मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 697, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६४३
रकसंख्याचतुष्काभ्यां द्वाभ्यां समुदायलिङ्गकारकसंख्याचतुष्केनैकेन दश जातिव्यक्ति-
सम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसंख्यापञ्चकै -
स्त्रिभिर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्यापञ्चकाभ्यां द्वाभ्यां सम्बन्धसमुदायलिङ्ग-
कारकसंख्यापञ्चकेनैकेन षट्जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकजातिसम्बन्धसमुदाय-
लिङ्गकारकसंख्याषट्काभ्यां द्वाभ्यां व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याषट्केनैकेन
तिस्रः सप्तकेन वैकेति षट्पञ्चाशदष्टपक्ष्यः प्रथमाभिः सप्तभिः सह त्रिषष्टिरष्टपक्ष्यश्चतूत्तराणि
पञ्चशतानि पक्षाः पूर्वंगणितेन षष्ठ्यधिकेन सार्द्धेन पक्षसहस्रेण सह चतुःषष्ठ्यधिकं पक्ष-
सहस्रद्वयं भवति । परस्परव्यतिकरादेतेषां बहवोऽपराः सम्भवन्तोऽपि नोच्यन्ते ग्रन्थगौरव-
भीतितः ।
नन्वेतेषां पक्षाणां विशेषणविशेष्यभावसंहतान्यत्वेऽपि स्वरूपनिष्कर्षाभावेन भेदेनाऽ-
भावान्न भेदेनोपन्यासो युक्त इत्याशङ्क्याह—एते चेति । यथा जात्यादीनां निष्कर्षा-
भावेऽप्यन्वयव्यतिरेकप्रसूतया भेदबुद्ध्या भेदः तथैषामपि पक्षाणां स्वरूपभेदाभावान्निष्कर्षा-
भावेऽपि विशेषणविशेष्यभावाद्यन्वयप्रसूतमाभेदबुद्ध्या भेदो भविष्यतीत्यर्थः । ननु सत्यपि
भेदे प्रत्यक्षादि नैतावतां भेदानामग्रहणात्कथं तत्पूर्वकशब्दविषयतैतावतां भेदानां विचार्यते
इत्याशङ्क्याह—सर्वत्रेति । प्रत्यक्षेणेन्द्रियसयुक्तद्रव्यधर्मंतत्समवेतजातिगुणक्रिया-तत्समवेत-
गुणत्वादिंसामान्यग्रहणात्, अनुमानेन च स्वव्यापकाग्नितद्गतौष्ण्यभास्वरत्वादिग्रहणाद-
नेकात्मकवस्तुप्रतीतेर्विवेकामावात्स्तोकभेदप्रतीतिः । शब्दस्य तु सर्वात्मकवस्तुविषयतायामेके-
नैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यापातादेकैकांश निष्कृष्ट-
शक्तिकत्वेनांऽशान्तराणां लक्षणासिद्धज्ञानत्वादवाच्यत्वावगतेः सूक्ष्मांशविवेचकतया सर्वभेद-
बोधकत्वं युक्तमित्याशयः ।
ननु सामान्यविशेषवाधादेर्जातिव्यक्तिवाच्यत्वविचारमात्रासिद्धेः पक्षान्तराणि निष्प्रयो-
जनत्वान्न कार्याणीत्याशङ्कयाह—पदादिति । शङ्क्यमानस्र्ववाच्यान्तरविप्रतिपत्तिनिरासं
विना वाच्यत्त्वानवधारणान्न पदार्थविचारणपूर्वकंवाच्यार्थावधारणसिद्धिरित्याशयः ।
सौकर्यार्थं पूर्वोत्तरपक्षविभागमाह—अत्र चेति । नन्वेतावतां पक्षाणां विद्यमानत्वेन
सप्रयोजनत्वेन च भाष्यकारानुपन्यासे किं कारणमित्याशङ्क्याह—व्यक्ताविति । अन्वय-
व्यतिरेकावगम्यसामान्यमात्रशक्त्यपर्यालोचननिबन्धनत्वसाम्यात् व्यक्तिपक्षे दर्शिते,
सम्बन्धादीनामपि वाच्यत्वं कस्मान्न स्यादित्याशङ्कोत्थानात्तात्पर्यालोचनेन च व्यक्तिपक्षे
निराकरणसिद्धेनं भाष्यकृतोपन्यस्ता इत्यर्थः । नन्वनुपन्यासाद्भाष्यकृतोऽसत्त्वाभिप्रायः
निष्प्रयोजनत्वाभिप्रायो वा कस्मान्न कल्प्यत इत्याशङ्क्याह—न चेति । सद्भावप्रयोजन-
योरुक्तत्वान्न तयोरभिप्रायोर्मध्ये कश्चित्सम्भवतीत्याशयः । एतस्माद्भाष्यकाराप्रदर्श-
नात्कारणादित्यर्थः । नन्वेवं सति व्याख्यातृभिरुपपत्तयोऽपि सर्वेषु पक्षेषु प्रत्येकमपन्य-
स्योपन्यस्य निराकार्या इत्याशङ्क्याह—दर्शिताष्वपीति । शब्दशक्त्यपर्यालोचनस्य पूर्वपक्ष-
बीजस्य सर्वेषु तुल्यत्वादित्याशयः ।