रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 210, कुल 414 में से
संदर्भ में पढ़ें१७८ रसगङ्गाधरः
संनिधानस्याङ्गतायामतन्त्रत्वेन स्मर्यमाणायास्तस्या अङ्गत्वोपपत्तेः।
अङ्गयोर्यथा-
उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ।।
पूर्वमुक्तमेव। असंनिधानमत्रानुभवः। संनिधानमनुभवः।
सम्प्रत्येकस्मिन्नङ्गिन्यङ्गत्वमाप्तयोर्यथा न विरोधस्तदुपपादयन्नाह-अङ्गयो-
र्यथेति।
उत्क्षिप्ता इति। विजितरिपो राज्ञः कस्यचिदियं स्तुतिः। हे राजन् !
भवतः प्रतिभटाः पराजिता ये वनस्थाः क्ष्मापालाः तेषां वामभ्रुवां रमणीनां गहनेषु
वनेषु यान्तीनां के के कण्टकाकीर्णा भूमीरुहा वृक्षास्ताभिरुत्क्षिप्ताः सन्तस्तासां कबरी-
भरं केशपाशं न गृह्णन्ति नाकर्षन्ति ? अपि तु सर्वेऽप्याकर्षन्त्येव। किन्ते विवलिता
वक्रीकृताः सन्तस्तासां पार्श्वद्वयं न गृह्णन्ति संदशवन्नाभिभवन्ति ? न्यक्कृता अधः-
कृताः पादाम्भोजयुगम्, रुषा दूरेण परिहृताश्च सन्तस्तासां चेलाञ्चलं च न
गृह्णन्ति ? गृह्णन्त्येवेत्यर्थः ।।
अत्रोत्क्षिप्तादिविशेषणबलात् शठकामुकव्यवहारस्यापि प्रतीतिः। अत्र च पक्षे
कण्टकशब्दो रोमाञ्चार्थकः। तत्र च प्रकृतवृक्षव्यवहारेण व्यज्यमानस्य करुणस्याऽ-
प्रकृतशठकामुकव्यवहारेण च प्रतीयमानस्य शृङ्गारस्य (शृङ्गाराभासस्य वा) राज-
अनुभव (अनुमिति) न होने से वह नायकगत शोक का परिपोषक-अङ्ग हो नहीं
सकती, कारण, अङ्गत्व के लिये अनुभूयमानत्व के आवश्यक न होने से स्मर्यमाण
नायिकानिष्ठ नायक विषयक रति भी नायकगत शोक का परिपोषक हो हीं
सकती है।
अब एक अङ्गी के दो अङ्गों में परस्पर-विरोध के अभाव का एक उदाहरण
लीजिए:-
"हे राजन् ! आपसे पराजित होकर जङ्गल में छिपे हुए आपके शत्रुओं की
रमणियां जब जङ्गलों में चलतीं तब कौन से ऐसे कांटेदार वृक्ष नहीं जो (जिनकी
शाखायें) उन रमणियों द्वारा ऊपर उठाये जाने पर उनके केश-पाश को पकड़
नहीं लेते (केश-पाश में उलझ नहीं जाते) ? किनारे हटाये जाने पर उनके
दोनों पाश्र्वों (उनकी कमर) में चिपक नहीं जाते ? नीचे झुकाये जाने पर उनके
चरणकमलों को नहीं पकड़ लेते ? और क्रोध से दूर हटाये जाने पर उनके आंचल
में उलझ नहीं जाते ?"