सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

षष्ठोऽङ्कः [ १७७
प्रपद्य, तदनन्तरं लब्धप्रसादःशपथे लब्धः प्राप्तः प्रसादः रामप्रतिनिधिरूप पादुका-
युगलप्रसादः शपथः, चतुर्दशवर्षविधिवनवासकाले त्वया राज्यपरिपालनं कर्तव्यं
तदनन्तरं च वनवासावधिसमाप्तावहं सन्निवर्त्य राजधान्यामयोध्यायां राज्यग्रहणं
करिष्यामीति प्रतिज्ञा येनतादृशे मयि भरते सन्निवृत्ते चित्रकूट तपोवनादयोध्यायां
समागते सति, तदनन्तरं च प्रजानयनबुद्धिमनोऽभिरामं प्रजानां लोकानां नयनानि
चक्षूंषि बुद्धीः मतीः मनांसि चेतांसि च अभिरमयति आनन्दयति इति तादृशं लोका-
ह्लादकरं रामं दृष्ट्वा अवलोक्य अयम् एषः अत्रभवान् आदरणीयः सुमन्त्रः किमिति
प्रश्ने इह अयोध्यायाम् आगतः सम्प्राप्तः ? तमेव दर्शयित्वा रामविषयकं समाचारं
प्राप्य स्वमनसो दुःखं दूरीकरिष्यामीति भावः ॥७॥
व्याकरण—आर्यस्य निरीक्षणार्थम् = आर्य निरीक्षणार्थम् । √ऋ + ण्यत् =
आर्य । निर् + √ईक्ष् + ल्युट् (अन) = निरीक्षण । लब्धः प्रसादः शपथश्च येन
तस्मिन् = लब्धप्रसादशपथे । प्रजानां नयनानां बुद्धीनां मनसां च अभिरामम् = प्रजा-
नयनबुद्धिमनोऽभिरामम् । मन्यते बुध्यते अनेन = √मन् + असुन् = मनस् । अभि-
रमयति = अभि + √रम् + घञ् = अभिराम ।
छन्दः--वसन्ततिलका ।
अलङ्कार—यमक । रामम् और मनोभिरामम् में यमक अलंकार है ।
काञ्चुकीयः—(उपगम्य) जयतु कुमारः ।
भरतः—अथ कस्मिन् प्रदेशे वर्तते तत्रभवान् सुमन्त्रः ?
काञ्चुकीयः—असौ काञ्चनतोरणद्वारे ।
भरतः—तेन हि शीघ्रं प्रवेश्यताम् ।
काचुकीयः—यदाज्ञापयति कुमारः । (निष्क्रान्तो)
(ततः प्रविशति सुमन्त्रः प्रतिहारी च)
सुमन्त्रः—(सशोकम्) कष्टं भोः ! कष्टम्--
नृपतिनिधनं मयानुभूतं
नृपतिसुतव्यसनं मयैव दृष्टम् ।
श्रुत इह स च मैथिलीप्रणाशो
गुण इव बह्वपराद्धमायुषा मे ॥८॥
[अन्वयः—नरपतिनिधनं मया अनुभूतम् । नृपतिसुतव्यसनं मया एव अनु-
भूतम् । इह च स मैथिलीप्रणाशः श्रुतः । मे आयुषा गुणे इव बहु अपराद्धम् ॥८॥]

१७८ ] प्रतिमानाटकम्
हिन्दी रूपान्तर
काञ्चुकीय—कुमार की जय हो ।
भरत—अब आदरणीय सुमन्त्र किस स्थान पर हैं ?
काञ्चुकीय—वे काञ्चन तोरण के द्वार पर हैं ।
भरत—तो उसको शीघ्र प्रवेश कराओ ।
काञ्चुकीय—कुमार जैसा आदेश देते हैं ।
(विजया और काञ्चुकीय दोनों निकल जाते हैं)
(तदनन्तर सुमन्त्र और प्रतिहारी प्रवेश करते हैं)
सुमन्त्र—(शोक के साथ) बड़ा कष्ट है, अरे ! बड़ा कष्ट है—
अर्थ [श्लोक ८]—राजा दशरथ की मृत्यु को मैंने देखा था। राजकुमार
राम और लक्ष्मण की आपत्ति को वनगमन को मैंने ही देखा था और यहाँ सीता के
अपहरण की बात को भी सुन लिया। मेरी इस लम्बी आयु ने मानों गुण के स्थान
पर बहुत अपराध ही किये हैं। मैं आयु के लम्बी होने के कारण ही इन दुःखों का
अनुभव कर रहा हूँ ॥८॥
संस्कृत व्याख्या—नरपतिनिधनं नरपतेः राज्ञः दशरथस्य निधनं मरणं मया
सुमन्त्रेण एव अनुभूतं प्रत्यक्षरूपेणावलोकितम्। राज्ञो दशरथस्य मृत्युजन्यं दुःखं
मयैवानुभूतमित्यर्थः । नृपतिसुतव्यसनं नृपतिसुतयोः राजपुत्रयोः रामलक्ष्मणयोः व्यसनं
वनगमनरूपा आपत्तिः मया सुमन्त्रेण एव अनुभूतं प्रत्यक्षीकृता । अहमेव राजपुत्रवन-
गमनहेतुः संजातः स्यन्दनस्य सारथित्वात् । अधुना इह च अस्मिन्नेव समये स पूर्व-
मननुमेयः मैथिलीप्रणाशः सीताया अपहरणं च श्रुतः आकर्णितः । एवं च मे मम
सुमन्त्रस्य आयुषा दीर्घवयसा गुणे सत्यपि इव सम्भावनायां बहु अपराद्धम् अपराध
एव कृतः । गुणोऽप्ययं दोष इव जातः इत्यर्थः ॥८॥
व्याकरण—नरपतेः निधनम् = नरपतिनिधनम् । नि + √धा + क्यु (अन) =
निधन । मैथिल्याः प्रणाशः = मैथिलीप्रणाशः । प्र + नश् + घञ् = प्रणाश । अप् +
राध् + क्त = अपराद्ध ।
छन्दः—पुष्पिताग्रा ।
अलङ्कार—विषम । दीर्घायु से लाभ प्राप्त होने के स्थान पर अनर्थों की
परम्परा प्राप्त होने से विषम अलंकार है ।
प्रतिहारी—(सुमन्त्रमुद्दिश्य) एदु एदु अय्यो । एसो भट्टा । उपसप्पदु अय्यो ।
[एत्वेत्वार्यः । एष भर्ता । उपसर्पत्वार्यः ।]
सुमन्त्रः—(उपसृत्य) जयतु कुमारः ।
भरतः—तात ! अपि दृष्टस्त्वया शोकाविकृतपितृस्नेहः ? अपि दृष्टं

षष्ठोऽङ्कः [ १७६
द्विधाभूतमरुन्धती चारित्रम् ? अपि दृष्टं त्वया निष्कारणविहितवनवासं
सौभ्रात्रम् ?
(सुमन्त्रः सचिन्तस्तिष्ठति)
प्रतिहारी—भट्टिदारओ खु अयं पुच्छदि । [भर्तृदारकः खल्वयं
पृच्छति ।]
सुमन्त्रः—भवति ! किं माम् ।
भरतः—(स्वगतम्) अति महान् खल्वायातः । सन्तापाद् भ्रष्टहृदयः ।
(प्रकाशम्) अपि मार्गात् प्रति निवृत्तस्तत्रभवान् ?
सुमन्त्रः—कुमार ! स्वन्नियोगाद् रामदर्शनार्थं जनस्थानं प्रस्थितः
कथमहमन्तरा प्रतिनिवर्तिष्ये ।
भरतः—किन्नु खलु क्रोधेन वा लज्जया वात्मानं न दर्शयन्ति ?
सुमन्त्रः—कुमार !
कुतः क्रोधो विनीतानां लज्जा वा कृतचेतसाम् ।
मया दृष्टं तु तच्छून्यं तैर्विहीनं तपोवनम् ॥६॥
[अन्वयः—विनीतानां क्रोधः कुतः, वा कृतचेतसां लज्जा । मया तु तत्
तपोवनं तैः विहीनं शून्यं दृष्टम् ॥६॥]
हिन्दी रूपान्तर
प्रतिहारी—(सुमन्त्र को लक्ष्य करके) आर्य आवें, आवें । ये स्वामी हैं । आर्य
समीप आवें ।
सुमन्त्र—(समीप आकर) कुमार की जय हो ।
भरत—तात ! क्या आपने लोक में आविष्कृत होने वाले पिता के प्रति
स्नेह को देखा ? क्या आपने अरुन्धती के दो भागों में विभक्त होने वाले चरित्र को
देखा ? क्या आपने बिना कारण के वनवास को देने वाले भ्रातृस्नेह को देखा ?
(सुमन्त्र चिन्ता में भरा खड़ा रहता है)
प्रतिहारी—राजकुमार आपसे ही पूछ रहे हैं ।
सुमन्त्र—आदरणीये ! क्या मुझसे ?
भरत—(मन में) इनका कष्ट निश्चय से बहुत अधिक है । दुःख के कारण
इनका हृदय खो सा गया है (प्रकट रूप में) क्या आदरणीय आप मार्ग से ही लौट
आये ?
सुमन्त्र—कुमार ! आपके आदेश से मैंने राम का दर्शन करने के लिये जन-
स्थान की ओर प्रस्थान किया था । मैं बीच में से ही कैसे लौट आता ?
भरत—तो क्या क्रोध के कारण अथवा लज्जा के कारण वे अपने दर्शन नहीं
दे रहे हैं ?

१८० ] प्रतिमानाटकम्
सुमन्त्र—कुमार !
अर्थ [श्लोक ६]—विनीत व्यक्तियों को क्रोध कहाँ होता है ? अर्थात् विनीत
व्यक्ति क्रोध नहीं करते । अथवा पुण्यात्माओं को लज्जा कहाँ होती है ? अर्थात्
पुण्यात्माओं को लज्जा करने का कोई कारण नहीं होता । मैंने तो वह तपोवन उन
राम आदि से रहित और सूना देखा था । अर्थात् जब मैं जनस्थान पहुँचा तो राम;
लक्ष्मण और सीता तपोवन में नहीं थे ॥६॥
संस्कृत-व्याख्या—विनीतानां विनयभावेन अवनतानां क्रोधः रोषः कुतः कस्मात्
कारणात् भवितुं शक्नोति । विनीताः जनाः क्रोधं न कुर्वन्ति । वा अथवा कृतचेतसां
पुण्यशालिनां जनानां लज्जात्रपा कुतः सम्भवति । न कोऽहेतुस्तादृशो वर्तते येन पुण्य-
शालिनो जनाः लज्जिताः भवेयुः । अतस्तेषां रामसीतालक्ष्मणानामदर्शने क्रोधः त्रपा वा
न हेतुः । मया सुमन्त्रेण तु तद् आश्रमं तपोवनं रामादीनां निवासः तैः रामादिभिः
विहीनं परित्यक्तम् अत एव शून्यं रिक्तमिव प्रतीयमानं दृष्टम् अवलोकितम् ॥६॥
व्याकरण—वि + नी + क्त = विनीतानाम् । किम् से पञ्चम्यास्तसिल् = किम्

  • तसिल्प् (क आदेश) = कुतः ।
    छन्दः—अनुष्टुप् ।
    लोकाविष्कृतपितृस्नेहः—लोके आविष्कृतः पितरं प्रति स्नेहः । राम पिता के
    प्रति भक्ति और स्नेह के कारण ही वन गये थे, जिससे कि पिता की प्रतिज्ञा असत्य
    न हो ।
    द्विधाभूतमरुन्धतीचरित्रम्—लोक में वसिष्ठ की पत्नी अरुन्धती का यश
    अपने पातिव्रत्य के लिये प्रसिद्ध है । सीता भी उनसे कम पतिव्रता नहीं है । अतः
    कल्पना की गई कि मानों उनका चरित्र दो भागों में बंट कर एक भाग सीता को
    प्राप्त हो गया है ।
    निष्कारण विहितवनवासं सौभ्रात्रम्—लक्ष्मण को कोई वनवास का आदेश
    नहीं था । तथापि भाई के प्रति स्नेह और भक्ति के कारण उन्होंने स्वयं ही वनवास
    स्वीकार किया । सुभ्रातुः भावः = सुभ्रातृ + अण् = सौभ्रात्र । इन तीनों कथनों में
    पहला राम के लिये, दूसरा सीता के लिये और तीसरा लक्ष्मण के लिये हैं ।
    भरतः—अथ क्व गता इति श्रुताः ?
    सुमन्त्रः—अस्ति किल किष्किन्धा नाम वनौकसां निवासः । तत्र गता
    इति श्रुताः ।
    भरतः—हन्त ! अविज्ञातपुरुषविशेषाः खलु वानराः । दुःखिताः प्रति-
    सुमन्त्रः—कुमार ! तिर्यग्योनायोऽप्युपकृतमवगच्छन्ति ।

षष्ठोऽङ्कः । १६१
भरतः—तात ! कथमिव ?
सुमन्त्रः— सुग्रीवो भ्रंशितो राज्याद् भ्रात्रा ज्येष्ठेन बालिना ।
हृतदारो वसञ्छैले तुल्यदुःखेन मोक्षितः ॥१०॥
[अन्वयः—ज्येष्ठेन भ्रात्रा बालिना राज्यात् भ्रंशितः हृतदारः सुग्रीवः शैले
वसन्, तुल्यदुःखेन मोक्षितः ॥१०॥
हिन्दी रूपान्तर—
भरत—आपने सुना होगा कि वे अब कहां चले गये हैं ?
सुमन्त्र—किष्किन्धा नाम का वानरों का निवास है। सुना है कि वहाँ
गये हैं।
भरत—निश्चय ही वानरों को मनुष्यों की विशेषताओं का ज्ञान नहीं होता ।
वे बड़े दुःखों से पीडित रहते हैं।
सुमन्त्र—कुमार ! पशु-पक्षी भी उपकार को समझते हैं ।
भरत—तात ! किस प्रकार ?
सुमन्त्र—
अर्थ [श्लोक १०]—बड़े भाई वाली ने जिसको राज्य से भ्रष्ट कर दिया था
और जिसकी पत्नी को छीन लिया था, ऐसा सुग्रीव ऋष्यमूक पर्वत पर रहता था ।
समान दुःख से दुःखी राम ने उसको दुःखों से छुटकारा दिलाया । अर्थात् उसके राज्य
को और पत्नी को वापिस करा दिया ॥१०॥
संस्कृत-व्याख्या—ज्येष्ठेन भ्रात्रा अग्रजन्मना बालिना राज्याद् भ्रंशितः अपहृत-
राज्याधिकारः, हृतदारः हृताः स्वहस्तगता कृताः दाराः कलत्रं यस्य तादृशः सुग्रीवः
शैले पर्वते ऋष्यमूकाभिधाने वसन् निवसन्, तुल्यदुःखेन तुल्यं समानं दुःखं कष्टः हृत-
कलत्रभावात् यस्य तेन, रामोऽपि हृतराज्यत्वाद् हृतकलत्रत्वाच्च समानरूपेण विषण्णः,
तेन मोक्षितः कष्टेभ्यः मोक्षं प्रापितः । रामेण बालिवधं कृत्वा सुग्रीवः राज्ये प्रतिष्ठितः
भार्यया च संयोगं प्रापितः ॥१०॥
व्याकरण—√भ्रंश् + णिच् + क्त = भ्रंशितः । √भ्राज् + तृन् = भ्रातृ ।
हृताः दाराः यस्य स । √हृ + णिच् + घञ् = दार ।
छन्दः—अनुष्टुप्
अविज्ञातपुंरुषविशेषाः—न विज्ञातः पुरुषाणां विशेषः येषां ते । जिनको मनुष्य
की विशेषतायें विदित नहीं है । वे नहीं जानते कि मनुष्यों ने सभ्यता का
विकास करके सुख से रहना सीख लिया है और अनेक सुविधाओं को वे उपभोग
करते हैं ।
वनौकसाम्—वनम् ओकः येषां ते । वानरों को वनोकस् कहा गया है ।
तिर्यग्योनयः—पशु-पक्षी की योनि वाले । तिरः अञ्चति = तिरस् + अञ्च्

१८२ ] प्रतिमानाटकम्

  • क्विप् (तिरस् को तिर् आदेश तथा अञ्च् के न् का लोप) = तिर्यञ्च् । पशु-पक्षी
    भी उपकार मानते हैं और कृतज्ञ होते हैं ।
    भरतः—तात ! कथं तुल्यदुःखेन नाम ?
    सुमन्त्रः—(स्वगतम्) हन्त ! सर्वमुक्तमेवमया । (प्रकाशम्) कुमार ! न
    खलु किञ्चित् । ऐश्वर्यभ्रंशतुल्यता ममाभिप्रेता ।
    भरतः—तात ! किं गूहसे ? स्वर्गं गतेन महाराजपादमूलेन शापितः
    स्याः, यदि न सत्यं ब्रूयाः ।
    सुमन्त्रः—का गतिः । श्रूयताम्—
    वैरं मुनिजनस्यार्थं रक्षसा महता कृतम् ।
    सीता मायामुपाश्रित्य रावणेन ततो हृता ॥११॥
    [अन्वयः—मुनिजनस्य अर्थे महता रक्षसा वैरं कृतम् । ततः रावणेन मायाम्
    उपाश्रित्य सीता हृता ॥११॥]
    हिन्दी रूपान्तर
    भरत—तात ! समान दुःख वाले ने, इसका क्या अभिप्राय है ।
    सुमन्त्र—(मन में) हाय, मैंने सभी कुछ कह दिया । (प्रकट रूप से) कुमार
    कोई ऐसी बात नहीं है । मेरा अभिप्राय है कि ऐश्वर्य से भ्रष्ट होना उनका समान
    दुःख है ।
    भरत—तात ! क्यों छिपाते हो ? यदि तुम सत्य न बोलो तो स्वर्ग गये
    हुये महाराज की तुमको शपथ है ।
    सुमन्त्र—और क्या चारा है ? सुनो—
    अर्थ [श्लोक ११]—मुनिजनों की रक्षा करने के लिये महान् राक्षस रावण
    से उन्होंने शत्रुता कर ली थी । तदनन्तर रावण ने माया का आश्रय लेकर सीता
    का अपहरण कर लिया ॥११॥
    संस्कृत-व्याख्या—मुनिजनस्य अर्थे ऋषीणां रक्षणाय महता महाबल-
    शालिना रक्षसा राक्षसराजेन रावणेन सह तेन रामेण वैरं शत्रुत्वं कृतं विहितम् ।
    ततः तदनन्तरं रावणेन मायां कपटम् उपाश्रित्य अवलम्ब्य सीता जानकी तव भ्रातृ-
    वधूः सूर्यवंशकुलवधूः हृता अपहृत्य स्वनगरीं नीता ॥११॥
    व्याकरण—वीरस्य भावः कर्म वा = वीर + अण् = वैर । मीयते अनया = मा
  • य + टाप् = माया । रावयति भीषयति सर्वान् = रु + णिच् + ल्यु (अन) =
    रावण ।
    छन्दः—अनुष्टुप् ।
    सर्वमुक्तमेव—सीताहरण का समाचार देकर भरत को सुमन्त्र दुःखी नहीं

षष्ठोऽङ्कः [ १८३
करना चाहते थे। परन्तु उनके मुख से तुल्यदुःखेन पद निकल गया। इससे भरत को
लगा कि राम का राज्य तो छिन ही गया है, सीता का हरण भी न हो गया हो।
तभी तुल्यदुःखता होगी।
का गतिः—भरत ने जब स्वर्गीय महाराज दशरथ के चरणों की सौगन्ध
दिला दी तो सुमन्त्र को लाचारी हो गई और उन्हें पूरा समाचार सुनाना पड़ा।
❖❖❖❖
भरतः—कथं हृतेति ? (मोहमुपगतः)
सुमन्त्रः—समाश्वसिहि, समाश्वसिहि।
भरतः—(पुनः समाश्वस्य) भोः कष्टम्—
पित्रा च बान्धवजनेन च विप्रयुक्तो
दुःखं महत् समनुभूय वनप्रदेशे।
भार्यावियोगमुपलभ्य पुनर्ममार्यो
जीमूतचन्द्र इव खे प्रभया वियुक्तः ॥१२॥
[अन्वयः—पित्रा च बान्धवजेन च विप्रयुक्तः, वनप्रदेशे महद् दुःखं समनु-
भूय, पुनः भार्यावियोगम् उपलभ्य मम आर्यः खे जीमूतचन्द्र इव प्रभया वियुक्तः
॥१२॥]
हिन्दी रूपान्तर—
भरत—क्या अपहरण कर लिया ? (मूर्छित हो जाता है)
सुमन्त्र—आश्वासन रखो, आश्वासन रखो।
भरत—(पुनः होश में आकर) अरे ! बहुत कष्ट है—
अर्थ [श्लोक १२]—पिता और बन्धुओं से बिछुड़े हुये तथा वन प्रदेश में
महान् दुःखों का अनुभव करके, अब पत्नी से वियुक्त होकर मेरे आर्य बड़े भाई राम
आकाश में मेघों से आच्छन्न चन्द्रमा के समान कान्ति से रहित हो गये हैं ॥१२॥
संस्कृत व्याख्या—पिता जनकेन बान्धवजनेन बन्धुभिश्च विप्रयुक्तः वियोगं
प्राप्तः दूरीकृतः इत्यर्थः, वनप्रदेशे अरण्यप्रान्ते महत् अत्यधिकं दुस्सहं दुःखं कष्टं
समनुभूय सम्यक्तया अनुभवं कृत्वा, पुनः तदनन्तरमधुना भार्यावियोगं भार्यायाः
पत्न्याः वियोगं विरहं सीताहरणेन भार्यावियोगः सम्प्राप्तः उपलभ्य अधिगम्य मम
आर्यः श्रेष्ठः भ्राता रामः खे आकाशे जीमूतचन्द्रः जीमूतैः मेघैः आच्छन्नः चन्द्रः शशी
इव प्रभया स्वकान्त्या वियुक्तः विरहितः सञ्जातः। यथा मेघाच्छन्नो चन्द्रः प्रभाहीनो
सञ्जायते, तथैव पत्न्याः वियुक्तः रामः प्रभाहीनः सञ्जातः ॥१२॥
व्याकरण—बध्नाति स्नेहे = बन्ध् + उ = बन्धु। बन्धोः भावः, बन्धूनां समूहो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१७४ । प्रतिमानाटकम्
बा = बन्धु + अण् = बान्धवा विभर्तुं योग्या = भृ + ण्यत् + टाप् = भार्या । प्रकर्षेण
भाति = प्र + भा + क्विप् + प्रभा ।
छन्दः—वसन्ततिलका ।
अलङ्कार—उपमा । यहाँ आर्य राम उपमेय, जीमूतचन्द्र उपमान, इव उपमा-
वाचक पद और प्रभया विमुक्तः, साधारण धर्म हैं । यह पूर्णोपमा है ।
भोः ! इदानीं किं करिष्ये ? भवतु, दृष्टम् । अनुगच्छतु मां तातः ।
सुमन्त्रः—यदाज्ञापयति कुमारः ।
(उभौ परिक्रामतः)
सुमन्त्रः—कुमार ! न खलु न खलु गन्तव्यम् । देवीनां चतुश्शाल-
मिदम् ।
भरतः—अत्रैव मे कार्य । भोः ! कः इह प्रतिहारे ?
(प्रविश्य)
प्रतिहारी—जेदु भट्टिदारओ । विजआखु अहं । [जयतु भर्तृदारकः ।
विजया खल्वहम् ।]
भरतः—विजये ! ममागमनं निवेद्यात्रभवत्यै ।
प्रतिहारी—कदमाए भट्टिणीए णिवेदेमि ? [कतमस्यै भट्टिन्यै निवेद-
यामि ?]
भरतः—या मां राजानमिच्छति ।
प्रतिहारी—(आत्मगतम्) हं कि णु खु भवे ? (प्रकाशम्) भट्टा ! तह)
हं । [किन्नु खल भवेत् ? भर्तः ! तथा ।]
(निष्क्रान्ता)
हिन्दी रूपान्तर—
अरे, अब मैं क्या करूंगा ? अच्छा, जान लिया है । तात् ! आप मेरे पीछे
आवें ।
सुमन्त्र—कुमार जो आदेश देते हैं ।
(दोनों घूमते हैं)
सुमन्त्र—कुमार ! निश्चय ही इधर नहीं, निश्चय ही इधर नहीं जाना
चाहिये । यह तो रानियों की चौसाला (अन्तःपुर) है ।
भरत—यहीं से मुझको कार्य है । अरे ! यहाँ द्वार पर कौन है ?
(प्रवेश करके)
प्रतिहारी—राजकुमार की जय हो । मैं विजया हूँ ।

षष्ठोऽङ्कः [ १६५
भरत— विजये ! मेरे आने की बात आदरणीया रानी जी से निवेदन
कर दो ।
प्रतिहारी—किन रानी जी से निवेदन करूं ?
भरत—जो मुझको राजा बनाना चाहती है ।
प्रतिहारी—(मन में) हां, कौन सी मुसीबत की बात हो सकती है ? (प्रकट
रूप में) स्वामिन् ! ऐसा ही होगा ।
(निकल जाती है)
टिप्पणी—
देवीनां चतुशशालम्—चतुश्शाल (चौसाला) एक विशेष प्रकार की गृहरचना
है । इसमें बीच में आंगन होता है तथा उसके चारों ओर कमरे बने होते हैं। भारतीय
गृहनिर्माण पद्धति में यह विशेष रचना है। समृद्ध घरों में एक से अधिक भी चतुश्शाल
होते थे । बाहर के चतुश्शाल का उपयोग पुरुषों के लिये तथा अन्दर के चतुश्शाल
का उपयोग स्त्रियों के लिये होता था । इसको अन्तःपुर भी कहते थे । सामान्यतः
इसमें पुरुषों के जाने का निषेध था । इसीलिये भरत से सुमन्त्र कहते हैं कि इधर
न जाइये ।
या मां राजानमिच्छति—भरत ने व्यंग्य के साथ यह कथन किया है । उसका
अभिप्राय है कि मेरे लिये राज्य की कामना करके कैकेयी ने महान् अनर्थ किया है ।
उस कैकेयी को ही मैं देखना चाहता हूँ । प्रतिहारी भी इस बात को समझ जाती है
तथा कल्पना करती है कि कोई मुसीबत की बात है ।
(ततः प्रविशति कैकेयी प्रतिहारी च)
कैकेयी—विजए ! मं पेक्खिदुं भरदो आओदो ? [ विजये ! मां प्रेक्षितुं
भरत आगतः ? ]
प्रतिहारी—भट्टिणि ! तह ! भट्टिदारअस्स रामस्स सआसादो तादसुमन्तो
आओदो । तेन सह भट्टिदारओ भरदो भट्टिणि पेक्खिदुं इच्छति किल । [ भट्टिनि !
तथा । भर्तृदारकस्य रामस्य सकाशात् तात सुमन्त्र आगतः । तेन सह भर्तृ-
दारको भट्टिनीं प्रेक्षितुमिच्छति किल । ]
कैकेयी—(स्वगतम्) केण खु उग्घादेन मं उवालम्भिस्सदि भरदो ? [ केन
खलूद्घातेन मामुपालप्स्यते भरतः ? )
प्रतिहारी—भट्टिणि ! किं पविसदु भट्टिदारओ ? [ भट्टिनि ! किं प्रविशतु
भर्तृदारकः ! ]
कैकेयी—गच्छ ! पवेसेहि णं । [ गच्छ । प्रवेशयैनम् । ]

१८६ ] प्रतिमानाटकम्
प्रतिहारी—भट्टिणि ! तह । (परिक्रम्योपसृत्य) जेदु भट्टिदारओ । पविसदु
किल । [भट्टिनि ! तथा । जयतु भर्तृदारकः । प्रविशतु किल ।]
भरत—किं निवेदितम् !
प्रतिहारी—आम् ।
भरत—तेन हि प्रविशावः । (प्रविशतः)
कैकेयी—जाद ! विजआ मन्तेदि रामस्य सआसादो सुमन्तो आद त्ति ।
[जात ! विजया मन्त्रयते—रामस्य सकाशात् सुमन्त्र आगत इति ।]
भरत—अतः परं प्रियं निवेदयाम्यत्रभवत्यै ।
कैकेयी—जाद ! अपि कोसलल्ला सुमित्ता अ सद्दायिदव्वा ? [जात !
अपि कौसल्या सुमित्रा च शब्दापयितव्ये ? ]
भरत—न खलु ताभ्यां श्रोतव्यम् ।
कैकेयी—(आत्मगतम्) हं, किं णु खु भवे ? (प्रकाशम्) भणाहि जादे !
[हं किन्नु खलु भवेत् ? भण जात ! ]
हिन्दी रूपान्तर—
(तदनन्तर कैकेयी और प्रतिहारी प्रवेश करते हैं)
कैकेयी—मुझको देखने के लिये क्या भरत आया है ?
प्रतिहारी—स्वामिनि ! ऐसा ही है। राजकुमार राम के पास से तात सुमन्त्र
आये हैं । उनके साथ राजकुमार भरत स्वामिनी को देखना चाहते हैं ।
कैकेयी—(अपने मन में) न जाने क्या बात उठाकर भरत मुझे को उलाहना
देगा ?
प्रतिहारी—स्वामिनि ! राजकुमार क्या प्रवेश करें ?
कैकेयी—जाओ और इसको प्रवेश कराओ ।
प्रतिहारी—स्वामिनि ! बहुत अच्छा । (घूमकर समीप आकर) राजकुमार
की जय हो । आप प्रवेश करें ।
भरत—विजये ! क्या निवेदन कर दिया ?
प्रतिहारी—हाँ ।
भरत—तो प्रवेश करते हैं । (भरत और सुमन्त्र दोनों प्रवेश करते हैं)
कैकेयी—पुत्र ! विजया कहती है कि राम के पास से सुमन्त्र आये हैं ?
भरत—इससे भी अधिक प्रिय बात आदरणीया आपसे निवेदन कर रहा हूँ ।
कैकेयी—पुत्र ! क्या कौसल्या और सुमित्रा को भी बुला लिया जावे ?
भरत—उनको यह बात नहीं सुननी है ।
कैकेयी—(अपने मन में) यह क्या बात हो सकती है ? (प्रकट रूप से)
पुत्र ! कहो ।

षष्ठोऽङ्कः १४७
टिप्पणी—
केन खलु उद्घातेन मामुपालप्स्यते भरत—भरत को राम के वनवास के
कारण कैकेयी के प्रति बहुत अधिक क्रोध है । वे कैकेयी से या तो बोलते ही नहीं
और कभी बोलते भी हैं तो व्यङ्ग्य प्रहार के साथ उलाहना देते हुये बोलते हैं । अब
भी भरत के आने पर कैकेयी को आशंका है कि भरत कोई कटु बात कह कर
उलाहना देंगे । उत् + हन् + घञ् = उद्घात । प्रहार, कटु बात का आघात आदि
अर्थ हैं ।
न खलु ताभ्यां श्रोतव्यम्—सीता के अपहरण का वृत्तान्त सुना कर भरत
कैकेयी को खूब खरी-खोटी सुनाना चाहते हैं । अतः वे नहीं चाहते कि इस बात को
कौसल्या और सुमित्रा भी सुनें ।
भरत—श्रूयताम्—
यः स्वराज्यं परित्यज्य त्वन्नियोगाद् वनं गतः ।
तस्य भार्या हृता सीता पर्याप्तस्ते मनोरथः ॥१३॥
[अन्वयः—यः त्वन्नियोगात् स्वराज्यं परित्यज्य वनं गतः, तस्य भार्या सीता
हृता । ते मनोरथः पर्याप्तः ॥१३॥]
हिन्दी रूपान्तर—
भरत—सुनिये—
अर्थ [श्लोक १३]—जो राम आपके आदेश से अपने राज्य को छोड़कर वन
को चले गये थे, उनकी पत्नी सीता का अपहरण कर लिया गया । आपकी अभिलाषा
खूब पूरी हो गयी है ॥१३॥
संस्कृत-व्याख्या—यः रामः पितृमातृभक्तः निदेशकारी च वर्तते त्वन्नियोगात्
तव आदेशाद् स स्वराज्यं स्वम् आत्मीयं राज्यं परित्यज्य हित्वा वनम् अरण्यं गतः
प्राप्तः वल्कलवसनानि परिधाय पत्न्या सीतया भ्रात्रा लक्ष्मणेन च सह तपोवनेषु
सम्प्राप्तः, तस्य त्वन्निदेशकारिणो रामस्य भार्या पत्नी सीता जानकी हृता राक्षसेन
रावणेन अपहृत्य नीता । ते तव मनोरथः अभिलाषः पर्याप्तः पूरितः । रामवन-
वासस्य त्वमेव हेतुः, तदनन्तरं च तत्र सीतापहरणस्यापि त्वमेव हेतुरित्यर्थः ॥१२॥
व्याकरण—राज्ञो भावः कर्म वा = राजन् + ष्यञ् = राज्य । नि + √युज्

  • घञ् = नियोग । परि + √आप् + क्त = पर्याप्त । मनसः रथः = मनोरथः । √हृ
  • क्त = टाप् = हृता ।
    छन्दः—अनुष्टुप् ।

१८८ प्रतिमानाटकम्
कैकेयी—हं ?
भरतः— हन्त भोः सत्वयुक्तानामिक्ष्वाकूणां मनस्विनाम्।
वधूप्रधर्षणं प्राप्त प्राप्यात्रभवतीं वधूम् ॥१४॥
[अन्वयः—भोः हन्त ! सत्वयुक्तानां मनस्विनाम् इक्ष्वाकूणाम् अत्रभवतीं वधूं
प्राप्य वधूप्रधर्षणं प्राप्तम् ॥१४॥]
हिन्दी रूपान्तर—
कैकेयी—हैं ?
भरत—
अर्थ [श्लोक १४]—हे लोगो ! यह बड़े खेद तथा धिक्कार के योग्य बात है
कि पराक्रमशाली तथा बहुत अधिक स्वाभिमानी इक्ष्वाकुवंशियों ने आदरणीया
आपको वधू के रूप में प्राप्त करके वधू के अपहरण जैसे अपमान को भी पाया है।
आप इस इक्ष्वाकुवंश में वधू के रूप में आईं और आपके कारण इस कुल को वधू का
अपहरण होकर उनको अपमानित होना पड़ा है ॥१४॥
संस्कृत व्याख्या—भोः हे जनाः ! हन्त इति खेदे । अत्यधिक कष्टकरः
धिक्कारयोग्यश्चायं विषयः यत्-सत्त्वयुक्तानां पराक्रमशालिनां मनस्विनां स्वाभिमान-
वतां च इक्ष्वाकूणाम् इक्ष्वाकुवंशीयानाम् अत्रभवतीम् आदरणीयां त्वां विपरीतलक्षणया
कुत्सिताचरणशालिनीं त्वां कैकेयीं वधूं प्राप्य वधूरूपेण उपलभ्य वधूधर्षणं वधूस्नुषा
तस्याः प्रधर्षणम् अपहरणरूपमपमानं प्राप्तं समधिगतम् । पराक्रमशालिभिः मनस्वि-
भिश्च इक्ष्वाकुभिः पूर्वं कदाचिदपि ईदृशो मानभङ्गावसरो न प्राप्तः, कस्यचिदपि
साहस ईदृशो न बभूव, य इक्ष्वाकुकुलवधूषु दृष्टिनिक्षेपमपि कर्तुं शक्नुयात् । परन्तु
त्वया राज्यलोभेन ईदृशोऽप्यवसरः प्रदत्तः । अतः अत्यधिकधिक्कारयोग्यात्वम् ॥१४॥
व्याकरण—सत्त्वेन पराक्रमेण युक्तानाम् = सत्त्वयुक्तानाम् । सतो भावः = सत्

  • त्व = सत्त्व । √ युज् + क्त = युक्त । प्रशस्तं मनः अस्य अस्ति = मनस् + विनि =
    मनस्विन् । वध्वाः प्रधर्षणम् = वधू प्रधर्षणम् । प्र + धृष् + ल्युट् (अन) = प्रधर्षण ।
    छन्दः—अनुष्टुप् ।
    अलंकार—विषम । सम्मान के योग्य इक्ष्वाकुवंशियों को असम्मान के प्राप्त
    होने से विषम अलंकार है ।
    कैकेयी—(आत्मगतम्) भोदु । दाणिं कालो कहेउं । (प्रकाशम्) जाद !
    तुवं ण जाणासि महाराअस्स सावं ? [भवतु । इदानीं कालः कथयितुम् । जात !
    त्वं न जानासि महाराजस्य शापम् ? ]
    भरतः—किं शप्तो महाराजः ?
    कैकेयी—सुमन्त ! आचक्ख वित्थरेण । [सुमन्त्र ! आचक्ष्व विस्तरेण ।]

षष्ठोऽङ्कः [ १८६
सुमन्त्रः—यदाज्ञापयति भवती । कुमार ! श्रूयताम्—पुरा मृगयां
गतेन महाराजेन कस्मिंश्चित्सरसि कलशं पूरयमाणो वनराजबृंहितानुकारि-
शब्दसमुत्पन्नगजशङ्कया शब्दवेधिना शरेण विपन्नचक्षुषो महर्षेश्चक्षुर्भूतो
मुनितयो हिंसितः ।
भरतः—हिंसित इति । शान्तं शान्तं पापम् । ततस्ततः ?
सुमन्त्रः—ततस्तमेवंगत दृष्ट्वा—
तेनोक्तं रुदितस्यान्ते मुनिना सत्यभाषिणा ।
यथाहं भो स्त्वमप्येवं पुत्रशोकाद् विपत्स्यसे ॥१५॥
इति ।
[अन्वयः—रुदितस्य अन्ते सत्यभाषिणा तेन मुनिना उक्तम्—भोः ! यथा
अहम् एवं त्वम् अपि पुत्रशोकाद् विपत्स्यसे ॥१५॥]
हिन्दी रूपान्तर
कैकेयी—(अपने मन में) अच्छा । बात कहने का यह समय है। (प्रकट रूप
से) पुत्र ! क्या तुम महाराज के शाप की बात को नहीं जानते ?
भरत—क्या महाराज को शाप दिया गया था ?
कैकेयी—सुमन्त्र ! विस्तार से सारी बात कहो ।
सुमन्त्र—आप जैसा आदेश देती हैं । कुमार ! सुनो—पहले समय में कभी
शिकार के लिये महाराज गये थे । वहाँ किसी जलाशय में एक अन्धे महर्षि का
नेत्ररूप मुनिपुत्र घड़े में जल भर रहा था । उस जल के भरने की गड़गड़ाहट का
शब्द जंगली हाथी की चिंघाड़ के समान था । उस शब्द से हाथी की भ्रान्ति से
महाराज ने शब्दभेदी बाण के द्वारा उस मुनिपुत्र को मार डाला ।
भरत—मार डाला ? पाप शान्त हो, शान्त हो । उसके बाद ?
सुमन्त्र—तदनन्तर उसको इस अवस्था में देखकर—
अर्थ [श्लोक १५]—खूब रो लेने के बाद सत्य बोलने वाले उस मुनि ने
कहा है—हे राजन् ! जैसे कि मैं पुत्र के शोक से मर रहा हूँ, उसी प्रकार तुम्हारी
भी पुत्र के शोक से मृत्यु होगी ॥१५॥
संस्कृत व्याख्या—रुदितस्य अन्ते पर्याप्तरूपेण रोदनं कृत्वा तदनन्तरं सत्य-
भाषिणा सत्यम् अवितथं भाषितुं कथितुं शीलं यस्य तेन, यस्य कथनमेव सत्यं
भवतीत्यर्थः, तेन मुनिना महर्षिणा विपन्नचक्षुषा उक्तं कथितम्—भोः हे राजन् ! यथा
येन प्रकारेणाहं पुत्रशोकात् मरिष्यामि, त्वम् अपि एवम् अनेनैव प्रकारेण पुत्रशोकाद्
पुत्रस्य तनयस्य शोकाद् विरहजन्यदुःखाद् विपत्स्यसे मृत्युं प्राप्स्यसि ॥१५॥

१६० ] प्रतिमानाटकम्
व्याकरण—सत्यं भाषितुं शीलं यस्य = सत्य + √भाष् + इनि = सत्यभाषिन् ।
पुत्रस्य शोकात् = पुत्रशोकात् । √शुच् + घञ् = शोक ।
छन्दः—अनुष्टुप् !
इदानीं कालः कथयितुम्—भास ने यहाँ कैकेयी को निर्दोष दिखाने के लिये
कल्पना की है कि राजा की रक्षा के लिये ही मन्त्रियों के परामर्श से उसने राम
को वन भेजने का कार्य किया था । अब वह रहस्य भरत के सामने कैकेयी खोलना
चाहती है, जिससे कि भरत का उसके प्रति क्रोध समाप्त हो जावे ।
सुमन्त्र ! आचक्ष्व विस्तरेण—कैकेयी उस बात को स्वयं नहीं कहना चाहती।
वह सुमन्त्र के द्वारा ही कहलाती है, जिससे कि भरत को विश्वास हो सके।
पुरा मृगयां गतेन—रामायण में श्रवणकुमार की कथा है। अन्धे माता-पिता
को वह तीर्थयात्रा करा रहा था। रात में सरयू के तट पर वह जल भरने गया।
इसी समय दशरथ वहाँ शिकार खेलने आ निकले। दूसरे घड़े में जल भरने के शब्द
उन्होंने राजा का शब्द समझकर शब्दवेधी बाण चलाया। उससे श्रवणकुमार की
मृत्यु हो गई। दुःखी होकर उन अन्धे माता-पिता ने दशरथ को शाप दिया कि
उसकी भी इसी प्रकार पुत्र के विरह के दुःख से मृत्यु होगी।
भरतः—नान्विदं कष्टं नाम ।
कैकेयी—जाद ! एतण्णिमित्तं अवराहे मां णिक्खिविअ पुत्तओ रामो वणं
पेषिदो, ण हु रज्जलोहेण । अपरिहरणीओ महरिसिसाओ पुनविप्पवासं विणा ण होहि ।
[जात ! एतन्निमित्तमपराधे मां निक्षिप्य पुत्रको रामो वनं प्रेषितः, न खलु
राज्यलोभेन । अपरिहरणीयो महर्षिशापः पुत्रविप्रवासं विना न भवति ।]
भरतः—अथ तुल्ये पुत्रविप्रवासे कथमहमरण्ये न प्रेषितः ?
कैकेयी—जाद ! मादुलउले वत्तमाणस्स पइदीहूदो दे विप्पवासो । [जात !
मातुलकुले वर्तमानस्य प्रकृतीभूतस्ते विप्रवासः ।]
भरतः—अथ चतुर्दशवर्षाणि किं कारणमवेक्षितानि ?
कैकेयी—जाद ! चउद्दस दिवस त्ति वत्तुकामाए पय्याउलहिअआए चउद्दस
वरिसाणि त्ति उत्तं । [जात ! चतुर्दश दिवसा इति वक्तुकामयपर्याकुलहृदयया
चतुर्दश वर्षाणीत्युक्तम् ।]
भरतः—अस्ति पाण्डित्यं सम्यग् विचारयितुम् । अथ विदितमेतद्
गुरुजनस्य ?
सुमन्त्रः—कुमार ! वसिष्ठवामदेव प्रभृतीनामनुमतं विदितं च ।
भरतः—हन्त ! त्रैलोक्यसाक्षिणः खल्वेते । दिष्ट्याऽनपराद्धात्रभवती ।

षष्ठोऽङ्कः [ १६१
अम्ब ! यद् भ्रातृस्नेहात् समुत्पन्नमन्युना मया। दूषितात्रभवती, तत् सर्वं
मर्षयितव्यम् । अम्ब ! अभिवादये । (चरणयोः पतति)
कैकेयी—जाद ! का णाम माता पुत्तअस्स अवराहं ण मरिसेदि ? उट्ठेहि
उट्ठेहि । को एत्थ दोसो ? [जात ! का नाम माता पुत्रस्यापराधं न
मर्षयति ? कोऽत्र दोषः ?]
हिन्दी रूपान्तर—
भरत—निश्चय से यह बहुत अधिक कष्ट की बात है ।
कैकेयी—पुत्र ! इसी कारण मैंने आपको अपराधी बनाकर प्रिय पुत्र राम
को वन भेजा था, किसी राज्य के लालच से नहीं भेजा था । महर्षि का शाप
अवश्यंभावी था और पुत्र को परदेस भेजे बिना उसका परिहार नहीं हो सकता था ।
भरत—तो हम दोनों पुत्रों, मेरा और राम का प्रवास बराबर ही होता ।
मुझको वन किस कारण नहीं भेजा ?
कैकेयी—पुत्र ! तुम मामा के घर रह रहे थे, अतः महाराज को तुम्हारे
प्रवास का अभ्यास हो गया था ।
भरत—तो फिर चौदह वर्ष की अवधि किसलिये निर्धारित की थी ।
कैकेयी—पुत्र ! मैं चौदह दिन की अवधि कहना चाहती थी, परन्तु हृदय के
व्याकुल हो जाने के कारण चौदह वर्ष, इस प्रकार कह दिया ।
भरत—यही स्त्रियों की चतुराई है । इस पर अच्छी प्रकार विचार करना
चाहिये और यह बात क्या गुरुजनों को विदित है ?
सुमन्त्र—कुमार ! वसिष्ठ, वामदेव आदि गुरुजनों ने इसकी अनुमति दी थी
और यह बात उनको विदित है ।
भरत—अहोभाग्य है। ये तो निश्चय से तीनों लोकों के साक्षी हैं । भाग्य से
आप निरपराध हैं । मातः ! भाई के प्रति स्नेह के कारण मुझको क्रोध उत्पन्न हो
गया था और मैंने आदरणीया आप पर दोष लगाया था, उसको आप क्षमा कर
दीजिये । हे मातः ! मैं आपका अभिवादन करता हूँ। (पैरों में गिरता है)
कैकेयी—पुत्र ! कौनसी ऐसी माता है, जो प्रिय पुत्र के अपराध को क्षमा
नहीं कर देगी ? उठो, उठो । इसमें कौनसा दोष है ?
टिप्पणी—
पुत्रको रामो वनं प्रेषितः न खलु राज्यलोभेन—यहाँ कैकेयी अपनी सफाई
देने तथा अपने को निरपराध सिद्ध करने के लिये बता रही है कि मैंने राज्य का
लोभ नहीं किया था । राम भी मुझको पुत्र की तरह प्रिय हैं। वे मेरे प्रिय पुत्र ही
हैं । महर्षि के शाप का परिहार करने के लिये ही मैंने उनको वन भेजा था । पति
की हितकामना के कारण ही मैंने अपने को अपराधी बनाया ।

१६२ ] प्रतिमानाटकम्
प्रकृतिभूतस्ते विप्रवासः—भरत को फिर भी आशंका रही और उन्होंने कहा
कि मैं भी पुत्र था और राम भी पुत्र थे । मुझको ही क्यों नहीं वन भेज दिया ।
कैकेयी कहती है कि तुम बहुत समय से मामा के घर रह रहे थे । अतः महाराज को
तुम्हारे वियोग का अभ्यास हो गया था । अतः तुम्हारे वन भेजने से शाप का परिहार
नहीं हो सकता था । प्रकृतिभूतः = स्वभावतामापन्नः । अप्रकृतिः प्रकृतिः भूतः =
प्रकृति + च्वि + भूत = प्रकृतीभूत । वि + प्र + वस् + घञ् = विप्रवास ।
पर्याकुलहृदया—भरत को फिर भी शंका बनी रही कि कैकेयी का हृदय
दूषित था । उसने चौदह वर्ष की लम्बी अवधि क्यों नियत की । कैकेयी बताती है कि
वह चौदह दिन की अवधि कहना चाहती थी । परन्तु उस समय उसका हृदय बहुत
व्याकुल था और चौदह दिन के स्थान पर मुख से चौदह वर्ष निकल गये । पर्याकुलं
हृदयं यस्याः तया = पर्याकुलहृदयया । परितः आकुलम् = पर्याकुलम् । √ हृ + क्यन्
(दुक् का आगम) = हृदय ।
अस्ति पाण्डित्यम्—भरत को अभी भी शंका है । वह जानता है कि स्त्रियाँ
बातें बनाने में बहुत चतुर होती हैं । अतः वह कैकेयी के कथन पर और भी विचार
करना चाहता है ।
त्रैलोक्यसाक्षिणः—त्रयाणां लोकानां समाहारः = त्रैलोक्यम् । सह अक्षि यस्य
= सह + अक्षि + इनि = साक्षिन् । वसिष्ठ, वामदेव आदि पर विश्वास करना ही
चाहिये । अब भरत को माता की बात पर विश्वास होता है । वह ग्लानि से भर
जाता है कि उसने माता को व्यर्थ ही दोष लगाया । वह क्षमा माँगता है ।
--❖--
भरतः—अनुगृहीतोऽस्मि । आपृच्छाम्यत्रभवतीम् । अद्यैवाहमार्यस्य
साहाय्यार्थं कृत्स्नं राजमण्डलमुद्योजयामि । अयमिदानीम्—
वेलामिमां मत्तगजान्धकारां
करोमि सैन्यौघनिवेशनद्धांम् ।
बलैस्तरङ्गैश्च नयामि तुल्यं
ग्लानिं समुद्रं सह रावणेन ॥१६॥
[अन्वयः—इमां वेलां मत्तगजान्धकारां सैन्यौघनिवेशनद्धां करोमि । तरङ्गैः
बलैः च रावणेन सह समुद्रं तुल्यं ग्लानिं नयामि ॥१६॥]
हिन्दी रूपान्तर—
भरत—मैं अनुगृहीत हो गया हूँ । आदरणीया आपसे मैं पूछ रहा हूँ । आज
ही मैं आर्य राम की सहायता के लिये सारे राजाओं को सन्नद्ध करता हूँ । अब
यह मैं—
अर्थ [श्लोक १६]—इस समुद्रतट को मैं अपने मतवाले हाथियों के द्वारा

षष्ठोऽङ्कः [ १६३
अन्धकारयुक्त करता हूँ और सैन्यसमूह का शिविर लगाकर इससे सन्नद्ध कर रहा
हूँ । समुद्र को पार करती हुई सेनाओं के द्वारा रावण के साथ ही समुद्र को
भी समान रूप से पराजित किये देता हूँ ॥१६॥
संस्कृत व्याख्या—इमाम् एनां वेलां समुद्रतटं, यस्मात् स्थानात् लङ्का रावण-
राजधानी आक्रमितुं शक्यते तां समुद्रतटवर्तिनीं भूमिम् अहं मत्तगजान्धकारां मत्तैः
मदजलस्रवणदक्षैः गजैः करिभिः अन्धकाराम् अन्धकारयुक्तां श्यामलवर्णां करोमि ।
मदीयैः कृष्णवर्णैः मदजलस्राविभिः गजैः समुद्रतटे तमसो व्याप्तिरिव भविष्यति ।
पुनश्च सैन्यौघनिवेशनद्धां सैन्यानां चमूनाम् ओघस्य समूहस्य निवेशेन शिविरस्थापनेन
नद्धां व्याप्तां करोमि । समुद्रतटे सैन्यस्य शिविरं मया स्थाप्यते तदनन्तरं तरद्भिः
सागरं प्लवमानैः बलैः सैन्यैः रावणेन दशाननेन सह समुद्रं पयोनिधि तुल्यं समकालमेव
ग्लानिं पराजयजनितहर्षक्षयतां नयामि प्रापयामि । समुद्रसन्तरणसमकालमेव रावणं
पराजित्य तं शोकभाजन्तां नयामि ॥१६॥
व्याकरण—मत्तैः गजैः अन्धकाराम् = मत्तगजान्धकाराम् । अन्धं करोति =
अन्ध + √कृ + अण् = अन्धकार । सैन्यानाम् ओघस्य निवेशेन नद्धाम् । √नह् +
क्त + टाप् = नद्धा । ग्लै + क्तिन् = ग्लानि ।
छन्दः—उपजाति ।
अलंकार—सहोक्ति । रावणेन सह समुद्रम् में सहोक्ति अलंकार है ।
❖-❖-❖
अये शब्द इव । तूर्णं ज्ञायतां शब्दः ।
(प्रविश्य)
प्रतिहारी—जेदु कुमारो । इमं वृत्तन्तं सुणिअ जेट्ठभट्टिणी मोहं गदा ।
[जयतु कुमारः । इमं वृत्तान्तं श्रुत्वा ज्येष्ठभट्टिनी मोहं गता ।]
कैकेयी—हम् ।
भरतः—कथं मोहमुपगताम्बा ?
कैकेयी—एहि, जाद ! अय्यां अस्सासइस्सामो । [एहि जात ! आर्या-
माश्वासयिष्यावः ।]
भरतः—यदाज्ञापयत्यम्बा ।
(निष्क्रान्ताः सर्वे)
हिन्दी रूपान्तर
अरे, शब्द सा हो रहा है । शीघ्र ही शब्द का कारण पता करो ।

१६४ ] प्रतिमानाटकम्
(प्रवेश करके)
प्रतिहारी—कुमार की जय हो । इस वृत्तान्त को सुनकर बड़ी स्वामिनी
कौसल्या मूच्छित हो गई हैं ।
कैकेयी—हैं ?
भरत—क्या कहा, माता मूर्च्छित हो गई हैं ?
कैकेयी—पुत्र ! आओ । आर्या को आश्वासित करें ।
भरत—माता का जैसा आदेश है ।
(सब निकल जाते हैं)
टिप्पणी—
आर्यस्य साहाय्यार्थम्—कैकेयी का स्पष्टीकरण होने के बाद भरत तुरन्त ही
राम की सहायता के लिये जाना चाहते हैं और इसके लिये माता कैकेयी से अनुमति
मांगते हैं ।
ज्येष्ठभट्टिनी—ज्येष्ठा चासौ भट्टिनी । बड़ी रानी कौसल्या ।
॥ इति षष्ठोऽङ्कः ॥
॥ छटा अंक पूरा हुआ ॥
इति भासविरचितप्रतिमानाटके डा० कृष्णकुमारकृत व्याख्यायाः
षष्ठोऽङ्कः समाप्तः

सप्तमोऽङ्कः
(ततः प्रविशति तापसः)
तापसः—नन्दिलक ! नन्दिलक !
(प्रविश्य)
नन्दिलकः—अय्य ! अअं ह्मि । [आर्य ! अयमस्मि ।]
तापसः—नन्दिलक ! कुलपतिर्विज्ञापयति—एष खलु स्वदारापहारिणं
त्रैलोक्यविद्रावणं रावणं नाशयित्वा, राक्षसगणविरुद्धवृत्तं गुणगणविभूषणं
विभीषणमभिषिच्य देवदेवर्षिसिद्धविमलचारित्रां तत्रभवतीं सीतामादाय,
ऋक्षराक्षसवानरमुख्यैः परिवृतः सम्प्राप्तस्तत्रभवान् शरद्विमलगगनचन्द्राभिरामो
रामः । तदद्यास्मिन्नाश्रमपदेऽस्मद्विभवेन यत् सङ्कल्पयितव्यं, तत् सर्वं
सञ्जीक्रियतामिति ।
नन्दिलकः—अय्य ! सव्वं सञ्जीकिदं । किन्तु, [आर्य ! सर्वं
सञ्जीकृतं किन्तु,]
तापसः—किमेतत् ?
नन्दिलकः—एत्थ विभीषणकेरआ रक्खसा । तेसं भक्खणणिमित्तं कुलवदी
पमाणं [अत्र विभीषणसम्बन्धिनो राक्षसाः । तेषां भक्षणनिमित्तं कुलपतिः
प्रमाणम् ।]
हिन्दी रूपान्तर—
(तदनन्तर तपस्वी प्रवेश करता है)
तपस्वी—नन्दिलक ! हे नन्दिलक !
(प्रवेश करके)
नन्दिलक—आर्य ! मैं यह हूँ।
तपस्वी—नन्दिलक ! कुलपति आदेश देते हैं—अपनी पत्नी का अपहरण
करने वाले और तीनों लोकों को भयभीत करने वाले रावण का विनाश करके;
राक्षसों के चरित्र के प्रतिकूल शुद्ध आचरण वाले और गुणों के समूह से अलंकृत
विभीषण का लङ्का में राज्याभिषेक करके ; देवताओं, देवर्षियों तथा सिद्धों के समक्ष
निर्मल चरित्र को प्रतिपादित करने वाली आदरणीया सीता को लेकर प्रमुख रीछों,
राक्षसों और वानरों से घिरे हुये; शरत्कालीन निर्मल आकाश के चन्द्रमा के समान

१६६ ] प्रतिमानाटकम्
सबको आनन्दित करने वाले ये आदरणीय राम यहाँ आ रहे हैं । तो आज इस
आश्रम में, हमारे तपोवन के ऐश्वर्य के योग्य अर्थात् वन में सुलभ जो भी सामग्रियाँ
अभीष्ट हो सकती हैं, उन सबकों तैयार कर लिया जावे ।
नन्दिलक—आर्य ! सब कुछ तैयार कर लिया है । किन्तु,
तपस्वी—किन्तु, यह क्या बात है ?
नन्दिलक—यहाँ विभीषण से सम्बन्धित राक्षस भी आये हैं। उनके भोजन
के लिये क्या सामग्री हो, इसमें कुलपति ही प्रमाण हैं।
टिप्पणी—
स्वदारापहारिणम्—स्वकीयान् दारान् अपहर्तुं शीलं यस्य तम् = स्व +
दार + अप + हृ + णिनि = स्वदारापहारिन् ।
त्रैलोक्यविद्राविणम्—त्रैलोक्यं विद्रावयितुं शीलं यस्य तम् = त्रैलोक्य + वि +
द्रु + णिच् + णिनि = त्रैलोक्यविद्राविन् ।
देवदेवर्षिसिद्धविमलचारित्राम्—दैवैः, देवर्षिभिः सिद्धैश्च प्रतिपादितं विमलं
चारित्रं यस्याः तादृशीम् । सीता के चरित्र पर राम ने सन्देह किया था । देवताओं ने
उसके चरित्र की निर्मलता प्रतिपादित की थी ।
शरद्विमलगगनचन्द्राभिरामः—शरदि विमले गगने चन्द्र इव अभिरामः ।
अभिरामयति = अभि + रम् + घञ् = अभिराम ।
अस्मद्विभवेन—आश्रम में वन्य फल-मूल = जल ही उपलब्ध होते हैं । वही
वहाँ का ऐश्वर्य है । उससे ही राम के आतिथ्य का प्रबन्ध किया जावे ।
विभीषणसम्बन्धिनो राक्षसाः—राक्षस नरमांस का भक्षण करते हैं । अतः
उनको भोजन में क्या दिया जावे, यह नन्दिलक को आशंका थी ।
तापसः—किमर्थम् ?
नन्दिलकः—ते खु खज्जन्ति । [ते खलु खादन्ति]
तापसः—अलमलं सम्भ्रमेण । विभीषणविधेयाः खलु राक्षसाः ।
नन्दिलकः—णमो रक्खससज्जणाअ । [नमो राक्षससज्जनायं]
(निष्क्रान्तः)
तापसः—(विलोक्य) अये अत्र भवान् राघवः ? य एषः—
जयः स्याद् द्वितीयस्तवारि-
स्तवभवतु विधया भूमिरैकातपत्रा ।
इति मुनिभिरनेकः स्तूयमानः प्रसन्नैः
क्षितितलमवतीर्णो मानवेन्द्रो विमानात् ॥१॥