सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 222, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 222

१५८ ] प्रतिमानाटकम्
राम—नहीं, नहीं—
अर्थ [श्लोक १३]—यदि यह स्वयं ही यहां आगया है, तो ये पिता जी के अच्छे
भाग्य हैं। हे सीते ! लक्ष्मण से कहो कि यह मृग निश्चय से पूजा के योग्य
है ॥१३॥
संस्कृत-व्याख्या—यदि अयं काञ्चनमृगः स्वयम् आत्मनैव इह अस्मिन् स्थाने
विन्ध्यवने मत्सन्निधौ आगतः विनेव मे प्रयासेन समायातः, एतानि इमानि तु तातस्य
जनकस्यैव भाग्यानि भागधेयानि । पितुः भाग्यैरेवायं काञ्चनमृगस्तस्याभ्युदयायात्र
समायातः । हे मैथिलि सीते ! लक्ष्मणं सौमित्रिं ब्रूहि कथय, एष मृगः हि निश्चयेन
पूजायां वार्षिकश्राद्धविधौ अर्हति उपयुक्तो विद्यते । एनमानीय अनेनैव शीघ्रं श्राद्धकर्म
समापनीयम् ॥१३॥
व्याकरण—भज् + ण्यत् = भाग्य । अस्मिन् अर्थ में = इदम् + ह (इदम् को
इ आदेश) = इह ।
छन्दः—अनुष्टुप् ।
─── ••• ───
सीता—अय्यउत्त ! णं तित्थअत्तादो उवावत्तमाणं कुलवदिं पच्चुग्गच्छेहि
त्ति सन्दिट्ठो सोमित्ती । [आर्यपुत्र ! ननु तीर्थयात्रात उपावर्तमानं कुलपतिं प्रत्यु-
द्गच्छेति सन्दिष्टः सौमित्रिः ।]
रामः--तेन हि अहमेव यास्यामि ।
सीता—अय्यउत्त अहं किं करिस्सं ? [आर्यपुत्र ! अहं किं करिष्यामि ?]
रामः--शुश्रूषयस्व भगवन्तम् ।
सीता—जं अज्जउत्तो आणवेदि । [यदार्यपुत्र आज्ञापयति ।]
(निष्क्रान्तो रामः)
रावणः—अये, अयमर्घ्यमादायोपसर्पति राघवः । एष इदानीं पूजामन-
वेक्ष्य धावन्तं मृगं दृष्ट्वा धनुरारोपयति राघवः—
अहो बलमहो वीर्यमहो सत्त्वमहो जवः ।
राम इत्यक्षरैरल्पैः स्थाने व्याप्तमिदं जगत् ॥१४॥
अन्वय—अहो बलम्, अहो वीर्यम्, अहो सत्त्वम्, अहो जवः । स्थाने, राम
इति अल्पैः अक्षरैः इदं जगद् व्याप्तम् ॥१४॥
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! निश्चय से आपने ही, तीर्थयात्रा से वापिस लौटे हुये
कुलपति की अगवानी करने के लिये लक्ष्मण को आदेश दिया है।
राम—इसलिये मैं ही जाऊँगा।