रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 217, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् १८५
प्रबन्धे प्रकृतस्य रसस्य प्रसङ्गान्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां
न सामग्र्येण रसास्वाद इति विच्छिन्नदीपनं दोषः । तथा तत्तद्रसप्रस्तावना-
पोषितत्वेन रूपेण । प्रबन्धे प्रकृतस्य...दोष इति । तदुक्तं ध्वन्यालोकवृत्तौ —
‘उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुम-
कल्पः कल्पते’ इति । अत्रेदं बोध्यम् — दीप्तिदीपनं नामायं दोषो नाङ्गिरसे, तस्य
सर्वत्रैव रामायणादौ पुनः पुनरुद्दीपनाव् । अत एवोक्तमानन्दवर्धनाचार्यैः—
रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां तस्य स्थायित्वेनावभासिनः ॥ इति ।
व्याख्यातं चेदं वृत्तौ — ‘प्रबन्धेषु प्रथमतर्ं प्रस्तुततः सन् पुनः पुनरनुसन्धीयमानत्वेन
स्थायी यो रसस्तस्य सकलबन्धव्यापिनो रसान्तरैरन्तरालवर्त्तिभिः समावेशो यः स
नाङ्गितामुपहन्ति’ इति । अत एव ‘दीप्तिः पुनः पुनः’ इति विवृण्वद्भिर्गोविन्द-
ठक्कुरप्रभृतिभिरेवमेव निगदितम् । अत एव च काव्यप्रकाशे कुमारसम्भवस्थो
रतिविलापो निर्दिष्ट उदाहरणरूपेण । तथा चात्र गङ्गाधरेऽपि पूर्वाचार्या-
नुरोधाद् युक्तिसिद्धत्वाच्च प्रबन्धे प्रकृतस्य इतिमुद्रितपाठस्थाने प्रबन्धे-
ऽप्रकृतस्य इति पाठः कर्तव्यः । अप्रकृतस्याप्रधानस्याङ्गरसस्येति तदर्थः ।
अयं चापरो विशेषः—‘परिपोषं गतस्यापि पौनःपुन्येन दीपनम्’ इत्यादि-
ध्वन्यालोकवचनेन प्रतीयते यत्प्रबन्धे एकत्र परिपुष्टस्य कस्यचनाङ्गरसस्य प्रसङ्गा-
न्तरव्यवहितं पुनः पुनन्निबन्धनं महाकविना न कार्यम् इति । तद्वृत्तिग्रन्थेनाप्यय-
मर्थः स्फुटः । तथा चैतदनुरोधेन कस्यचनैकस्याङ्गरसस्य समानालम्बनस्यैकत्रैवा-
वसरे सामग्र्येणोपनिबन्धनं कर्त्तव्यम्, न तु भूयो भूयस्तथेति प्रतिफलति । ‘प्रसङ्गा-
न्तरेण विच्छिन्नस्य पुनर्दीपने सामाजिकानां न सामग्र्येण रसास्वादः’ इत्युक्तेर्गङ्गा-
धरकारमते तु विच्छिन्नदीपनोऽयं दोषः पुनस्तत्र प्रबन्धे भवेद् यत्राङ्गरसस्यै-
कस्य सामग्र्या एकत्रांशतो निबन्धनं विधाय प्रसङ्गान्तरनिबन्धनं ततश्च तस्या-
ङ्गरसस्यावशिष्टसामग्र्या निबन्धनमिति कश्चिद्विलक्षण एवायं दोषो गङ्गा-
धरोक्तो ध्वन्यालोकोक्तदोषाद् इति प्रतीयते । उदाहरणानुरोधेन काव्यप्रकाशोक्तो
‘दीप्तिः पुनः पुनः’ इतिरूपो दोषोऽपि गङ्गाधरोक्तदोषान्न भिद्यते । प्रदीपोद्योतादौ
किसी प्रबन्ध-काव्य में किसी अङ्ग रस१ के अभिव्यञ्जक सामग्री का एक अंश
एक स्थान पर और अन्य अंशों का अन्य स्थानों पर निबन्धन करने पर सहृदयों को
पूर्णरूप में रसास्वाद नहीं हो पाता । अतः ऐसा करने पर ‘विच्छिन्नदीपन’ नामक
दोष होता । इसी प्रकार, अयुक्त अवसर पर किसी रस की सामग्री का निबन्धन
१. ‘प्रबन्धेऽप्रकृतस्य’ यह पाठ मान कर ऐसा अनुवाद किया गया है ।