प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
DevanagariHindipublished296 पृष्ठ
पृष्ठ 230, कुल 296 में से
संदर्भ में पढ़ेंपृष्ठ 230१६६ [ ] प्रतिमानाटकम्
सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि । [आर्यपुत्र ! परित्रायस्व;
१६६ [ ] प्रतिमानाटकम्
अलङ्कार—व्यतिरेक । उपमा सूर्य की अपेक्षा उपमेय सीता में तेज के
आधिक्य का वर्णन करने से व्यतिरेक अलङ्कार है ।
सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि । [आर्यपुत्र ! परित्रायस्व;
परित्रायस्व ।]
रावणः—(सीतां गृहीत्वा) भो भोः ! जनस्थाननिवासिनस्तपस्विनः !
शृण्वन्तु भवन्तः—
बलादेव दशग्रीवः सीतामादाय गच्छति ।
क्षात्रधर्मे यदि स्निग्धः कुर्याद् रामः पराक्रमम् ॥२१॥
[अन्वयः—दशग्रीवः बलाद् एव सीताम् आदाय गच्छति । यदि रामः क्षात्र-
धर्मे स्निग्धः, पराक्रमं कुर्यात् ॥२१॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो ।
रावण—(सीता को पकड़कर) हे हे ! जनस्थान में रहने वाले तपस्वियों !
आप सुनें—
अर्थ [श्लोक २१]—यह रावण जबरदस्ती सीता को लेकर जा रहा है ।
यदि राम को क्षात्रधर्म के प्रति आस्था है, तो पराक्रम प्रकट करे ॥२१॥
संस्कृत-व्याख्या—दशग्रीवः दश ग्रीवाः कण्ठाः यस्य स दशग्रीवः दशमनुष्य-
तुल्यपराक्रमशाली अयं रावणः बलात् स्वभुजसामर्थ्यादेव सीतां जानकीम् आदाय
अपहृत्य गच्छति स्वपुरीं याति । यदि रामः क्षात्रधर्मे स्वक्षत्रियाणां कर्तव्ये स्निग्धः
अनुरागवान्, पराक्रमं कुर्यात् प्रकटयेत् । रावणेन मयेयं सीता बलादपह्रियते । यदि
रामः सत्यमेव क्षत्रियोऽस्ति, युद्धे मां विजित्य स्वभार्यायाः सीतायाः मोक्षणं
कुर्यात् ॥२१॥
व्याकरण—दश ग्रीवाः यस्य स = दशग्रीवः । क्षात्राणां धर्मं = क्षात्रधर्मं ।
क्षतात् त्रायते = क्षत + √त्रै + क = क्षत्र । क्षत्रस्येदम् = क्षत्र + अण् = क्षात्र । धरति
लोकान्, ध्रियते वा यः पुण्यशालिभिः = √धृ + मन् = धर्म । √स्निह् + क्त =
स्निग्ध ।
छन्दः—अनुष्टुप् ।
सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि ।
रावणः—(परिक्रामन् विलोक्य) अये, स्वपक्षपवनोत्क्षेपक्षुभितवनखण्ड-
श्चण्डचञ्चुरभिधावत्येष जटायुः । आः, तिष्ठेदानीम्—
मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः ।
रुधिरैराद्रपक्षस्त्वां नयामि यमसादनम् ॥२२॥