रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 206, कुल 414 में से
संदर्भ में पढ़ें१७४ रसगङ्गाधरः
इत्यादिकाव्यप्रकाशगतपद्यकदम्बे तु प्रथमश्रुतबीभत्ससामग्रीवशाद्बीभत्सचर्व-
णोत्तरं तत्सामग्र्याक्षिप्तनिःशङ्कप्राणत्यागादिरूपसामग्रीकस्य वीरस्य चर्वणे
भूरेणुदिग्धान्नवपारिजात-
मालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणान्
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥
सशोणितैः क्रव्यभुजां स्फुरद्भिः
पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसकैः
सुगन्धिभिः कल्पलतादुकूलैः ॥
विमानपर्यङ्कतले निषण्णाः
कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानाल्ललनाङ्गुलीभि-
र्वीराः स्वदेहान् पतितानपश्यन् ॥ इति ।
प्रथमश्रुतेति हेतुर्बीभत्सस्य प्रथमास्वादे । तत्त्वं च भूरेणुदिग्धानिति प्रथमो-
पादानेन बीभत्ससामग्र्या निर्व्यूढमेवेत्यभिप्रायः । अस्मिन्नपि विशेषके वीरशब्द-
विषये पूर्वोक्तं स्मर्त्तव्यम् । पाठक्रमादार्थक्रमस्य बलीयस्त्वेन शृङ्गारचर्वणैव प्रथम-
मिति मन्यामहे । तस्य च मध्यवर्त्तिना वीरेण सह ‘आद्यः करुणबीभत्सरौद्रवीर-
भयानकः’ इत्यादिना साहित्यदर्पणे विरोधे वर्णितेऽपि समानविषयत्व एव तयोर्विरोध
इत्याश्रित्य परिहारः कतुं शक्यः । वीरबीभत्सयोस्तु न विरोध इत्युपपन्नमत्रापि
पक्षे वीरस्य मध्ये चर्व्यमाणस्योदासीनत्वमिति विवेचनीयं विज्ञैः । वस्तुतस्त्वत्र
कृशरान्नवत्सामग्रीसम्मिश्रणादुदाहरणमेतन्न विच्छित्तिजनकम् । “वीराः स्वदेहान्’
इत्यादिना तदीयोत्साहावगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीति-
रिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकता’ इति लोचनोक्तिरपि
प्रकृतोदाहरणे न कामपि विच्छित्तिं जनयति । कर्तुः सर्ववाक्यार्थान्वयित्वेऽपि सर्वदैव
वीररसमात्रास्वादप्रसक्तौ रसान्तरानास्वादप्रसङ्गे विरोधोद्भावनस्यैवाशक्यत्वम् ।
अथ च रतिजुगुप्सयोर्व्यभिचारित्वमित्यतोप्युदाहरणान्तरं देयम् । तथापि समुचित
उदाहरणे मध्ये तटस्थचर्वणायाः परस्परविरोधपरिहारप्रकारप्रदर्शनपरत्वेन कथञ्चिद्
अन्तर केवल यह है कि इस उदाहरण में वर्णित सामग्री के अनुसार प्रथमवर्णित
बीभत्स की चर्वणा के बाद बीभत्स की सामग्री से आक्षिप्त निःशङ्क प्राणत्याग आदि
सामग्री से वीर की चर्वणा होती और अन्त में वर्णनक्रम से शृङ्गार की चर्वणा ।