रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
DevanagariHindipublished414 पृष्ठ
पृष्ठ 207, कुल 414 में से
संदर्भ में पढ़ेंपृष्ठ 207
प्रथमाननम् १७५
शृङ्गारचर्वणेति विवेकः । इत्थं चोदासीनचर्वणेन प्रतिबन्धकज्ञाननिवृत्तौ
निष्प्रत्यूहः प्रतिबध्यचर्वणोदय इति फलितोऽर्थः ।
अङ्गाङ्गिनोः, अङ्गिन्यन्यस्मिन्नङ्गयोर्वा न विरोधः, अङ्गत्वानुपपत्ति-
प्रसङ्गात् ।
यथा —
प्रत्युद्गता सविनयं सहसा सखीभिः
स्मेरैः स्मरस्य सचिवैः सरसावलोकैः ।
मामद्य मञ्जुवचनैर्वचनैश्च बाले
हा लेशतोऽपि न कथं वद सत्करोषि ॥
ग्रन्थो योजनीयः । प्रतिबन्धकेत्यादि । परस्परं प्रतिबध्यप्रतिबन्धकभावात्पूर्व-
प्रतीतस्य प्रतिबन्धकत्वमवगन्तव्यम् । अनेन च विरोधिपरिगणने क्रमस्य न
विवक्षेति पण्डितराजाशयः प्रतीयते । दर्पणकृदादयस्तु क्रमं विवक्षितं मन्यन्त इति
पूर्वमुक्तमेव ।
अङ्