प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 227, कुल 296 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः । १६३
चक्षुर्विषयम्—चक्षुषोः विषयम् । रावण की दृष्टि में जो पड़ गया, वह बच
नहीं सकता ।
सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि । सोमित्ती परित्ताआहि,
परित्ताआहि मं । [आर्यपुत्र ! परित्रायस्व, परित्रायस्व । सौमित्रे ! परित्रायस्व,
परित्रायस्व माम् ।]
रावणः—
रामं वा शरणमुपेहि लक्ष्मणं वा
स्वर्गस्थं दशरथमेव वा नरेन्द्रम् ।
किं वा स्यात् कुपुरुषसंश्रितैर्वचोभि-
र्न व्याघ्रं मृगशिशवः प्रधर्षयन्ति ॥१८॥
[अन्वयः—रामं वा, लक्ष्मणं वा, स्वर्गस्थं नरेन्द्रं दशरथम् एव वा शरणम्
उपेहि, कुपुरुषसंश्रितैः वचोभिः किं वा स्यात् ? मृगशिशवः व्याघ्रं न प्रधर्ष-
यन्ति ॥१८॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो । हे लक्ष्मण ! मेरी रक्षा करो,
रक्षा करो ।
रावण—
अर्थ [श्लोक १८]—चाहे तुम राम की, अथवा लक्ष्मण की अथवा स्वर्ग में
स्थित राजा दशरथ की ही शरण में जाओ, कायर पुरुषों का आश्रय लेकर
कहे गये इन वचनों से क्या लाभ है ? मृगों के बच्चे बाघ को घर्षित नहीं कर
सकते । तुम किसी की शरण को क्यों न पुकारो, मुझसे तुमको कोई बचा नहीं
सकता ॥१८॥
संस्कृत-व्याख्या—रामं वा स्वभर्त्तारं दाशरथिं वा, लक्ष्मणं वा स्वदेवरं
सौमित्रिं वा, स्वर्गस्थं स्वर्गे वर्तमानं नरेन्द्रं राजानं दशरथं तन्नामानं स्वश्वसुरं वा,
शरणं त्रातारम् उपेहि आश्रयस्व, अनेन तव किमपि न सिध्यति । कुपुरुषसंश्रितैः
कुत्सिताः दुर्बलत्वेन कुत्साविषयाः पुरुषाः रामलक्ष्मणदशरथाः तान् प्रति प्रयुक्तैः
वचोभिः परित्रायस्वेति कथनैः किं वा स्यात् को लाभः ? न कोऽपि प्रयोजनसिद्धिः
भविष्यति । न कोऽपि तव रक्षां विधातुं समर्थः । मृगशिशवः मृगाणां हरिणानां शिशवः
बालकाः व्याघ्रं द्वीपिनं न प्रधर्षयन्ति पराजेतुं समर्थाः भवन्ति । एते सर्वे रामलक्ष्मण-
दशरथाः पराक्रमे मृगशिशुसदृशाः अहं च व्याघ्रतुल्यः । न ते मां पराजेतुं शक्ष्यन्ति ।
अतः व्यर्थमेव ते समुद्दिश्य विलापः ॥१८॥