽर्थवैषम्यरूप इति मर्मप्रकाशः । अत्रोदाहृतमिदं पद्यं कीदृशं
काव्यमिति विवेचनीयम् ।
वामनोक्तं माधुर्यलक्षणं परिष्कृत्याह—एकस्या इत्यादिना । उक्तिशब्दे-
हो उसी शब्द से अन्त तक उसका प्रतिपादित होना ( प्रारम्भ में एक शब्द से ओर
बाद में अन्य शब्द से प्रतिपादित न होना ) 'समता' है ।
जैसे—
“हरि हीं मेरे पिता हैं, हरि हीं माता हैं, हरि हीं मित्र हैं, मैं सर्वत्र हरि को
हीं देखता, मुझे हरि से अतिरिक्त कुछ भी नहीं दिखायी देता ॥”
इस पद्य में उपक्रम से उपसंहार तक परमेश्वर-स्वरूप अर्थ का एक 'हरि' शब्द
से हीं प्रतिपाद होने से इसमें 'समता' नामक गुण है । इसके विपरीत,
हरिः पिता हरिर्माता विष्णुर्भ्राता हरिः सुहृत् ।
विष्णुं सर्वत्र पश्यामि विष्णोरन्यन्न भाति मे ॥
इत्यादि प्रकार से यदि भिन्न-भिन्न शब्दों द्वारा परमेश्वर-स्वरूप अर्थ का अभिधान
किया गया होता तो 'समता' न होती । इसका कारण यह है कि शाब्दबोध के
सविकल्पक होने—विशेषणविशिष्ट विशेष्य का ज्ञान होने—से विशेषणीभूत शब्द में
भी शाब्दबोध-विषयता होती । ऐसी स्थिति में भिन्न-भिन्न शब्दों से एक हीं
अर्थ का प्रतिपादन करने पर तत्तच्छब्दजन्य बोध में तत्तत् शब्द (नाम) की प्रतीति
होने से सभी खण्डवाक्यों से होने वाले बोध में एकरूपता हो नहीं सकती । अत
एव ऐसी दशा में प्रक्रमभङ्गदोष आ जाने से 'समता' विघटित हो जाती है ।
उक्तिवैचित्र्य को 'माधुर्य' कहा जाता । उक्तिवैचित्र्य का अभिप्राय एक हीं
२१६ रसगङ्गाधरः
यथा—
विधत्तां निःशङ्क निरवधिसमाधि विधिरहो
सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।
कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः
सवित्री कामानां यदि जगति जागर्ति भवती ॥
अत्र विध्यादिभिर्नास्ति किमपि प्रयोजनमित्येषोऽर्थः समाधिविधानादि-
प्रेरणारूपेणोक्तिवैचित्र्येणाभिहितः । अन्यथाऽनवीकृतत्वापत्तेः ।
नार्थोऽत्राभिप्रेतो व्युत्पत्तिभेदेन लक्षणया वा ।
विधत्तामित्यादि पद्यं गङ्गालहर्याम् । सवित्रीति तृजन्तं पदम्, कामानामिति
षष्ट्यन्तपदात् । तृजन्तत्वे तु द्वितीया स्यात्, न लोकाव्ययेति कर्मषष्ठ्या निषेधात् ।
उत्कर्षः पुनस्तृन्नन्तप्रयोगे स्यात् । भवती=गङ्गा । पदार्थः स्फुटः ।
प्रेरणात्र लिङर्थः, अभीष्टं वा । अन्यथा=उक्तिवैचित्र्याभावे । अनवीकृतत्व-
मर्थदोषो विच्छित्यनाधायकत्वात्सहृदयोद्वे जकत्वाच्च ।
अकाण्डे=अनवसरे । मार्गे विवक्षितदेशप्राप्तेरुद्देश्यत्वे नावसर इति शोकस्या-
नवसरता । एतच्च बोध्यगतत्वे शोकस्य कथञ्चित् संगच्छते । सहृदयगतत्वं तु शोकस्य
विवक्षितमिति मन्यामहे । उदाहरणानुरोधेन चाकाण्ड इत्यस्य तात्पर्यमस्फुटम् ।
'अपारुष्यं सौकुमार्यम्' इति वामनोक्त लक्षणमेवात्र परिष्कृतम् । सुकुमारतायाः
पारुष्याभावस्वरूपत्वेनैव दोषाभावात्मकत्वमुपपादयन्त्यन्ये ।
अर्थ का भिन्न-भिन्न भङ्गी (अभिव्यक्ति-प्रकार) से प्रतिपादन करना है ।
उदाहरण गङ्गालहरी के निम्नलिखित पद्य में द्रष्टव्य है—
“मां गङ्गे ! सभी कामनाओं को पूर्ण करने वाली तू जब इस संसार में सजग
है तब विधाता निश्चिन्त होकर अनन्त समाधि में निमग्न हो जांय, भगवान् विष्णु
शेषनाग के ऊपर आराम से शयन के लिए चले जांय, भगवान् शिव सर्वदा अपने
ताण्डव में संलग्न हो जांय, पापक्षय के निमित्त विभिन्न प्रायश्चित्त करने की भी
कोई आवश्यकता नहीं और इसके लिये तप, दान और पूजन आदि शास्त्र-विहित
कर्म का भी कोई उपयोग नहीं ।”
इस पद्य में प्रतिपादनीय अर्थ यही है कि जब गङ्गा सकल पाप-ताप को दूर
करने के लिए सन्नद्ध है तो फिर विधाता आदि का कोई प्रयोजन नहीं । परन्तु यदि
इसी रूप में यह अर्थ शब्दों द्वारा प्रतिपादित होता तो इसमें चमत्कार न होने से यहां
'अनवीकृतत्व' दोष आ जाता । अत एव विधाता आदि को अनन्त समाधि में
निमग्न हो जाने आदि की प्रेरणा का प्रतिपादन किया गया है जिससे अर्थ में एक
प्रथमाननम् २१७
अकाण्डे शोकदायित्वाभावरूपमपारुष्यं सुकुमारता ॥
यथा—‘त्वरया याति पान्थोऽयं प्रियाविरहकातरः’।
‘प्रियामरणकातरः’ इत्यत्र शोकदायिनो मरणशब्दस्य सत्त्वात्पारुष्यम् ।
इदं चाश्लीलतादोषव्याप्यम् ।
वस्तुनो वर्णनीयस्यासाधारणक्रियारूपयोर्वर्णनमर्थव्यक्तिः ॥
यातीत्यस्य गृहमिति शेषः । अत्र पारुष्याभावमुपपादयति—प्रियामरणे-
त्यादिना । एतेनेदं सूच्यते यन्मृतप्रियस्य पान्थस्यैव प्रियाविरहकातर इति वर्णने
सुकुमारता । यस्य पुनर्देशान्तरगतस्य प्रिया गृहे जीवत्येव तस्यैतादृशवर्णने न
सौकुमार्यम् इति । पारुष्यं दोष इत्यपि लक्षणेन सूच्यत एव; परन्त्वयं दोषो न पृथक्
परिगणित इति कथमत्र दोषत्वेनाभिधानं तस्येत्याशङ्कां समाधत्ते-इदं चेत्यादिना ।
अमङ्गलसूचकत्वादिति भावः । कस्यचिद् व्याप्यदोषस्य पृथक् परिगणनं कस्यचिच्च
नेति विषये सम्प्रदाय एव शरणम् ।
क्रियारूपयोरिति । क्रिया च रूपं स्वरूपं च, तयोरित्यर्थः । असाधारण-
वैदग्ध्य आ जाता है ।
प्रतिपाद्य अर्थ में पारुष्य—कठोरता, जिसका अर्थ अनवसर में शोक देना है,
के अभाव को हीं 'सुकुमारता' कहते ।
जैसे—
“यह पथिक अपनी प्रियतमा के विरह (=मरण) से अत्यन्त खिन्न होकर
शीघ्रता से अपने घर को लौट रहा है ।”
इसी वक्तव्य में यदि मरणस्वरूप अर्थ के प्रतिपादन के लिए ‘प्रियामरणकातरः’
कहा जाता तो यह अनवर में हीं शोकप्रद होता, क्योंकि घर लौटने के समय उस
पथिक की प्रियतमा के मरण की बात सुनकर सहृदयों को शोक होता । यद्यपि
जिस व्यक्ति को ऐसी कठोर बात कही जाती उसे भी शोक हो हीं सकता है तथापि
काव्य में सहृदयगत शोक हीं विवक्षित होता । अतः उक्त लक्षण में निर्दिष्ट शोक को
सहृदयनिष्ठ शोक समझना चाहिए । इस लक्षण से यह स्पष्ट है कि यह अर्थगत
कठोरता—पारुष्य, जिसके अभाव को ‘सुकुमारता’ कहा गया है, एक अर्थगत दोष
है । इसे स्वतन्त्र दोष के रूप में नहीं माना गया है अपितु यह ‘अश्लीलता’ दोष
के अन्तर्गत आता, जिसमें व्रीड़ा (= लज्जातिशय), जुगुप्सा अथवा अमङ्गल की
प्रतीति होती । ‘अश्लीलता’ दोष के अन्तर्गत पूर्वोक्त मरण-शब्द से प्रतिपादित अर्थ
में अमङ्गलसूचकतास्वरूप ‘अश्लीलता’ है ।
वर्णनीय वस्तु के असाधारण स्वरूप और असाधारण क्रिया का वर्णन करना
हीं ‘अर्थव्यक्ति’ है । असाधारण का अर्थ वैदग्ध्यपूर्ण है । ऐसा प्रतीत होता कि 'अर्थ-
२१८ रसगङ्गाधरः
यथा—
गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् ।
रदयन्त्रितरसनाग्रं तरलितनयनं निवारयाञ्चक्रे ॥
अयमेवेदानीन्तनैः स्वभावोक्त्यलंकार इति व्यपदिश्यते ।
त्वमुभयोर्विशेषणम् । एतेन—अर्थव्यक्तिरित्यत्रार्थशब्दोऽसाधारणक्रियास्वरूपयोर्वृत्तं
इति बोध्यम् ।
गुरुमध्य इत्यादि । गुरूणां श्रेष्ठजनानां मध्ये कमलाक्षेण प्रहर्तुं कामोऽभिलाषो
यस्य तादृशं मां कमलाक्षी प्रिया लज्जया रदैर्दन्तैर्निपीडितं रसनाया अग्रं यत्र अथ
च तरलिते निकोचवती नयने यत्र कर्मणि तथा निवारयाञ्चक्रे । दन्तैर्जिह्वाग्रं
निपीडयन्ती नयने च व्यापारयन्ती कमलाक्षी कमलाक्षेण प्रहर्तुकामं मां निवारित-
वतीत्यभिप्रायः । रदयन्त्रिततेत्यादिक्रियाविशेषणद्वयम् । अत्र 'निवारयाञ्चक्रे' इति
लिट्प्रयोगश्चिन्त्यः । पद्येऽस्मिन् कमलाक्षीत्यनेन असाधारणस्य नायिकास्वरूपस्य
रदयन्त्रिततेत्यादिविशेषणद्वयविशिष्टाया निवारणक्रियायाश्च वर्णनादर्थव्यक्तिर्गुण
इत्यभिप्रायो ग्रन्थकृतः । तत्रोक्तनिवारणक्रियायामापामरप्रसिद्धायां कीदृशमसाधारण-
त्वमिति विवेचनीयम् यद्वा पामरसुलभायामप्येतादृश्यां निवारणक्रियायां
वैदग्ध्यात्प्रतिभामात्रवेद्यत्वादसाधारणत्वं कथञ्चिन्मन्तव्यम् ।
इदानीन्तनैः = गुणत्रयवादिभिराचार्यैः । स्वभावोक्तीत्यादि । इदं च 'वस्तु-
स्वभावस्फुटत्वमर्थव्यक्तिः' इति वामनोक्तलक्षणेनैव सूचितप्रायम् । विशेषः काव्य-
प्रकाशादिभ्यो ज्ञेयः ।
व्यक्ति' शब्द के पूर्वभाग—'अर्थ' शब्द के अभिधेय वस्तु (= अर्थ) के असाधारण
स्वरूप और असाधारण क्रिया हैं ।
इसका उदाहरण निम्नलिखित पद्य में उपलब्ध है—
''जब श्रेष्ठ जनों के बीच बैठी अपनी कमलतुल्य नेत्रोंवाली प्रियतमा पर मैंने
अपने कमल-सदृश नयन से प्रहार करना चाहा—उसपर कटाक्षपात करने को
उद्यत हुआ तो उसने दांतों तले जीभ दबाकर आंखों के इशारे ( कनखी ) से मुझे
वैसा करने से रोक दिया ।''
इस कथन में प्रियतमा के असाधारण स्वरूप का 'कमलाक्षी' शब्द से और
दांतों तले जीभ दबाकर आंखों के इशारे से रोकने की असाधारण-वैदग्ध्यपूर्ण क्रिया
का वर्णन होने से 'अर्थव्यक्ति' नामक गुण है ।
इसी 'अर्थव्यक्ति'-नामक वामनादि-सम्मत गुण को परवर्ती आचार्यों ने
'स्वभावोक्ति' अलंकार कहा है ।
प्रथमाननम् २१९
‘चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये’ इत्यादिग्राम्यार्थपरिहार
उदारता ॥
एकस्य पदार्थस्य बहुभिः पदैरभिधानम्, बहूनां चैकेन, तथैकस्य
वाक्यार्थस्य बहुभिर्वाक्यैः, बहुवाक्यार्थस्यैकवाक्येनाभिधानम्, विशेषणानां
साभिप्रायत्वं चेति पञ्चविधमोजः ॥
चुम्बनं देहीत्यादौ प्रतिपाद्योऽर्थो न विदग्धोचितः । अतो ग्राम्यत्वं नामाऽविद-
ग्धार्थोक्तिर्दोषस्तदभाव उदारतेत्यर्थः । अधमभिन्ने वक्तरि ग्राम्यत्वं दोषः, अधमोक्तौ
तु ग्राम्यत्वं गुण एवेति बोध्यम् । ग्राम्योक्तिकवलितो हि विभावादिरूपोऽर्थो न
रसनिष्पत्तये समर्थः, भ्रष्टं बीजमिवाङ्कुरायेति प्रदीपादौ स्पष्टम् ।
सम्प्रति क्रमप्राप्तमोजोगुणं वर्णयति—एकस्येत्यादिना । बहूनामित्यादि ।
बहूनां पदार्थानामेकेन पदेनाभिधानमित्यर्थः ।
ग्राम्य अर्थ का परिहार (करते हुए अग्राम्य—विदग्धोचित अर्थ का प्रतिपादन
किया जाय तो) ‘उदारता’ नामक अर्थगुण कहा जाता ।
उत्तम और मध्यम श्रेणियों की प्रकृतियों के लिए वैदग्ध्यरहित अर्थ का
प्रतिपादन करना ग्राम्यत्वदोष कहा गया है । किन्तु अधम प्रकृति के लिए तो यह
ग्राम्यत्व गुण है, दोष नहीं । अतः उत्तम और मध्यम प्रकृतियों द्वारा प्रतिपादित
अर्थ में हीं ‘उदारता’ सम्भव है ।
ग्राम्यत्व दोष का उदाहरण देखिये—
“ओ भार्ये (=प्रिये) ? कामरूपी चाण्डाल की तृप्ति के लिए मुझे
चुम्बन दे ।”
इसमें चुम्बन आदि ग्राम्य अर्थ का अभिधान होने से इस वाक्यार्थ में ग्राम्यत्व
दोष है । किन्तु यदि यही वाक्य किसी अधम प्रकृति—गँवार जन द्वारा प्रयुक्त हो
तो ग्राम्यत्व दोष नहीं होगा । अतः किसी उत्तम या मध्यम श्रेणी के मनुष्य द्वारा
ऐसा कहने पर हीं ग्राम्यत्व दोष समझना चाहिए ।
ओज पाँच प्रकार का होता है—(१) एक पद द्वारा जिस अर्थ का प्रतिपादन
सम्भव हो उस अर्थ का पद-समूह द्वारा प्रतिपादन किये जाने पर, (२) पद-समूह
द्वारा जिस अर्थ का प्रतिपादन किया जा सकता उस अर्थ का किसी एक
पारिभाषिक पद द्वारा प्रतिपादन किये जाने पर (३) एक वाक्य के द्वारा जिस
अर्थ का प्रतिपादन संभव हो उसका अनेक वाक्यों द्वारा प्रतिपादन किये जाने पर,
(४) अनेक वाक्यों द्वारा जिस अर्थ का प्रतिपादन किया जाना है उसका एक
वाक्य से प्रतिपादन किये जाने पर और (५) विशेषण के साभिप्राय, अर्थात्