रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 212, कुल 414 में से
संदर्भ में पढ़ें१८० रसगङ्गाधरः
विरोध्यङ्गाभिव्यक्त्या प्रतिबन्धान्नाभिव्यक्तिरिति वाच्यम्, तद्व्यञ्जकशब्दार्थ-
ज्ञानसमये विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानस्यासंनिधानात् प्रतिबध्यप्रति-
तदीयेति । तदभिव्यङ्गत्वेन विवक्षितेत्यर्थः । तत्पद व्यभिचारिपरम् । अभिव्यक्तौ =
व्यङ्ग्यत्वे । तद्व्यञ्जकेति । बाध्यव्यभिचारिव्यञ्जकेत्यर्थः । शब्दार्थज्ञानम् =
वाक्यार्थज्ञानम् । असंनिधानादिति । अयमर्थः—यदा पूर्वं महावाक्यघटकस्य
बाध्यव्यभिचारिव्यञ्जकवाक्यार्थस्य ज्ञानम्, तत्सामर्थ्यादभिव्यक्तिर्व्यभिचारिणस्तद-
नन्तरमेव विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानं तत्राभिव्यक्त्या व्यवधानात् पश्चाज्जाय-
मानेन विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानेन पूर्वनिष्पन्नस्य बाध्यव्यभिचारिव्यञ्जकस्य
वाक्यार्थज्ञानस्य प्रतिबन्धाभावात् तत्सामर्थ्यजन्या व्यभिचार्यभिव्यक्तिः केन वार्यताम् ?
यत्रापि बाध्यव्यभिचारिव्यञ्जकवाक्यं निषेधघटितं तत्रापि निषेधप्रतीतेः प्रतियोगि-
ज्ञानजन्यत्वनियमात् पूर्वं जायमानेन प्रतियोगिज्ञानेन तत्सामर्थ्यबलायाता व्यभि-
चार्यभिव्यक्तिर्निष्प्रत्यूहैव, निषेधप्रतीत्या व्यवधानं परं विरोध्यङ्गाभिव्यञ्जक-
शब्दार्थज्ञानस्याधिकम् । यदि तु बाध्यव्यभिचारिव्यञ्जकविरोध्यङ्गाभिव्यञ्जक-
शब्दार्थज्ञानयोर्युगपदेव समूहालम्बन रूपेणोत्पत्तिस्तदोत्तरक्षणे व्यभिचार्यभिव्यक्तिर्न
सम्भवति, परमेतादृशं समूहालम्बनं वस्तुतो जायमानमपि कविना न निबन्ध-
नीयम्, विच्छित्त्यनाधायकत्वात् । प्रबन्धे प्रायेण तदसम्भवाच्च । चर्वणा तु
समूहालम्बनरूपा स्वाभाविल्येवेति तत्र न विवादः । अतश्चासंनिधानमत्र पक्षेऽ
नुत्पत्तिरेव । मर्मप्रकाशे तु असंनिधानादित्यस्य विनष्टत्वादित्यर्थ उक्तः, स च तदैव
घटते यदि प्रथममेव विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानं ततश्च विरोध्यङ्गाभिव्यक्तिः,
ततश्च बाध्याङ्गाभिव्यञ्जकशब्दार्थज्ञानम् इति क्रमः । वयं तु मन्यामहे—एतादृशं
निबन्धनं न विच्छित्तिजनकम् । अत एव यत्र प्रबन्धादौ पूर्वं विरोध्यङ्गाभिव्यञ्जकशब्द-
स्तदनन्तरं बाध्याङ्गाभिव्यञ्जकोपनिवन्धनं तत्रापि परस्ताद्विरोध्यङ्गाभिव्यञ्जक-
शब्दादिनिबन्धनं कर्त्तव्यमेव कविना, क्रियतेऽपि च । मुक्तके तु परस्तादेव विरोधिनिब-
न्धनं कर्त्तव्यमिति । 'ननु विरोध्यङ्गाभिव्यञ्जकशब्दार्थज्ञानजन्य-) संस्कारस्यैव तत्त्व-
व्यभिचारी की अभिव्यक्ति का प्रतिबन्ध हो जाता है, क्योंकि यदि बाधक रस
के अभिव्यञ्जक शब्दार्थज्ञान व्यभिचारी के अभिव्यञ्जक शब्दार्थज्ञान के पश्चात्
होने वाला हो तो पूर्वोत्पन्न व्यभिचार्यभिव्यञ्जक शब्दार्थज्ञान से उत्तरक्षण में व्यभि-
चारिभाव की अभिव्यक्ति को उस समय अनुत्पन्न बाधकरसाभिव्यञ्जक शब्दार्थ-
ज्ञान कैसे रोक सकेगा ? अथ चेत् बाधकरसाभिव्यञ्जक शब्दार्थ का ज्ञान हीं पहले
उत्पन्न होता हो तब भी उत्तरक्षण में उस बाधक रस की अभिव्यक्ति होगी,
तदुत्तरक्षण में व्यभिचार्यभिव्यञ्जक शब्द का ज्ञान होगा उसके उत्तरक्षण में व्यभि-
चारी के अभिव्यञ्जक उस शब्द के अर्थ का ज्ञान होगा । अतः अपनी उत्पत्ति के