सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 241, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 241

षष्ठोऽङ्कः [ १७७
प्रपद्य, तदनन्तरं लब्धप्रसादःशपथे लब्धः प्राप्तः प्रसादः रामप्रतिनिधिरूप पादुका-
युगलप्रसादः शपथः, चतुर्दशवर्षविधिवनवासकाले त्वया राज्यपरिपालनं कर्तव्यं
तदनन्तरं च वनवासावधिसमाप्तावहं सन्निवर्त्य राजधान्यामयोध्यायां राज्यग्रहणं
करिष्यामीति प्रतिज्ञा येनतादृशे मयि भरते सन्निवृत्ते चित्रकूट तपोवनादयोध्यायां
समागते सति, तदनन्तरं च प्रजानयनबुद्धिमनोऽभिरामं प्रजानां लोकानां नयनानि
चक्षूंषि बुद्धीः मतीः मनांसि चेतांसि च अभिरमयति आनन्दयति इति तादृशं लोका-
ह्लादकरं रामं दृष्ट्वा अवलोक्य अयम् एषः अत्रभवान् आदरणीयः सुमन्त्रः किमिति
प्रश्ने इह अयोध्यायाम् आगतः सम्प्राप्तः ? तमेव दर्शयित्वा रामविषयकं समाचारं
प्राप्य स्वमनसो दुःखं दूरीकरिष्यामीति भावः ॥७॥
व्याकरण—आर्यस्य निरीक्षणार्थम् = आर्य निरीक्षणार्थम् । √ऋ + ण्यत् =
आर्य । निर् + √ईक्ष् + ल्युट् (अन) = निरीक्षण । लब्धः प्रसादः शपथश्च येन
तस्मिन् = लब्धप्रसादशपथे । प्रजानां नयनानां बुद्धीनां मनसां च अभिरामम् = प्रजा-
नयनबुद्धिमनोऽभिरामम् । मन्यते बुध्यते अनेन = √मन् + असुन् = मनस् । अभि-
रमयति = अभि + √रम् + घञ् = अभिराम ।
छन्दः--वसन्ततिलका ।
अलङ्कार—यमक । रामम् और मनोभिरामम् में यमक अलंकार है ।
काञ्चुकीयः—(उपगम्य) जयतु कुमारः ।
भरतः—अथ कस्मिन् प्रदेशे वर्तते तत्रभवान् सुमन्त्रः ?
काञ्चुकीयः—असौ काञ्चनतोरणद्वारे ।
भरतः—तेन हि शीघ्रं प्रवेश्यताम् ।
काचुकीयः—यदाज्ञापयति कुमारः । (निष्क्रान्तो)
(ततः प्रविशति सुमन्त्रः प्रतिहारी च)
सुमन्त्रः—(सशोकम्) कष्टं भोः ! कष्टम्--
नृपतिनिधनं मयानुभूतं
नृपतिसुतव्यसनं मयैव दृष्टम् ।
श्रुत इह स च मैथिलीप्रणाशो
गुण इव बह्वपराद्धमायुषा मे ॥८॥
[अन्वयः—नरपतिनिधनं मया अनुभूतम् । नृपतिसुतव्यसनं मया एव अनु-
भूतम् । इह च स मैथिलीप्रणाशः श्रुतः । मे आयुषा गुणे इव बहु अपराद्धम् ॥८॥]