मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
इस ग्रन्थ के बारे में
पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।
यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।
ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।
६३२ मीमांसादर्शनम् [ सू०
न त्वर्थाद्गम्यमानस्य वस्तुत्वस्यापि वाच्यता ।
धर्मान्तरत्ववृत्तेस्तु१ सत्तायाः कुत एव सा ॥ ९७७
वस्तुशब्दो हि रूढित्वाद् व्यक्तिजात्यन्तराश्रितम् ।
सामान्यं यद् ब्रवीत्येतद् गम्यतेऽर्थर्गवादिभिः ॥ ९७८
शुद्धाभिधानपक्षस्य दुष्टत्वात्तैर्विशेषितम् ।
वक्ष्यमाणेन निरासहेतुना अस्य पक्षस्य निराकरणम्
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३० ] प्रथमाध्याये तृतीयपादः ६३३
कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसंगतिः ।
सामान्येनाऽप्यपूर्वादि सत्तातोऽन्यत्तु लभ्यते ॥ ९८३
अपूर्व-देवतास्वर्गादिशब्दानामर्थान्तरपरत्वम् न सत्तावाचित्वमित्युपपादनम्
सर्वपदार्थानामेव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति, यागादिजनितं
च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतम्,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६३४ मीमांसादर्शनम् [ सू०
नित्यं यथैव शब्दानाम्नातानां प्रयोजने ।
अर्थप्रत्यायनार्थत्वात्तद्देशेनावधारणा ॥ ९९०
एवं सर्वपदार्थानां वाक्यार्थप्रत्ययाङ्गता ।
यथा सिध्येत्तथा कार्यं तेषां रूपनिरूपणात् ॥ ९९१
आकृतिर्यदि शब्दार्थः कस्य स्युः प्रोक्षणादयः ।
केन चेज्येत न त्याग आकृतेरुपपद्यते ॥ ९९२
अमूर्ता ह्याकृतिर्नित्या नावघातादिभाजनी¹ ।
तद्विधिः प्रतिषेधो वा तेनास्या नावकल्पते ॥ ९९३
'व्रीहीनवहन्ति,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१० ] प्रथमाध्याये तृतीयपादः ६३५
नाऽऽकृतिः । न च विकल्पसमुच्चय-सम्बन्ध-समुदायान्यतरविशिष्टान्यतराभिधान-
पक्षाः सम्भवन्ति, अविभागादेव सर्वेषामपि ज्ञानसिद्धेः ।
अपि चाद्रव्यशब्दत्वाद् व्यक्तेरेवाभिधेयता ।
सामानाधिकरण्यं हि नाऽऽकृत्यर्थ-गुणार्थयोः ॥ ९९४ ३० ॥
॥ आकृतिशक्त्यधिकरणम् ॥
न्या० सु०—अत्र भाष्यकारेणाथ गौरित्येवमादयः शब्दाः किमाकृतेर्वाचकाः सन्तो
वाच्यार्थे प्रमाणमुत व्यक्तेरिति गवादिविशेषणोपादानान्न सर्वशब्दानामेतद्विचारविधेयतेति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६३६ मीमांसादर्शनम् [ सू०
वाक्यार्थे प्रमाणम्, अथ व्यक्तेरिति व्याख्या अनेनोक्ता । व्यक्त्याकृतिवाचित्वसन्देहमुप-
न्यस्योच्यते इत्यादिभाष्येण मध्ये चिन्तान्तरं कृतम् । तत्किमर्थमित्याशङ्क्य प्रकृतचिन्तो-
पोद्घातार्थत्वमाह—तत इति । न निर्णयार्थं विना कापि चिन्ता कर्तुं शक्या । न च
निष्फला प्रतितिष्ठति । लौकिकवैदिकशब्दार्थभेदे च वैदिकशब्दार्थचिन्ता निरुपाय ।
लौकिकशब्दार्थचिन्ता च निष्फला स्यादित्याशयः ।
नन्वेवं सति प्रतिपदाधिकरणदिवत्प्रकृतचिन्तामनुपक्रम्यैवोपोद्घातचिन्ता कस्मान्न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३० ] प्रथमाध्याये तृतीयपाद। ६३७
अधीयतेऽस्यामिति व्युत्पत्त्याऽध्ययनतिथिः अध्यायो द्वितीयादिः अष्टम्याद्यनध्ययनतिथिः
अध्यायः । वेदवाक्यान्यध्याये यज्ञोपवीतेनैव त्रैवर्णिकेनैव च प्रयोज्यानि, लौकिकान्य-
नध्यायेऽप्यनुपनीतेनापि चातुर्वर्ण्येनापि च प्रयोज्यानि, अप्रयोज्यत्वेनाप्रेष्यत्वेन च हेतुना
परिचर्यया प्रसादितो यो गुरुस्तदुच्चारणपूर्वकं वेदवाक्यानि प्रयुक्तानि, यदृच्छया प्रयुक्तानि
लौकिकानीति, धर्मभेदाच्चाथा लौकिकवैदिकवाक्यानामन्यत्वम् । तदन्यत्वाच्च वाक्यार्थान्यत्वं
तथा पदानां धर्मभेदात्पदार्थानां च पदभेदाद् भेद इति पूर्वपक्षं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतथात्र 'वषट्कर्त्तुः प्रथमभक्ष' इतिवत् समासान्निष्कृष्य गोमात्रस्योद्देशायोगात् देवगवानां
चोत्तानवहनवदसिद्धत्वाविशेषात् कथंचित् सिद्धेश्चोत्तानवहनस्यापि सम्भवाद्यच्छब्दयोगः
प्राथम्यमित्याद्युद्देश्यलक्षणमित्यनेन न्यायेन प्राथम्योपात्तोत्तानवहनोद्देशप्रतीतेस्तदुद्देशेन
गोशब्दवाच्यत्वविध्याश्रयणात्स्वरसतः प्रतीयमानस्य देवगवोद्देशेनोत्तानवहनविधौ भङ्गः
कृत इत्यर्थः ।
नन्वेवं सति य उत्ताना वहन्ति ते देवानां गोशब्दवाच्या इति वेदवाक्यगतपदपौर्वा-
पर्यालोचनेनालौकिकस्याप्यर्थस्य यूपादिवत्प्रतीतिसिद्धेर्लौकिकवैदिकशब्दार्थान्यत्वेऽपि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३० ] प्रथमाध्याये तृतीयपादः ६३९
माभाति । तस्मादिष्टापत्तिरूपहेत्वभिधानप्रतीतेरयुक्तमाशङ्क्याह—प्रयोगेति । लिङ्गदर्शन-
बलेनात्रैको वेदवादी पूर्वपक्षी रूपभेदादिनान्यः शुष्कतार्किकः तत्र पूर्वः शुष्कतार्किकस्य
त्विदं प्रत्यवस्थानमित्याशयः । अत इति ल्पब्लोपे पञ्चमी इदमभिप्रेत्याहेत्यर्थः अविभागं
पञ्चधा व्याचष्टे--तदुच्यत इति । स एवायं गोशब्द इति प्रत्यभिज्ञानरूपप्रत्ययस्य लौकिक-
वैदिकशब्देष्वविभागादित्यर्थः । रूपाविभागादित्यनेन विलक्षणरूपाप्रतीतेरित्युक्ते घटपटयोर-
ज्ञायमानत्वावस्थायां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंमधुगुणमात्रान्यतापारत्वे कार्योपयोगाभावाद्वाक्यानर्थक्यं स्यादित्याशङ्कानिराकरणार्थं
न चेति भाष्येण स्तुत्यर्थत्वमुक्तम् । तत्र निरालम्बनस्तुत्यनुपपत्तिमाशङ्क्यालम्बनमाह—
अत इति । लौकिकानामेव गवादीनां यज्ञादौ विनियुक्तानामिह स्वर्गं वै त्वालोकं गमयिष्याम
इत्यादिदर्शनेन स्वर्गलोकप्राप्तेर्देवसम्बन्धप्रभावादुत्तानवहनाद्यलौकिकगुणान्तरप्राप्तिर्भविष्य-
तीत्याशयः । स्वर्गगमनामावेऽपि वा भूमिगतानामेव गवां ‘देवाश्च याभिर्यजते ददाति च’
वा ज्योतिस्ताभिः स च ते गोपत्तिः सहेत्यादिदर्शनाद्देवोद्देश्येन त्यक्तानां दुःखसागरतारणा-
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३० ] प्रथमाध्याये तृतीयपादः ६४१
सम्बन्धो वा, समुदायो वाप्यसम्बन्धश्च समुदायश्च, उत व्यक्त्यैव विशिष्टः, सम्बन्ध
एवाप्यसमुदाय एव अथ विकल्पोऽथ समुच्चयविशिष्टयाकृत्या किं व्यक्तिः, अथाकृत्यऽथ
वा विशिष्टः सम्बन्ध एव । अथ समुदाय एव, अथ विकल्पोऽथ समुच्चयः । अथ एवं
समुदायेन विशिष्टः सम्बन्ध एव अथ सम्बन्धेन विशिष्टः समुदाय एव अथ विकल्पोऽथ
समुच्चयः किमाकृतिविशिष्टया व्यक्त्या विशिष्टः सम्बन्ध एव अथ समुदाय एव अथ
विकल्पोऽथ समुच्चयः । अथोभाभ्यां परस्परविशिष्टाभ्यां विशिष्टः सम्बन्ध एव अथ समुदाय
एव अथ विकल्पोऽथ समुच्चयः । अथोभाभ्यां
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६४२ मीमांसादर्शनम् [ सू०
ग्रन्थस्त्वेवं योज्यः । जातिव्यक्तिविषयैर्नियोगादिभिरष्टभिः पक्षैर्विकल्पिताः परस्पर-
व्यतिकरेण कल्पिता येऽन्ये षण्णवतिः पक्षास्तेषामाद्यैरष्टभिः सह समुच्चितानां प्रत्येकं
लिङ्गादीनां जात्या सह सम्प्रधारणायामुत्थानं दर्शयित्वा व्यक्त्या सह दर्शयितव्यम् ।
तथा लिङ्गसंख्यादियुगलानि व्यतिकरेण कल्पयित्वा लिङ्गादिसहितैकैकजा व्यक्तिविषया-
पेक्षया विकल्पा दर्शयितव्याः । लिङ्गदीनां कियतां जात्या, व्यक्त्या वा सम्प्रधारणेत्य-
पेक्षायां प्रत्येकमेकैकेन द्वाभ्यां युगलीभूताभ्यां त्रिभिश्च लिङ्गादिभिः सहिताया एकैकस्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३० ] प्रथमाध्याये तृतीयपादः ६४३
रकसंख्याचतुष्काभ्यां द्वाभ्यां समुदायलिङ्गकारकसंख्याचतुष्केनैकेन दश जातिव्यक्ति-
सम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसंख्यापञ्चकै -
स्त्रिभिर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्यापञ्चकाभ्यां द्वाभ्यां सम्बन्धसमुदायलिङ्ग-
कारकसंख्यापञ्चकेनैकेन षट्जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकजातिसम्बन्धसमुदाय-
लिङ्गकारकसंख्याषट्काभ्यां द्वाभ्यां व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याषट्केनैकेन
तिस्रः सप्तकेन वैकेति षट्पञ्चाशदष्टपक्ष्यः प्रथमाभिः सप्तभिः सह त्रिषष्टिरष्टपक्ष्यश्चतूत्तराणि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६४४ मीमांसादर्शनम् [ सू०
का पुनरिति भाष्येणाकृतिव्यक्त्योः प्रश्नपूर्वकं स्वरूपनिरूपणं कृतम् । तस्य
प्रयोजनमाह-ततश्चेति । विषयावधारणं विचारमुखम् । ननु सम्बन्धादीनामपि विचार-
विषयत्वात्किमिति स्वरूपं न निरूपितमित्याशङ्कच प्राधान्येनाकृतिव्यक्त्योरेव विचार-
विषयत्वमनन्तरोक्तम् ततश्चेत्यनेन कारणतया परामृष्टम् । अकृतित्वस्वरूपनिरूपणस्य
पौनरुक्त्यमाशङ्कते-नन्विति । परिहरति - सत्यमिति । मात्रशब्दं सर्वसामान्यव्याप्त्यर्थ-
त्वेन व्याख्यातुं भाष्यपाठपूर्वकं सामान्यानि विभजति-द्रव्येति । प्रथमशब्देन परशब्दः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें३० ] प्रथमाध्याये तृतीयपाद। ६४५
स्मृतत्वात्कथं विभागार्थं हेतुतेत्याशङ्कयाऽपर्यायेत्युक्तं प्रक्षेपपरस्वत्वापादनवाचित्वेन लोक-
तोऽर्थभेदावगतेर्व्याकरणस्य शब्दान्वाख्यानमात्रार्थत्वेनार्थतात्पर्याभावात्स्वत्वनिवृत्त्यंशोप-
लक्षणमात्रार्थत्वेन च यजिजुहोतिस्मृत्योर्दानशब्दोपपत्तेर्दानपर्यायस्मृत्योत्सारणमिव त्याग-
त्वादेरप्यवान्तरविभागोऽभ्यासादिभिः क्रियत इत्याह—प्रविभज्यत इति । विधानशब्देनास-
कृद्विधिरभ्यासो—नासकृच्छ्रु तिमात्राभित्युक्तम् । संख्योत्पत्तिगता द्वयादिका संख्याऽप्यन्य-
लिङ्गैव । गुणो पूर्वंसंयोगाह्रैः, अनुपादेयसम्बन्धसचिवो सन्निधिः प्रकरणान्तरम् ।
ननु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें६४६ मीमांसादर्शनम् [ सू०
कल्प्येतेत्यनेनौपाधिकत्वं दर्शितम् । दिगादीनां तु न स्वाभाविकं संस्थानम्, भाव्यौपाधिक-
मित्यर्थः । नन्वनुगतैकाकारप्रत्ययवेद्यत्वाज्जातिरप्याकाराभावे न सम्भवतीत्याशङ्क्याह—
सामान्येति । संस्थानाख्याकाराभावेऽप्येकाकारप्रत्ययवेद्यः सर्वस्वव्यक्त्यनुगतो विजाती-
येभ्यो व्यावृत्तो निरालम्बनबुद्ध्ययोगाद् ब्राह्मण्यादिवन्नापह्नोतुं शक्य इत्याशयः ।
सर्वेषु स्वविशेषेष्वनुवृत्तिरेव रूपं यस्येति विग्रहः । उपसंहरति—तस्मादिति ।
नन्वाकृत्यादिषु संस्थानासम्भवेऽपि गवादिषु सद्भावाद् गवादिशब्दानां संस्थानात्मका-
कृतिवाचित्वं भविष्यतीत्याशङ्क्याह—संस्थानस्य चेति । नानाव्यक्त्यनुगतनित्यसामान्या-
भ्युपगमात्संस्थानस्याकृतित्वे सामान्यं वाच्यमिति व्यवहारो न युज्यत इत्यर्थः । संस्थान-
सामान्यस्य त्वाकृतिलक्षणत्वेन गोत्वाद्याकृतीनां वैलक्षण्यं सिद्ध्येदित्याह—अथेति ।
नन्ववान्तरसंस्थानसामान्यस्याकृतित्वमभ्युपगमान्न सङ्करापत्तिरित्याशङ्क्याह—न चेति ।
गोशब्दालम्बनत्वासम्भवे कारणमाह—तस्य हीति । नन्वेवं सति संस्थानस्याकृतित्वशङ्का-
कारणाभावात् किं तन्निराकरणार्थेन सर्वसामान्यानामाकृतित्वमभिधानेनेत्याशङ्क्याह—
तेनेति । येन संस्थानस्याकृतित्वं न युक्तम्, तेन निराकृतमिति । तेनेत्यस्य योजना शङ्को-
पोद्वलनाय दृष्टान्ताभिधानम् ।
ननु सामान्यशब्देनैव संस्थानशङ्कानिवृत्तिसिद्धेः सर्वसामान्यव्याप्त्यर्थो मात्रशब्दोऽनर्थक
इत्याशङ्क्याह—अतश्चेति । सर्वं सामान्यमाकृतिरित्यभिप्रेत्य यो मात्रशब्दः प्रयुक्तः,
सोऽतः शङ्काव्यावर्तनात् कारणाच्छङ्काव्यावृत्त्यर्थमिति, यावदिति योज्यम् । ऊहितशङ्का-
निवृत्त्यर्थंश्चकारः । व्यक्तौ च सर्वशब्दानां वाच्येहाकृतित्वेन विवक्षिता, न सामान्यान्त-
राणीति शङ्कान्तरनिराससूचनार्थो वा ।
व्यक्तिस्वरूपनिरूपणार्थंस्यासाधारणेति भाष्यस्यान्येषां व्याख्यानं दूषयितुमुपन्य-
स्यति—असाधारणेति । गौर्गौरित्येकाकारप्रत्ययस्य सामान्याख्यानुवृत्ताकारविषयत्वाच्छा-
बलेयो बाहुलेय इति अनेकाकारप्रत्ययस्य च विशेषाख्यव्यावृत्ताकारविषयत्वान्न तद्व्यति-
रिक्ताकारिभूतवस्तुसद्भावे प्रमाणमस्तीति, व्यक्तिशब्दस्य विशेषसमूहवाचित्वेन, वृक्षा
वनमितिवद्वचनभेदे दोषाभावात् वृक्षाणामाश्रयो वनमितिवच्चाश्रय ( विशेषाणामाश्रयो
व्यक्तिरिति 'अग्नेरुत्तानामाश्यस्तु' व्यवहारस्य वृक्षाणामाश्रयो वनमितिवदुपपत्तेरित्यर्थः )
व्यपदेशोपपत्तेः कर्म्मधारय एव युक्त इत्याशयः ।
'आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ।
तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेद् ॥' अ० सू० श्लो० १५२
इत्यनेन न्यायेन प्रत्यक्षसूत्रावयवानुवृत्तव्यावृत्तव्यतिरिक्तस्य धर्मिणः साधितत्वात्तद-
पह्नवो न युक्त इत्यभिप्रायेण दूषयति—तत्विति । साधारण्यत्वविशेषाणां नासाधारण-
व्यक्तात्मकत्वं युक्तमित्याह—खण्डेति । एतदेव व्याचष्टे -- खण्डेति । अन्योऽपीत्यने-
नान्तरशब्दो शाबलेयवर्णेऽपि शबलापत्य इत्येवं व्याख्यातः शबलाशब्देन च तच्छब्दः
३० ] प्रथमाध्याये तृतीयपादः ६४७
वार्त्तिकश्लोकस्थ इत्यर्थं । शाबलेयशब्दप्रकृतिभूतशबलाप्रातिपदिकपरामर्शार्थत्वेन
व्याख्यातः । एतच्चेत्यनेनादिशब्दोक्तं शबलाख्यविशेषस्य साधारण्यं व्याख्यातम् । एतदेव
शबलेति नामाऽन्यत्रापि व्यक्तौ वर्त्तत इत्यर्थः । कथमित्यपेक्षिते प्रकारद्वयमुक्तं याहच्छि-
कत्वासिद्धौ—सङ्केतवशादित्युक्तम् । नामशब्देनावास्तवोऽपि वर्णद्वयशून्योऽयं विशेषः
प्रोक्तव्य इति सूचितम् । याहच्छिकशबलापत्ये साधारणार्थं तदपत्ये वेति पुनर्वचनं
शाबलेय इति नाम वर्त्तत इत्याद्यनुषङ्गेण योज्यम् । ननु साधारण्येऽपि व्यक्तिमात्रलक्षणार्थ-
त्वेनादोषो भविष्यतीत्याशङ्कयाह—असाधारणेति । दोषान्तराभिधानार्थं चेदमुक्तम् ।
दोषान्तरमाह—विशेषेति । व्यक्तिशब्दस्य समुदायवाचित्वाभावान्न वृक्षा वनमित्ये-
तत्तुल्यतेत्याशयः ।
स्वमतेन व्याचष्टे—तस्मादिति । दोषसाम्यमाशङ्कते—नन्विति । या व्यक्तिः सौत्रं
लक्षणेति लक्षणत्वेनोपादीयमानानां विशेषाणां समुदायेनासाधारण्येन च विशेषणाद्युक्तम-
साधारण्यम् । परमते तु विशेषव्यतिरिक्ताय व्यक्तेरभावेनोद्देश्यत्वायोगाच्चे विशेषास्ते
व्यक्तिशब्दवाच्या इत्युद्देश्यानां विशेषाणामविशेषेण व्यक्तिविशेषशब्दयोः पर्यायत्वापत्ते-
स्तन्निवृत्त्यर्थम्, मृष्यामहे हविषा विशेषणमितिवदेकस्मिन् विशेषणे कृतेऽर्थसिद्धेर्विशेषणान्त-
रस्य विवक्षितुमशक्यत्वाच्छू तेनासाधारण्येन विशेषितानां व्यक्तिशब्देनेत्यर्थः । समुदायेन
विशेषणानुपपत्तेः प्रत्येकमेव विशेषाणां व्यक्तिशब्दवाच्यत्वप्रसङ्गाद्वैषम्यमभिप्रेत्य
परिहरति—उच्यत इति । ननु विशेषसमुदायाश्रयत्वमात्रेण व्यक्त्युपलक्षणसिद्धेः किम-
साधारणविशेषणेनेत्याशङ्कयाह—प्रविभक्ता हीति । पिण्डात्मना समुदायात्मना साधारण-
त्वेनेत्यर्थः । विशिष्टा व्यक्तिर्गवादिशब्दवाच्यत्वेनाभिमता । नासाधारण्यं विनोपलक्षयितुं
शक्येत्याशयः । नन्वेवं सत्यत्यन्तसहस्रव्यक्तिगतस्य खण्डादिर्विशेषसमूहस्यासाधारणा-
भावान्नोपलक्षकत्वं स्यादित्याशङ्कयाह—न चेति । ननु प्रतिव्यक्त्यपूर्वविशेषाभ्युपगमे
विशेषानन्त्यापत्तेरदृष्टकल्पना गौरवं स्यादित्याशङ्कयाह—अनन्तेति । ननु खण्डत्वादीना-
मनेकव्यक्तिसाधारण्ये कथं विशेषव्यपदेश्यतेत्याशङ्कयाह—परेति । व्यक्तेर्विशेषेभ्योऽन्यत्वं
पूर्वोक्तं भाष्यकृद्वचनेन द्रढयति—एतच्चेति । सामान्यस्य व्यक्तिपारतन्त्र्याद् व्यक्तेः
सामान्याश्रयत्वं मुख्यम्, समुदायाद्याश्रयत्वं तु वृक्षाश्रयो वनमितिवत् समुदायस्य तन्मध्ये
समुदायिप्रतीतेरौपचारिकम् । न च सकृच्छ्रुतस्याश्रयशब्दस्योभयरूपता युक्तेत्याशयः ।
व्यक्तिभाष्यस्य परव्याख्यादूषणेनाकृतिभाष्यस्य द्रव्याद्यनुगतसत्तासामान्यमेवाकृतिर्न
गोत्वाद्यवान्तरसामान्यमिति सत्तावाच्यत्ववादिनां व्याख्यां बुद्धिस्थां दूषयितुं तन्मतं
तावदुपपन्यस्यति—तत्रेति । उपन्यासार्थस्तत्र शब्दः सर्वशब्दानां पर्यायत्वशङ्कानिवृत्तये
शब्दस्वरूपेण गोत्वादिना वा व्यवच्छेदाभिधानम् । अत्रार्थे तदीयं श्लोकं पठति—
यथाहुरिति । अस्तीत्येवं रूपः सत्तासामान्यरूपः सर्वशब्दानामर्थं इतीदृशं प्रत्याय्यस्य
वाच्यस्य लक्षणमाहुः । तस्य गवादिपदेष्वपूर्वादिपदैः सह तुल्यत्वादित्यर्थः । अपूर्वादीनां
हि शब्दैकगोचरत्वात् तेन च विशेषाप्रतीतेरस्ति किंचिदित्येतावन्मात्ररूपेण प्रतीतेरपूर्वादि-
६४८ मीमांसादर्शनम् [ सू०
शब्दानां शब्दावाचित्वावधारणात्तद्दृष्टान्तेन गवादिशब्दानामपि सत्तावाचिताऽनुमीयत
इत्यर्थः । एतच्च 'सत्त्वप्रधानानि नामानि' प्रातिपदिकार्थः तत्तेत्यादिदर्शनान्नामविषय-
मेवेति सर्वशब्दस्तद्विषयतया सङ्कोचनीयः ।
दूषयति—तत्त्विति । कक्ष्याशब्दः कोष्ठवाची । द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां
सत्तावान्तरसामान्यकक्ष्यायां वर्त्तन्ते । पृथिवोत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायाम्,
रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायामित्येवमादिः कक्ष्याणां विभागः । तत्र द्रव्यशब्देन
द्रव्यत्वसत्तयोर्निश्चयं प्रतीतिर्भवति । पृथिवीत्वादिषु सन्दिग्धा प्रतीतिः, गुणत्वादिषु
त्वप्रतीतिरेव, गुणशब्दाद् गुणत्वसत्तयोर्निश्चयप्रतीतिः । रूपत्वादिषु सन्दिग्धप्रतीतिः ।
द्रव्यत्वादिष्वप्रतीतिरेवेत्यादिकक्ष्ययाविभागेन सामान्यानां प्रतिपादनात्सर्वशब्दानां च सत्ता-
वाचित्वे द्रव्यशब्दाद् गुणत्ववद् द्रव्यत्वस्याप्यप्रत्ययापत्तेः । सत्ताद्वारेण वा प्रत्यये
पृथिवीत्वादिवत् सन्दिग्धप्रतीतिप्रसङ्गाद् गुणत्वादावपि च तादृक्प्रतीतिप्रसङ्गात् सत्ता-
वान्तरसामान्यविषयाणां द्रव्यादिशब्दानामेव तावद् सत्तावाचित्वमयुक्तम् । तत्रैवं सति
दूरान्तरितार्थानां गवादिशब्दानां सुतरां सत्तावाचकत्वे शक्तिर्नास्तीत्यर्थः ।
श्लोकं व्याचष्टे—प्रतिनियतेति । ननु द्रव्यादिशब्दानां द्रव्यत्वाद्यवच्छिन्नशब्दवाचि-
त्वाद्व्यवस्था भविष्यतीत्याशङ्कानिराकरणार्थं विशिष्टाभिधानपक्षं निराकरिष्यन्परानभि-
मतमपि शुद्धाभिधानं विशिष्टाभिधाने निराकृते यदि कश्चिदङ्गीकुर्यात्तत्तदपि निराकार्यं-
मिति मत्वा विकल्पयति तावत्सत्तामिति । आद्यं तावत्पक्षं निराकरोति—शुद्धेति ।
ननु देशाद्यपेक्षया घटादिवत्सत्तायां नास्तित्वाभिधानं न विरोत्स्यते अत आह—देशेति ।
आ देशब्दो वस्त्वभिप्रायो । यथाकाशस्य कूपपूरणेनोपलम्भप्रतिबन्धात्प्रतीयमानावस्था-
पेक्षया नास्त्याकाशमित्युच्यते, तथात्रापीत्याशङ्कानिराकरणार्थः । मूर्तद्रव्यावष्टम्भो
ह्याकाशोपलम्भप्रतिबन्धकोऽन्वयव्यतिरेकाभ्यामवगम्यते । न तु सत्तायाः किञ्चिदुपलम्भ-
प्रतिबन्धकमस्तीत्याशयः ।
व्यक्तिमात्रगतत्वेऽपि जातेराकाशादिव्यक्तीनां विभुत्वात् सत्ताया विभुत्वसिद्धिः ।
सत्ताशब्दस्य लौकिकव्यवहारे च जातिवाचित्वाभावात्, सर्वशब्दानां महासामान्यवा-
चित्वेऽपि सत्तावाचित्वाभिधानं न युक्तमित्याह—रूढोतं । लोकदृष्टेत्यनेन गवादि-
शब्दवत् सत्ताशब्दस्य लौकिकव्यवहारे प्रयोगाभावाज्जातिवाचित्वनिषेधस्य लोकविरोधः
परिहृतः ।
किं तर्हि सत्ताशब्दवाच्यं युज्यत इत्यपेक्षायामाह—य एव हीति । योऽस्तिशब्देन
द्वितीयो भावविकार उच्यते । स एव सत्तेत्येतद्युज्यत इत्यर्थः । अनेन चास्तिशब्दोऽपि
न वस्तुत्वापरपर्यायमहासामान्यवाचीति सूचितम् । द्वितीयभावविकारवाचिनोऽस्तेर्धातोः
शतृन्तात्तल्लि कृते सत्ताशब्दव्युत्पत्तेरित्याशयः । ननु वस्तुशब्दस्यापि द्वितीयभावविकार-
वाचित्वात्सत्तास्तिशब्दयोर्वस्तुशब्दपर्यायत्वमविरुद्धमित्याशङ्क्याह—जायमानेति । प्रथमो
भावविकारो जायमानत्वम् । विपरिणामस्तृतीयः । आदिशब्देन वृद्धयपक्षयो चतुर्थपञ्चमावु-
३० ] प्रथमाध्याये तृतीयपादः ६४९
पात्तौ । विनश्यता षष्ठः । सर्वशब्देन भावविकाररहितेष्वपि नित्येष्वाकाशादिषु वस्तुत्व-
प्रतीतेर्न वस्तुशब्दो भावविकारवाचीति सूचितम् । ततश्चास्तिशब्दोऽपि न वस्तुत्ववाचीति
पूर्वसूचितमर्थं प्रकटयन्नस्त्यर्थं इति पाठं दूषयति—तेनेति । लौकिकप्रयोगाभावाच्च
समुदायप्रसिद्ध्यात्मलाभाभावे क्लृप्तावयवार्थत्यागेन समुदायस्य शक्त्यान्तरकल्पनं
प्रोक्षण्यादिशब्दवन्न युक्तमित्याह—न चेति । सत्ताशब्दप्रकृतित्वात् सच्छब्दस्योपन्यासः ।
तस्माद्योगिक एव सत्ताशब्दे न रूढिरित्युपसंहरति—इतीति । यथा भवतीत्याख्यातस्यार्थे
भवन्निति भवच्छब्दो धात्वर्थविशिष्टकर्तृत्ववाचित्वाद्योगिकः, तथास्तीत्याख्यातस्यार्थे
सन्नितिशब्दोऽपि । ततश्च सतो भावः इत्यस्मिन्नर्थे सच्छब्दात्तल्प्रत्ययोत्पत्त्या सत्तेति
प्रवर्त्तमानो यौगिक एव ।
ननु सत्ताशब्देन जातिः प्रतिपत्तव्या, वैशेषिकपरिभाषैव हि तत्प्रति कारणम् ।
नान्यत्किंचिदित्यर्थः । कीदृशी परिभाषेत्यपेक्षिते काश्यपीयं सूत्रं पठितम् । इतिकरणो
बुद्ध्युपलक्षणार्थः । यतो वस्तुत्वान्महासामान्याद् द्रव्यादिषु सदिति बुद्धिर्भवति, सा
सत्तेति सूत्रार्थः । परिभाषाशब्ददर्शनात् परिभाषासूत्रत्वशङ्कां निवर्त्तयितुं लक्षणसूत्र-
मेवेदम्, स्वोत्प्रेक्षितत्वद्योतनार्थन्तु परिभाषात्वाभिधानमिति लक्षणशब्देन सूचितम् ।
किं पुनर्वैशेषिकाणां सत्ताशब्दस्य जातिवाचित्वप्रसिद्धौ कारणमित्यपेक्षायामाह—सेयमिति ।
वस्तुपर्यायेण क्रमेण वक्तीति वस्तुपर्यायवाची, वस्तुत्ववाचीत्यर्थः । भवच्छब्देन सह
साधारणो द्वितीयभावविकाररूपोऽर्थोऽस्येति भवसाधारणार्थः । घटो भवति इत्यादिपूर्वा-
ख्याख्यप्रथमभावविकारवाचित्वेनापि प्रसिद्धस्य भवतेर्भूंसत्तायामिति सत्ताख्यद्वितीयभाव-
विकारवाचित्वस्मृतिबलाद्भवत्साधारणार्थत्वमव्ययसंज्ञकस्यास्तिशब्दस्योक्तेः । भवतिधात्वर्थ-
मात्रवाचित्वेऽपि अव्ययास्तिशब्दस्य प्रकृत्यनुग्रहार्थं शतृप्रत्ययोपादानाद्वस्तुत्वद्वितीयं
भावविकारूपार्थद्वयवाचिना अव्ययसंज्ञकेनास्तिशब्देनेयं प्रसिद्धिरुपपादितेत्यर्थः ।
क्व पुनरव्ययास्तिशब्दो वस्तुत्ववाची दृष्ट दृष्ट इत्यपेक्षायामाह—अस्तित्वमिति ।
दिग्योगनिमित्ता पञ्चमी यस्मादस्तिशब्दात्परो त्वत्तलो दृश्येते, स वस्तुत्ववाचीत्यर्थः ।
आख्यातप्रतिरूपक इत्याख्यातत्वभ्रान्तौ कारणमुक्तम् । नन्वाख्यात (शब्द एवायं कस्मान्न
भवतीत्याशङ्क्याह—अप्रातिपदिकत्वाद्वेति । भवत्साधारणार्थत्वमुपपादयन्नामाख्यातत्वे
कारणन्तरमाह—अस्तीति । तेनास्ति १) शब्देन सह समासाभ्युपगमदनाख्यातत्वम्, तस्य
च सच्छब्दवाच्यद्वितीयभावविकारवाचित्वावगमात् भवत्साधारणार्थतेत्यर्थः । एतदेव
व्याचष्टे—अस्तीति । अस्तिपदेन सह यो बहुव्रीहिः, सोऽव्ययसंज्ञकेन, नाख्यातसंज्ञकेन ।
तस्यासुबन्तत्वेन समासायोगादित्युक्तेः । नन्वव्ययस्यापि सुब्लोपान्वाख्यानेन सुबन्तत्वाद-
व्ययीभाववच्चाहत्य बहुव्रीह्यविधानात्कथं समासः स्यादित्याशङ्क्य प्रत्ययलोपे प्रत्यय-
लक्षणमिति स्मृतेः प्रत्ययलक्षणद्वारेण सुबन्तत्वमुक्तम् ।
१. अयं पा० २ पु० ना० ।
६५० मीमांसादर्शनम् [ सू०
ननु सुबुत्पत्तेः प्राग्सुबन्तताऽस्तीत्याशङ्कचावश्यम्भावित्वेन सुबुत्पत्तेः प्राथम्यमुक्तम् ।
आवश्यकत्वोपपादनार्थं प्रातिपदिकत्वेन योग्यतोक्ता । ननु यथा पठतितमामिति अप्रातिपदि-
कादपि तद्धितो जातः तथात्र तिङन्तस्यापि समासो भविष्यतीत्याशङ्कय तिङन्तेत्युक्तम् ।
तिङश्चेति सूत्रेणाहत्य विधानात्तत्र तद्धितो जातः । तिङन्तस्य तु समासत्वेनोपसंख्यानमपि
नास्तीत्यर्थः । सदर्थवचन इत्यनेन सद्वाचिनः सच्छब्दस्यार्थपरत्वं व्याख्यातम् । कथमव्यय-
शब्देनेयं प्रसिद्धिरूपपादितेत्यपेक्षायामाह - ततश्चेति । वस्तुनि महासामान्ये सति च द्वितीये
भावविकारे सत्संज्ञकमस्तिशब्दं प्रयुज्यमानमुपलभ्य तदीयद्वितीयं भावविकारमाख्यानु-
सरणेन च कृत्वाव्ययास्तिशब्देन सह प्रत्यासन्नमदूरान्तरार्थं कर्तृप्रतीत्याविनेति द्वितीय-
भावविकारवाचितयास्त्यर्थं स्वच्छब्दमुपलभ्य, महासामान्यमप्यव्ययास्ति (शब्दवाच्यः
सच्छब्दवाच्या सत्तेत्येवं कल्पितमित्यर्थः । नन्वव्ययास्तिशब्दवाच्यस्य द्वितीयभावविकारस्य
सच्छब्दवाच्यत्वेऽपि कथं महासामान्यस्य सच्छब्दवाच्यत्वकल्पनमाशङ्कयाव्ययास्तिशब्द-
वाच्यत्वहेतुना द्वितीयभावविकारदृष्टान्तेन तस्यापि सच्छब्दवाच्यत्वानुमानसूचनार्थं
तार्किकैरित्युक्तम् ।
नन्वेवमपि तलप्रत्ययाधिक्यात् सत्ता¹) शब्दस्य कथं महासामान्यवाचितेत्याशङ्कय
देवात्तलितिस्मृतेर्यथा देवतेति तलप्रत्ययः स्वार्थिकः तथाऽयमपीत्युक्तम् । ननु द्वितीयभाव-
विकारे कृत्सञ्ज्ञकशत्प्रत्ययोपात्तकर्तृविशेषणतया सच्छब्दवाच्यत्वेन सहाव्ययास्तिशब्द-
वाच्यत्वेन सहाव्ययास्तिशब्दवाच्यताऽनुमितसामान्यस्य बाधकर्तृकत्वान्न तथानुमानं
सम्भवतीति धर्मविशेषविपरीतसाधनात् विरुद्धो हेतुः स्यादित्याशङ्क्य - इहापीत्युक्तम् ।
यथाऽव्ययास्तिशब्दवाच्ये द्वितीये भावविकारे कर्तृविशेषणत्व प्रतीर्नास्ति तथेह सच्छाब्दवाच्ये
द्वितीयभावविकारे भवतीमपि कर्तृप्रतीतिं, सक्षीरेति समासोपपत्तये सुबन्तत्वयोग्य-
प्रातिपदिकत्वयोग्यप्रातिपदिकत्वसिद्ध्यर्थं कृत्सञ्ज्ञकशत्प्रत्ययोच्चारणोपपत्तेरतन्त्रीकृत्य
कर्तृनिरपेक्षधात्वर्थमात्रवाची सच्छब्दः तत्समानार्थत्वाच्च सत्ताशब्दोऽपीत्यर्थः ।
ननु स्मृत्यभावाच्छब्दपरस्य तलप्रत्ययार्थस्य स्वार्थिकं तत्त्वमविवक्षाहेत्वभावाच्च
कर्तृप्रतीतेरतन्त्रीकरणमयुक्तमित्याशङ्कयापारमार्थिकाभ्युपगममात्रद्योतनार्थम्-गृहीत्वेत्युक्तम् ।
स्वार्थिकं तलं गृहीत्वा धात्वर्थमात्रवचनों च स्वच्छब्दसत्ताशब्दौ गृहीत्वेत्यन्वयः ।
नन्वनेन न्यायेनाख्यातसञ्ज्ञकस्याप्यस्तिशब्दस्य द्वितीयभावविकारवाचित्वान्महा-
सामान्यवाचितापि प्रसज्येतेत्यनिष्टापत्तिशङ्कानिराकरणायाख्यातप्रत्ययोच्चारणास्या-
नन्यार्थत्वेन कर्तृसंख्याकालादिप्रतीतेरतन्त्रीकर्तु मशक्यत्वात्कर्तृसंख्याकालादिनिरपेक्षशुद्ध-
धात्वर्थमात्रवाचित्वमाख्यातास्तिशब्दस्य नास्तीति सूचयितुमेवकारः । ततश्चाख्यातास्ति-
शब्दवाच्यद्वितीयभावविकारदृष्टान्तेनाऽव्ययत्वेऽस्तिशब्दवाच्यत्वहेतुता वस्तुत्वस्याख्यातास्ति-
वाच्यमिहानुमीयमानं कर्तृसंख्यादिविशिष्टत्वेनैवानुमीयेत यदव्ययास्तिशब्दवाच्यम्, तत्
१. अयं पा० २ पु० ना० ।
३० ] प्रथमाध्याये तृतीयपादः ६५१
कर्तृसंख्यादिविशिष्टत्वेनाख्यातास्तिशब्दवाच्यमित्याख्यातास्तिशब्दवाच्ये द्वितीयभावविकारे
व्याप्तिदर्शनादित्याशयः । ननु वस्तुत्वजातेः सच्छब्दवाच्यता तार्किककल्पिता पदवाक्यार्थ-
तत्त्वज्ञैन्निराक्रियमाणा कथं प्रसिद्धिं यायादित्याशङ्कयाह—तदुक्तेति ।
'यावद्यावद्विवादाय मुक्तकं दीयते मनः ।
अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥'
इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निरा-
कृतस्यापि पुनः पुनरुद्भूवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने समापने अनाद-
रादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां युक्तायुक्तत्वविचारावस्थां प्राप्तमित्यर्थः । प्रसिद्ध्या-
भासं चेदम्, न परमार्थतो नियुक्तानामेवं प्रसिद्धिरस्तीति च शब्देनोक्तम् । किं तदित्य-
पेक्षायामाह—येनेति । येन सत्ताया वस्तुत्वापरपर्यायमहासामान्यात्मकत्वेन गवादिशब्द-
वाच्यत्वेनापि संज्ञा सम्भाव्यते । तत्सत्ताया महासामान्यरूपत्वमिमावस्थां प्राप्तमित्यर्थः ।
यद्वा युक्तायुक्तत्वविचारस्य कः प्रस्तुतपयोग इत्यपेक्षायामिदमुक्तम्, येन कारणेन
सत्तायाः सामान्यरूपत्वे सति गवादिशब्दवाच्यत्वेनापि न सत्ता सम्भाव्यते, तेन तन्निरा-
करणार्थं रूढिशब्दश्च नैवायमित्यादिनं न सत्ताशब्दस्य जातिवाचिता निराकृतेत्यर्थः ।
परमार्थतस्तु वस्तुत्वस्य जातिरूपस्यापि गवादिशब्दवाच्यत्वं नास्ति, किमुत सत्तायाः ।
जात्याख्याद्धर्मिद्धर्मान्तरत्वेन द्वितीयभावविकारत्वेन वर्त्तमानत्वादित्याह -- नन्विति ।
ननु वस्तुशब्दस्यापि निवासाद्यर्थाद्वसेर्धातोर्वसेस्तुन्निति सूत्रेणौणादिके तुन्प्रत्यये कृते
व्युत्पत्तिसम्भवादनेकत्र नितरां प्रत्येकमेकमेव वसति वतं तइत्यवयवार्थयोगेन सत्तादिषु
सामान्यं सामान्यमित्येकाकारप्रत्ययालम्बनस्यानेकेष्वेकस्य प्रत्येकवृत्तित्वलक्षणस्याभिधा-
नादयौगिकत्वेन जातिवाचित्वं न युक्तमित्याशङ्कां निराकुर्वन्नथंगम्यत्वं विवृणोति—वस्तु-
शब्दो हीति । व्यक्तेः प्रत्येकवृत्तिस्वभावादैवंविधयोगनिमित्तत्वे वस्तुशब्दस्य व्यक्तौ
प्रयोगानुपपत्तिप्रसङ्गाद्यौगिकत्वासम्भवाभिधानार्थं व्यक्त्याश्रितत्वं वस्तुत्वसामान्यस्योक्तम् ।
जातेर्जात्याश्रितत्वाभावाद्वस्तुशब्दस्य जातिवाचित्वे जातौ प्रयोगानुपपत्तिमाशङ्क्य
निःसामान्यानि सामान्यादीनीति वैभाषिकपरिभाषायाः प्रतीतिविरोधेनायुक्तत्वाज्जातेपि
जात्याश्रयत्वं सम्भवतीति दर्शयितुं जात्यन्तराश्रितत्वमुक्तम् । नन्वेवं सति वस्तुत्वेऽपि
वस्तुत्वप्रतीतेर्जात्यन्तराश्रयणायान्तरशब्दः । यथैव गोत्वरूपेण शाबलेयादौ गवाकारप्रत्यय-
सिद्धयर्थं गोत्वमङ्गीकृतम्, न गोत्वे, तत्र गवाकारप्रत्ययस्य स्वरूपनिबन्धनोपपत्तेः ।
तथा जात्यन्तरे व्यक्तौ च वस्त्वाकारप्रत्ययसिद्ध्यर्थं वस्तुत्वं जातिरिष्यते, तत्र स्वरूप-
निबन्धनत्वेनैव वस्त्वाकारप्रत्ययोपपत्तेर्नापरा वस्तुत्वं जातिरङ्गीकार्येत्याशयः । शुद्धाभि-
धानपक्षस्य दृष्ट्टत्वोपसंहारपूर्वकम्, विशिष्टाभिधानपक्षस्य दुष्टत्वं प्रतिजानाति तावत् —
शुद्धेति । दूषयति—यदेवेति । एतदेवं प्रपञ्चयितुं विकल्पयति—गोसत्ता चापीति । आद्ये
कल्पे दोषमाह—तत्रेति । एतदेवोपपादयति — विशेषणमिति । गोव्यक्तिविशिष्टसत्ताभि-
धानेऽप्येतमेव दोषमतिदिशति — तथेति । कल्पनागौरवापत्तेश्च केवलव्यक्त्यभिधानपक्षवद्वि-