रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
१७० रसगङ्गाधरः
शृङ्गारहास्ययोः, वीराद्भुतयोः, वीररौद्रयोः, शृङ्गाराद्भुतयोश्चाविरोधः ।
शृङ्गारबीभत्सयोः, शृङ्गारकरुणयोः, वीरभयानकयोः, शान्तरौद्रयोः,
शान्तशृङ्गारयोश्च विरोधः । तत्र कविना प्रकृतंरसं परिपोष्टुकामेन
तदभिव्यञ्जके काव्ये तद्विरुद्धरसाङ्गानां निबन्धनं न कार्यम् । तथा हि
सति तदभिव्यक्तौ विरुद्धः प्रकृतं बाधेत । सुन्दोपसुन्दन्यायेन वोभयो-
रुपहतिः स्यात् । यदि तु विरुद्धयोरपि रसयोरेकत्र समावेश इष्यते तदा
विरोधं परिहृत्य विधेयः । तथा हि-- विरोधस्तावद्विविधः - स्थितिविरोधो
ज्ञानविरोधश्च । आद्यस्तदधिकरणवृत्तितारूपः । द्वितीयस्तज्ज्ञानप्रतिबध्य-
स्वयमेव वक्ष्यति । बाधेतेति । दुर्बलं प्रबल इति भावः । समबलत्वे तूभयो-
र्विरोधिनोराह-सुन्दोपसुन्देत्यादि । तदधिकरणेत्यादि । अयमेवैकाधिक-
रण्यविरोधीत्युक्तः पूर्वाचार्यैः । तज्ज्ञानेत्यादि । एकस्य ज्ञानेन प्रतिवद्धमव्यव-
हितोत्तरकालिकं ज्ञानं यस्य तत्त्वं लक्षणं यस्य विरोधस्य स तथेत्यर्थः । अयमेव
अतः शास्त्रकारों ने जो भक्ति को रस न मानते हुए केवल नौ रस कहे हैं वही
उचित है ।।
उक्त नौ रसों में कुछ रसों का परस्पर-विरोध और कुछ का अविरोध है । वीर
और शृङ्गार का, शृङ्गार और हास्य का, वीर-अद्भुत का, वीर-रौद्र का तथा
शृङ्गार-अद्भुत का परस्पर कोई विरोध नहीं है । इनके विपरीत शृङ्गार-बीभत्स
का, शृङ्गार-करुण का, वीर-भयानक का, शान्त-रौद्र का तथा शान्त-शृङ्गार का
परस्पर-विरोध है । अत कवियों को चाहिए कि वे अपने काव्यों में यदि मुख्य रस
की परिपुष्ट अभिव्यक्ति करना चाहें तो मुख्यरस की अपेक्षा उसके विरोधी रस
के अभिव्यञ्जक विभावादि का उत्कृष्ट वर्णन न करें, क्योंकि वैसा करने पर
प्रबल विरोधी अङ्ग-रस की अभिव्यक्ति से अङ्गी रस की अभिव्यक्ति बाधित हो
जायेगी । साथ हीं, विरोधी अङ्ग रस की अभिव्यक्ति-सामग्री का अङ्गी रस की
अभिव्यञ्जक-सामग्री के. समान प्रकर्ष से वर्णन भी न करें, क्योंकि इस स्थिति में
भी सुन्द उपसुन्द के समान दोनों की अभिव्यक्ति परस्पर बाधित हो जायेगी । अतः
यदि किसी कवि को अपने काव्य में किन्हीं दो विरोधी रसों की अङ्ग-अङ्गी के रूप में
अभिव्यक्ति करनी हो तो दोनों के विरोध का परिहार करके हीं उनकी अभिव्यक्ति
करनी चाहिए जिससे पूर्वोक्त बाध्य बाधकभाव न हो सके । विरोध-परिहार के
लिए विरोध के स्वरूप का ज्ञान आवश्यक है । अतः विरोध का स्वरूप बतलाया
जा रहा है । रसों का विरोध दो प्रकार का से होता-(क) दोनों की स्थिति में
विरोध और (ख) दोनों के ज्ञान में विरोध । प्रथम में यह होता कि एक के
अधिकरण में दूसरा रह हीं नहीं सकता । दूसरे विरोध में एक के ज्ञान से दूसरे का
प्रथमाननम् १७१
ज्ञानकत्वलक्षणः । तत्राधिकरणान्तरे विरोधिनः स्थापने प्रथमो निवर्तते ।
यथा नायकगतत्वेन वीररसे वर्णनीये प्रतिनायकस्य भयानकस्य । रसपदेनात्र
प्रकरणे तदुपाधिः स्थायिभावो गृह्यते, रसस्य सामाजिकवृत्तित्वेन नायका-
द्यवृत्तित्वात्, अद्वितीयानन्दमयत्वेन विरोधासंभवाच्च ।
उदाहरणम्—
कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस्तव ।
मृगारातेरिव मृगाः परे नैवावतस्थिरे ॥
नैरन्तर्यविरोधीति प्राचीनैरुक्तम् । नैरन्तर्येण ज्ञानासम्भवो यत उभयोः, एकप्रतीत्याऽ-
व्यवहितोत्तरकालिकाया अपरप्रतीतेः प्रतिबन्धादिति हेतोः । प्रथमः = तदधिकरणा-
वृत्तित्वरूपो विरोधः । निवर्त्तत इति । तदुक्तम्—
विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ इति ।
स्थायिभाव इति । रस्यत आस्वाद्यत इति व्युत्पत्तेरित्यर्थः । अयं चार्थः
सर्वसम्मतः । स्थायित्वमपि क्वचिद् वैवक्षिकमेवेत्यपि बोध्यम् । सहृदयकर्तृक-
स्वादविरोधं परिहरति—अद्वितीयेत्यादिना ।
आद्यविरोधपरिहारप्रकारमुदाहरति — उदाहरणमिति । कुण्डलीकृतः कर्णा-
न्ताकर्षणेन कुण्डलवद् वर्तुलीकृतः कोदण्डो धनुर्याभ्यां दोर्भ्यां बाहुभ्यां तावेव दण्डौ
यस्य तस्य तव पुरः परे शत्रवस्तथैव नावतस्थिरे यथा मृगारातेः सिंहस्य पुरो मृगा
ज्ञान प्रतिबन्धित हो जाता । अतः प्रथम विरोध का परिहार करने के लिए दोनों
विरोधी रसों का एकाश्रित वर्णन न कर उन्हें भिन्न-भिन्न आश्रय में वर्णित करना
चाहिए । जैसे —यदि नायक में वीर-रस का वर्णन अभीष्ट हो तो उसके विरोधी
भयानक रस का वर्णन प्रतिनायक में करना चाहिए, नायक में कदापि नहीं । इस
प्रसंग में यह भी ज्ञातव्य है कि रसों का जो विरोध कहा गया है उसमें रस का
अर्थ स्थायिभाव है, क्योंकि रसों में कोई विरोध सम्भव ही नहीं । इसके दो
कारण है—एक तो यह कि रस सामाजिकनिष्ठ होते, नायकादिनिष्ठ नहीं । दूसरे
यह कि सभी रस वस्तुतः परमानन्दस्वरूप हैं, फिर इनमें विरोध हो ही नहीं
सकता—वैसा होने पर तो इनकी आनन्दरूपता हीं ( रसत्व हीं ) निरस्त हो
जायेगी ।
प्रथम विरोध के परिहार का उदाहरण निम्ननिर्दिष्ट है—
"हे राजन् ? जैसे सिंह के समक्ष मृग नहीं टिकते उसी तरह धनुष को पूरी
तरह कुण्डलाकार में ताने हुए बाहुदण्डों वाले आपके समक्ष समराङ्गण में आपके-
१७२ रसगङ्गाधरः
रसान्तरस्याविरोधिनः सन्धिकर्तुरिवान्तरालेऽवस्थापने द्वितीयोऽपि
निवर्तते। यथा मन्निर्मितायामाख्यायिकायां कण्वाश्रमगतस्य श्वेतकेतो-
र्महर्षेः शान्तरसप्रधाने वर्णने प्रस्तुते 'किमिदमनाकलितपूर्वं रूपम्, कोऽयम-
निर्वाच्यो वचनरचनाया मधुरिमा' इत्यद्भुतस्यान्तरवस्थापनेन वरवर्णिनीं
प्रत्यनुरागवर्णने।
यथा वा—
सुराङ्गनाभिराश्लिष्टा व्योम्नि वीरा विमानगाः ।
विलोकन्ते निजान्देहान्फेरुनारीभिरावृतान् ॥
नावतिष्ठन्ते । अत्रोत्साहस्य युष्मदर्थे भयस्य च परपदार्थे शत्रौ वर्णनान्न तयोर्विरो-
धोऽपि तु भयस्योत्साहपरिपोषकत्वमेवेति भावः ।
रसान्तरस्येति । रसान्तरचर्वणया इत्यर्थः। सन्धिकर्तुरिति। वादिप्रतिवादिनो
प्रति पक्षपातरहितस्य तद्द्वयाविरोधिन इत्यर्थः । द्वितीयः = तज्ज्ञानप्रतिवध्यज्ञान-
कत्वरूपो विरोधः । मध्ये च चर्व्यमाण उदासीन उभयोरविरोधी रसो वाक्यार्थो वा
भवेदाक्षेपलभ्यो वा भवेदित्यत्र न विशेषः । आद्यस्योदाहरणं स्वनिर्मिताख्यायिकातो
दत्त्वा द्वितीयस्योदाहरणमाह—यथा वेति । रसस्याक्षेपलभ्यत्वं तद्व्यञ्जकसाम-
ग्र्याक्षेपादुक्तम् ।
निजान् देहान् इत्यस्य मृतान् स्वदेहानित्यर्थः । फेरुनारीभिः = शृगालीभिः ।
उपलक्षणमेतद् गृध्रादेरपि बोध्यम् । एतेनोदाहरणेन द्वितीयोऽयं विरोधो भिन्न-
विरोधी टिक न सके ।।”
इस उदाहरण में राजा में वीर और उसके शत्रुओं में भयानक रस का वर्णन
किये जाने से इन दोनों में कोई विरोध नहीं (अपि तु शत्रुगत भय राजगत उत्साह
का परिपोषक हीं ) है ।
द्वितीय प्रकार के विरोध का परिहार तब हो जाता है जब दो विरोधी
व्यक्तियों के बीच सन्धि कराने वाले मध्यस्थ के समान दो विरोधी रसों के बीच
कोई उदासीन रस निबद्ध कर दिया जाय । जैसे मेरे द्वारा रचित आख्यायिका
में कण्व के आश्रम में पहुँचे महर्षि श्वेतकेतु के शान्तरस तथा वरवर्णिनी नामक
नायिका के शृङ्गार रस के वर्णनों के बीच : 'यह कैसा अदृष्टपूर्वं सौन्दर्य ! वाणी
में यह कैसी वर्णनातीत मधुरता ?” इस वर्णन द्वारा अद्भुत रस के निबन्धन से
शान्त और शृङ्गार का विरोध समाप्त हो गया है। अथवा जैसे—
“आकाश में विमान द्वारा जाने वाले ये ऊर्ध्वगमनशील महापुरुष दिव्याङ्गनाओं
से आलिङ्गित होकर सियारिनियों से घिरे अपने भौतिक शरीरों को देख रहे हैं।।”
प्रथमाननम् १७३
अत्र सुराङ्गना-मृतशरीरालम्बनयोः शृङ्गारबीभत्सयोरन्तः स्वर्गलाभा-
क्षिप्तो वीररसो निवेशितः । अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वर्ति
कालगतचर्वणाकत्वम् । तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं
वीरस्य चर्वणादनन्तरं द्वितीयार्धे बीभत्सस्येति स्फुटमेव । 'भूरेणुदिग्धान्'
विषयत्वेऽपि सम्भवतीति सूचितम् । समानविषयत्वे त्वयं विरोधो भवत्येव । अतश्च
'भूरेणुदिग्धान्............' इत्यादिविवरणे 'अन्यथा भिन्नविषयत्वात् को विरोधः'
इति लोचने विषयत्वमाश्रयत्वमपि बोध्यम् ।
सुराङ्गनेत्यादि । सुराङ्गनालम्बनकस्य शृङ्गारस्य मृतशरीरालम्बनकस्य
बीभत्सस्य चेति यथासंख्यमन्वयः । स्वर्गलाभाक्षिप्त इति आक्षिप्तस्वर्गलाभेन प्रतीय-
मान इत्यर्थकः । वीररस इति । एतेन वीरबीभत्सयोरप्यविरोधः सूचितः ।
व्योमपदस्य स्वर्गार्थकत्वे तु वीरानुभावादय आक्षेपलभ्याः । एवं च व्योम्नीत्यत्र
कर्मण एवाधिकरणत्वविवक्षायां सप्तमी ज्ञेया । पद्ये वीरा इति विशेषेण ईरयन्ति
गच्छन्तीत्यर्थे क-प्रत्ययान्तस्य कर्त्तरि रूपम्, न तु 'वीर विक्रान्तौ' इति धातोः
पचाद्यजन्तस्य । तथा च मध्ये चर्व्यमाणत्वेनाभिप्रेतस्य वाच्यत्वापत्तिर्निरस्ता ।
यद्वा स्वशरीराण्येवालम्बनं वीरगतस्योत्साहस्य, मध्ये प्रतीयमानस्तूत्साहो न
तदालम्बनकोऽपि तु स्वर्गालम्बनकः, तस्य च वाच्यत्वाभावेन न दोषः । तथा च
विक्रान्तार्थकधातोरपि वीरशब्दव्युत्पादने न हानिः । वस्तुतोऽत्र वीरशब्दप्रयोगो
नोचितः, यद्वा सिद्धानुवादरूपत्वाददोषः । मध्यगतत्वं चोदासीनस्य चर्वणापेक्षमेव,
चर्वणा च वर्णनानुक्रमेणाभिप्रेता, अन्यथा स्वर्गलाभानन्तरं सुराङ्गनाश्लेषस्य सम्भवाद्
व्यवधानं वीरेण न स्यादित्याह—अन्तर्निवेशेनेत्यादिना । भूरेणुदिग्धानिति ।
इदं विशेषकं यथा—
इस पद्य में दिव्याङ्गनास्वरूप आलम्बन वाले शृङ्गार और मृतशरीरस्वरूप
आलम्बन वाले बीभत्स रसों के बीच स्वर्गलाभ से आक्षिप्त ( अथवा आक्षिप्त
स्वर्गलाभ से प्रतीयमान ) वीर रस द्वारा शृङ्गार और बीभत्स रसों का परस्पर-
विरोध शान्त हो गया है ।
दो विरोधी रसों के बीच किसी उदासीन रस के समावेश का अभिप्राय उन
विरोधी रसों की चर्वणाओं के बीच उदासीन रस की चर्वणा से है । उदाहृत
पद्य में यह स्थिति है, क्योंकि इस पद्य के पूर्वार्ध में जो वर्णन है उससे प्रथमतः
शृङ्गार की चर्वणा, तदनन्तर वीर रस की चर्वणा और इसके पश्चात् पद्य के
उत्तरार्ध में किये गये वर्णन के अनुसार बीभत्स रस की चर्वणा की सामग्री है ।
( ध्वन्यालोक तथा ) काव्यप्रकाश मे जो 'भूरेणुदिग्धान्............' आदि तीन
पद्यों का समूह—'विशेषक' उदाहरण दिया गया है उसमें भी यही स्थिति है ।
१७४ रसगङ्गाधरः
इत्यादिकाव्यप्रकाशगतपद्यकदम्बे तु प्रथमश्रुतबीभत्ससामग्रीवशाद्बीभत्सचर्व-
णोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य वीरस्य चर्वणे
भूरेणुदिग्धान्नवपारिजात-
मालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणान्
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥
सशोणितैः क्रव्यभुजां स्फुरद्भिः
पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसकैः
सुगन्धिभिः कल्पलतादुकूलैः ॥
विमानपर्यङ्कतले निषण्णाः
कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानाल्ललनाङ्गुलीभि-
र्वीराः स्वदेहान् पतितानपश्यन् ॥ इति ।
प्रथमश्रुतेति हेतुर्बीभत्सस्य प्रथमास्वादे । तत्त्वं च भूरेणुदिग्धानिति प्रथमो-
पादानेन बीभत्ससामग्र्या निर्व्यूढमेवेत्यभिप्रायः । अस्मिन्नपि विशेषके वीरशब्द-
विषये पूर्वोक्तं स्मर्त्तव्यम् । पाठक्रमादार्थक्रमस्य बलीयस्त्वेन शृङ्गारचर्वणैव प्रथम-
मिति मन्यामहे । तस्य च मध्यवर्त्तिना वीरेण सह ‘आद्यः करुणबीभत्सरौद्रवीर-
भयानकः’ इत्यादिना साहित्यदर्पणे विरोधे वर्णितेऽपि समानविषयत्व एव तयोर्विरोध
इत्याश्रित्य परिहारः कतुं शक्यः । वीरबीभत्सयोस्तु न विरोध इत्युपपन्नमत्रापि
पक्षे वीरस्य मध्ये चर्व्यमाणस्योदासीनत्वमिति विवेचनीयं विज्ञैः । वस्तुतस्त्वत्र
कृशरान्नवत्सामग्रीसम्मिश्रणादुदाहरणमेतन्न विच्छित्तिजनकम् । “वीराः स्वदेहान्’
इत्यादिना तदीयोत्साहावगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीति-
रिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकता’ इति लोचनोक्तिरपि
प्रकृतोदाहरणे न कामपि विच्छित्तिं जनयति । कर्तुः सर्ववाक्यार्थान्वयित्वेऽपि सर्वदैव
वीररसमात्रास्वादप्रसक्तौ रसान्तरानास्वादप्रसङ्गे विरोधोद्भावनस्यैवाशक्यत्वम् ।
अथ च रतिजुगुप्सयोर्व्यभिचारित्वमित्यतोप्युदाहरणान्तरं देयम् । तथापि समुचित
उदाहरणे मध्ये तटस्थचर्वणायाः परस्परविरोधपरिहारप्रकारप्रदर्शनपरत्वेन कथञ्चिद्
अन्तर केवल यह है कि इस उदाहरण में वर्णित सामग्री के अनुसार प्रथमवर्णित
बीभत्स की चर्वणा के बाद बीभत्स की सामग्री से आक्षिप्त निःशङ्क प्राणत्याग आदि
सामग्री से वीर की चर्वणा होती और अन्त में वर्णनक्रम से शृङ्गार की चर्वणा ।
प्रथमाननम् १७५
शृङ्गारचर्वणेति विवेकः । इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ
निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः ।
अङ्गाङ्गिनोः, अङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः, अङ्गत्वानुपपत्ति-
प्रसङ्गात् ।
यथा —
प्रत्युद्गता सविनयं सहसा सखीभिः
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मामद्य मञ्जुवचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं वद सत्करोषि ॥
ग्रन्थो योजनीयः । प्रतिबन्धकेत्यादि । परस्परं प्रतिबध्यप्रतिबन्धकभावात्पूर्व-
प्रतीतस्य प्रतिबन्धकत्वमवगन्तव्यम् । अनेन च विरोधिपरिगणने क्रमस्य न
विवक्षेति पण्डितराजाशयः प्रतीयते । दर्पणकृदादयस्तु क्रमं विवक्षितं मन्यन्त इति
पूर्वमुक्तमेव ।
अङ्
१७६ रसगङ्गाधरः
इयं च पुरो निपतितां प्रमीतां नायिकां प्रति नायकस्योक्तिः । इह
नायिकालम्बना, अश्रुपातादिभिरनुभावैरावेगविषादादिभिः संचारिभिश्च
व्यज्यमाना नायकगता रतिस्तुल्यसामग्र्यभिव्यक्ते प्रकृतत्वात्प्रधानीभूते
प्रतिपाद्यत । अत एव स्मयमाणत्वमग्रे वक्ष्यमाणमुपपद्यते ।
प्रमीताम् = मृताम् । अश्रुपातादिभिरित्यस्याक्षिप्यमाणैरित्यादिः । नायकगतेत्य-
नन्तरं नायिकाविषयेति योज्यम् । प्रकृतत्वात् = प्रकरणप्राप्तत्वादिति हेतुः प्रधानी-
भूतत्वे शोकस्य । तुल्यसामग्रीति । नायिका·सत्त्वकालिकेन नायिकाकर्तृकसविनय-
प्रत्युद्गमनादिना रतिरभिव्यक्ता, तेनैव च प्रत्युद्गमनादिना नायिकाऽसत्त्वकाले
स्मर्यमाणेन शोकोऽप्यभिव्यज्यत इत्युभयोस्तुल्यसामग्र्यभिव्यक्तत्वमुक्तम् । एष चार्थो
व्यतिरेकेण कविकुलगुरोरप्यभिमतः—
पादास्त एव शशिनः सुखयन्ति गात्रं
बाणास्त एव मदनस्य ममानुकूलाः ।
संरम्भरूक्षमिव सुन्दरि यद् यदासीत्
त्वत्सङ्गमेन मम तत्तदिहानुनीतम् ॥ इति ।
मालतीमाधवेऽपि 'यदद्विस्मयस्तिमित......' इत्यादिनाऽयमर्थः स्फुटः । अतश्च
'उक्तसामग्रीसजातीयेत्यर्थः' इति मर्मप्रकाशव्याख्यानम्, शोकोऽपि अश्रुपातादिभि-
रनुभावित आवेगविषादादिभिश्च संचारितः, परं शोकस्याश्रुपातादय आवेगविषादा-
दयश्च शृङ्गारसम्बन्धिभिस्तैर्भिन्ना इति सजातीयत्वमिति रसचन्द्रिकोक्तं तदुपपादनं
च चिन्त्यम् । इयांस्तु विशेषः—अत्र तुल्यत्वमुपात्ताया एव सामग्र्या अभिप्रायेण,
आक्षिप्तायाम् अश्रुपातादिसामग्र्यामभेदसजातीयत्वयोरभावात् । नायकेन च नायिका-
करने वाले कटाक्ष से मुझे देखती हुई अपनी सखियों के साथ दौड़ कर मेरी
अगवानी किया करती थी; पर तू बता कि क्या आज अपनी मीठी बातों से थोड़ी
देर के लिये भी अपना प्यार नहीं देगी !!”
अपने आगे मरी हुई प्रियतमा नायिका के प्रति नायक की यह उक्ति है ।
यहाँ नायिका आलम्बन विभाव है, अश्रुपात आदि अनुभाव हैं और आवेग, विषाद
आदि व्यभिचारिभाव हैं । इन सबसे अभिव्यज्यमान नायिकाविषयक नायकनिष्ठ
रति वर्णनीय होने से प्रधानीभूत नायकनिष्ठ मृतनायिकाविषयक शोक को बढ़ाती
हुई उस (शोक) का अङ्ग है जो रत्यभिव्यञ्जक सामग्री—अगवानी करना आदि से
अभिव्यक्त हो रहा है । तात्पर्य यह है कि जीवन-काल में नायिका द्वारा की जाने
वाली अगवानी तथा अन्य क्रियायें नायकनिष्ठ रति का और मृत्यु हो जाने पर उसी
नायिका की वे हीं क्रियाएँ स्मरणमात्र से नायकनिष्ठ शोक का अभिव्यञ्जन करती
हैं । यद्यपि रत्यभिव्यञ्जक अश्रुपात आदि सामग्री और शोकाभिव्यञ्जक अश्रुपात
प्रथमाननम् १७७
तद्गत एव शोके प्रकर्षकत्वादङ्गम् । यदि तु नायकगता रतिर्नात्र प्रती-
यते किं तु निरुक्तसामग्र्या शोक एव प्रकृतत्वादित्यागृह्यते, तदा नाय-
कालम्बना प्रत्युद्गमाद्यनुभाविता हर्षादिभिः पोषिता नायिकाश्रया रतिरेव
तत्राङ्गमस्तु, नायिकागतरतेर्नायकशोकप्रकर्षहेतुतायाः सर्वसंमतत्वात् ।
न च नायिकाया नाशात्तद्गताया रतेरसंनिधानात्कथमङ्गतोति वाच्यम् ।
जीवनकाले अनुभूयमाना मरणोत्तरं च स्मर्यमाणापि सा रत्याद्यभिव्यञ्जने न
विशेषवतीति । अत्र च नायिकाविषयकनायकनिष्ठशोकस्य नायकनिष्ठनायिका-
विषयकरत्यभावेऽसम्भवात्सापि प्रतीयत आक्षिप्यते वेति 'यदि तु' इत्यनेन सूच्यते ।
नात्र प्रतीयत इति । नायकनिष्ठनायिकाविषयकरतिव्यञ्जकसामग्र्यवर्णनादिति
भावः । निरुक्तसामग्र्या = नायिकाकर्त्तृ कसविनयप्रत्युद्गमनादिसामग्र्या । अत्र
'यद्यालम्बनविनाशान्नायकनिष्ठरतेरप्रतीतिरित्यभ्युपगम्यते तदाश्रयविनाशान्नायिका-
निष्ठरतेः प्रतीतिः कथंकारं स्यात्, उभयोर्वैषम्ये बीजाभावात् । यदि तु वक्ष्यमाण-
रीत्या स्मर्यमाणाया नायिकानिष्ठाया रतेः शोकाङ्गत्वं न्याय्यम् तर्हि तादृश्या
नायकनिष्ठरतेरपि तत्त्वे बाधकाभावात्' इति यदुक्तं चन्द्रिकायाम् तदापातत ,
नायिकाकर्त्तृकातीतकालिकसविनयप्रत्युद्गमनादेर्नायकनिष्ठरतिस्मारकस्य साक्षा-
द्वर्णितत्वम्, नायकनिष्ठाया रतेस्तु साक्षात्स्मारकस्य तस्याभाव एवेति वैषम्यस्य स्फुटं
प्रतीयमानत्वात् । प्रकारान्तरेण प्रतीयमानत्वमाक्षिप्यमाणत्वं वा नायकनिष्ठरतेरपि
आदि में अभेद भी नहीं और सजातीयता भी नहीं; अतः रति और शोक को
'तुल्यसामग्र्यभिव्यक्त,' कहना संगत नहीं लगता तथापि रत्यभिव्यञ्जक जो
सामग्री ( अगवानी करना आदि ) पद्य में निर्दिष्ट है उसी को लेकर रति और
शोक दोनों को 'तुल्यसामग्र्यभिव्यक्त' कहा गया है। यह सामग्री जीवन-काल
और मृत्योत्तर-काल में क्रमशः रति का और शोक का अभिव्यञ्जक है हीं । अत एव
यह भी स्पष्ट है कि नायक द्वारा अनुभूयमान यह सामग्री रति का और स्मर्यमाण
यही सामग्री शोक का अभिव्यञ्जक है। परन्तु इससे सहृदयों में रस की अभिव्यक्ति
में कोई अन्तर नहीं पड़ता। यदि यह आग्रह किया जाय कि यहाँ नायकनिष्ठ
रति की अभिव्यक्ति नहीं होती, क्योंकि प्रत्युद्गमन आदि सामग्री नायकविषयक
नायिकानिष्ठ रति का हीं अभिव्यञ्जक है; हां उत्तरार्ध से नायकनिष्ठ शोक की
अभिव्यक्ति अवश्य होती तो उक्त प्रत्युद्गमन आदि अनुभावों से अभिव्यक्त और
व्यज्यमान हर्ष आदि से परिपोषित नायिकानिष्ठ रति हीं नायकनिष्ठ शोक का
परिपोषक होने से इसका अङ्ग हो । नायिका की नायक विषयक रति का नायिका
के अभाव में नायकगत शोक का परिपोषक होना सर्वसम्मत हैं हीं । यहाँ यह आशङ्का
नहीं करनी चाहिए कि नायिका के विनष्ट हो जाने से तन्निष्ठ रति का नायक को
१७८ रसगङ्गाधरः
संनिधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः।
अङ्गयोर्यथा-
उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ।।
पूर्वमुक्तमेव। असंनिधानमत्रानुभवः। संनिधानमनुभवः।
सम्प्रत्येकस्मिन्नङ्गिन्यङ्गत्वमाप्तयोर्यथा न विरोधस्तदुपपादयन्नाह-अङ्गयो-
र्यथेति।
उत्क्षिप्ता इति। विजितरिपो राज्ञः कस्यचिदियं स्तुतिः। हे राजन् !
भवतः प्रतिभटाः पराजिता ये वनस्थाः क्ष्मापालाः तेषां वामभ्रुवां रमणीनां गहनेषु
वनेषु यान्तीनां के के कण्टकाकीर्णा भूमीरुहा वृक्षास्ताभिरुत्क्षिप्ताः सन्तस्तासां कबरी-
भरं केशपाशं न गृह्णन्ति नाकर्षन्ति ? अपि तु सर्वेऽप्याकर्षन्त्येव। किन्ते विवलिता
वक्रीकृताः सन्तस्तासां पार्श्वद्वयं न गृह्णन्ति संदशवन्नाभिभवन्ति ? न्यक्कृता अधः-
कृताः पादाम्भोजयुगम्, रुषा दूरेण परिहृताश्च सन्तस्तासां चेलाञ्चलं च न
गृह्णन्ति ? गृह्णन्त्येवेत्यर्थः ।।
अत्रोत्क्षिप्तादिविशेषणबलात् शठकामुकव्यवहारस्यापि प्रतीतिः। अत्र च पक्षे
कण्टकशब्दो रोमाञ्चार्थकः। तत्र च प्रकृतवृक्षव्यवहारेण व्यज्यमानस्य करुणस्याऽ-
प्रकृतशठकामुकव्यवहारेण च प्रतीयमानस्य शृङ्गारस्य (शृङ्गाराभासस्य वा) राज-
अनुभव (अनुमिति) न होने से वह नायकगत शोक का परिपोषक-अङ्ग हो नहीं
सकती, कारण, अङ्गत्व के लिये अनुभूयमानत्व के आवश्यक न होने से स्मर्यमाण
नायिकानिष्ठ नायक विषयक रति भी नायकगत शोक का परिपोषक हो हीं
सकती है।
अब एक अङ्गी के दो अङ्गों में परस्पर-विरोध के अभाव का एक उदाहरण
लीजिए:-
"हे राजन् ! आपसे पराजित होकर जङ्गल में छिपे हुए आपके शत्रुओं की
रमणियां जब जङ्गलों में चलतीं तब कौन से ऐसे कांटेदार वृक्ष नहीं जो (जिनकी
शाखायें) उन रमणियों द्वारा ऊपर उठाये जाने पर उनके केश-पाश को पकड़
नहीं लेते (केश-पाश में उलझ नहीं जाते) ? किनारे हटाये जाने पर उनके
दोनों पाश्र्वों (उनकी कमर) में चिपक नहीं जाते ? नीचे झुकाये जाने पर उनके
चरणकमलों को नहीं पकड़ लेते ? और क्रोध से दूर हटाये जाने पर उनके आंचल
में उलझ नहीं जाते ?"
३. रस-स्वरूप विमर्श: अभिनवगुप्त, मम्मट एवं रसगंगाधरकार का मौलिक रस-सिद्धान्त
प्रथमाननम् १७९
अत्र समासोक्त्यवयवाभ्यां तरुकामिकर्तृकरिपुकामिनीकबर्यादिग्रहण-
रूपाभ्यां प्रकृताप्रकृतव्यवहाराभ्यां व्यक्तयोः करुणशृङ्गारयो राजविषयक-
रतिभावाङ्गत्त्वम् ।
किं च प्रकृतरसपरिपृष्टिमिच्छता विरोधिनोऽपि रसस्य बाध्यत्वेन
निबन्धनं कार्यमेव । तथा हि सति वैरिविजयकृता वर्ण्यस्य कापि शोभा
संपद्यते । बाध्यत्वं च रसस्य प्रबलैर्विरोधिनो रसस्याङ्गैरविद्यमानेष्वपि
स्वाङ्गेषु निष्पत्तेः प्रतिबन्धः । व्यभिचारिणो बाध्यत्वं तु तदीयरसनिष्पत्ति-
प्रतिबन्धमात्रात्, न त्वनभिव्यक्त्या, अभिव्यक्तौ बाधकाभावात् । न च
विषयकरतिभावाङ्गत्वेन न परस्परं विरोध इत्युपपादयति—अत्रेत्यादिना ।
अवयवत्वं च प्रकृताऽप्रकृतधर्मिकव्यवहारयोः समासोक्तिप्रतिपाद्यार्थघटकत्वम्, प्रथमे
तदुपपादकत्वं वा ।
परिपुष्टिमिच्छतेति । एतेनात्रापि तयोरङ्गाङ्गिभावः सूचितः, परिपोषकस्यै-
वाङ्गतया प्रसिद्धेः । सुराङ्गनेत्यादिना पूर्वं मुक्तकेऽविरोधोऽत्र तु प्रबन्धेऽविरोध इति
पृथगुपादानं न पुनरुक्तिदोषास्पदम् । ब्राह्मणवसिष्ठन्यायेन वा । अङ्गैरित्यत्र कर्त्तरि
तृतीया । स्वाङ्गेष्वित्यत्र स्वपदं बाध्यपरम् । निष्पत्तिरभिव्यक्तिः, आस्वाद इति
यावत् । प्रसङ्गाद् व्यभिचारिणो बाध्यत्वं निरूपयति—व्यभिचारिण इत्यादिना ।
इस पद्य में विशेषणों के श्लिष्ट होने के कारण प्रकृत वृक्षों के कार्य से अप्रकृत
कामुक पुरुष के कार्य ( व्यवहार ) की भी प्रतीति होती है और इस प्रकार प्रकृत
वृक्ष के व्यवहार से करुण की और अप्रकृत कामुक के व्यवहार से शृङ्गार की
अभिव्यक्ति होती है । ये दोनों ही वक्ता की राजविषयक रति ( स्तुति ) के अङ्ग
हैं । अत अङ्गभूत करुण और शृङ्गार में किसी साक्षात् सम्बन्ध के अभाव में कोई
विरोध नहीं है ।
और भी, कवि को चाहिए कि वह प्रकृत मुख्य रस को परिपुष्ट करने के लिए
उसके विरोधी रसों का भी 'बाध्य रसों' के रूप में अपने काव्य में वर्णन अवश्य
करे । इससे मुख्य रस में अपने विरोधी रसों के पराभव से एक विलक्षण चमत्कृति
आ जाती है । किसी भी रस को 'बाध्य' कहने का अर्थ यही है कि उसके विरोधी
मुख्य रस के अङ्गों का प्रबल चित्रण होने से मुख्य रस की ही प्रतीति ( अर्थात
आस्वाद ) हो पाती, दुर्बल रूप में वर्णित उस रस की नहीं । किन्तु व्यभिचारिभाव
के बाध्य होने का अर्थ केवल यह है कि उससे रस की अभिव्यक्ति नहीं होती, जहाँ
तक स्वयं व्यभिचारिभाव की अभिव्यक्ति का प्रश्न है वह तो होती ही है, क्योंकि
उसकी अभिव्यक्ति में कोई बाधक नहीं है । यह आशङ्का नहीं करनी चाहिए कि
विरोधी ( = बाधक ) रस के अङ्गभूत विभावादि की अभिव्यक्ति से बाध्य रस के
१४ २०
१८० रसगङ्गाधरः
विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम्, तद्व्यञ्जकशब्दार्थ-
ज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात् प्रतिबध्यप्रति-
तदीयेति । तदभिव्यङ्गत्वेन विवक्षितेत्यर्थः । तत्पद व्यभिचारिपरम् । अभिव्यक्तौ =
व्यङ्ग्यत्वे । तद्व्यञ्जकेति । बाध्यव्यभिचारिव्यञ्जकेत्यर्थः । शब्दार्थज्ञानम् =
वाक्यार्थज्ञानम् । असंनिधानादिति । अयमर्थः—यदा पूर्वं महावाक्यघटकस्य
बाध्यव्यभिचारिव्यञ्जकवाक्यार्थस्य ज्ञानम्, तत्सामर्थ्यादभिव्यक्तिर्व्यभिचारिणस्तद-
नन्तरमेव विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानं तत्राभिव्यक्त्या व्यवधानात् पश्चाज्जाय-
मानेन विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानेन पूर्वनिष्पन्नस्य बाध्यव्यभिचारिव्यञ्जकस्य
वाक्यार्थज्ञानस्य प्रतिबन्धाभावात् तत्सामर्थ्यजन्या व्यभिचार्यभिव्यक्तिः केन वार्यताम् ?
यत्रापि बाध्यव्यभिचारिव्यञ्जकवाक्यं निषेधघटितं तत्रापि निषेधप्रतीतेः प्रतियोगि-
ज्ञानजन्यत्वनियमात् पूर्वं जायमानेन प्रतियोगिज्ञानेन तत्सामर्थ्यबलायाता व्यभि-
चार्यभिव्यक्तिर्निष्प्रत्यूहैव, निषेधप्रतीत्या व्यवधानं परं विरोध्यङ्गाभिव्यञ्जक-
शब्दार्थज्ञानस्याधिकम् । यदि तु बाध्यव्यभिचारिव्यञ्जकविरोध्यङ्गाभिव्यञ्जक-
शब्दार्थज्ञानयोर्युगपदेव समूहालम्बन रूपेणोत्पत्तिस्तदोत्तरक्षणे व्यभिचार्यभिव्यक्तिर्न
सम्भवति, परमेतादृशं समूहालम्बनं वस्तुतो जायमानमपि कविना न निबन्ध-
नीयम्, विच्छित्त्यनाधायकत्वात् । प्रबन्धे प्रायेण तदसम्भवाच्च । चर्वणा तु
समूहालम्बनरूपा स्वाभाविल्येवेति तत्र न विवादः । अतश्चासंनिधानमत्र पक्षेऽ
नुत्पत्तिरेव । मर्मप्रकाशे तु असंनिधानादित्यस्य विनष्टत्वादित्यर्थ उक्तः, स च तदैव
घटते यदि प्रथममेव विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानं ततश्च विरोध्यङ्गाभिव्यक्तिः,
ततश्च बाध्याङ्गाभिव्यञ्जकशब्दार्थज्ञानम् इति क्रमः । वयं तु मन्यामहे—एतादृशं
निबन्धनं न विच्छित्तिजनकम् । अत एव यत्र प्रबन्धादौ पूर्वं विरोध्यङ्गाभिव्यञ्जकशब्द-
स्तदनन्तरं बाध्याङ्गाभिव्यञ्जकोपनिवन्धनं तत्रापि परस्ताद्विरोध्यङ्गाभिव्यञ्जक-
शब्दादिनिबन्धनं कर्त्तव्यमेव कविना, क्रियतेऽपि च । मुक्तके तु परस्तादेव विरोधिनिब-
न्धनं कर्त्तव्यमिति । 'ननु विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानजन्य-) संस्कारस्यैव तत्त्व-
व्यभिचारी की अभिव्यक्ति का प्रतिबन्ध हो जाता है, क्योंकि यदि बाधक रस
के अभिव्यञ्जक शब्दार्थज्ञान व्यभिचारी के अभिव्यञ्जक शब्दार्थज्ञान के पश्चात्
होने वाला हो तो पूर्वोत्पन्न व्यभिचार्यभिव्यञ्जक शब्दार्थज्ञान से उत्तरक्षण में व्यभि-
चारिभाव की अभिव्यक्ति को उस समय अनुत्पन्न बाधकरसाभिव्यञ्जक शब्दार्थ-
ज्ञान कैसे रोक सकेगा ? अथ चेत् बाधकरसाभिव्यञ्जक शब्दार्थ का ज्ञान हीं पहले
उत्पन्न होता हो तब भी उत्तरक्षण में उस बाधक रस की अभिव्यक्ति होगी,
तदुत्तरक्षण में व्यभिचार्यभिव्यञ्जक शब्द का ज्ञान होगा उसके उत्तरक्षण में व्यभि-
चारी के अभिव्यञ्जक उस शब्द के अर्थ का ज्ञान होगा । अतः अपनी उत्पत्ति के
-क्षण? No, it's वि शि-क्षणorविशिष्ट-क्षण. Let's transcribe विशिष्टक्षणorवि शि-क्षण? If transcribing pure visible text: वि शि-क्षण(orविशिष्टक्षण). Let's look very carefully at that spot. Wait, look at the letter before -क्षण: It is शwithि->शि. Before that is वि. Between विandशिthere is a wide space. Wait, could it beवि शि-क्षण? Yes, it literally prints वि शि-क्षणorविशिष्ट-क्षणwith missing letters. I will writeवि शि-क्षणorविशिष्टक्षण(often best to writeविशिष्टक्षणif it's a damaged type, but let's see:वि शि-क्षण). Wait, let's look at व्यभिचार्यभिव्यञ्जकin L21: व्यभिचार्यभिव्यञ्जक शब्द के ज्ञान का और उस शब्द के अर्थ के ज्ञान का प्रतिबन्धक न हो सकेगा । अतः व्यभिचार्यभिव्यंजक शब्दार्थ-ज्ञान के सामर्थ्य से (Notice: L21 hasव्यभिचार्यभिव्यञ्जक, L22 has व्यभिचार्यभिव्यंजक` with anusvara
१८२ रसगङ्गाधरः
यथा—
नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे ।
वसुन्धरां समालिङ्ग्य शेरते वीर तेऽरयः ॥
नितान्तमित्यादि । हे वीर ? त्वया सह आहवे युद्धार्थमागता यौवनोन्मत्ता
अरयः गाढरक्ता घनीभूतं रक्तं येषां तादृशाः सन्तः, शरीराद् बहिर्निःसृतं रक्तं घनत्व-
मापद्यत इति प्रसिद्धम्, वसुन्धरां पृथिवीं समालिङ्ग्य भूमौ निपत्य शेरते परलोकं
गच्छन्तीति प्रकृतोऽर्थः। अत्र यौवनोन्मत्ताः, गाढरक्ताः, वसुन्धरां समालिङ्ग्य च शेरते
इति विशेषणानां श्लिष्टत्वेन यौवनोन्मादयुक्ता गाढमनुरक्ता रमणीं समालिङ्ग्य
स्वपन्तीति अप्रकृतकामिव्यवहारोऽपि प्रतीयते । तत्र प्रकृतारिव्यवहारेण करुणस्या-
प्रकृतकामिव्यवहारेण च शृङ्गारस्यापि प्रतीतिः । तत्र चानयोः शृङ्गारकरुणयोर-
विरोधो भिन्नधर्मिकत्वादित्येकः पन्थाः, अप्रकृतकामिव्यवहाराभेदेन प्रकृतारिधर्मिक-
व्यवहारस्य भासमानत्वादविरोधो वा, अभेदप्रतीतौ विरुद्धयोरप्यविरोधप्रतीतेः,
पुरुषसिंहवत् । अयमेवऽविरोधः काव्यप्रकाशे 'साम्येनाथ विवक्षितः' इत्यनेनोक्तः ।
'उत्क्षिप्तः कबरीभरम्' इत्यत्र तु समासोक्तिबलायातस्यान्याङ्गत्त्वम्, अत्र पुनर्न
तथेत्युभयोर्विशेषः । वस्तुतस्त्वत्रापि कथं न राजस्तुत्यङ्गत्वमुभयोरिति चिन्त्यम् ।
राजस्तुतेरविवक्षया वा कथञ्चित् समाधेयम् । अन्यथोदाहरणद्वयस्य पृथगुपादानं
व्यर्थमेव । अत एव प्रकाशेऽपि 'विवक्षितः' इत्युक्तम् ।
इदमत्र बोध्यम्—अत्र प्रकरणे प्रतिपादितो विरोधो निबन्धनाभिप्रायेण, वस्तु-
तस्तु व्यवहारे निर्वेदातिरिक्ताधिकरणे भिन्नाऽभिन्नविषययोरप्युद्भवो भवत्ये-
वेति । क्षणपौर्वापर्यन्त्वपरिहार्यम्, अत एकानन्तरक्षणेऽन्यस्य प्रतीतिरिति विशेषो
वर्त्तत एव ॥
की प्रतीति ( समासोक्तिस्थल में ) होती, किन्तु वे दोनों प्रकृत-अप्रकृत-व्यवहार
किसी अन्य के अङ्ग नहीं होते'। जैसे:—
"हे राजन् ! युवावस्था से अत्यन्त उन्मत्त और संग्राम में आपके अस्त्र-शस्त्रा-
घात से बहता हुआ रक्त जिनके शरीरों पर जम गया है वे आपके शत्रु पृथ्वी की
गोद में सो रहे हैं।"
१. यह ग्रन्थकार का अभिप्राय प्रतीत होता, किन्तु यहां भी करुण और शृङ्गार
दोनों हीं 'उत्क्षिप्तः कबरीरम्......' आदि पद्य की तरह राजस्तुति के अङ्ग
क्यों नहीं हैं—यह विवेचनीय है। राजस्तुति को अविवक्षित मानकर कथञ्चित्
संगति हो सकती, है, अन्यथा पृथक्-पृथक् दोनों उदाहरणों का निर्देश
निष्प्रयोजन है।
प्रथमाननम् १८३
इत्थमविरोधसंपादनेनापि निवध्यमानो रसो रसशब्देन शृङ्गारादिशब्दैर्वा
नाभिधातुमुचितः, अनास्वाद्यतापत्तेः। तदास्वादश्च व्यञ्जनमात्रनिष्पाद्य
इत्युक्तत्वात्। यत्र विभावादिभिरभिव्यक्तस्य रसस्य स्वशब्देनाभिधानं तत्र
को दोष इति चेत्, ? व्यङ्ग्यस्य वाच्यीकरणे सामान्यतो वमनाख्यदोषस्य
वक्ष्यमाणत्वात्। आस्वाद्यतावच्छेदकरूपेण प्रत्ययाजनकत्या रसस्थले वाच्य-
वृत्तेः कापेयकल्पत्वेन विशेषदोषत्वाच्च।
इदानीं रसदोषानभिधातुमुपक्रमते—इत्थमित्यादिना। पूर्वोक्तप्रकारेणेत्यर्थः।
निवध्यमानः = आस्वाद्यत्वेन प्रतिपिपादयिषितः। अनास्वाद्यतापत्तेरिति। विभावा-
द्यभिव्यक्तस्यैव रसस्यास्वाद्यत्वनियमादिति भावः। इयं चापत्तियंत्र केवलरसादि-
पदवाच्यत्वं न तु विभावाद्यभिव्यक्तत्वमपि तत्र बोध्यम्। यत्र तूभयं तत्राह—
यत्रेत्यादि। सामान्यत इति। सर्वेषां व्यङ्ग्यत्वेन चमत्कृतिजनकानां वाच्यत्वे
सत्ययं दोष इत्यभिप्रायेणेदमुक्तम्। केचित्त्वलङ्काराणां वाच्यत्वेऽपि क्वचिच्चमत्कृति-
जनकत्वं मन्यन्ते। रसस्थलमात्रे दोषमाह—आस्वाद्यतावच्छेदकरूपेणेत्यादिना।
वाच्यत्वाद्यसहकृतविभावाद्यभिव्यक्तत्वेन रूपेणेत्यर्थः। कापेयकल्पत्वेनेति।
कपेः कर्म कापेयम्, निरर्थकं कर्म, तत्सदृशत्वेनेत्यर्थः। विशेष इति रसस्थल-
मात्राभिप्रायेण। विभावाद्यभिव्यक्तस्यैवानुवादाभिप्रायेण स्वशब्देनाभिधाने तु न
यहाँ 'यौवनोन्मत्ताः' (नवयौवन के दर्प से समन्वित), 'गाढरक्ताः' (अत्यन्त
अनुरक्त) और 'वसुन्धरां समालिङ्ग्य शेरते' (ज्योतिष्मती—सुन्दरी नायिका का
आलिङ्गन कर सो रहे हैं) इन विशेषणों के श्लिष्ट होने से अप्रकृत कामुक पुरुषों
के व्यवहार की भी (समासोक्तिमाहात्म्यप्रयुक्त) प्रतीति होती ही है। किन्तु
प्रकृत-व्यवहार अप्रकृत-व्यवहार से अभिन्न रूप में भासित होता। यही 'अभेदेन
भासमानत्व' दोनों में अविरोध का निमित्त है॥
उपर्युक्त रीति से रसों में परस्पर-विरोधाभाव का उपपादन किये जाने पर भी
कवि को चाहिए कि जिस रस का उसे अपने काव्य में निबन्धन करना हो उसका
वह रस-शब्द से सामान्य रूप में अथवा विशेषरूप में शृङ्गार आदि शब्दों से उल्लेख
न करे, क्योंकि ऐसा करना अनुचित है—ऐसा करने से रस के वाच्य हो जाने से
उसमें आस्वाद्यता नहीं रह जाती। रस आस्वाद्य तभी होता जब वह व्यङ्ग्य
होता, अन्यथा नहीं—यह तथ्य प्रकट किया जा चुका है। यदि एक ओर कोई रस
अपने विभावादि से अभिव्यक्त हो रहा हो और दूसरी ओर उसका तद्वाचक शब्द
से सामान्य अथवा विशेष रूप में अभिधान भी किया गया हो तब तो 'वमन' नामक
दोष का होना आगे बताया जायगा। यह 'वमन' नामक दोष केवल रस के विषय
में ही नहीं अपि तु जिन अलङ्कारादि तत्त्वों में व्यङ्ग्य होने पर ही चमत्कार-
१८४ रसगङ्गाधरः
एवं स्थायिव्यभिचारिणामपि शब्दवाच्यत्वं दोषः । एवं विभावानुभाव-
योरसम्यक्प्रत्यये विलम्बेन प्रत्यये वा न रसास्वाद इति तयोर्दोषत्वम् । सम-
बलप्रबलप्रतिकूलरसाङ्गानां निबन्धनं तु प्रकृतरसपोषप्रतीपकमिति दोषः ।
दोषः । अत एव 'धातुः शिल्पातिशय……………………' इत्यत्र काव्यप्रकाशोदाहरणे
'शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्' इत्यत्र चतुर्थे पादे शृङ्गारशब्देनाभिधानेऽपि
न दोषः । अतश्च यत्र मुख्यतस्तत्प्रतिपादनं स्वशब्देन तत्रैव दोष इत्यपि मतम् ।
व्यभिचारिणामिति । यत्र पुनस्तद्व्यभिचारिविशेषनियतोऽनुभावादिर्न वर्त्तते
तत्र तेन व्यभिचार्यभिव्यक्तेः सन्दिग्धत्वात् स्वशब्देन व्यभिचार्यभिधानेऽपि न दोष
इति प्राञ्चः । यदुक्तम्—
"न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचित् ॥" इति ।
समबलेत्यादि । समबलप्रतिकूलरसाङ्गानां प्रबलप्रतिकूलरसाङ्गानां चेत्यर्थः ।
आद्यनिबन्धने सुन्दोपसुन्दवदुभयोरनिष्पत्तिः, द्वितीये प्रकृताभिव्यक्तिप्रतिबन्धो दोषः ।
एतेन दुर्बलानामत एव प्रबलप्रकृतबाधकानां प्रतिकूलरसाङ्गानां निबन्धनं प्रकृतपरि-
पोषाय कर्त्तव्यमिति सूचितम् । प्रबन्ध इति । पुनः पुनद्दीप्तिः प्रायेण प्रबन्धकाव्य
एव सम्भवतीति प्रबन्ध इत्युक्तम् । सामग्र्येण = सम्भवद्यावदनुभावादिपरि-
जनकता होती उनका भी शब्दतः अभिधान होने पर होता है । इसी लिये इस दोष
को सामान्य दोष कहा गया है । रस-रसाभास-स्थलों में तो व्यङ्ग्य को वाच्य
बना देने पर 'निरर्थकत्व' नामक विशेष दोष भी होता, क्योंकि जिस व्यञ्जनामात्र-
गम्यत्व रूप में रस में आस्वाद्यता होती उस रूप में व्यक्त किये जाने के बाद पुनः
उसका वाच्य रूप में — जिस रूप में रस आस्वाद्य कभी नहीं होता — निर्देश करने
का कोई प्रयोजन रह नहीं जाता । यह कार्य तो बानर के कार्य के समान सर्वथा
निष्प्रयोजन है ।
इसी प्रकार, स्थायिभाव और व्यभिचारिभावों की भी शब्दवाच्यता एक दोष
है । किन्तु काव्यप्रकाशकार आदि का मत है कि जहाँ किसी विशेष व्यभिचारिभाव
का सुनिश्चित रूप में अभिव्यञ्जक अनुभाव कवि द्वारा निबद्ध न हो वहाँ व्यभि-
चारिभाव की असन्दिग्ध अभिव्यक्ति न होने से व्यभिचारिभाव के वाच्य होने पर
भी कोई दोष नहीं होता । इसी तरह, विभाव और अनुभाव की सम्यक्-प्रतीति न
होने और विलम्ब से प्रतीति होने पर भी रसास्वाद न होने से विभावादि की
असम्यक्-प्रतीति और विलम्ब-प्रतीति भी दोष हैं । प्रधान रस के समबल अङ्गरस
के और समबल अथवा प्रबल प्रतिकूल रस के विभावादि के निबन्धन से भी प्रधान
रस के आस्वाद में बाधा होती; अतः समबल अङ्ग रस के और समबल अथवा
प्रबल प्रतिकूल रस के विभावादि के निबन्धन भी दोष हैं ।
प्रथमाननम् १८५
प्रबन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां
न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः । तथा तत्तद्रसप्रस्तावना-
पोषितत्वेन रूपेण । प्रबन्धे प्रकृतस्य...दोष इति । तदुक्तं ध्वन्यालोकवृत्तौ —
‘उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुम-
कल्पः कल्पते’ इति । अत्रेदं बोध्यम् — दीप्तिदीपनं नामायं दोषो नाङ्गिरसे, तस्य
सर्वत्रैव रामायणादौ पुनः पुनरुद्दीपनाव् । अत एवोक्तमानन्दवर्धनाचार्यैः—
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां तस्य स्थायित्वेनावभासिनः ॥ इति ।
व्याख्यातं चेदं वृत्तौ — ‘प्रबन्धेषु प्रथमतर्ं प्रस्तुततः सन् पुनः पुनरनुसन्धीयमानत्वेन
स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्त्तिभिः समावेशो यः स
नाङ्गितामुपहन्ति’ इति । अत एव ‘दीप्तिः पुनः पुनः’ इति विवृण्वद्भिर्गोविन्द-
ठक्कुरप्रभृतिभिरेवमेव निगदितम् । अत एव च काव्यप्रकाशे कुमारसम्भवस्थो
रतिविलापो निर्दिष्ट उदाहरणरूपेण । तथा चात्र गङ्गाधरेऽपि पूर्वाचार्या-
नुरोधाद् युक्तिसिद्धत्वाच्च प्रबन्धे प्रकृतस्य इतिमुद्रितपाठस्थाने प्रबन्धे-
ऽप्रकृतस्य इति पाठः कर्तव्यः । अप्रकृतस्याप्रधानस्याङ्गरसस्येति तदर्थः ।
अयं चापरो विशेषः—‘परिपोषं गतस्यापि पौनःपुन्येन दीपनम्’ इत्यादि-
ध्वन्यालोकवचनेन प्रतीयते यत्प्रबन्धे एकत्र परिपुष्टस्य कस्यचनाङ्गरसस्य प्रसङ्गा-
न्तरव्यवहितं पुनः पुनन्निबन्धनं महाकविना न कार्यम् इति । तद्वृत्तिग्रन्थेनाप्यय-
मर्थः स्फुटः । तथा चैतदनुरोधेन कस्यचनैकस्याङ्गरसस्य समानालम्बनस्यैकत्रैवा-
वसरे सामग्र्येणोपनिबन्धनं कर्त्तव्यम्, न तु भूयो भूयस्तथेति प्रतिफलति । ‘प्रसङ्गा-
न्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वादः’ इत्युक्तेर्गङ्गा-
धरकारमते तु विच्छिन्नदीपनोऽयं दोषः पुनस्तत्र प्रबन्धे भवेद् यत्राङ्गरसस्यै-
कस्य सामग्र्या एकत्रांशतो निबन्धनं विधाय प्रसङ्गान्तरनिबन्धनं ततश्च तस्या-
ङ्गरसस्यावशिष्टसामग्र्या निबन्धनमिति कश्चिद्विलक्षण एवायं दोषो गङ्गा-
धरोक्तो ध्वन्यालोकोक्तदोषाद् इति प्रतीयते । उदाहरणानुरोधेन काव्यप्रकाशोक्तो
‘दीप्तिः पुनः पुनः’ इतिरूपो दोषोऽपि गङ्गाधरोक्तदोषान्न भिद्यते । प्रदीपोद्योतादौ
किसी प्रबन्ध-काव्य में किसी अङ्ग रस१ के अभिव्यञ्जक सामग्री का एक अंश
एक स्थान पर और अन्य अंशों का अन्य स्थानों पर निबन्धन करने पर सहृदयों को
पूर्णरूप में रसास्वाद नहीं हो पाता । अतः ऐसा करने पर ‘विच्छिन्नदीपन’ नामक
दोष होता । इसी प्रकार, अयुक्त अवसर पर किसी रस की सामग्री का निबन्धन
१. ‘प्रबन्धेऽप्रकृतस्य’ यह पाठ मान कर ऐसा अनुवाद किया गया है ।
[Page Header]
१८६ रसगङ्गाधरः
[Main Sanskrit Text]
नर्हेऽवसरे प्रस्तावः, विच्छेदानर्हे च विच्छेदः । यथा संध्यावन्दनदेव-
यजनादिधर्मवर्णने प्रसक्ते कयापि कामिन्या सह कस्यचित्कामुकस्यानुराग-
वर्णने । यथा च समुपस्थितेषु महाहवदुर्मदेषु प्रतिभटेषु मर्मभिन्दि वचना-
न्युद्गिरत्सु नायकस्य संध्यावन्दनादिवर्णने चेत्युभयमनुचितम् । एवम-
प्रधानस्य प्रतिनायकादेर्नानाविधानां चरितानामनेकविधायाश्च संपदो
नायकसंबन्धिभ्यस्तेभ्यो नातिशयो वर्णनीयः । तथा सति वर्णयितुमिष्टो
नायकस्योत्कर्षो न सिद्धयेत, तत्प्रयुक्तो रसपोषश्च न स्यात् । न च
प्रतिनायकोत्कर्षस्य तदभिभावकनायकोत्कर्षाङ्गत्वात्कथमवर्णनीयत्वमिति
वाच्यम् । यादृशस्य प्रतिनायकोत्कर्षवर्णनस्य तदभिभावकनायकोत्कर्षा-
ङ्गतासंपादकत्वं तादृशस्येष्टत्वात् । तद्विरोधिन एव निषेध्यत्वात् । न च
[Sanskrit Commentary]
तु काव्यप्रकाशनिर्दिष्टोऽयं दोषो ध्वन्यालोकोक्तदोषाभिन्नतया व्याख्यातः । अत्र
काव्यमर्मज्ञाः प्रमाणम् । अनर्हेऽवसर इति । 'अकाण्डे च प्रकाशनम्' इति
रूपेण ध्वन्यालोकोक्तोऽय दोषः । इदं च प्रकाशनमङ्गिरसातिरिक्तस्य रसस्य
बोध्यम् । अङ्गिरसपरिल्लुते हि सहृदयचेतसि तद्विरुद्धस्तत्समानाधिकरणस्तद्-
व्यधिकरणो वा रसो नास्वादनीयः । एतादृशरससमावेश इष्यमाणे तु उदासीन-
रसान्तरव्यवहितनिबन्धनादिनाऽविरोध उपपादनीया यथौचित्यम् । विच्छेदा-
नर्ह इति । अयमेवाकाण्डे विच्छेदः प्राचीनैरुक्तः । अयं चाङ्गिनमात्रविषयः । यद्वा
यथासम्भवमुभयविषयमिद दोषद्वयम् । उभयम् = अनवसरे प्रस्तावो विच्छेदश्च ।
दोषान्तरमाह — एवमित्यादिना । तद्विरोधिनः = नायकोत्कर्षप्रतिकूलस्य
[Hindi Translation]
और जिस रस का जहां विच्छेद उचित न हो वहां उसका विच्छेद भी दोष हैं।
जैसे — सन्ध्यावन्दन, देवपूजन आदि का वर्णन करते समय किसी कामुक पुरुष का
किसी कामिनी के प्रति अनुराग का वर्णन करने पर प्रथम दोष और महान् रणशूर
शत्रु द्वारा उपस्थित होकर नायक के प्रति मर्मभेदी वचन कहते समय नायक द्वारा
सन्ध्यावन्दन आदि कर्मों के वर्णन में द्वितीय दोष हैं। इसी प्रकार, नायक के विभिन्न
चरितों और गुण आदि की अपेक्षा प्रतिनायक के चरितादि का उत्कृष्ट वर्णन करना
भी दोष हीं है, क्योंकि ऐसा करने पर नायक का प्रतिनायक की अपेक्षा विवक्षित
उत्कर्ष अवगत नहीं होता । यद्यपि प्रतिनायक का उत्कर्ष उसका पराभव करने
वाले नायक के उत्कर्ष का परिपोषक होता है तथापि यह ध्यान रखना चाहिए कि
प्रतिनायक का जितना उत्कर्ष नायक के उत्कर्ष का परिपोषक हो उतने हीं उत्कर्ष
का वर्णन हो, उससे अधिक नहीं । उससे अधिक उत्कर्ष का वर्णन तो सर्वथा
परित्याज्य है । नायक द्वारा प्रतिनायक का अभिभव या विनाश करने से
प्रथमाननम् १८७
प्रतिपक्षस्य प्रकृतापेक्षया वर्ण्यमानोऽप्युत्कर्षः स्वाश्रयहन्तृतामात्रादेव
प्रकृतगतमुत्कर्षमयिशाययेत, अतो न दोषावह इति वाच्यम्। एवं हि
सति महाराजं कमपि विषशरक्षेपमात्रेण व्यापादितवतो वराकस्य शबर-
स्येव प्रकृतस्य नायकस्य न कोऽप्युत्कर्षः स्यादिति। तथा रसालम्बनाश्रय-
योरनुसंधानमन्तरान्तरा न चेद्दोषः। तदनुसंधानाधीना हि रसप्रतिपत्ति-
धारा तदननुसंधाने विरता स्यात्। एवं प्रकृतरसानुपकारकस्य वस्तुनो
वर्णनमपि प्रकृतरसविरामहेतुत्वादोष एव।
अनौचित्यं तु रसभङ्गहेतुत्वात्परिहरणीयम्। भङ्गश्च पानकादिरसादौ
सिकतादिनिपातजनितेवारुन्तुदता।
तच्च जातिदेशकालवर्णाश्रमवयोवस्थाप्रकृतिव्यवहारादेः प्रपञ्चजातस्य
प्रतिनायकचरितादेः। स्वाश्रयेति। स्वं प्रतिनायकोत्कर्षस्तदाश्रयः प्रतिनायक
एव। उत्कर्षाश्रयनाशकमात्रस्य नोत्कृष्टतरत्वमिति दृष्टान्तमुखेन समाधत्ते—
एवं हीत्यादिना। एतावताङ्गरसस्योपकारकस्यापि वर्णनमङ्ग्यपेक्षयोत्कृष्टतरं न
कर्त्तव्यमिति प्रतिपादितम् ! दोषान्तरम् – तथेत्यादिना। रसो ह्यत्र प्रधानी-
भूतो ग्राह्यः, तदाश्रयादेरेव प्रबन्धेऽन्तराऽन्तराननुसन्धाने वैरस्यात्। एवमित्यादिना
ऽनङ्गस्य वर्णनं दोष इत्याह।
अन्त्यं दोषमाह — अनौचित्यमिति। पूर्वोक्तानां दोषाणामनौचित्यान्तर्गत-
त्वेऽपि ब्राह्मणवसिष्ठन्यायेन पृथगुपादानं न विरुध्यते। तच्च = अनौचित्यं च।
प्रतिनायक का अधिकाधिक उत्कर्ष भी नायक के उत्कर्ष का परिपोषक हीं होगा —
यह कहना भी असंगत है, क्योंकि वैसी स्थिति में नायक का कोई उत्कर्ष उसी
प्रकार प्रतीत नहीं होगा जिस प्रकार किसी शूर महाराज को केवल एक विषाक्त
बाण के द्वारा मार गिराने वाले क्षुद्र शबर (किरात) का कोई उत्कर्ष प्रमाणित
नहीं होता। इसी तरह, मुख्य रस के आलम्बन और आश्रय का कथा के बीच-
बीच में अनुसन्धान न करना भी कवि की कृति मे एक दोष है, क्योंकि ऐसा होने
पर आलम्बनादि के अनुसन्धान से होने वाले रसास्वाद का विच्छेद हो जाता।
अनौचित्य तो रस-भङ्ग का प्रमुख कारण होने से सर्वथा त्याज्य है। रस-भङ्ग
का अर्थ अप्रियता है। जैसे किसी मृष्ट पेय पदार्थ में बालू आदि के मिल जाने से
उसके आस्वाद में अप्रियता आ जाती उसी तरह रसास्वाद में आई अप्रियता हीं
रस-भङ्ग कहलाती।
जाति, देश, काल, वर्ण, आश्रम, वय, अवस्था, प्रकृति, व्यवहार, आदि के-
१८८ रसगङ्गाधरः
तस्य तस्य यल्लोकशास्त्रसिद्धमुचितद्रव्यगुणक्रियादि तद्भेदः । जात्यादेर-
नुचित यथा – गवादेस्तेजोबलकार्याणि पराक्रमादीनि, सिंहादेश्च साधुभावा-
दीनि । स्वर्गे जराव्याध्यादि, भूलोके सुधासेवनादि । शिशिरे जलविहारा-
दीनि, ग्रीष्मे वह्निसेवा । ब्राह्मणस्य मृगया, बाहुजस्य प्रतिग्रहः, शूद्रस्य निग-
माध्ययनम् । ब्रह्मचारिणो यतेश्च ताम्बूलचर्वणम्, दारोपसंग्रहः । बालवृद्धयोः
स्त्रीसेवनम्, यूनश्च विरागः । दरिद्राणामाढ्याचरणम्, आढ्यानां च दरिद्रा-
चारः । प्रकृतयो दिव्याः, अदिव्याः, दिव्यादिव्याश्च । धीरोदात्तधीरोद्धतधीर-
ललितधीरशान्ता उत्साहक्रोधकामिनीरतिनिर्वेदप्रधाना उत्तममध्यमाधमाश्च ।
लोकेत्यादि । लोकसिद्धं शास्त्रसिद्धं चेत्यर्थः । तद्भेदः = तद्भिन्नत्वम्, तद्विप-
र्ययः । गवादेरिति । जात्यनौचित्यस्येदमुदाहरणम् । देशानौचित्यमुदाहरति-
स्वर्ग इत्यादि । कालानौचित्यस्योदाहरणम्—शिशिर इत्यादि । वर्णानौचित्यम्—
ब्राह्मणस्येत्यादि । आश्रमा ब्रह्मचर्यादयश्चारः प्रसिद्धाः, तदनौचित्यस्यो-
दाहरणम्—ब्रह्मचारिण इत्यादि । वयोऽनौचित्यस्य निदर्शनम्—
बालेत्यादि । अवस्था दशा, तदनौचित्यमाह—दरिद्राणामित्यादि ।
प्रकृत्यनौचित्यं विशदयति—प्रकृतय इत्यादिना । प्रकृतयो नायकाः ।.
दिव्या इन्द्रादयः । अदिव्याः वत्सराजादयो मानुषरूपाः । दिव्याऽदिव्याः
मानुषरूपेणावतीर्णा देवा रामादयो दिव्यमानुषाः । एवं त्रिधा प्रकृतिः ।
एतासु प्रत्येकमुत्साहप्रधाना धीरोदात्ता, क्रोधप्रधाना धीरोद्धता, कामिनीविषयक-
लोक-सिद्ध तथा शास्त्र-सिद्ध जो जो द्रव्य, गुण, क्रिया आदि अनुकूल हैं उनसे भिन्न
का वर्णन हीं अनौचित्य है । इनमें जातिगत अनौचित्य गाय बैल आदि क्षुद्र सत्त्वों
द्वारा तेजस्विता और बल के कार्य पराक्रम आदि के ओर सिंह आदि उग्र
पशुओं द्वारा साधुता आदि के प्रदर्शन के वर्णन में स्पष्ट है । स्वर्ग में जरा एवं
रुग्णता के वर्णन में, भूलोक में अमृतपान आदि के वर्णन में देशगत अनौचित्य हैं ।
ब्राह्मण द्वारा शिकार खेलने, क्षत्रिय द्वारा दान लेने और शूद्र द्वारा वेदाध्ययन
आदि के वर्णन में जातिगत अनौचित्य है । आश्रमगत अनौचित्य ब्रह्मचारी और
सन्न्यासी द्वारा पान चबाने और विवाहादि कार्य के वर्णन में स्पष्ट है । वयोगत
अनौचित्य बालक और वृद्ध की कामिनी में आसक्ति और युवक की उससे विरक्ति के
वर्णन में है । अवस्थागत अनौचित्य है दारिद्र्यावस्था में वर्तमान व्यक्तियों
द्वारा धनियों जैसे कार्यों के सम्पादन के और धनियों द्वारा दरिद्रों जैसे आचरण के
वर्णन में । प्रकृतियाँ तीन प्रकार की होतीं-दिव्य, अदिव्य और दिव्याऽदिव्य । इनमें
से प्रत्येक के चार प्रभेद होते-धीरोदात्त, धीरोद्धत, धीरललित और धीरप्रशान्त । इन
प्रथमाननम् १८९
तत्र रत्यादीनां भयातिरिक्तस्थायिभावानां सर्वत्र समत्वेऽपि रतेः संभोग-
रूपाया मनुष्येष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनमनुचितम् ।
क्रोधस्य च लोकभस्मीकरणपटोर्दिनरात्रिव्यत्ययाद्यनेकाश्चर्यकारिणो दिव्ये-
ष्विवादिव्येषु । आलम्बनगताराध्यत्वस्यानुभावगतमिथ्यात्वस्य च प्रतीत्या
रतिप्रधाना धीरललिता, निर्वेदप्रधाना धीरशान्तेति चतुर्धा भिद्यते । तदेवं द्वादशधा
प्रकृतिः । सर्वाप्येषोत्तममध्यमाधमभेदैस्त्रिधेति सङ्कलने षट्त्रिंशद्भेदा प्रकृतिः
पर्यवस्यति । भयातिरिक्तेति । भयमुपलक्षणमन्यस्यापि तत्तन्नायकाऽयोग्यस्य
स्थायिभावस्य । यथोत्तमदेवतासु शोकाभावः । यथा वा निर्वेदवति नायके
जुगुप्साद्यभावः । तथा च यत्र नायके यः स्थायिभाव उपपन्नस्तत्र तस्यौचित्येन
वर्णनं कार्यम् इति तात्पर्यम् । स्फुटीकृतेत्यादि । स्फुटीकृता सकला रतेरनुभावा
यत्र तद्वर्णनमित्यर्थः । उत्तमदेवतास्विति । वक्ष्यति चैवमेव गीतगोविन्दं प्रकृत्य ।
उपलक्षणमेतदुत्तममात्रस्य । अत एवोत्तमप्रकृते राजादेरपि सम्भोगशृङ्गारवर्णनमनु-
चितम् । परस्परप्रेमदर्शनादयः शृङ्गारप्रभेदास्तु वर्णनीयाः । लोकभस्मी-
करणेत्यादि विशेषणद्वयं क्रोधस्य । एतादृशस्योत्कटक्रोधस्यादिव्येषु मानुषेषु नाय-
केषु वर्णनमनुचितम् इत्यर्थः । 'अदिव्येषु' इत्युक्तेदिव्यादिव्येषु तद्वर्णनेऽनौचित्या-
भावः सूच्यते । उक्तविधसम्भोगशृङ्गारवर्णने तादृशक्रोधवर्णने च यदनौचित्यमुक्तं
तत्र क्रमेण हेतुद्वयमाह - आलम्बनगतेत्यादिना । यत्र नायके सभ्यानां पितृत्वबुद्धिः
तन्निष्ठरत्यालम्बनभूतायां नायिकायां मातृत्वबुद्ध्या इयमाराध्येति प्रतीतेस्तद्विषय
सम्भोगवर्णनमुद्वेजकं सभ्यानां न तु शृङ्गाराभिव्यञ्जकमित्याशयः । यत्र
चादिव्ये लोकभस्मीकरणपटुक्रोधो नोदेत्येव तत्र तादृशक्रोधवर्णने मिथ्यात्वप्रतीते
चारों में क्रमशः उत्साह, क्रोध, कामिनीविषयक रति और निर्वेद की प्रधानता
होती । इस प्रकार प्रकृति के बारह प्रभेद हुए । इनके भी उत्तम, मध्यम और
अधम भेदों के आधार पर तीन-तीन उपभेद होते । अतः छत्तीस प्रकार की प्रकृतियाँ
सिद्ध हुईं । इन सबमें यद्यपि उत्तम दिव्य प्रकृतियों में भय ( और शोक ) को
छोड़कर अन्य रत्यादि भाव अदिव्य-मानव प्रकृतियों के समान होते अवश्य हैं
तथापि जिस प्रकार की सम्भोग-स्वरूप रति का स्पष्ट एवं पूर्ण वर्णन मानव-
प्रकृतियों में किया जाता उस प्रकार का स्पष्ट एवं पूर्ण वर्णन उत्तम दिव्य
प्रकृतियों में नहीं करना चाहिए । इसी तरह दिव्य प्रकृतियों में जैसे संसार को
भस्मसात् कर देने में, दिन को रात में और रात को दिन में बदल देने और इसी
प्रकार के अन्य आश्चर्यजनक घटनाओं को उत्पन्न कर देने में समर्थ क्रोध का
वर्णन किया जाता उस तरह के क्रोध का वर्णन अदिव्य प्रकृतियों में भी कर देना
अनुचित है । मानव प्रकृति में वर्णनीय रति के समान रति का उत्तम दिव्य