रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 231, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् १९१
चित्याच्च । अथ शृङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत् ? एवं तर्हि
द्रुत्यादिचित्तवृत्तिप्रयोजकत्वम्, प्रयोजकतासंबन्धेन द्रुत्यादिकमेव वा माधुर्या-
मानाभावात्तदित्यनेनोक्तम्' इति, तदयुक्तम्, रसाभासेऽपि द्रुत्यादेः कविसम्प्रदायप्रसिद्ध-
त्वात् । अत एव विश्वनाथेनात्र प्रसङ्गे रसपदेन रसाभासस्यापि ग्रहणं कण्ठत
एवोक्तम् । किञ्च भक्तिरसमनङ्गीकुर्वतः पण्डितराजस्य मते रसतामप्राप्तायामपि
भगवद्विषयिण्यां रती द्रुतेः स्वीकारादपि तद् विरुद्धमेवेत्यलम् । इदमत्रावधेयम्—
अत्र–माधुर्यादयो न वैशेषिकपरिभाषिता गुणाः, अपि तु तद्विलक्षणा एव सहृदयैकान्तु-
भवसाक्षिकाः कविसम्प्रदायसिद्धा इति वैशेषिकसमयेन न किमपि प्राचां हीयते ।
किञ्च दर्शनान्तरे गुणे गुणाङ्गीकारो