प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 257, कुल 296 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः [ १६३
अन्धकारयुक्त करता हूँ और सैन्यसमूह का शिविर लगाकर इससे सन्नद्ध कर रहा
हूँ । समुद्र को पार करती हुई सेनाओं के द्वारा रावण के साथ ही समुद्र को
भी समान रूप से पराजित किये देता हूँ ॥१६॥
संस्कृत व्याख्या—इमाम् एनां वेलां समुद्रतटं, यस्मात् स्थानात् लङ्का रावण-
राजधानी आक्रमितुं शक्यते तां समुद्रतटवर्तिनीं भूमिम् अहं मत्तगजान्धकारां मत्तैः
मदजलस्रवणदक्षैः गजैः करिभिः अन्धकाराम् अन्धकारयुक्तां श्यामलवर्णां करोमि ।
मदीयैः कृष्णवर्णैः मदजलस्राविभिः गजैः समुद्रतटे तमसो व्याप्तिरिव भविष्यति ।
पुनश्च सैन्यौघनिवेशनद्धां सैन्यानां चमूनाम् ओघस्य समूहस्य निवेशेन शिविरस्थापनेन
नद्धां व्याप्तां करोमि । समुद्रतटे सैन्यस्य शिविरं मया स्थाप्यते तदनन्तरं तरद्भिः
सागरं प्लवमानैः बलैः सैन्यैः रावणेन दशाननेन सह समुद्रं पयोनिधि तुल्यं समकालमेव
ग्लानिं पराजयजनितहर्षक्षयतां नयामि प्रापयामि । समुद्रसन्तरणसमकालमेव रावणं
पराजित्य तं शोकभाजन्तां नयामि ॥१६॥
व्याकरण—मत्तैः गजैः अन्धकाराम् = मत्तगजान्धकाराम् । अन्धं करोति =
अन्ध + √कृ + अण् = अन्धकार । सैन्यानाम् ओघस्य निवेशेन नद्धाम् । √नह् +
क्त + टाप् = नद्धा । ग्लै + क्तिन् = ग्लानि ।
छन्दः—उपजाति ।
अलंकार—सहोक्ति । रावणेन सह समुद्रम् में सहोक्ति अलंकार है ।
❖-❖-❖
अये शब्द इव । तूर्णं ज्ञायतां शब्दः ।
(प्रविश्य)
प्रतिहारी—जेदु कुमारो । इमं वृत्तन्तं सुणिअ जेट्ठभट्टिणी मोहं गदा ।
[जयतु कुमारः । इमं वृत्तान्तं श्रुत्वा ज्येष्ठभट्टिनी मोहं गता ।]
कैकेयी—हम् ।
भरतः—कथं मोहमुपगताम्बा ?
कैकेयी—एहि, जाद ! अय्यां अस्सासइस्सामो । [एहि जात ! आर्या-
माश्वासयिष्यावः ।]
भरतः—यदाज्ञापयत्यम्बा ।
(निष्क्रान्ताः सर्वे)
हिन्दी रूपान्तर
अरे, शब्द सा हो रहा है । शीघ्र ही शब्द का कारण पता करो ।