रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 244, कुल 414 में से
संदर्भ में पढ़ें२१२ रसगङ्गाधरः
व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तरार्धे
तु सोऽपि । एते दश शब्दगुणाः ॥
एवम्—
क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च
सामानाधिकरण्यरूपः श्लेषः ॥
विवरणं चिन्त्यम्, बहुव्रीहिणा तस्योत्तरार्धपरत्वाभ्युपगमे तद्घटकचतुर्थचरणे
बन्धशैथिल्याप्रतीतेर्लक्षणसमन्वयाऽसम्भवात्' इति तच्चिन्त्यम् । अत एव सरलाप्येवं
वर्णयन्ती सरलैव । अतो यत्पुनरुक्तं रसचन्द्रिकायाम्—'सरला तु चतुर्थचरणेऽवरोहं
नानुभवति । तत्सत्यम्, तृतीयचरणमपेक्ष्य नावरोहः, परं प्रथमार्धमपेक्ष्य द्वितीयार्धेऽव-
रोहमनुभवन् मर्मप्रकाशः प्रायो नाऽसमीचीन इति प्रतिभाति' इति तदप्य-
किञ्चित्करम् । माधुर्यलक्षणे संयोगस्य परसवर्णनिष्पन्नहल्भिन्नहल्घटितत्वस्योक्त-
त्वाद्वितीयचरणे कथं न माधुर्यस्यारोह इत्याशङ्कां निराचष्टे—गङ्गेत्यादावि-
त्यादिना । दीर्घसमासेत्यादि । एतेन माधुर्यार्थमपेक्ष्यमाणस्य पृथक्पदत्वस्या-
भावोपपादनम् । न प्ररोह इति । प्ररोहः = प्रकर्षः । समासघटकतया द्वितीयचरणस्य
प्रथमपादेन गाढत्वप्ररोहवता तथात्वमित्यभिप्रायः । सोऽपि = माधुर्यप्ररोहोऽपि ।
अतश्चोत्तरार्धे समाधिमाधुर्ययोरुभयोः सत्त्वं प्रतिपादितम् । एतावता दशशब्दगुण-
निरूपणं प्राचामनुसारेण परिष्कृत्य कृतम् ।'
अर्थगुणान्निरूपयितुमुपक्रमते—एवमित्यादिना ।
तदस्फुटत्वस्य = विदग्धचेष्टितस्य परेणाप्रतीयमानत्वस्य । तदुपपादकेत्यत्रापि
तत्पदेन विदग्धचेष्टितस्य ग्रहणम् । सामानाधिकरण्यमेकत्र वाक्ये महावाक्ये वा
माधुर्य-व्यंजक वर्ण विद्यमान हैं तथापि दीर्घसमास के कारण माधुर्य-लक्षणघटक
'पृथकपदत्व' का अभाव होने से यहां माधुर्य का उत्कर्ष नहीं माना जा सकता ।
उत्तरार्ध में माधुर्य-विरोधी दीर्घसमासादि लक्षणों के न होने और माधुर्य-व्यंजक
वर्णों के होने से शिथिलता के साथ-साथ माधुर्य का भी उत्कर्ष है ही ॥
इस प्रकार प्राचीन वामनादि द्वारा स्वीकृत दश शब्दगुणों का निरूपण
किया गया ॥
शब्दगुण के समान नाम वाले श्लेष, प्रसाद आदि दश अर्थगुण भी वामनादि
के अभिमत हैं । किन्तु नामसाम्य होने पर भी इनके स्वरूप में भेद है । अतः श्लेष,
प्रसाद आदि दश अर्थगुणों का क्रमशः लक्षण-उदाहरण के साथ निरूपण किया जा
रहा है—
एक के बाद एक क्रिया का निर्देश करते हुए क्रमशः किसी विदग्धजन की
चेष्टा उस चेष्टा की अव्यक्तता और उस चेष्टा के उपपादक युक्तियों का सामाना-