सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 686, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 686

६३२ मीमांसादर्शनम् [ सू०
न त्वर्थाद्गम्यमानस्य वस्तुत्वस्यापि वाच्यता ।
धर्मान्तरत्ववृत्तेस्तु१ सत्तायाः कुत एव सा ॥ ९७७
वस्तुशब्दो हि रूढित्वाद् व्यक्तिजात्यन्तराश्रितम् ।
सामान्यं यद् ब्रवीत्येतद् गम्यतेऽर्थर्गवादिभिः ॥ ९७८
शुद्धाभिधानपक्षस्य दुष्टत्वात्तैर्विशेषितम् ।
वक्ष्यमाणेन निरासहेतुना अस्य पक्षस्य निराकरणम्
महासामान्यमिष्टं चेद्वाच्यं तदपि दुर्लभम् ॥ ९७९
यदेवाऽऽकृतिविशिष्टव्यक्त्यभिधानपक्षे, व्यक्तिविशिष्टाकृतिपक्षे वा निराकरण-
कारणम्, तदत्रापि सुलभम्, विशेषणस्य पूर्वतराभिधानप्रसङ्गात् ।
गोसत्तां चापि गोशब्दो यदि नाम ब्रवीत्ययम् ।
गोजात्या वा विशिष्टां तां वदेद् व्यक्तिभिरेव वा ॥ ९८०
तत्र—गोत्वजातिविशिष्टा चेत्सत्ताऽनेनाभिधीयते ।
उक्ताद्विशेषणादेव तत्सिद्धेः सा किमुच्यते ॥ ९८१
विशेषणमनभिधाय तद्विशिष्टविशेष्याभिधानासम्भवाद्विशेषणस्य च विशे-
ष्येणाऽत्यन्तसम्बन्धात्पूर्वतराभिहितविशेषणभूतगोत्वसम्बन्धादेव सत्तावगमसिद्धेर्न
तत्राभिधानशक्तिकल्पनायामर्थापत्तिरप्यन्यथाऽप्युपपद्यमानफलत्वप्रतिहता सती
न प्रवर्तते ।
तथा व्यक्तिविशिष्टसत्ताभिधानेऽप्येष एव निराकरणहेतुः । अनित्यसम्बन्ध-
ज्ञानानन्तशब्दशक्तिव्यक्त्यभिधानपूर्वकैकसत्ताभिधानकल्पनायाश्च केवलव्यक्त्य-
भिधानपक्षवदनुपपत्तिः ।
हरिणोक्तस्य दृष्टान्तस्य प्रतिक्षेपः
यत्तु अपूर्वदेवतास्वर्गैः सममाहुरिति ।
तत्राभिधीयते—
नैवापूर्वादिशब्दानां सत्ता वाच्येत्यवस्थितम् ।
विशेषानेव तेऽप्याहुरर्थापत्त्यादिकल्पितान् ॥ ९८२
केचिच्छ्रुतार्थापत्त्या, केचिद्वाक्यशेषवाक्यान्तरपर्युपस्थापितार्थाविशेषवचना
एव सन्तोऽत्यन्ताव्यभिचारिस्वार्थद्वारेण२ सत्तापदार्थो व्यभिचरतीति, लक्षणयैव
तेभ्यः सत्ताप्रतीतिः ।
१. धर्मान्तरेति—जात्याख्याद्धर्माद्धर्मान्तरत्वेन—द्वितीयभावविकारत्वेन वर्तमानत्वा-
दित्यर्थः ।
२ क. सत्तां गमयन्तोऽनभिधायकत्वेनावधार्यन्ते न इत्यधिकम् ।