सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

प्रथमाननम् १९५
सर्वेषु रसेषु सर्वासु रचनासु च साधारणः ।
गुणानां चैषां द्रुतिदीप्तिविकासाख्यास्तिस्रश्चित्तवृत्तयः प्रयोज्याः,
तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत् । एवमेतेषु गुणेषु रसमात्रधर्मेषु
व्यवस्थितेषु मधुरा रचना, ओजस्वी बन्ध इत्यादयो व्यवहारा आकारोऽस्य
शूर इत्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः ।
येऽमी माधुर्यौजःप्रसादा रसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं
मानम् ? प्रत्यक्षमेवेति चेत्, न । दाहादेः कार्यानलगतस्योष्णस्पर्शस्य
दिना । रचना = वाक्यम् । औपचारिका इति । यथा शौर्यादेरात्मगुणस्य समवायेन
शरीरेऽभावेऽपि स्वसमवायिसंयुक्तत्वसम्बन्धेन स्वाश्रयाभिव्यञ्जकत्वसम्बन्धेन वा
शरीरवृत्तित्वमादाय शरीरे शूरत्वव्यवहारस्तथा रसाश्रितगुणविषयोऽपि शब्दार्थ-
वृत्तित्वव्यवहार इत्याशयः । मम्मटभट्टादय इत्यत्रादिपदादभिनवगुप्तविश्वनाथा-
दिपरिग्रहः ।
तदेवं मम्मटादिसम्मतं गुणानां रसधर्मत्वं प्रतिपाद्य तन्निरासायोपक्रमते —येऽमी
हास्य और भयानक रसों में कुछ आचार्य दो गुणों—प्रसाद एवम् ओज की स्थिति
मानते तो कुछ अन्य आचार्य केवल प्रसाद गुण की । वस्तुस्थिति यह है कि प्रसाद
गुण केवल अद्भुतादि तीन रसों में ही नहीं अपि तु सभी में विद्यमान होता ।
ये तीन गुण—माधुर्य, ओजस् और प्रसाद—क्रमशः द्रुति; दीप्ति और विकास
नामक तीन प्रकार की चित्तवृत्तियों के प्रयोजक हैं । तात्पर्य यह है कि उपर्युक्त
तीन गुणों में से क्रमशः एक-एक गुण से विशिष्ट रस की चर्वणा से क्रमशः
उपर्युक्त एक-एक चित्तवृत्ति उत्पन्न होती है । इस प्रकार यह सिद्ध है कि ये
गुण केवल रस के धर्म हैं, रसातिरिक्त शब्दादि के नहीं । ऐसी स्थिति में
रसाभिव्यञ्जक रचना आदि में 'यह रचना मधुर है', 'यह बन्ध बड़ा ही ओजस्वी
है' इत्यादि व्यवहार में शब्दादि में प्रतीयमान माधुर्यादि उसके वास्तविक धर्म
नहीं, अपि तु औपचारिक हैं । जैसे आत्मनिष्ठ शौर्य आदि गुणों को आत्मा के
अभिव्यञ्जक आकार—शरीर में आरोपित कर के 'इसका आकार शूर है' इत्यादि
व्यवहार होते उसी प्रकार रसाभिव्यञ्जक रचना आदि में रस के माधुर्यादि गुणों
को आरोपित करके उपर्युक्त व्यवहारों का उपपादन करना चाहिए । यही काव्य-
प्रकाशकार मम्मट भट्ट आदि का मत है ।
अब विचारणीय यह है कि मम्मट आदि आचार्यों द्वारा माधुर्यादि गुणों को
जो रस मात्र का धर्म कहा गया है उसमें प्रमाण क्या है । इसमें मानस प्रत्यक्ष
तो प्रमाण हो नहीं सकता, क्योंकि अग्नि के दाहादि कार्य से अतिरिक्त उसके उष्ण
स्पर्श का जिस प्रकार त्वगिन्द्रियजन्य प्रत्यक्ष होता उस प्रकार रस के कार्यभूत
१५ र०

१९६ रसगङ्गाधरः
यथा भिन्नतयानुभवस्तथा द्रुत्यादिचित्तवृत्तिभ्यो रसकार्येभ्योऽन्येषां
रसगतगुणानामनुभवात्। तादृशगुणविशिष्टरसानां द्रुत्यादिकारण-
त्वात्कारणतावच्छेदकतया गुणानामनुमानमिति चेत् ? प्रातिस्विकरूपेणैव
इत्यादिना। प्रत्येक्षमत्र मानसं ग्राह्यम्। कारणतावच्छेदकेति। कारणे विशेषणी-
भूतं कारणतावच्छेदकमुच्यते। माधुर्यादिविशिष्टेषु रसेषु द्रुत्यादिकारणत्वमिति
तत्र रसेषु विशेषणतयाऽन्वितं माधुर्यादि कारणतावच्छेदकम् इति तात्पर्यम्। रसनिष्ठ-
द्रुत्यादिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वाद्, दण्डादिनिष्ठघटादिकारणताव-
दित्यनुमानम्। तदाशयश्च यद्गुणविशिष्टः शृङ्गारो द्रुतिं जनयति तद्गुणो माधुर्य-
मित्यादिः। एतन्निरस्यति—प्रातिस्विकेत्यादिना। स्वं स्वं प्रति प्रतिस्वम्, तत्र
भवं तन्निष्ठं रूपं तद्व्यक्तित्वं तच्छृङ्गारत्वा दिकं प्रातिस्विकम्, तेन रूपेण तद्व्यक्ति-
त्वेन कारणतावच्छेदकेनैव शृङ्गारादीनां द्रुत्यादिकारणत्वोपपत्तौ सत्यां कारणता-
वच्छेदकतया गुणानां कल्पने गौरवात्। तदयं तात्पर्यर्थः—पूर्वोक्तेषु प्रथमे पक्षे
सम्भोगशृङ्गारकरुणविप्रलम्भशृङ्गारशान्तानां क्रमेण प्रकृष्टप्रकृष्टतरादिद्रुतिजनकत्वं
प्राचामभिमतम्। तथा च तत्तद्रसकार्येषु प्रतीयमानत्वदृढ॑जात्यस्य न
सामान्येन सम्भोगशृङ्गारादीना विजातीयद्रुतीः प्रति कारणत्वं निर्वहति, तद्द्रुति-
त्वस्यैव कार्यतावच्छेदकतया सामान्येनान्वयव्यतिरेकानुपपत्तेः। द्रुतीनां विजातीय-
त्वेपि तत्सर्वानुगतं द्रुतित्वं तु न कार्यतावच्छेदकम्, विशेषधर्मेण कार्यत्वार्युपपत्तौ
सामान्यधर्मस्यान्यथासिद्धत्वात्। अत एव स्मृतिं प्रत्यनुभवत्वेनैव कारणत्वं तार्किकाणा-
मिष्टम्, न ज्ञानत्वेन। तथा च तद्दुतेस्तद्रसान्वयव्यतिरेकानुविधायितया तद्रसत्वे-
नैव कारणत्वमिति तद्रसत्वमेव कारणतावच्छेदकमिति स्थितौ तदतिरिक्तस्य गुणस्यापि
कारणतावच्छेदकत्वकल्पने गौरवम्। अत्र गौरवं मानाभावस्याप्युपलक्षणं बोध्यम्।
माधुर्यैष्वपि तत्तद्रसाश्रितेषु तारतम्येन द्रुतिविशेषं प्रति तन्माधुर्यस्यापाततः कारण-
तावच्छेदकत्वप्रतीतावपि माधुर्यसामान्ये तदभावात्। द्वितीयेप्येतदेव स्थितम्।
तृतीयेऽपि पक्षे सम्भोगशृङ्गारापेक्षया करुणादिषु द्रुतेः प्रकृष्टतरत्वादयमेव न्यायः।
द्रुति आदि चित्तवृत्तियों से अतिरिक्त रसगत माधुर्यादि गुणों का मानस प्रत्यक्ष में
मान नहीं होता। माधुर्यादि गुणों से विशिष्ट रसों में द्रुत्यादि चित्तवृत्तियों की
जनकता होने से कारणीभूत रसों में विशेषणीभूत गुणों का कारणतावच्छेदक के
रूप में अनुमान , भी असंगत है। इसका कारण यह है कि जब माधुर्यादि गुणों का
भिन्न-भिन्न रसों में तारतम्य है तब भिन्न-भिन्न रसों की चर्वणा से होने वाली
द्रुत्यादिचित्तवृत्तियों में भी तारतम्य मानना हीं होगा। ऐसी स्थिति में तारतम्य-
युक्त द्रुत्यादि की कारणता जब तत्तद्रस में सिद्ध हो जाती तो तद्रसत्व—तद्-
व्यक्तित्व को कारणतावच्छेदक मानना हीं होगा, उसके अतिरिक्त माधुर्यादि को

रसानां कारणतोपपत्तौ गुणकल्पने गौरवात् । शृङ्गारकरुणशान्तानां
माधुर्यवत्त्वेन द्रुतिकारणत्वं प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया
लघुभूतमिति तु न वाच्यम्, परेण मधुरतरादिगुणानां पृथग्द्रुततरत्वादि-
कार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यवत्त्वेन कारणताया गडुभूत-
त्वात् । इत्थं च प्रातिस्विकरूपेणैव कारणत्वे लाघवम् ।
एतदेव प्रश्नोत्तराभ्यां विशदयति—शृङ्गारेत्यारभ्य गडुभूतत्वादित्यन्तेन । गडु-
भूतत्वं व्यर्थत्वम् कार्यभेदे कारणभेदस्यावश्यकतया तद्रसत्वेन तद्द्रुतिकारणताया
आवश्यकत्वेन तन्माधुर्यवत्त्वेनापि न कारणता, गुणस्याचलस्थितित्वेन तन्निवेशस्य
व्यर्थत्वादित्यपि बोध्यम् । अत्र गुरुभूतत्वादिति पाठान्तरं मधुसूदनशास्त्रिकल्पितं
रसचन्द्रिकायामुक्तधाष्ट्र्यमपि नाऽसमञ्जसमिति प्रतीमः । यत्तूक्तं रसचन्द्रिकायाम्—
'ननु तत्तद्विशेषद्रुतीरनुगमय्य···········प्रातिस्विकरूपेण कारणतायान्तु अनन्ता
इति कथं परित्यागो लघुभूतस्येति चेत् ? न, माधुर्यानभिव्यञ्जिकायां प्रसादप्रसन्नायां
रचनायां सत्यां विकासवृत्त्या शृङ्गारास्वादो जायते द्रुतिश्च न जायते, तत्र शृङ्गार-
कारणस्य भावाद् द्रुतेरभावाच्च तादृशकार्यकारणभावस्यैवासम्भवात्' इति तदेतद-
चिन्तिताभिधानम्, 'अचलस्थितयो गुणाः' इति वादिनां प्राचां मते माधुर्यस्य
शृङ्गारायोगव्यवच्छेदेन माधुर्य्यरहितस्य शृङ्गारस्यासम्भवात् । यत्तु क्वचित् शृङ्गार-
वर्णने माधुर्यव्यञ्जकवर्णाभावः सोऽप्यशक्तिकृत एव । नचैतावता तादृशे शृङ्गारे
भी कारणतावच्छेदक मानने में गौरव स्पष्ट है । अत एव—शृङ्गार, करुण और
शान्त रसों में से प्रत्येक को तद्रसत्वेन, द्रुति का कारण कहने की अपेक्षा माधुर्य-
वत्त्वेन कारण कहने में लाघव है, क्योंकि प्रथमपक्ष में तीन कार्यकारणभाव होंगे
जब कि द्वितीय पक्ष में एक—यह कथन भी अयुक्त है, क्योंकि उक्त तीनों रसों में
जब एक प्रकार की द्रुति की जनकता ही नहीं तब तीनों में एक प्रकार का
माधुर्य मानना असम्भव है । फलतः तद्रसत्वेन कारणता हीं मानी जा सकती;
माधुर्यवत्त्वेन कारणता मानना तो सर्वथा निरर्थक है, क्योंकि जब माधुर्यविशिष्ट
उक्त रसत्रय में एकविध - द्रुति की कारणता हीं नहीं तब माधुर्यवत्त्व को
कारणतावच्छेदक मानना सार्थक कैसे होगा ? तन्माधुर्यवत्त्व को भी कारणता-
वच्छेदक मानना निरर्थक है, क्योंकि जब रसविशेष का तन्माधुर्य अव्यभिचरित
धर्म है तो फिर तद्रसत्त्व को कारणतावच्छेदक न मानकर तन्माधुर्यवत्त्व
(= तन्माधुर्य ) को कारणतावच्छेदक मानना निरर्थक हीं तो है । अतः प्रामाणिक
तद्रसत्त्व को हीं कारणतावच्छेदक मानने में लाघव स्पष्ट है । इस प्रकार द्रुत्यादि-
कारणतावच्छेदक के रूप में गुणों का अनुमान हीं जब अनुपपन्न है तो इस अनुमान
से गुणों का रसमात्रधर्मत्व प्रमाणित नहीं किया जा सकता ।

१९८ रसगङ्गाधरः
किञ्चात्मनो निर्गुणतयात्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम् । एवं
तदुपाधिरत्यादिगुणत्वमपि, मानाभावात्, पररीत्या गुणे गुणान्तरस्यानौ-
माधुर्याभावः सिध्यति, व्यञ्जकाभावस्य व्यङ्ग्यानावाऽगमकत्वात् । अत एव
'अङ्गोङ्ग्यवच्छेदेन रसोपकारकत्वम्' इति काव्यप्रदीपोक्तं गुणलक्षणं विवृण्वतो-
द्योतकृताप्युक्तम्—"एवं च यत्र रसस्तत्र माधुर्यादिकमस्त्येव, तस्य तद्धर्मत्वात् ।
क्वचित्तु व्यञ्जकाभावात्तदस्फुटत्वमित्यन्यत् । यथा 'अयं स रशनोत्कर्षी' इत्यादाविति
बोध्यम्" इति । तथा च शृङ्गारे माधुर्यस्य नियतत्वेन द्रुत्यभावोऽसम्भवः ।
प्रकृतमुपसंहरति—इत्थं चेत्यादिना । यदिषेषाणां कार्यकारणभावस्तत्सा-
मान्यस्यापि तथेति नियमस्तु परिदृश्यमानवैजात्यकार्यव्यतिरिक्तविषयक
एवेति प्रातिस्विकरूपेण कारणत्वोपपत्तावपि न सामान्येन माधुर्यवत्त्वादिना द्रुत्यादि-
कारणता सिध्यतीति तात्पर्यम् ।
युक्त्यन्तरमाह—किञ्चेति । आत्मनः = चिद्रूपस्य रसस्य काव्यात्मभूतस्य ।
ननु विभावाद्यभिव्यक्तस्य रत्यादेरेव रसत्वमिति वदतां प्राचां चिद्गुणत्वाभावो
माधुर्याविष्ट एवेत्यत आह—तदुपाधीति । चिद्रूपस्य रसस्योपाधया ये
रत्यादयस्तेषामपीत्यर्थः । अस्य वाक्यस्य पूर्ववाक्यस्थेनानुपपन्नमित्येनान्वयः ।
अनौचित्याच्चेति । चकारो हेतौ, यत। वैशेषिकनये गुणे गुणान्तरा-
भावेन रत्यादौ इच्छाविशेषात्मके गुणे माधुर्यादिगुणस्याभावोऽतो रत्यादौ
चिद्रूपरसोपाधौ माधुर्यादिस्वीकारे मानाभाव इत्याशयः । तथा च
मधुरा रतिः, मधुरो हास इत्यादिव्यवहारो यदि क्वचिद्दृश्यते तर्हि स
औपचारिकत्वेन व्याख्येयः । यद्वा मानमत्र व्यवहारसाक्षिकोनुभव एव सहृदयानाम् ।
तथा च रत्यादौ क्वचित् माधुर्यादिमत्त्वप्रतिपादकव्यवहारसत्त्वेपि करुणेऽपि शोक-
स्थायिभावके माधुर्यातिशयं स्वीकुर्वतां मते मधुरतरः शोक इति व्यवहारो यदि
भवेत् तदा स एव प्रमाणं भवेद् रत्यादौ माधुर्यादिसत्त्वे, न चैवं दृश्यते । क्वचित्तया
व्यवहारस्त्वत एवौपचारिकः । अतो व्यवहारसिद्धानुभवात्मकप्रमाणाभ वस्तात्पर्य-
विषयः प्रकृते । तथा च पररीत्येत्यादियुक्त्यन्तरमेवात्र । यत्तु रसचन्द्रिकायां
विवृतम्—'यदि माधुर्यादिगुणा रत्यादौ स्युस्तदा रसतामप्राप्तायामपि रतो द्रुतिरनु-
भूयेत, न च तथा, तथा च केन प्रमाणेन रत्यादिगुणत्व माधुर्यादीनामङ्गीकार्यमिति
अब प्रकारान्तर से भी गुणों के रसमात्रधर्मत्व का खण्डन किया जा रहा है—
रस को काव्य की आत्मा कहा गया है । यह आत्मभूत रस सगुण हो नहीं सकता,
क्योंकि वैसा मानने पर रस की चर्वणा विगलितवेद्यान्तर न हो सकेगी । ऐसी
स्थिति में काव्यात्मभूत रस को निर्गुण ही कहना उचित होगा । इसका संकेत
रस की चिद्रूपता के प्रतिपादन के अवसर पर किया जा चुका है । एवञ्च जब

प्रथमाननम् १९१
चित्याच्च । अथ शृङ्गारो मधुर इत्यादि‍व्यवहारः कथमिति चेत् ? एवं तर्हि
द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकमेव वा माधुर्या-
मानाभावात्तदित्यनेनोक्तम्' इति, तदयुक्तम्, रसाभासेऽपि द्रुत्यादेः कविसम्प्रदायप्रसिद्ध-
त्वात् । अत एव विश्वनाथेनात्र प्रसङ्गे रसपदेन रसाभासस्यापि ग्रहणं कण्ठत
एवोक्तम् । किञ्च भक्तिरसमनङ्गीकुर्वतः पण्डितराजस्य मते रसतामप्राप्तायामपि
भगवद्विषयिण्यां रती द्रुतेः स्वीकारादपि तद् विरुद्धमेवेत्यलम् । इदमत्रावधेयम्—
अत्र–माधुर्यादयो न वैशेषिकपरिभाषिता गुणाः, अपि तु तद्विलक्षणा एव सहृदयैकान्तु-
भवसाक्षिकाः कविसम्प्रदायसिद्धा इति वैशेषिकसमयेन न किमपि प्राचां हीयते ।
किञ्च दर्शनान्तरे गुणे गुणाङ्गीकारो

२०० रसगङ्गाधरः
दिकमस्तु । व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवदक्षतः । प्रयोजकत्वं
चादृष्टादिविलक्षणं शब्दार्थरसरचनागतमेव ग्राह्यम् । अतो न व्यवहाराति-
प्रसक्तिरिति । अत्र च प्रयोजकत्वघटिते गुणलक्षणे प्रयोजकतात्वस्य शक्यतावच्छेदक-
कोटिप्रविष्टत्वम्, द्वितीये च प्रयोजकतायाः संसर्गतया संसर्गमर्यादया भानान्न तत्र
गुणपदशक्तिरिति न सा शक्यतावच्छेदककोटिप्रविष्टेति लाघवगौरवविचारः शास्त्र-
सम्मतः पन्थाः । प्रयोजकतासम्बन्धेन तद्वत्त्वस्य समर्थनाय दृष्टान्तमाह--व्यवहार-
स्त्वित्यादिना । वाजिगन्धा = अश्वगन्धा 'असगन्ध' इति नाम्ना लोके प्रसिद्धा ।
तस्या भक्षणेन उष्णत्वं जायते इति तत्र यथौष्णत्वप्रयोजकत्वमादाय प्रयोजकता-
सम्बन्धेनोष्णत्वमादाय वा 'अश्वगन्धा उष्णा' इति व्यवहारः प्रसिद्धो वैद्यके तथैव
'शृङ्गारो मधुरः' इत्यादि

प्रथमाननम् २०१
प्रसक्तिः । तथा च शब्दार्थयोरपि माधुर्यादेरीदृशस्य सत्त्वादुपचारो नैव कल्प्य
इति तु मादृशाः ॥
जरत्तरास्तु—
श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥
त्वेनैवानुगम इत्याशयः । यद्वा आस्वाद एव द्रुत्यादिजनकः, तथा च द्रुत्यादि-
प्रयोजकत्वं माधुर्यादि--इति रीत्या स्वरूपत आस्वादे तद्विषयतया आस्वादजनके
रसे तदभिव्यञ्जकतया च शब्दादौ व्यवहार उपपाद्यः । तथा च शब्दार्थरसरचने-
त्यत्र रसेत्युपलक्षणं रसास्वादस्यापि । वृत्तेर्वृत्त्यन्तरजनने बाधकाभावान्नेद-
मनुपपन्नम् ।
तदेवं भामहाभिप्रेतं ध्वन्यालोककाराद्यनुमोदितं च मम्मटसम्मतं गुणत्रयवादं
विविच्य वामनाभिमतं 'दश शब्दगुणाः, दश चार्थगुणाः' इति पक्षं तन्निरासप्रकारञ्च
प्राचीनोक्तपथानुसारेण वक्तुमुपक्रमते—जरत्तरास्त्वित्यादिना । वामनोऽत्र
काव्यालङ्कारकर्त्ता परामृष्टः । अत्र त्रिगुणवादिषु काव्यप्रकाशकर्त्तुरेव कण्ठत
उपादानात्तदपेक्षया वामनो जरत्तर इत्युक्तम् । यत्तूक्तं रसचन्द्रिकायाम्—'त्रिगुण-
वादिनः काव्यप्रकाशकृदादयो जरसः, दशगुणवादिनो वामनादयो जरत्तराः, यद्यपि
प्राचीनो भामहोऽपि गुणत्रयवादी तथापि तन्मतस्यानतिप्रसिद्धेर्न तत्परिगणितम्'
इति तत्सम्प्रदायाऽपरिचयात् । गुणत्रयवादो भामहोपज्ञ एवेति काव्यप्रकाश-
जीवातुभूतस्य ध्वन्यालोकस्थवृत्तिग्रन्थस्याध्ययनेन स्पष्टमेव प्रतीयते । अत एव
लोचनेऽप्युपसंहृतम् -'एवं माधुर्यौजःप्रसादा एव त्रयो गुणा उपपन्ना भामहाभिप्रायेण'
इति ।
श्लेषः प्रसाद इत्यादि । इदं च पद्यं यद्यपि दण्डिनः, यद्यपि चैतेषां लक्षणेष्वपि
दण्डिसम्मतेषु क्वचित् क्वचिद्वामनोक्तलक्षणेभ्यो भेदस्तथापि नामसाम्यादिदं
वामनमतनिरूपणावसरे ग्रन्थकृता निर्दिष्टमिति बोध्यम् ।
हीं यहाँ सम्बन्ध रूप में विवक्षित है; अतः अदृष्टादि में माधुर्यवत्त्व के व्यवहार
की आपत्ति नहीं होती । इस प्रकार शब्द, अर्थ, रचना, बन्ध ओर रस में वर्त्तमान
विलक्षण प्रयोजकताओं के सम्बन्धरूप में विवक्षित होने से द्रुत्यादिमत्त्व-माधुर्यादि
से विशिष्ट जैसे रस होते वैसे शब्द, अर्थ आदि भी । अतः शब्द, अर्थ आदि में
गुणवत्त्व को औपचारिक कहने की कोई आवश्यकता नहीं है—ऐसा हम सोचते ।
वामन आदि कुछ प्राचीनतर आचार्य—श्लेष, प्रसाद, समता, माधुर्यं, सुकु-
मारता, अर्थव्यक्ति, उदारता, ओज, कान्ति और समाधि नामक दश शब्दगुण मानते ।

२०२ रसगङ्गाधरः
इति दश शब्दगुणान्, दशैव चार्थगुणानामनन्ति । नामानि पुनस्तान्येव,
लक्षणं तु भिन्नम् ।
तथा हि—
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्ण-
विन्यासविशेषो गाढत्वापरपर्यायः श्लेषः ॥
यदाहुः—‘श्लिष्टमस्पष्टशैथिल्यम्’ इति । यथा—‘अनवरतविद्वद्द्रुमद्रोहि-
दारिद्र्यमाद्यद्विपोद्दामदर्पौघविद्रावणप्रौढपञ्चाननः’ इति ।
उद्दिष्टान् गुणान् क्रमेण लक्षयति—तथाहीत्यादिना । शब्दानाम् = शक्तानां
पदानाम् । एकत्वप्रतिभानमभेदबुद्धिः, एषा चाहार्यविपर्ययात्मिका सहृदयानाम् ।
एकत्वं सादृश्यमित्यपव्याख्यानम् । संहितयेति । एतच्चोपलक्षणं दीर्घसमासस्येति
वक्ष्यते । ‘पृथक्पदत्वं माधुर्यम्’ इति वचनविवरणे पृथक्पदत्वं समासदैर्घ्यनिवृत्ति-
परमितिवदतो वामनस्याप्ययमेवाभिप्रायः । समासदैर्घ्यमेवैकत्वभाने हेतुः ।
एकजातीयेत्यादि । एकजातीयवर्णानामेकोऽनेको वा समूहोऽत्र विवक्षितः, तेन
चानुप्रासः सूच्यते । गाढत्वं च संयोगपरह्रस्वप्राचुर्यं वक्ष्यमाणम् ।
उक्तार्थे दण्ड्युक्ति प्रमाणयति—यदाहुरित्यादिना । अत्र यादृशं शैथिल्यं
दण्डिनोक्तम् अल्पप्राणाक्षरोत्तरम् इति तद् ग्रन्थकृतो नाभिप्रेतम्, उदाहरणस्यानल्प-
प्राणवर्णसमूहघटितत्वात् । अतोऽत्र प्राक्तगाढत्वविपरीतमेव शैथिल्यं विवक्षितं
मन्तव्यम् । अनवरतेत्यादि । विद्वांस एव फलदातृत्वाद् द्रुमाः, तेषामनवरतं द्रोही
यो द्रारिद्र्यरूपो माद्यन् द्विपस्तस्योद्दामपौँघस्य विद्रावणे प्रौढः पञ्चाननः सिंह
इन्हीं नामों के दश अर्थगुण भी उनके द्वारा स्वीकृत हैं, किन्तु इनका स्वरूप
शब्दगुणों के स्वरूप से भिन्न है ।
अब क्रमशः पूर्वोक्त शब्दगुणों और अर्थगुणों के लक्षण-उदाहरण दिये जा
रहे हैं—
पदों के वस्तुतः भिन्न-भिन्न होने पर भी संहिता (= पूर्वापर के अत्यन्त
सान्निध्य) के कारण उन सब पदों के एक होने की प्रतीति के निमित्तभूत और
अनुप्रास-समूहघटित रचना-विशेष को ही ‘श्लेष’ कहा जाता । इसे ही दूसरे शब्द
में ‘गाढ़ता’ भी कहते ।
आचार्य दण्डी ने कहा भी है—‘जिसमें शिथिलता (गाढ़ता के विपरीत
विन्यास) न हो—शिथिलता का आधिक्य न हो, उसी रचना-विशेष को ‘श्लिष्ट’
(= श्लेष) कहा जाता ।’
जैसे—‘अनवरतविद्वद्द्रुम...’ इत्यादि वाक्य में उपर्युक्त लक्षण के घटित

प्रथमाननम् २०३
गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः ॥
यथा—
किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल
क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥
इत्यर्थः । दानशीलस्य कस्यचिद्राज्ञां वर्णनमिदम् ।
प्रसादं लक्षयति—गाढत्वेत्यादिना । गाढत्वं शैथिल्यं चास्माभिर्वर्णितम् ।
व्युत्क्रमेणेति । विपरीतक्रमेणेत्यर्थः । पूर्वं शैथिल्यं पश्चाद् गाढत्वमिति तात्पर्यम् ।
तथैवोदाहरणमपि दृश्यते । यथा तु वामनग्रन्थस्तथा त्वोजःसम्पृक्तं शैथिल्यं प्रसाद
इति लभ्यते । अस्य तदुक्तसमाधेर्भेदश्चिन्त्यः । भरतादिभिः पुनराचार्यैः प्रसिद्धा-
र्थकत्वं प्रसाद इत्युक्तम् ।
किं ब्रूम इति । हे धराखण्डल महीपते ! तव वीरताममी अल्पज्ञा वयं किं ब्रूमो
वर्णयामः यस्मिन् क्रीडया कुण्डलिते वर्तुलीकृते वक्रीकृते भ्रुवौ, येन, अथ च शोणे
नयने यस्य तथाविधे त्वयि स्वदोर्मण्डलं पश्यति सति विन्ध्यारण्यम्, तद्गतपर्वतः
गुहाः, तदरण्यस्थं गृहम्, तत्रत्या अवनिहाश्च त्वद्भीत्या पलायितेन शत्रुराजसमूहेन
स्वमाणिक्यावलिकान्त्या दन्तुरतरैः शोभिततरैर्भूषाणां सहस्राणामुत्करैस्तत्कालमेव
समुल्लासिता इत्यर्थः । त्वद्भयात् प्रतिभटा राजानः पलायिताः सन्तो यथासम्भव-
होने से 'श्लेष' गुण विद्यमान है । उदाहरणवाक्य¹ का अर्थ यह है—'ये राजा
विद्वज्जनस्वरूप वृक्षों के नित्य-विद्रोही दारिद्र्यरूपी उन्मत्त गजराज के प्रचण्ड दर्प
को ध्वस्त करने में समर्थ सिंह हैं ।"
किसी भी बन्ध में गाढता और शिथिलता का विपरीत क्रम से, अर्थात् पहले
शिथिलता का और पश्चात् गाढ़ता का सम्मिश्रण हीं 'प्रसाद' नामक शब्दगुण
कहलाता ।
उदाहरणार्थ—
"हे महाराज ! हम साधारण जन आपकी वीरता के विषय में क्या कहें ?
आप विनोद के लिए भी अपनी भ्रुकुटियों को टेढ़ी कर और आखों को लाल करके
अपने भुजदण्ड को जिस क्षण देखते उसी क्षण आप के भय से पलायमान शत्रु-
राजाओं के हीरे-मोती की छटाओं से अत्यन्त आकर्षक दिखने वाले हजारों
१. यद्यपि शब्दगुण का अस्तित्व उदाहरण-पद्य में ही है, उसके अनुवाद में
नहीं, तथापि हिन्दी-टीका में शिष्यावबोधार्थं अनुवाद हीं दिया गया है ।
अन्य विषय के उदाहरणों में भी यथासम्भव यही समझना चाहिए ।

२०४ रसगङ्गाधरः
अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रूशब्दान्त गाढत्वम्, पुनर्नयनेत्यन्तं
प्रथममित्यादि बोध्यम् ।
उपक्रमादासमाप्ते रीत्यभेदः समता ॥
यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र ह्युपनागरिकयैवोपक्रमोपसंहारी ।
संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ॥
मात्मरक्षार्थं केचिद् विन्ध्यारण्य गताः, अन्ये तत्रत्यगिरिगुहामनुप्रविष्टाः, इतरे
तदरण्यस्थेषु गृहेषु मुन्यादीनामुटजेषु निलीनाः, एके पुनस्तदीयवृक्षानारूढा इति
तात्पर्यम् । अत्र च पश्यतीत्यत्र सतिसप्तम्या पलायनक्रियाया आक्षिप्यमाणाया
एव दर्शनक्रियासमकालिकत्वप्रतीतेः तत्कालमित्यनेन न पौनरुक्त्यम् । दर्शनसम-
कालं चोल्लासनक्रियाया असम्भवादतिशयोक्तिस्तद्वर्णनेनाभिव्यज्यते ।
अत्र प्रसादमुपपादयति—अत्रे त्यादिना । प्रथमं शैथिल्यम् ।
समतां लक्षयति—उपक्रमादिति । आरम्भादित्यर्थः । उपनागरिका वैदर्भी-
रीतिः । एवमेव उपक्रमात्समाप्तिपर्यन्तं बन्धे यदि गौडी यदि वा पाञ्चाली रीति-
स्तदापि गुणोऽयं निर्वहति । अतश्च रीतिभेदाद्बन्धस्यापि त्रैविध्यं फलति—मृदु-
वर्णविन्यासयोनिः, स्फुटवर्णविन्यासयोनिः, मिश्रवर्णविन्यासयोनिश्चेति । एतेषामेव
क्रमेण मृदुः, स्फुटः, मध्यम इति च व्यपदेशः । वैदर्भी, गौडी, पाञ्चाली चेति
क्रमेण तिस्रो रीतय उपनागरिका, परुषा, कोमला चेति व्यपदिश्यन्ते ।
माधुर्यस्य लक्षणमाह—संयोगेत्यादि । संयोगः परो येभ्यस्ते ह्रस्वास्तदति-
रिक्तेत्यादिरर्थः । संयोगश्चात्र परसवर्णाऽन्निष्पन्नहल्घटितो, ग्राह्यः, ईदृशस्यैव
आभूषणों के समूह से विन्ध्यवन, वहां की गुफाएं, वहां की झोपड़ियां और वहां
के वृक्ष चमक उठते ॥"
इसका तात्पर्य यही है कि शत्रु-राजा पल भर के लिए भी आपका सामना
नहीं कर पाते अपि तु आपके क्रुद्ध होने की थोड़ी आशङ्का होने पर भी भाग खड़े
होते । इस पद्य में 'यस्मिन्' तक शिथिलता 'धराखण्डल•••••••भ्रू' तक गाढ़ता,
'शोणनयने' में पुनः शिथिलता और 'भ्रूमण्डलम्' में पुनः गाढ़ता के होने से उपरि-
लक्षित 'प्रसाद' गुण विद्यमान है ।
प्रारम्भ से अन्त तक रीति (=शैली) की एकता को 'समता' कहते ।
इसका उदाहरण 'माधुर्य' गुण का दिया जाने वाला उदाहरण—'नितरां
परुषा•••' हीं है, क्योंकि इस पद्य में आरम्भ से अन्त तक उपनागरिका—वैदर्भी
रीति हीं उपलब्ध है ।
संयोग के पूर्ववर्त्ती ह्रस्व स्वरों से भिन्न वर्णों से घटित होने और पदों के
दीर्घसमास से रहित होने को "माधुर्य' - नामक गुण कहा जाता ।

प्रथमाननम् २०५
यथा—
नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥
अपरुषवर्णघटितत्वं सुकुमारता ॥
प्रतिषेधवर्णनात् । परसवर्णनिष्पन्नहल्घटितस्तु संयोगो न प्रतिकूलः अपि तु
मधुररसानुकूल एवेति वक्ष्यते । अत्र च माधुर्ये यादृशः संयोगो वर्जनीयस्तोऽपि
वक्ष्यमाणः । पृथक्पदत्वं श्लेषवद्दीर्घसमासाभावः ।
नितरामित्यादि । हे कामिनि ! यदि तव अनुकम्प्यानामङ्गानां कोमलता
विभाव्यते तर्हि सरोजमाला अपि तदपेक्षया परुषा कठोरैव प्रतीयते, मृणालान्यपि
विचारे पेशलानि रम्याणि न प्रतीयन्ते । एवमुभयेषां कठोरत्वनिर्णये कृते पल्लवानां
सम्बन्धिनी या कोमलता तद्विषयिणी कथाऽपि का नाम ? न कापि, तुच्छेत्यर्थः ।
तवाङ्गकानामित्यत्र 'ङ्ग' इत्यस्य परसवर्णनिष्पन्नहल्घटितसंयोगत्वेन तत्पूर्वस्य
आकारस्य च ह्रस्वत्वाभावेन पल्लवशब्दे च 'ल्ल' इत्यस्य परसवर्णनिष्पन्नहल्घटितत्वेन
न दोषः । अत्र 'संयोगश्चात्र परसवर्णानिष्पन्नहल्घटित एव ग्राह्यः' इति मर्मप्रकाशे
मुद्रितः पाठो भ्रष्टः । अत एवैतदनुरोधेन चन्द्रिका-रसचन्द्रिकयोः कृतं व्याख्या-
नमयुक्तम् ।
अपरुषेत्यादि । वर्णानां द्वितीयचतुर्थौ टवर्गादयश्च परुषा वर्णा वक्ष्यन्ते ।
तद्भिन्ना वर्णा अपरुषाः कोमला इत्यर्थः ।
यहां संयोग वही लिया जाता जो 'परसवर्ण' ( सन्धि-विशेष ) से निष्पन्न हल्
( व्यञ्जन ) से भिन्न व्यञ्जन से बना हुआ हो । यह विषय माधुर्य गुण के
अभिव्यञ्जक के वर्णन के प्रसङ्ग में स्पष्ट किया जायेगा । माधुर्य का उदाहरण
'नितरां...' आदि पद्य में देखा जा सकता है—
"अरी प्रियतमे ! जब तेरे अङ्गों की कोमलता के बारे में सोचता तो कमल-
पंक्ति भी उनकी अपेक्षा अत्यधिक कठोर प्रतीत होती ; विसतन्तु तो इस प्रसङ्ग में
विचार-योग्य भी नहीं । जब कमल-पंक्ति और विसतन्तु की कोमलता भी तेरे
अङ्गों की कोमलता के आगे तुच्छ हैं तो फिर पल्लवों की ( कोमलता की ) तो
चर्चा करना ही व्यर्थ है ।"
इस पद्य में न तो परसवर्ण-सन्धि से निष्पन्न व्यञ्जन से भिन्न व्यञ्जनों का
संयोग हैं और न दीर्घसमास हीं । अतः उपर्युक्त लक्षणानुसार 'माधुर्य' गुण
स्पष्ट है ।
टकार-आदि कठोर वर्णों से घटित न होना हीं रचना या बन्ध की
'सुकुमारता' है ।

२०६ रसगङ्गाधरः
यथा—
स्वेदाम्बुसान्द्रकणशालिकपोलपालि-
दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति स्मरणेन काऽपि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥
अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यमपि ।
झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ॥
यथा ‘नितराम्’ इत्यादौ ।
स्वेदाम्बित्यादि । मदिरेक्षणायाः प्रेयस्याः कापि विलक्षणा रम्या या दशा
स्वेदाम्बुनो घर्मजलस्य सान्द्रैः कणैर्विन्दुभिः शालिन्यां शोभमानायां कपोलपालौ
दोलायिताभ्यां श्रवणकुण्डलाभ्यां वन्दनीया सा स्मरणेन मे मनसि आनन्द-
मङ्कुरयति । अत्र पद्ये ‘मनसि’ इति अपार्थम् । ‘रम्या दशा मयि परं...’
इति पठनीयम् ।
पूर्वार्धे इति । सुकुमारतेति शेषः । पूर्वार्धे दीर्घसमासान्माधुर्याभाव इत्यत्र
उत्तरार्धे सुकुमारतया माधुर्यस्यापि समुच्चय उक्तः । अत्रोपधेयसङ्करेऽप्युपाधीना-
मसाङ्कर्यं बोध्यम् ।
झगितीत्यादि । झगिति शीघ्रम्, प्रतीयमानोऽर्थानां पदार्थानामन्वयो यत्र बन्धे
स झगितिप्रतीयमानार्थान्वयकस्तस्य भाव इत्यर्थः । यत्राविलम्बेन वाक्यार्थबोध-
स्तत्रार्थव्यक्तिर्गुण इत्याशयः ।
जैसे—‘स्वेदाम्बु...’ आदि पद्य में
"मतवाली आँखों वाली रमणी की वह रमणीय दशा, जो पसीने की घनी
बूंदों से भरे उसके गालों पर झूलते कुण्डलों के कारण अत्यन्त अभिनन्दनीय और
पूर्णरूप से वर्णनातीत है, स्मरणमात्र से मेरे मन में आनन्द को अङ्कुरित कर
रही है ।।"
इस पद्य के पूर्वार्द्ध में उपरलिक्षित ‘सुकुमारता’ है जबकि उत्तरार्ध में ‘सुकु-
मारता’ के साथ-साथ माधुर्य गुण भी है। पूर्वार्द्ध में दीर्घसमास के कारण माधुर्य
गुण के लिए अपेक्षित ‘पृथक्पदत्व’ के अभाव में ‘माधुर्य’ मानना सम्भव नहीं ।
पदों के अर्थों का शीघ्र अन्वित हो जाना हीं ‘अर्थव्यक्ति’ गुण है ।
इसका भी उदाहरण ‘माधुर्य’ के उदाहरण के रूप में पूर्वनिर्दिष्ट ‘नितरां परुषा
सरोजमाला...’ इत्यादि पद्य हीं हैं ।

प्रथमाननम् २०७
कठिनवर्णघटनास्वरूपविकटत्वलक्षणोदारता ॥
यथा—
प्रमोदभरतुन्दिलप्रमथदत्ततालावली-
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि ।
ललाटतटविस्फुटन्नवकूपीटयोनिच्छटो
हठोद्धतजटोद्भटो गतपटो नटो नृत्यति ॥
‘पदानां नृत्यत्प्रायत्वं विकटता’ इति काव्यप्रकाशटीकाकारा व्याच-
क्षते । उदाहरन्ति च—‘स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमा-
कठिनेत्यादि । कठिना वर्णाः टकारादिरूपाः । विकटत्वं लक्षणं स्वरूपं यस्याः
सा । तथा च बन्धस्य विकटतैव उदारता, विकटतायाश्च स्वरूपं कठिनवर्ण-
घटितत्वम् पण्डितराजमते ।
प्रमोदेत्यादि । प्रमोदभरेणानन्दातिशयेन तुन्दिलै रुत्फुल्लोदरैरट्टहासं कुर्वद्भिः
प्रमथैर्गणैर्दत्ताभिस्तालावलीभिर्विनोदशीले अत एव डमरुं डिण्डिमं च वादयति
विनायके सति ललाटतटाद्विस्फुटन्ती नवस्य सद्यःप्रज्वलितस्य कृपीटयोनेरग्नेश्छटा
यस्य अथ च हठेन उद्धताभिर्जटाभिरुद्भटो विकटो गतपटः स्रस्तवासा नटः शिवो
नृत्यति-इति पदार्थः । अत्रोदारतायाः प्रोक्तलक्षणसङ्गतिः स्पष्टैव ।
सम्प्रति वामनाभिमतं काव्यप्रकाशटीकाकृद्विश्वनाथाद्यनुमोदितं विकटता-
लक्षणं खण्डयति-पदानामित्यादिना । नृत्यत्प्रायत्वम् इति । यस्मिन् विन्यासे
कृते पदानि नृत्यन्तीव उच्चावचानीव श्रवणादौ प्रतीयन्त इत्यर्थः । स्वचरणेत्याद्यु-
दाहरणं वामनेनैव पूर्वं प्रदत्तम् । अत्र ‘झण्’ इति नूपुरशब्दानुकरणम् । अत एव
‘झटिति’ इति क्वचिन्मुद्रितः पाठोऽयुक्तः । एतादृश्याम् = पदानां नृत्यत्प्रायतारूपायां
रचना की विकटता, अर्थात् टकार आदि कठोर वर्णों से घटित होना,
'उदारता' नामक शब्दगुण है ।
उदाहरण ‘प्रमोदभर ...’ आदि पद्य में देखिए—
“आनन्दातिरेक से अट्टहास करने के कारण फूले हुए उदरों वाले शृङ्गी आदि
गण द्वारा दी गयी तालियों से प्रमुदित गणेश डमरु और डिण्डिम नामक वाद्य-यन्त्र
बजा रहे हैं और दिगम्बर नटराज शिव, जिनके लालट-तट से सद्यःप्रज्वलित अग्नि
की ज्वाला निकल रही है और जो नृत्तमग्न होने के कारण जटा के ऊपर उठ जाने
से बड़े ही विकट भयङ्कर दिख रहे हैं, नाच रहे हैं ॥”
( वामन और) काव्यप्रकाश के विश्वनाथ-प्रभृति टीकाकार पदों की नृत्यत्-
प्रायता-ऐसी रचना जिसमें पद नाचते-से प्रतीत होते हों-को विकटता (= उदारता)

२०८ रसगङ्गाधरः

सीत्' इत्यादि। तत्र तेषामेतादृश्यां विकटत्वलक्षणायामुदारतामोजस्यन्तर्भा-
वयन् काव्यप्रकाशकारः कथमनुकूल इति त एव जानन्ति। न ह्यत्रौजसो
वैपुल्येन प्रतिभानमस्ति। 'विनिविष्टैर्नूपुरैर्नर्तं'—इत्यत्र सन्नप्योजसो
लवो न चमत्कारी। नापि तत्र नृत्यत्प्रायत्वं वर्णानामनुभवन्ति सहृदयाः।
अंशान्तरे तु माधुर्यमेव।


विकटतालक्षणायामुदारतायाम्। एतादृशीमित्यपपाठः, तैर्वणिताया उदारतायाः
काव्यप्रकाशकारेणौजस्यन्तर्भावाऽकरणात्तथाविधाया अन्तर्भावक्रियाकर्मत्वानुपपत्तेः।
अथवा एतादृशामिति पठनीयम्। यद्वा शब्दगुणत्वेनाभिमतामित्यर्थं कृत्वा कथञ्चिद्
द्वितीयान्तपाठस्यापि सङ्गतिः कर्त्तव्या। कथमनुकूल इति। ओजःपर्याय-
भूतत्वाद्विकटताया ओजसि च पदानां नृत्यत्प्रायत्वस्य सर्वत्राभावात्तदभिन्ना विकटता
न तादृशी मन्तुं शक्यते मम्मटेनेत्यर्थः। तथा चैते टीकाकारा मूलविरुद्धा एवेति
नादरणीयाः। ननु ओजस्यन्तर्भावो विकटतालक्षणोदारताया न तदभिन्नतयाऽपि
तु तद्विशेषतयैवेत्यतः खण्डनयुक्त्यन्तरमाह—न वैपुल्येनेति। स्वचरणेत्यत्र
झणिति रणितमासीदित्यादौ चौजसोऽभावादिति भावः। लव इत्युक्तिरोजसोंऽशाव-
स्थितिमभिप्रेत्य। न चमत्कारीति। प्रकृतरसानुकूलत्वमत्र हेतुः। अंशान्तरे=
स्वचरणेत्यादौ।


कहते। इसका उदाहरण उन्होंने निम्नलिखित पद्यार्ध को दिया है—
स्वचरणविनिविष्टैर्नूपुरैर्नर्तंकीनां
झणिति रणितमासीत्तत्र चित्रं कलञ्च॥
किन्तु विकटतास्वरूप उदारता का ओजोगुण में अन्तर्भाव करने वाले काव्य-
प्रकाशकार का नृत्यत्प्रायतास्वरूप विकटता कैसे अभिमत हो सकती है? कारण
यह है कि काव्यप्रकाशकार इस विकटतास्वरूप उदारता को ओजोगुण से अभिन्न
मानते; ओजोगुण में सर्वत्र पदों की नृत्यत्प्रायता नहीं देखी जाती, अतः ओज से
अभिन्न विकटता में भी सर्वत्र नृत्यत्प्रायता न होने से उपर्युक्त व्याख्या मूलानुकूल
नहीं है, अतः उपेक्षणीय है। यदि तु उक्त अन्तर्भाव का उपपादन विकटता को
ओजोगुण से अभिन्न नहीं अपितु उसका एक विशेष प्रकार मानकर किया जाय
(यही उचित भी है) तो भी उक्त व्याख्या संगत नहीं है, क्योंकि उनके द्वारा प्रस्तुत
उदाहरण में भी सभी पदों में नृत्यत्प्रायता तो है नहीं। हां, 'विनिविष्टैर्नूपुरैर्नर्तं'
इस अंशमात्र में नृत्यत्प्रायता का प्रतिभास होता। किन्तु इस नृत्यत्प्रायतास्वरूप
ओज को (काव्यप्रकाशकार के मतानुसार) चमत्कारजनक न होने से गुण कहना
कहां तक संगत है—यह विचारणीय है। इसके चमत्कारजनक न होने का कारण यही
है कि उदाहरण में वीर आदि रसों की अभिव्यक्ति न होने से यह ओज रसानुकूल

प्रथमाननम् २०९
संयोगपरह्रस्वप्राचुर्यरूपं गाढत्वमोजः ॥
यथा—
साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः ।
तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥
यथा वा 'अयं पततु निर्दयं' इत्यादिप्रागुदाहृते ।
संयोगेत्यादि । संयोगश्चात्र परसवर्णनिष्पन्नहल्भिन्नहल्घटितो ग्राह्यः । अत्र
'संयोगश्च परसवर्णनिष्पन्नो ग्राह्यः' इति व्याचक्षाणा रसचन्द्रिका चिन्त्या । एवमेव
माधुर्यव्याख्यानान्तर्गताऽपि । इयं हि व्याख्या मर्मप्रकाशस्यपाठभ्रंशमूलिकैवेति
प्रागावेदितम् । प्राचुर्यं चैकाधिकत्वमतो द्विःप्रयोगेऽपि तत्त्वमक्षतम् ।
साहङ्कारेत्यादि । हे भूमीभूषण वसुधालङ्कारभूत राजन् ? साहङ्कारा या
सुराणामसुराणाञ्चावलिस्तस्याः करैराकृष्टत्वादभ्रमता मन्दरेण क्षुभ्यतः क्षीरब्धेः
समुद्रस्य वीचिवलयानां श्रिय उज्ज्वलताया गर्वस्य सर्वंकषाः पूर्णतयाऽपहारिकाः,
अथ च तृष्णया ताम्यद्भिराकुलैरमन्दानां तापसानां कुलैः सानन्दं सुधास दृश्यादा-
लोकिता भवतः कीर्तयो भुवनस्य आभोगं विस्तारं भूषयन्ति । कस्यचिद्राज्ञः स्तुति-
रियम् । ‘भूमी’ इति ‘कृदिकारादक्तिनः’ इति विकल्पेन ङीप्प्रत्यये रूपम् ।
शब्दशक्तिमूलध्वनिप्रसङ्गे विशेषोऽत्र वक्ष्यते । अयं पतत्वित्यादि । नवोच्छलि-
नहीं है । इसके अतिरिक्त यह भी सत्य है कि सहृदयों को 'विनिविष्टैर्नूपुरैर्नृत्तं'
इस अंश में भी नृत्यत्प्रायता का अनुभव नहीं होता, 'स्वचरण' आदि अंशों में तो
नृत्यत्प्रायता के विपरीत 'माधुर्य' का ही अनुभव होता । अतः न तो उदाहरण हीं
उपयुक्त है और न उपर्युक्त व्याख्या हीं ।
परसवर्ण-निष्पन्न व्यञ्जन से भिन्न व्यञ्जनों से घटित संयोगों से पूर्ववर्त्ती
ह्रस्व स्वर की रचनागत प्रचुरता को हीं 'ओज' कहते ।
उदाहरणार्थ 'साहङ्कार०' आदि पद्य द्रष्टव्य है—"हे महाराज ! अहङ्कारपूर्ण
देव-दानवों के समूह द्वारा आकृष्ट होने से तीव्र गति से घूमते हुए मन्दराचल द्वारा
आलोडित (= उन्मथित) क्षीरसमुद्र की रम्य तरङ्गों के समूह के सौन्दर्याभिमान को
समूल विनष्ट कर देने वाली और पिपासाकुल उत्तम तपस्वियों द्वारा स्वच्छ सुधा
के भ्रम से आनन्दपूर्वक देखी जाने वाली आपकी उज्ज्वल कीर्तिराशि समस्त ब्रह्माण्ड
को प्रकाशित कर रही है ।"
इसका दूसरा उदाहरण रौद्ररस के उदाहरण के रूप में पूर्वनिर्दिष्ट (नवोच्छ-

२१० रसगङ्गाधरः
अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु
लोकोत्तरशोभारूपमोज्ज्वल्यं कान्तिः ॥
यथा 'नितराम्' इत्यादिप्रागुदाहृते ।
बन्धगाढत्वशैथिलत्वयोः क्रमेणावस्थापनं समाधिः ॥
अनयोरेव प्राचीनैरारोहावरोहव्यपदेशः कृतः । क्रम एव हि तयोः प्रसा-
तेत्यादिरौद्रोदाहरणभूतस्य पद्यस्योत्तरार्धमिदम् । तत्राप्योजः । उत्तरार्धमुपलक्षणं
सम्पूर्णस्य पद्यस्य । पादपृथक्त्वे तु द्वितीयं पादमपहाय । अत्र च परसवर्णनिष्पन्न-
हल्भिन्नहल्घटितसंयोगमादाय लक्षणसमन्वयो बोध्यः ।
वामनोक्तं कान्तिलक्षणं परिष्कृत्याह—अविदग्धेत्यादि । अविदग्धा अरसिका
ये वैदिकादयस्तेषां प्रयोगयोग्यानि यानि पदानि तेषां परिहारेण—तानि पदानि
परित्यज्य प्रयुज्यमानानि यानि सहृदयसुलभानि पदानि तेषु—इति रूपेणार्थोऽवसेयः ।
पदेषु शोभाया लोकोत्तरत्वं नाम तत्तद्रसानुकूलवर्णमात्रघटितत्वम् ।
बन्धगाढत्वेत्यादिना समाधिं लक्षयति । अनयोः=गाढत्वशैथिल्ययोः ।
प्राचीनैः=वामनादिभिः । व्यपदेश इति । तथा च वामनः—'आरोहावरोहयोः
क्रमः समाधिः' इति । क्रम एवेत्यादि । वामनस्तु आरोहपूर्वमवरोहमवरोहपूर्वं
लित० इत्यादि पद्य का उत्तरार्ध )
“अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥”
पद्यार्ध भी है । वस्तुतः पूर्ण पद्य हीं उदाहरण के रूप में विवक्षित है, द्वितीय
पाद में संयोगप्राचुर्य न होने पर भी पूर्वार्धघटक प्रथम पाद को लेकर द्वितीय पाद
को भी उदाहरणान्तर्गत माना जा सकता है । पृथक्-पृथक् पाद की विवेचना
करने पर तो प्रथम, तृतीय और चतुर्थ पादों का हीं उदाहरणत्व उपपन्न होगा ।
वैदग्ध्यरहित वैदिक-मीमांसकादि द्वारा प्रयोग करने योग्य पदों से भिन्न
( कवि द्वारा प्रयुज्यमान ) पदों के अलौकिक सौन्दर्य, जिसे पदों की उज्ज्वलता
भी कहा जाता, को 'कान्ति' कहते हैं ।
'माधुर्य' गुण का उदाहरणभूत 'नितरां परुषा सरोजमाला' इत्यादि पद्य में
'कान्ति' नामक गुण भी विद्यमान है ।
रचना में क्रमशः गाढ़ता और शिथिलता का होना हीं 'समाधि' नामक शब्द-
गुण है ।
गाढ़ता और शिथिलता को हीं वामन ने क्रमशः आरोह और अवरोह कहा है ।

प्रथमाननम् २११
दादस्य भेदकः । तत्र हि तयोर्व्यत्क्रमेण वृत्तेः ।
यथा-
स्वर्गनिर्गतनिरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम् ।
केवलाऽमृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम् ॥
अत्रारोहः प्रथमेऽर्धे ! तृतीयचरणे त्ववरोहः । गङ्गेत्यादौ माधुर्यस्य
चारोहमिहोदाहरति, तत्र च प्रसादेन साङ्कर्यमित्यतः पण्डितराजेनान्यथा
व्याख्यातम् । अत्र वामनग्रन्थे कश्चन विशेषो वर्णितस्तत एवावधेयः । अत्रापि पर-
सवर्णजन्यहल्भिन्नहल्घटितसंयोगमादाय समन्वयः कर्त्तव्यः ।
स्वर्गनिर्गतेत्यादि । कस्यचिद्विदुषो वर्णनमिदम् । यस्य विदुष आस्य-
सरोजम् = मुखकमलम्, स्वर्गान्निर्गताया निरर्गलाया गङ्गायास्तुङ्गैर्भङ्गुरैश्च
तरङ्गैः सदृशानां केवलस्यामृतस्य वर्षकाणां वचनानां लास्यगृहं नृत्यशाला वसंत
इत्यर्थः । केवलममृतं मुञ्चन्तीति क्विपि षष्ठीबहुवचनान्तं केवलामृतमुचामिति ।
अत्र वचनोपमानभूतानां तरङ्गाणां 'भङ्गुर' इति विशेषणं वचनेषु भङ्गियुक्तत्व-
प्रत्यायकत्या कथञ्चिद् व्याख्येयम्, अन्यथा वैरस्यापादकं स्यात् । अथवा
तुङ्गभङ्गुरत्यनेनोच्चावचत्वं प्रतिपादयतो विदग्धमुखाम्बुजेऽपि वचनानामुच्चावचत्वं
गाढत्वशैथिल्यवैशिष्ट्यरूपमभिप्रेतमिति व्याख्येयम् ।
तृतीयचरणेति । अत्र 'तृतीयचरण इति बहुव्रीहिः । द्वितीयेऽर्धे इत्यर्थः' इति
मर्मप्रकाशो युक्त एव, चतुर्थचरणे संयोगपरह्रस्वस्य यस्य-पदस्थयकारोत्तराकारमात्रे
सत्त्वेऽपि प्राचुर्याभावात्, अन्ययोश्च संयोगपरत्वेऽपि ह्रस्वत्वाभावात्पण्डितराजानु-
सारेण गाढत्वरूपारोहानुपपत्तेः । 'उत्तरार्धे तु सोऽपि' इत्यनेन स्वयमपि वक्ष्यत्येतत् ।
अतो यदुक्तं चन्द्रिकायाम् - 'इह तृतीयचरणे इत्यत्र बहुव्रीहिरिति केषाञ्चिद्
'प्रसाद' और 'समाधि' में गाढ़ता और शिथिलता का क्रम-भेद - 'समाधि' में
पहले गाढ़ता और पश्चात् शिथिलता जब कि 'प्रसाद' में पहले शिथिलता और
पश्चात् गाढ़ता का अवस्थान-हीं दोनों में परस्पर भेद का साधक है ।
इसका एक उदाहरण 'स्वर्गनिर्गत०' आदि पद्य है-
'ये ऐसे विलक्षण विदग्ध विद्वान् हैं जिनका मुखकमल स्वर्ग से निकल कर
अबाध गति से बहने वाली गङ्गा की ऊँची-नीची तरङ्गों का मित्र (अर्थात्
उन तरङ्गों के समान) और केवल अमृत बरसाने वाली वाणी (स्वरूप-नर्त्तकी)
की नृत्यशाला है ॥"
इस पद्य के प्रथमार्ध में तो आरोह-गाढ़ता है जब कि तृतीयचरणघटित उत्तरार्ध
में अवरोह - शिथिलता है। यद्यपि पूर्वार्ध के 'गङ्गातुङ्गभङ्गुरतरङ्ग' अंश में
१६ र०

२१२ रसगङ्गाधरः
व्यञ्जकेषु वर्णेषु सत्स्वपि दीर्घसमासान्तःपातितया न तस्य प्ररोहः । उत्तरार्धे
तु सोऽपि । एते दश शब्दगुणाः ॥
एवम्—
क्रियापरम्परया विदग्धचेष्टितस्य तदस्फुटत्वस्य तदुपपादकयुक्तेश्च
सामानाधिकरण्यरूपः श्लेषः ॥
विवरणं चिन्त्यम्, बहुव्रीहिणा तस्योत्तरार्धपरत्वाभ्युपगमे तद्घटकचतुर्थचरणे
बन्धशैथिल्याप्रतीतेर्लक्षणसमन्वयाऽसम्भवात्' इति तच्चिन्त्यम् । अत एव सरलाप्येवं
वर्णयन्ती सरलैव । अतो यत्पुनरुक्तं रसचन्द्रिकायाम्—'सरला तु चतुर्थचरणेऽवरोहं
नानुभवति । तत्सत्यम्, तृतीयचरणमपेक्ष्य नावरोहः, परं प्रथमार्धमपेक्ष्य द्वितीयार्धेऽव-
रोहमनुभवन् मर्मप्रकाशः प्रायो नाऽसमीचीन इति प्रतिभाति' इति तदप्य-
किञ्चित्करम् । माधुर्यलक्षणे संयोगस्य परसवर्णनिष्पन्नहल्भिन्नहल्घटितत्वस्योक्त-
त्वाद्वितीयचरणे कथं न माधुर्यस्यारोह इत्याशङ्कां निराचष्टे—गङ्गेत्यादावि-
त्यादिना । दीर्घसमासेत्यादि । एतेन माधुर्यार्थमपेक्ष्यमाणस्य पृथक्पदत्वस्या-
भावोपपादनम् । न प्ररोह इति । प्ररोहः = प्रकर्षः । समासघटकतया द्वितीयचरणस्य
प्रथमपादेन गाढत्वप्ररोहवता तथात्वमित्यभिप्रायः । सोऽपि = माधुर्यप्ररोहोऽपि ।
अतश्चोत्तरार्धे समाधिमाधुर्ययोरुभयोः सत्त्वं प्रतिपादितम् । एतावता दशशब्दगुण-
निरूपणं प्राचामनुसारेण परिष्कृत्य कृतम् ।'
अर्थगुणान्निरूपयितुमुपक्रमते—एवमित्यादिना ।
तदस्फुटत्वस्य = विदग्धचेष्टितस्य परेणाप्रतीयमानत्वस्य । तदुपपादकेत्यत्रापि
तत्पदेन विदग्धचेष्टितस्य ग्रहणम् । सामानाधिकरण्यमेकत्र वाक्ये महावाक्ये वा
माधुर्य-व्यंजक वर्ण विद्यमान हैं तथापि दीर्घसमास के कारण माधुर्य-लक्षणघटक
'पृथकपदत्व' का अभाव होने से यहां माधुर्य का उत्कर्ष नहीं माना जा सकता ।
उत्तरार्ध में माधुर्य-विरोधी दीर्घसमासादि लक्षणों के न होने और माधुर्य-व्यंजक
वर्णों के होने से शिथिलता के साथ-साथ माधुर्य का भी उत्कर्ष है ही ॥
इस प्रकार प्राचीन वामनादि द्वारा स्वीकृत दश शब्दगुणों का निरूपण
किया गया ॥
शब्दगुण के समान नाम वाले श्लेष, प्रसाद आदि दश अर्थगुण भी वामनादि
के अभिमत हैं । किन्तु नामसाम्य होने पर भी इनके स्वरूप में भेद है । अतः श्लेष,
प्रसाद आदि दश अर्थगुणों का क्रमशः लक्षण-उदाहरण के साथ निरूपण किया जा
रहा है—
एक के बाद एक क्रिया का निर्देश करते हुए क्रमशः किसी विदग्धजन की
चेष्टा उस चेष्टा की अव्यक्तता और उस चेष्टा के उपपादक युक्तियों का सामाना-

प्रथमाननम् २१३
प्रबन्धघटके निवेशः । प्रबन्धे प्रायेण सर्वत्र, मुक्तके तु क्वचिदेवाय गुणः ।
अस्योदाहरणं पण्डितराजग्रन्थे न दृश्यते । कथञ्चित् परिभ्रष्टमिति प्रतीयते ।
अतो वामनोक्तमुदाहरणं द्रष्टव्यम्—
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपैत्यादराद्
एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासिलसत्कपोलफलकां धूर्त्तोऽपरां चुम्बति ॥
अस्यार्थः—एकस्मिन्नेवासन उपविष्टे प्रियतमे ( द्वितीयाद्विवचने रूपम् ) दृष्ट्वा
धूर्त्तो नायकः पश्चात् पृष्ठदेशत आदरादतर्कितालिङ्गनकौतुकादस्या नायिकायाः
क्रीडानुबन्धच्छलेन नयने पिधाय मनाङ्नमितग्रीवः सरोमोद्गमश्च सन् प्रेमोल्ल-
सन्मानसां रहस्यसंगोपनेच्छया विहितेनान्तर्हासिनोत्फुल्लकपोलफलकां चापरां
नायिकां चुम्बतीति । उभयोर्नायिकयोः प्रियतमेतिनिर्देशात्प्रथमाया अपि चुम्बनादिकं
तेन क्रियत एव । सपुलक इत्युक्त्या पुनर्द्वितीयास्यामनुरागातिशयो द्योत्यते ।
अत्र चैकस्या वञ्चनेनापरस्याश्चुम्बनं विदग्धचेष्टितम्, एकयाऽपरचुम्बनस्याज्ञात-
त्वात्तदस्फुटत्वम्, क्रीडानुबन्धच्छलेन च प्रथमनायिकानयनपिधानादपरस्याश्चुम्बन-
स्योपपादनम् इत्येतत्सर्वं तदनुकूलक्रियापरम्परया पश्चादागमनादिरूपया समान एव
पद्ये ग्रथितमिति श्लेषोऽत्रार्थगुण इति समन्वयप्रकारः ।
धिकरणसम्बन्ध, अर्थात् किसी एक काव्यवाक्य या महावाक्य में वर्णन होना हीं
'श्लेष' नामक अर्थगुण है ।
यह अर्थगुण इसीलिए माना जाता कि उक्त सामानाधिकरण्य चेष्टा आदि
अर्थों का हीं विवक्षित है, तद्वाचक शब्दों का नहीं ।
इसका उदाहरण रसगङ्गाधर में उपलब्ध नहीं है । अतः वामन द्वारा उद्धृत
अमरुक कवि के 'दृष्टैकासनसंस्थिते' इत्यादि पद्य में ही इसका उदाहरण द्रष्टव्य
है । पद्य संस्कृत-टीका में उद्धृत है, इसका अर्थ निम्नलिखित है—
“जब धूर्त नायक ने देखा कि उसकी दोनों ही प्रियतमाएं एक हीं जगह बैठी
हुई हैं और उस स्थिति में उन दोनों में अनुकूलतर प्रियतमा को चूमना उसके लिए
सम्भव नहीं, क्योंकि वैसा करने पर एक प्रियतमा नाराज हो जाएगी तब उसने
उत्कण्ठापूर्वक पीछे जाकर खेल के बहाने उस एक प्रियतमा की आँखें बन्द कर
दीं । फिर धीरे से अपनी गर्दन को कुछ टेढ़ी करके प्रेम से उल्लसित होती हुई
और 'अन्य प्रियतमा कहीं यह रहस्य समझ न ले'—इस भय से भीतर हीं भीतर
हँसने के कारण फूले हुए गालों वाली दूसरी प्रियतमा को रोमाञ्चित होकर उस
( धूर्त्त नायक ) ने चूम लिया ।”

२१४ रसगङ्गाधरः
यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः ॥
यथा--'कमलानुकारि वदनं किल तस्याः' इत्यादि । प्रत्युदाहरणं तु
'कमलकान्त्यनुकारि वक्त्रम्' इत्यादि ।
प्रक्रमाऽभङ्गे नार्थघटनात्मकमवैषम्यं समता ॥
यावदर्थकेत्यादि । यावन्तोऽर्थाः प्रतिपिपादयिषिताः तावतामेव शब्दानां न
न्यूनानां नाप्यधिकानां प्रयोगो यत्र तत्त्वं प्रसाद इत्यर्थः । अर्थेऽन्यूनानतिरिक्तपद-
प्रतिपाद्यत्वं प्रसादोऽर्थगुण इति तात्पर्यम् । इदं च 'अर्थवैमल्यं प्रसादः' इति
वामनोक्तलक्षणस्यैव स्फुटतरं वचनम् ।
कमलकान्तीत्यत्र प्रत्युदाहरणे कान्तिपदमधिकमित्याशयः । वामनेन तु अर्थपुन-
रुक्तावपि प्रत्युदाहरणत्वमङ्गीकृतम् । प्रकृतेऽपि तद् बोध्यम् । तादृशं प्रत्युदाहरणं
च वामनादिग्रन्थेष्वप्योऽविगन्तव्यम् । परन्तु भङ्ग्यन्तरेणार्थस्य पुनरुक्तिर्गुण एव, न
दोष इति कविसम्प्रदायः । वक्ष्यते चैवं माधुर्यं लक्षयता ग्रन्थकृता !
प्रक्रमाऽभङ्गेनेति । येन शब्देनार्थस्याभिधानमारम्भे तेनैव समाप्तिपर्यन्त-
मभिधानम्--समानशब्देनैवोपक्रमप्रभृत्युपसंहारपर्यन्तं प्रतिपाद्यमानत्वमर्थस्य समतेति
भावः । उद्देश्यस्यैक्येऽभिन्नेनैव पदेनोपादानं तस्य विशेषेणापेक्ष्यते, विच्छित्त्या-
एक को धोखा देकर दूसरी को चूमना विदग्धचेष्टित है, यह विदग्धचेष्टित
जिसकी आँखें बन्द हैं उसके लिए अव्यक्त भी है और पीछे से आकर एक की
आँखें बन्द कर देना इस विदग्धचेष्टित का उपपादक है । इस प्रकार एक ही पद्य में
चुम्बन-क्रिया द्वारा विदग्धचेष्टित का, खेल करने का बहाना करने की क्रिया द्वारा
उस विदग्धचेष्टित की एक नायिका के लिए अव्यक्तता का और पीछे से आकर
आँखें बन्द कर देने की क्रिया से उस विदग्धचेष्टित चुम्बन का उपपादन किये जाने
से यहाँ पूर्वलक्षित 'श्लेष' गुण की स्थिति स्पष्ट है ।
अर्थ की विमलता--स्पष्टता, अर्थात् प्रतिपाद्य अर्थ का प्रतिपादन करने
के लिए जितने शब्द आवश्यक हों उतने ही शब्दों द्वारा, उनसे कम या अधिक
शब्दों द्वारा नहीं, अर्थ-प्रतिपादन किया जाना 'प्रसाद' नामक अर्थगुण कहलाता ।
जैसे--'उस नायिका का मुख कमल का अनुकरण करने वाला, अर्थात् कमल-
सदृश मनोहर है" इस वाक्य द्वारा वर्णित अर्थ में 'प्रसाद' गुण है । इसके विपरीत,
'उस नायिका का मुख कमल की कान्ति का अनुकरण करने वाला है" इस वाक्य
में वर्णित अर्थ में 'प्रसाद' गुण नहीं है, क्योंकि इस वाक्य में विवक्षित अर्थ के
प्रतिपादन के लिए आवश्यक शब्दों से अधिक 'कान्ति' शब्द प्रयुक्त है ।
विवक्षित एक अर्थ का जिस शब्द से वर्णन के प्रारम्भ में प्रतिपादन किया गया