रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 205, कुल 414 में से
संदर्भ में पढ़ेंप्रथमाननम् १७३
अत्र सुराङ्गना-मृतशरीरालम्बनयोः शृङ्गारबीभत्सयोरन्तः स्वर्गलाभा-
क्षिप्तो वीररसो निवेशितः । अन्तर्निवेशश्च तदुभयचर्वणाकालान्तर्वर्ति
कालगतचर्वणाकत्वम् । तच्च प्रकृतपद्ये प्रथमार्ध एव शृङ्गारचर्वणोत्तरं
वीरस्य चर्वणादनन्तरं द्वितीयार्धे बीभत्सस्येति स्फुटमेव । 'भूरेणुदिग्धान्'
विषयत्वेऽपि सम्भवतीति सूचितम् । समानविषयत्वे त्वयं विरोधो भवत्येव । अतश्च
'भूरेणुदिग्धान्............' इत्यादिविवरणे 'अन्यथा भिन्नविषयत्वात् को विरोधः'
इति लोचने विषयत्वमाश्रयत्वमपि बोध्यम् ।
सुराङ्गनेत्यादि । सुराङ्गनालम्बनकस्य शृङ्गारस्य मृतशरीरालम्बनकस्य
बीभत्सस्य चेति यथासंख्यमन्वयः । स्वर्गलाभाक्षिप्त इति आक्षिप्तस्वर्गलाभेन प्रतीय-
मान इत्यर्थकः । वीररस इति । एतेन वीरबीभत्सयोरप्यविरोधः सूचितः ।
व्योमपदस्य स्वर्गार्थकत्वे तु वीरानुभावादय आक्षेपलभ्याः । एवं च व्योम्नीत्यत्र
कर्मण एवाधिकरणत्वविवक्षायां सप्तमी ज्ञेया । पद्ये वीरा इति विशेषेण ईरयन्ति
गच्छन्तीत्यर्थे क-प्रत्ययान्तस्य कर्त्तरि रूपम्, न तु 'वीर विक्रान्तौ' इति धातोः
पचाद्यजन्तस्य । तथा च मध्ये चर्व्यमाणत्वेनाभिप्रेतस्य वाच्यत्वापत्तिर्निरस्ता ।
यद्वा स्वशरीराण्येवालम्बनं वीरगतस्योत्साहस्य, मध्ये प्रतीयमानस्तूत्साहो न
तदालम्बनकोऽपि तु स्वर्गालम्बनकः, तस्य च वाच्यत्वाभावेन न दोषः । तथा च
विक्रान्तार्थकधातोरपि वीरशब्दव्युत्पादने न हानिः । वस्तुतोऽत्र वीरशब्दप्रयोगो
नोचितः, यद्वा सिद्धानुवादरूपत्वाददोषः । मध्यगतत्वं चोदासीनस्य चर्वणापेक्षमेव,
चर्वणा च वर्णनानुक्रमेणाभिप्रेता, अन्यथा स्वर्गलाभानन्तरं सुराङ्गनाश्लेषस्य सम्भवाद्
व्यवधानं वीरेण न स्यादित्याह—अन्तर्निवेशेनेत्यादिना । भूरेणुदिग्धानिति ।
इदं विशेषकं यथा—
इस पद्य में दिव्याङ्गनास्वरूप आलम्बन वाले शृङ्गार और मृतशरीरस्वरूप
आलम्बन वाले बीभत्स रसों के बीच स्वर्गलाभ से आक्षिप्त ( अथवा आक्षिप्त
स्वर्गलाभ से प्रतीयमान ) वीर रस द्वारा शृङ्गार और बीभत्स रसों का परस्पर-
विरोध शान्त हो गया है ।
दो विरोधी रसों के बीच किसी उदासीन रस के समावेश का अभिप्राय उन
विरोधी रसों की चर्वणाओं के बीच उदासीन रस की चर्वणा से है । उदाहृत
पद्य में यह स्थिति है, क्योंकि इस पद्य के पूर्वार्ध में जो वर्णन है उससे प्रथमतः
शृङ्गार की चर्वणा, तदनन्तर वीर रस की चर्वणा और इसके पश्चात् पद्य के
उत्तरार्ध में किये गये वर्णन के अनुसार बीभत्स रस की चर्वणा की सामग्री है ।
( ध्वन्यालोक तथा ) काव्यप्रकाश मे जो 'भूरेणुदिग्धान्............' आदि तीन
पद्यों का समूह—'विशेषक' उदाहरण दिया गया है उसमें भी यही स्थिति है ।