मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
१८४ मीमांसादर्शनम् [ सू०
का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते ।
कथंचिद्वा विरुद्धत्वं प्रत्यक्षश्रुतिभिः सह ॥ ३९
लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते ।
यावत्किंचिददृष्टार्थं तद्दृष्टार्थं हि कुर्वते ॥ ४०
वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः ।
अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥ ४१
तेभ्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् ।
न च कंचन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥ ४२
प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः ।
नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥ ४३
क्वचिद् दत्तेऽवकाशे हि स्वोत्प्रेक्षालब्धधामभिः ।
जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥ ४४
तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् ।
एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥ ४५
यच्चाऽऽदौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम् ।
आज्ञासिद्धप्रमाणत्वं पुराणादिचतुष्टयम् ॥ ४६
तत्तथैवानुमन्तव्यं कर्तव्यं नान्तरा श्लथम् ।
सर्वं श्लथयतः सीदेद् दुर्नद्धशकटादिवत् ॥ ४७
पक्षो योऽङ्गीकृतो येन तमत्रस्यन्स निर्वहेत् ।
हारयेदन्तरा त्रस्यन्भीतोपद्रवकारिभः ॥ ४८
वेदश्च यदि दृष्टार्थं श्रूयमाणविरोधि वा ।
न विदध्यात्ततस्तादृक्स्मृतिस्तन्मूलतां त्यजेत् ॥ ४९
यदा तु हन्तिपिष्यादिकर्म दृष्टं सहस्रशः ।
दृष्टार्थं विहितं वेदे तदा किं हेतुदर्शनैः ॥ ५०
ऋत्विग्भ्यो दक्षिणादानं तानूनप्त्रादिकर्म च ।
यदृर्त्विग्यजमानानां दृष्टार्थं सर्वमिष्यते ॥ ५१
तद्यद्यवैदिकं तादृक्स्यात्ततोऽन्यदवैदिकम् ।
यदा चैवंविधान्येव वेदे कर्माणि सन्ति नः ॥ ५२
तदा किं नाम दृष्टार्थं बुद्ध्या सिध्येदवैदिकम् ।
तेनाऽऽदावेव या क्लृप्ता स्मार्तानां वेदमूलता ॥ ५३
निर्वोढव्येह सैकान्तात्किमिदं खिद्यतेऽधुना ।
तस्माद्वेदविरुद्धानां दृष्टार्थानां च हेतुभिः ॥ ५४
स्मृतीनां न प्रमाणत्वं विहन्तव्यं मनागपि ।
अवशिष्टं प्रमाणत्वं सर्वासां प्राप्तमीदृशम् ॥ ५५
• ] प्रथमाध्याये तृतीयपादः -२८५
विरोधेऽप्यधुना युक्तमैवं प्राप्तेऽभिधीयते ।
विरोधे त्वनपेक्षं स्यात्प्रामाण्यं स्मृतिबन्धनम् ॥ ५६
अविरोधे हि वेदेन तन्मूलमनुमीयते ।
या तु वेदविरुद्धेह स्मृतिः काचन दृश्यते ॥ ५७
सा तु स्याद् भ्रान्तिमूलैव न स्पष्टश्रुतिमूलिका ।
स्वातन्त्र्येण प्रमाणत्वं स्मृतेस्तावन्न सम्मतम् ॥ ५८
वेदमूलानुमानं च प्रत्यक्षेण विरुध्यते ।
वेदवाक्यानुमानं हि तावदेव प्रवर्तते ॥ ५९
तदर्थविषये यावत्प्रत्यक्षं नोपलभ्यते ।
प्रत्यक्षे श्रूयमाणे तु न विद्येतानुमानिकम् ॥ ६०
न हि हस्तिनि दृष्टेऽपि तत्पदेनानुमेष्यते ।
स्मृतीनां श्रुतिलिङ्गत्वमस्ति हस्तिपदादिवत् ॥ ६१
तत्प्रत्यक्षविरुद्धत्वे तद्वदेव निवार्यते ।
तावदेव स्फुरन्त्यर्थाः पुरस्तादानुमानिकाः ॥ ६२
यावत्प्रत्यक्षशास्त्रेण मूलमेषां न कृत्यते ।
कृत्तमूलाः स्फुरन्तोऽपि स्मृतयो न चिरायुषः ॥ ६३
निराधारत्वदोषेण शाखा इव वनस्पतेः ।
न हि साक्षात्प्रमाणत्वं स्मृतीनामुपपद्यते ॥ ६४
नान्यमूलं यतस्तत्तस्यात्तत्तु मूलं न विद्यते ।
प्रत्यक्षप्रतिबद्धा हि श्रुतिर्नास्त्यानुमानिकी ॥ ६५
नैराकाङ्क्ष्यात्प्रमातॄणामनुमानं न लभ्यते ।
प्रमेयं यत्परिच्छेद्यं भवेत्केनचिदात्मना ॥ ६६
तस्य स्यात्तत्परिच्छेदात्सावकाशप्रमाणता ।
ताद्रूप्येण परिच्छिन्ने तद्विपर्ययतोऽपि वा ॥ ६७
भूयस्तस्मिन्प्रमेये हि न प्रमाणं प्रवर्तते ।
भिन्नकक्षागते ये च प्रमाणे तत्र धावतः ॥ ६८
तयोः शीघ्रेण निर्णीते मन्थरं न प्रवर्तते ।
तद्धि दूरमपि प्राप्तमेकमप्यगतं पदम् ॥ ६९
इतरेण गतेनाऽऽदावेकान्तेनैव जीयते ।
यत्र शीघ्रतरं नास्ति तस्यार्थस्यापहारकम् ॥ ७०
चिरेणापि व्रजेत्तत्र दुर्बलं न निवार्यते ।
न हि येन प्रमाणत्वं लब्धपूर्वं कदाचन ॥ ७१
१८६ मीमांसादर्शनम् [ सू०
तेन तत्सर्वदा लभ्यमित्याज्ञापयतीश्वरः ।
सर्वमुत्पद्यमानं हि यद्यन्येन विरोधिना ॥ ७२
न रुध्यते ततस्तस्य सिद्धिः कालेन लभ्यते ।
यस्य तूत्पद्यमानस्य मूलमेव निकृत्यते ॥ ७३
मुखं वा रुध्यते तस्य नाऽऽत्मलाभः कदाचन ।
न च यद्वलवद्बुद्धमात्मानं नैव विन्दति ॥ ७४
अविरोधेऽपि तेनाऽऽत्मा न लब्धव्यः कथंचन ।
न चापि बाधकाभावाल्लब्ध आत्मेति सर्वदा ॥ ७५
लब्धव्यः स विरोधेऽपि पूर्वसामान्यदर्शनात् ।
उत्सर्गाश्चापवादश्च सर्वत्रैवोपलभ्यते ॥ ७६
तत्र नोत्सर्गमात्रेण सर्वमेवावरुध्यते ।
अपवादेन वा यस्मादुत्सर्गो बाधितः क्वचित् ॥ ७७
तस्मात्सर्वत्र बाध्योऽसावित्येतदपि नेष्यते ।
विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ॥ ७८
बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् ।
यो हि सामान्यदृष्टेन व्यवहारं निनीषति ॥ ७९
तृष्णाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि ।
बाधितां मृगतृष्णां वा दृष्ट्वा ह्रदगतोऽप्यसौ ॥ ८०
विप्रलम्भभयादेव न स्नानादि समाचरेत् ।
तावदेव हि तोयादिज्ञानस्येष्टा प्रमाणता ॥ ८१
न तोयं मृगतृष्णेयमिति यावन्न बुध्यते ।
अनुमानं प्रमाणं च तावदर्थेषु जायते ॥ ८२
रुध्यते विषयो यावन्नास्य प्रत्यक्षजन्मना ।
एवं स्मृतिप्रमाणत्वे तावच्छ्रुत्यनुमानजम् ॥ ८३
यावत्प्रत्यक्षया श्रुत्या विषयो नावरुध्यते ।
अतः क्वचित्प्रमाणत्वं क्वचिदप्यप्रमाणताम् ॥ ८४
व्यवस्थापयता न्यायेनं भवेदर्थवैशसम् ।
प्रमाणत्वाप्रमाणत्वे प्रत्यक्षमृगतृष्णयोः ॥ ८५
यथा तथैव ते स्मृत्योरविरुद्धविरुद्धयोः ।
तस्मादेवं न वक्तव्यं सर्वासां वा प्रमाणता ॥ ८६
अथ वा सा न कस्याश्चिद्यदि क्वचिदनाश्रिता ।
तेन वेदविरुद्धानां स्मृतीनामप्रमाणता ॥ ८७
रुद्धश्रुत्यनुमानत्वादन्धमूला हि ता यतः ।
३ ] प्रथमाध्याये तृतीयपादः १८७
तुल्यबलयोर्विकल्पशंका-निरासौ
विकल्पः किं पुनस्तासां नेष्यते श्रुतिभिः सह ॥ ८८
उच्यते—विकल्पस्याष्टदोषत्वान्न तावत्स्वभ्युपेयता ।
पाक्षिके चाप्रमाणत्वे स्मृतयः सुनिराकराः ॥ ८९
तुल्यबलविकल्पो हि तावदष्टदोषत्वादगतिकगतिन्यायेन क्वचिदेवाऽऽश्रीयते ।
अतुल्यबलविकल्पस्यान्याय्यत्वम्
किमुत कक्षान्तरितप्रामाण्यविषयमशिष्टविकल्पः ।
तथा हि—प्रमाणपदवीं यावन्नाऽऽरोहत्येव हि स्मृतिः ।
बाध्यते तावदत्यन्तं श्रुत्याऽन्यनिरपेक्षया ॥ ९०
स्मृतेर्धर्मप्रमाणत्वं न तावत्स्वत इष्यते ।
तुल्यकक्षतया येन विकल्पपदवीं व्रजेत् ॥ ९१
पराधीनप्रमाणत्वान्न प्रमाणपदे स्थिता ।
श्रुत्या बाधितमात्राऽसौ पुनर्नोऽज्जीवितुं क्षमा ॥ ९२
विकल्पस्याष्टदोषत्ववर्णनम्
तुल्यकक्षविकल्पोऽपि नाप्रामाण्येऽस्त्यकल्पिते ।
प्रमाणस्याप्रमाणत्वकल्पना च त्रिदोषभाक् ॥ ९३
प्रमाणत्वं प्रतीतं यदुज्ज्वलत्तदपह्नुतम् ।
एकस्तावदयं दोषः स्यात्प्रतीतिविपर्ययात् ॥ ९४
तथा तदप्रमाणत्वं यदभावप्रमाणकम् ।
भावे सत्यथ भावेन विनैव परिकल्प्यते ॥ ९५
सोऽपि स्यादपरो दोषः प्रमाणार्थविपर्ययात् ।
अङ्गीकृत्यापि तौ दोषौ पूर्वं केनापि हेतुना ॥ ९६
प्रयोगान्तरकाले तु पुनर्दोषद्वयं भवेत् ।
यदभावप्रमाणत्वं पूर्वमेतस्य कल्पितम् ॥ ९७
संप्रत्यपह्नुवानस्य दोष एको हि जायते ।
प्रत्यक्षं दृढरूपं च यत्पुरस्तान्निराकृतम् ॥ ९८
एष जायेत दोषोऽन्यस्तदुज्जीवयतः पुनः ।
वाक्यान्तरे दोषचतुष्टयस्योपपादनम्
एवमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः ॥ ९९
एत एव प्रसज्येरन्द्वितीयेऽपि प्रकल्पिते ।
एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः ॥ १००
२८८ मीमांसादर्शनम् [ सू०
विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ।
व्रीहिशास्त्रप्रवृत्तौ हि यवशास्त्रेण कृष्यते ॥ १०१
श्रोता तत्र प्रवृत्तोऽपि व्रीहिशास्त्रेण कृष्यते ।
द्वाभ्यामश्वमुखीवच्च श्रुतिभ्यामभितः समम् ॥ १०२
श्रोतुराकृष्यमाणस्य बलाबलमपश्यतः ।
एकस्मिन्नुपसंहर्तुं बुद्धिं युक्त्या न पश्यतः ॥ १०३
उभयोरप्रमाणत्वं प्रतिघातात्प्रसज्यते ।
तत्र प्रामाण्ययोग्यस्य यदप्रामाण्यकल्पनम् ॥ १०४
तदनन्यगतित्वेन तथाऽप्यभ्युपगम्यते ।
सति गत्यन्तरे त्वेतन्नैव कल्पनमर्हति ॥ १०५
एकस्य वा प्रमाणत्वं परिहर्तुं न शक्यते ।
तदप्रामाण्यमात्रे तु न द्वयोरप्रमाणता ॥ १०६
सिद्धो लोकप्रवादोऽयमेकानेकविनाशिनाम् ।
सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः ॥ १०७
स चायमुभयोर्नाश उभयार्थापरिग्रहात् ।
मिश्रैर्वा यजमानस्य मिश्राणां विध्यदर्शनात् ॥ १०८
नियमार्थे ह्युभे शास्त्रे यवव्रीह्योर्विधातृणी ।
प्राप्ते चान्यनिवृत्त्यंशः फलमर्थात्प्रतीयते ॥ १०९
व्रीहयो निरपेक्षा हि ज्ञायन्ते यागसाधनम् ।
यवाश्चैवमतस्तेषां मिश्रत्वं नावकल्पते ॥ ११०
नैव व्रीहिभिरिष्टं स्याद्यवैर्न च यथाश्रुतैः ।
मिश्रैरिज्येत चेत्तत्र भवेदुभयबाधनम् ॥ १११
एवमप्रतिपत्त्यैव तुल्यैषा मिश्रतामतिः ।
तेनोभयाप्रमाणत्वाद्युक्तैकैकाप्रमाणता ॥ ११२
सेयमत्यन्तमन्न्याय्या द्वयोरप्यनवस्थितिः ।
अव्यवस्था न युक्ता हि व्यवस्था यत्र लभ्यते ॥ ११३
सर्वत्रैव ह्येकरूपत्वावधारणेन निरूपितरूपं व्यवहर्तुं शक्यम् ।
तेन यस्य प्रमाणत्वं प्रमाणं सर्वदाऽस्तु तत् ।
यस्यापि त्वप्रमाणत्वमप्रमाणं तदुच्यताम् ॥ ११४
तदेव तु कदाचित्प्रमाणम्, कदाचिदप्रमाणमिति न कथंचिदपि विश्रम्भः
स्यात् तदेतद्व्रीहियवश्रुत्योरत्यन्तापरिहार्यत्वादवश्यमापतितम् ।
३ ] प्रथमाध्याये तृतीयपादः २८९
विकल्पपदमनारूढायाः स्मृतेः एकः बाधप्रकारः
न हि तत्रैकरूपत्वे चिह्नं किंचिद् व्यवस्थितम् ।
येनैकत्र प्रमाणत्वं स्यादन्यत्राप्रमाणता ॥ ११५
श्रुतिस्मृत्योः पुनः स्पष्टं व्यवस्थाकारणद्वयम् ।
येन श्रुतेः प्रमाणत्वं स्यात्स्मृतेश्चाप्रमाणता ॥ ११६
स्वरूपेण तयोस्तावत्प्रमाणत्वाप्रमाणते ।
ततोऽन्यापेक्षया स्यातामप्रामाण्यप्रमाणते ॥ ११७
यो यस्य स्वरूपाश्रयो धर्मः प्राप्तः, स बलवत्ता कारणान्तरेण विपर्ययं प्रति-
पद्यते । न च श्रुतिजनितप्रत्ययस्य स्मृतिजनितो बाधकत्वं प्रतिपद्यते ।
स्मार्तस्य बाधकः श्रौतो बलवत्त्वात्प्रतीयते ।
प्रत्यक्षे चानुमाने प्रागेतद्व्यवधारितम् ॥ ११८
श्रुतिलिङ्गे यथा चेष्टे व्यवस्थितबलाबले ।
संनिकृष्टविकृष्टार्थे तथैवेह श्रुतिस्मृती ॥ ११९
स्मृत्या प्रतीयते यावच्छ्रुत्या तावत्प्रमीयते ।
विरुद्धधर्मतामेको न च धर्मः प्रतीच्छति ॥ १२०
न च शीघ्रगृहीतेऽर्थेऽस्ति चिरादागच्छतो गतिः ।
अश्वैरपहृतं को हि गर्दभैः प्राप्तुमर्हति ॥ १२१
स्मृत्या चार्थं परामृश्य यावत्तद्विषयां श्रुतिम् ।
अनुमातुं प्रवर्तेत तावत्सोऽर्थोऽन्यतो गतः ॥ १२२
किं कर्तव्यमितीदं च कर्ता यावदपेक्षते ।
प्रमाणं क्रमते तावत्प्रमिते तन्न जायते ॥ १२३
युगपत्प्रमिमीयातां यदि चार्थं श्रुतिस्मृती ।
अगृहीतविशेषत्वात्स्यातां तुल्यबले ततः ॥ १२४
यद्वा यावच्छ्रुतेरर्थः साक्षादेव प्रतीयते ।
तस्मिन्नेव क्षणे मूलं कल्पयेत्स्वं स्मृतिः श्रुतिम् ॥ १२५
ततोऽर्थविप्रकर्षेऽपि प्रमाणत्वेन तुल्यता ।
भवेदेव श्रुतिस्मृत्योरर्थः श्रुतिपरिग्रहात् ॥ १२६
यतः स्मृत्या गृहीतेऽपि चिरेण श्रुतिकल्पना ।
जायते क्लृप्तया तस्मात्सा बाध्येताप्रतिष्ठिता ॥ १२७
स्मृतिमूलानपेक्षा हि स्मृतित्वादेव हीयते ।
तदपेक्षा पुनः श्रुत्या बाध्यते मूलवर्जिता ॥ १२८
एष तावद्विकल्पपदमनारूढाया एव स्मृतेरेको बाधप्रकारः ।
१९
२९० मीमांसादर्शनम् [ सू०
विकल्पपदमारूढायाःस्मृतेः बाधप्रकारो द्वितीयः
द्वितीयेन प्रकारेण विकल्पपदवीं गता ।
आपन्ना पाक्षिकं बाधमत्यन्तं बाध्यते स्मृतिः ॥ १२९
तद्दर्शयति—‘विकल्पं तु वदन्पक्षे तावच्छ्रुतिप्रामाण्यमभ्युपैतीति’। तदा च
स्मृत्यप्रामाण्यमवश्यंभावि, तस्याश्चाप्रामाण्यकल्पनायां न श्रुतेरिव तदध्यारोपः ।
किं तु तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितम् ।
यतस्तस्मादतन्मूला तदानीं साऽवधार्यते ॥ १३०
श्रुतिमूलत्वविच्छेदोत्तरकालं च प्राङ्निराकृतमूलान्तरोपप्लवादविगानस्मृत-
पुरुषप्रणीतत्वनिर्णयाच्च नित्यत्वद्वारनिर्मूलत्वासंभवादवश्यंभावि विप्रलम्भाभिप्रा-
यादि किंचिदेकं मूलमापद्यते ।
श्रुतिं मुक्त्वा च यन्मूलं स्मृतेरन्यत्प्रकल्प्यते ।
तेनेवास्याः प्रमाणत्वमत्यन्तं प्रतिहन्यते ॥ १३१
व्रीहिश्रुतिपरिग्रहकाले हि यवश्रुतेरभूतमेवाप्रामाण्यमध्यारोपितम् । तत्प्रयो-
गान्तरवेलायां तुल्यसांप्रदायिकाम्नायमानत्वेन संनिकृष्टविप्रकृष्टार्थत्वादिविशेषाभा-
वेन च पुनः सहजेन प्रामाण्येनाभिभूयते ।
न तु स्मृतेः प्रमाणत्वं पुनरुज्जीवितुं क्षमम् ।
विच्छिन्नश्रुतिमूलत्वाद् ग्रस्तं भ्रान्त्यादिहेतुभिः ॥ १३२
न ह्येकस्या एव स्मृतेः प्रत्यक्षश्रुत्यर्थापरिग्रहकालेऽनुमितश्रुतिमूलत्वं तत्प-
रिग्रहाश्रयणे तु भ्रान्त्यादिमूलत्वमिति विरुद्धावधारणाऽवकल्पते । आह । सत्यं
यदि प्रथममेव विकल्पकारी श्रुत्यर्थं परिगृह्य द्वितीयादिप्रयोगे स्मृत्यर्थपरिग्रहणा-
योपतिष्ठेत ।
ततस्त्वदुक्तमार्गेण प्रतिहन्येत सर्वदा ।
न त्वेतस्य प्रसङ्गोऽस्ति स्मृतेः पूर्वंपरिग्रहे ॥ १३३
यो हि श्रुतिं प्रथममत्वान्यां श्रुतिमेवैकां पश्यति तस्याप्रतिहतश्रुत्यनुमान
वृत्ते ।
न पश्चाच्छ्रूयमाणाऽपि श्रुतिः स्यात्प्रतिबन्धिका ।
गर्दभेनापनीतं हि हरेन्नाश्वश्चिराद् गतः ॥ १३४
न चैष नियमोऽस्ति जिज्ञासुभिः स्मृतिविरुद्धा श्रुतिरेव प्रथमं श्रोतव्येति ।
बहुजिज्ञासमानानां कदाचित्किंचिदापतेत् ।
पूर्वपश्चाद्दिभागेन न तद्धेतुबलाबलम् ॥ १३५
३ ] प्रथमाध्याये तृतीयपादः २९१
आद्ये प्रपाठके येन व्रीहिशास्त्रं प्रतीयते ।
द्वितीये यवशास्त्रं च न तत्तत्प्रति दुर्बलम् ॥ १३६
स्वशाखाविहितैश्चापि शाखान्तरगतान्विधीन् ।
कल्पकारा निबध्नन्ति सर्व एव विकल्पितान् ॥ १३७
सर्वशाखोपसंहारो जैमिनेश्चापि संमतः ।
न तु पूर्वावबुद्धोऽर्थो बाधतेवोत्तरं विधिम् ॥ १३८
तस्मात्पौर्वापर्यश्रवणमनाश्रित्य 'न चैकं प्रति शिष्यत' इत्यनेन न्यायेन
सर्वपुरुषान्प्रति नित्यावस्थितसमस्तपठ्यमानस्मर्यमाणवेदशास्त्रायत्तज्ञानेर्जिज्ञासुभि-
रात्मीयशक्तिमात्रकारितपूर्वापरग्रहणविभागरेकभाष्यगतपूर्वोत्तरवर्णपदबद्धलाबल -
मनपेक्ष्य मातापितृप्रणीतोपदेशवन्निर्विचिकित्समेव प्रामाण्यमभ्युपगन्तव्यम् ।
अन्यथा हि—
पूर्वप्राप्तौ प्रमाणत्वं परत्वेनाप्रमाणताम् ।
प्रसज्यमानिकामेवं कोऽध्यवस्येत्सचेतनः ॥ १३९
इत्थं च भ्रान्तिमूलत्वप्रसङ्गे कल्पिते स्मृतेः ।
अविरोधेऽपि हि श्रुत्या प्रामाण्यं दुर्लभं भवेत् ॥ १४०
सर्वैव श्रुतिमूलास्तः सर्वा वा भ्रान्तिमूलिका ।
स्मृतेरेवं निरूप्येत न तु स्यान्मूलसङ्करः ॥ १४१
उच्यते । यद्यपि पूर्वोपलब्धया स्मृत्या श्रुतिमनुपलभमानस्य प्रतिबन्धर-
हितश्रुत्यनुमानं क्रियेत तथाऽपि कालान्तरे श्रुतिं श्रुत्वा तत्प्रतिपक्षस्मृतेर्बाधाध्यव
सानादवश्यंभाविश्रुतिमूलत्वविच्छेदवशेन मूलान्तरसञ्चरणम् ।
ततश्च पूर्वविज्ञानं मिथ्यैतदिति चिन्तयन् ।
आदावेवाप्रमाणत्वं स्मृतेरित्यध्यवस्यति ॥ १४२
यो हि कूटकार्षापणेन कंचित्कालमज्ञो लोकमध्ये व्यवहरति न तेन विवे-
कज्ञानजनितव्युत्पत्तिनाऽपि तथैव व्यवहर्तव्यम् । न चास्य तदानींतनज्ञानमात्रात्
बाधबुद्धिर्भवति ।
समानविषयत्वाद्धि पूर्वेषामपि बाधनम् ।
न हि तेषाममिथ्यात्वे मिथ्येदानींतनं भवेत् ॥ १४३
ननु च प्रागवस्थायां श्रुतिर्यैवानुमीयते ।
सैवेदानीं विरुद्धेति गम्यते न पुनः स्मृतिः ॥ १४४
नैतदेवम् । प्रतिप्रयोगं प्रमाणपर्यालोचनात् । यदि ह्येकप्रयोगमात्रालोचनेनैव
प्रयोगान्तराण्यप्यनुतिष्ठेयुः ततो येन व्रीहिशास्त्रमंप्रमाणीकृत्य यवाः परिगृह्येरन्,
स यावज्जीवं तैरेव यजेतेति, नेव प्रतिपुरुषमुभाभ्यां विकल्प्यमानाभ्यां व्यवहारः
२१२ मीमांसादर्शनम् [ सू०
सिध्येत् । तेन यावत्प्रयोगभाविप्रमाणालोचनवशात्पूर्वानुमितां श्रुतिं क्वदचिप्यशृ-
ण्वन्पुनरपि स्मृतिमेवोपलभ्य कर्तृसामान्यलिङ्गेनैव श्रुतिमनुमिमानः प्रत्यक्षया
श्रुत्याऽऽक्षिप्तचित्ततया तत्प्रामाण्येनान्यथानुपपद्यमानेन स्मृत्यप्रामाण्यं कल्पयन्पूर्वा-
वधारितमूलव्यत्ययमेव प्रतिपद्यते न पूर्वक्लृप्तमूलस्याप्रामाण्याध्यारोपम् । अपठ्य-
मानतयैवास्य सुलभाज्ञानत्वात् ।
यच्चैतदनवस्थानं त्वया मां प्रति चोद्यते ।
भवतोऽपि तदस्त्येव तेनाचोद्यत्वमेकतः ॥ १४५
यदा ह्यादौ श्रुतिं श्रुत्वा स्मृतेर्न्नान्याऽनुमीयते ।
तदऽन्यमूलतापत्तेरेकान्तेनैव बाध्यते ॥ १४६
कालान्तरेऽपि यो बाधः स्फुटत्वेनावधार्यते ।
यत्तेनाप्यप्रमाणत्वं कृतं तन्न निवर्त्यते ॥ १४७
पूर्वस्मृतिग्राहिणां च स्वयं बाधमचेतयमानानामपि पुरुषान्तरस्य श्रुतिश्रवण-
प्राथम्यबलेन बाधसंतानोऽनुवर्तत एव ।
पुरुषान्तरबाधोऽपि नैवालपं भ्रान्तिकारणम् ।
न हि द्विचन्द्रदिङ्मोहौ न बाध्यते नरान्तरैः ॥ १४८
ननु यवश्रुतेरपि तर्हि प्रमाणत्वेन परिगृह्यमाणायाः पुरुषान्तरबाधस्तदानी-
मस्तीति मिथ्यात्वप्रसङ्गः ।
उच्यते—
पठ्यमानत्वादुन्मज्जननिमज्जने ।
सर्वान्प्रति तयोस्तुल्ये विशेषोऽन्यो न गृह्यते ॥ १४९
स्मृतिस्तु यावतां पुंसां प्रथमं गोचरीभवेत् ।
तावतां सर्वदाऽभावाज्ञाप्रामाण्येन मुच्यते ॥ १५०
अप्रमाण्यपदं चैकमस्त्येवं प्रथमं स्मृतेः ।
तावता लब्धमिथ्यात्वान्न श्रुतिं बाधितुं क्षमा ॥ १५१
अध्यारोप्येत मिथ्यात्वमुज्ज्वलायाः श्रुतेः पुनः ।
लब्धमेव स्मृतौ तच्चेत्किमर्थं कल्प्यते श्रुतेः ॥ १५२
विरुद्धयोर्हि श्रुतिस्मृत्योर्विकल्पप्रसङ्गेनावश्यं कल्पनीयेऽन्यतरत्राप्रमाणत्वे
यावच्छ्रुतौ पटाच्छादनन्यायेन कल्पयितुमारभ्यते, तावत्स्मृतौ स्वरूपाश्रयं क्लृप्तमे-
वोपलभ्य, संशयच्छेदे जाते न कदाचिदप्यभूताप्रामाण्याध्यारोपकल्पनोपपत्तिः ।
ननु श्रुत्यविरुद्धायाः श्रुतिमूलत्वनिश्चयः ।
अनुमानादपि प्राप्स्यन् केनचित्प्रतिबध्यते ॥ १५३
३ ] प्रथमाध्याये तृतीयपादः २९३
तस्मात्कारणवैषम्यान्नोभयत्रैकरूपता ।
सिध्येन्मूलव्यवस्था हि प्रतिपक्षानुसारिणी ॥ १५४
ततश्चार्धवैशसप्रसङ्गन्निवृत्तिः ।
यथा—प्रमाणत्वाप्रमाणत्वे लिङ्गादीनां व्यवस्थिते ।
पूर्वैः सह विरुद्धत्वाविरुद्धत्वनिबन्धने ॥ १५५
तथेहापि व्यवस्थेष्टा न परस्परसङ्करः ।
प्रतिबन्धाभ्यनुज्ञाभ्यां श्रुत्या नास्त्येकरूपता ॥ १५६
यद्यप्यौदुम्बरीसर्ववेष्टनं धर्मशास्त्राध्येतृस्मृतिविलक्षणप्रत्यक्षश्रुत्यर्थोपसंहार-
परसूत्रकारोपनिबद्धम्, तथाऽप्युपरिष्टाद्वक्ष्यमाणाल्पान्तरत्वाभिप्रायेण पुरुषोपदिष्ट-
त्वाविशेषाच्च स्मृतिवदेवोदाहृतम् ।
क्रीतराजकभोज्यान्नत्ववचनं यद्यप्यथर्ववेदेऽस्ति, तथाऽपि तस्याऽऽहवनीय-
संबद्धयज्ञकर्मोपकाराभावात्तदधिकृतत्रयीप्रतिपादिताग्नीषोमीयसंस्थावधिभोजनप्र-
तिषेधविरोधात् “प्रकरणविशेषाद्विकृतौ विरोधि स्यात्” इत्यनेन न्यायेनाविकृता-
नधिकृतबलाबलविशेषाभिप्रायेण स्मृतिपक्षनिक्षेपाद्भाष्यकारेणोदाह्रियते ।
कृष्णकेशत्वं च यद्यप्यनवस्थितवयोवस्थाकालविशेषं जातपुत्रत्वपक्षे संदिग्ध-
समावेशं च, तथाऽपि 'युवैव धर्ममन्विच्छेदि'त्येवमादिस्मरणप्रकाशितार्थं यौवना-
वस्थापरिग्रहादन्ततो वा वयोर्द्धानतिक्रमाश्रयणादष्टाचत्वारिंशद्वर्षब्रह्मचर्यप्रागुप-
नयनसंबद्धकालस्य च वयसः सातिरेकद्विपञ्चाशच्चतुष्पञ्चाशन्मात्रसंवत्सरपरिमि-
तत्वेनापरिहार्यवयोर्द्धानातिक्रमावश्यंभावित्वाद् व्यक्त एव विरोधो दृश्यते ।
ननु च पूर्वकृतसर्ववेष्टनोत्तरकालविहितवेष्टिताया एव स्पर्शनं संभवतीत्य-
विरोधः । कथमविरोधो ? यदा स्पर्शनं नाम त्वगिन्द्रियद्वारं स्पृश्य संवेदनम् । न च
वस्त्रान्तरिताया औदुम्बर्याः स्पर्शो गृह्यते । न च वस्त्रे स्पृश्यमान औदुम्बरी स्पृष्टा
भवति । वस्त्रौदुम्बरीजातिव्यक्तिस्पर्शनामत्यन्तभेदात् ।
अथ संबन्धिसंस्पर्शात्स्पृष्टैवेत्यभिधीयते ।
भूमिस्पर्शेन तत्सिद्धेर्वृथा स्पर्शविधिर्भवेत् ॥ १५७
ननु भूमावौदुम्बरीबुद्ध्यभावाद्द्वस्त्रान्तरितायां च तद्बुद्ध्यव्यतिरेकाद् दृष्टा-
न्तवैषम्यम् ।
तथा हि—वस्त्रान्तरितचाण्डालस्पर्शेऽप्यापतिते क्वचित् ।
साक्षात्स्पृष्टवदेवेष्टा सचेलस्नानशुद्धता ॥ १५८
सत्यं तत्रेष्यते स्नानं तद्वस्त्रस्पर्शकारितम् ।
अशुद्धिकारणं तद्धि चण्डालस्पर्शवन्मतम् ॥ १५९
२९४ मीमांसादर्शनम् [ सू०
तथा च तद्वियुक्तेऽपि वस्त्रे तत्स्पर्शदूषिते ।
स्पृश्यमाने भवेत्येव दोषः संयुक्तवस्त्रवत् ॥ १६०
कथं पुनरयं धर्मशास्त्रेष्वनुपनिबद्धोऽपि चण्डालस्पृष्टवस्त्रस्पर्शननिमित्तो दोषोऽ-
ध्यवसीयते ।
कथं वा नेष्यते दोषः काष्ठलोष्टतृणादिषु ।
तत्स्पृष्टस्पृश्यमानेषु न क्रमन्तेऽत्र युक्तयः ॥ १६१
तदुच्यते--तथा काष्ठतृणादीनां मारुतादेव शुद्धता ।
स्मर्यंते वाससो नैवं तोयप्रक्षालनाद्विना ॥ १६२
नन्वमेध्येन लिप्तस्य सा शुद्धिरभिधीयते ।
न लिप्तग्रहणं तत्र पाठेऽस्ति तु चिरंतने ॥ १६३
अमेध्यस्यैवं यस्मात्पठन्ति । चण्डालस्पृष्टवाससश्चास्त्येवामेध्यता । तस्मादस्ति
सलिलादिशुद्धिः ।
ननु च मनुष्यस्यैव चण्डालस्पर्श निमित्तप्रायश्चित्तविधानादशुद्धिरूपममेध्य-
त्वं गम्यते न द्रव्यान्तरस्य गवाश्वादेः । ततश्च वस्त्रं किं गवाश्वादिवददुष्टमुत पुरुष-
वद् दुष्टमिति सन्देहे गवाश्वादितुल्यमेवावधारयितुं युक्तम् ।
उच्यते—पुरुषस्य सचेलस्य स्नानं यस्माद्विधीयते ।
तस्मात्पुरुषवद्वस्त्रं न गवाश्वादिवन्मतम् ॥ १६४
यदाऽपि हि शुद्धेनैव हस्तादिना चण्डालः स्पृश्यते, गवादीनां तु चण्डाला-
दिस्पृष्टानां स्नानप्रक्षालनविध्यभावाच्छुद्धिर्विज्ञायत इति, न तन्मध्यपातित्वम् ।
अतश्च नानेन प्रकारेणौदुम्बरीसंबद्धवस्त्रस्पर्शनात्तत्स्पर्शनज्ञानोपपत्तिः । यदा तु
तयैवोद्गाता स्पृष्ट उद्गायेदिति विधिरस्तदाऽवश्यमेवौदुम्बरीत्वं चोद्गातृशरीरं
प्राप्तव्यम् । अपाश्रयणाभ्युपगमपक्षोऽपि च स्पृष्ट्वापरित्यागेनैव स्थित इति, न
समस्ताच्छादितायामवकल्पते । पराश्रितमपि च वस्त्रमुद्गातुराश्रयत्वं प्रतिपद्यते ।
तेनैवौदुम्बर्याश्रितेनोद्गायेत् । तस्मादस्ति सर्ववेष्टनस्पर्शनयोर्विरोध इति युक्तं
बाध्यबाधकव्यवस्थापनम् ।
अथ किमर्थं नेमौ विधी विकल्प्येते इति । स्मृतेरविधायकत्वात्स्वयमतुल्य-
बलत्वाच्च तदनुमितशाखान्तरपठितविधिपरिग्रहाभिप्रायेणोक्तम् । न नासति
व्यामोहविज्ञान इति ।
पूर्वोक्तेनैव मार्गेण व्यामोहैकान्तकल्पनाम् ।
विकल्पेऽवश्यमापन्नां स्मृतावेव नियच्छति ॥ १६५
व्यामोहविज्ञानं च ज्ञानान्तर्गतव्यामोहत्वावधारणम्, तद्विज्ञानगतव्यामोह-
रूपं वा विवक्ष्यते । तेन षष्ठीसमासः कर्मधारयो वा योज्यः । विकल्पं तु वद-
३ ] प्रथमाध्याये तृतीयपादः २९५
ञ्चिति । कदाचित्स्मृतिमूलश्रुतिविच्छेदाद् भ्रान्त्यादिमूलत्वमापादयति । तादृश्या
च सकृदपि श्रौतं विज्ञानमनुज्ञातमध्यारोप्यमाणव्यामोहाविषयत्वान्न कदाचित्प्रा-
माण्यं त्यजतीत्यपाक्षिकत्वाभिधानम् । एवं केवलाप्रमाणत्वपक्षग्रहः तस्य पुनर्जी-
वनासंभवादपाक्षिकं च सर्ववेष्टनस्मरणमित्याह—पाक्षिकं चेति । विकल्प-
वादिसंमतपाक्षिकत्ववशादेव श्रुतिप्रामाण्यपक्षे स्मार्तश्रुतिकल्पनायामकृताया मूला-
न्तरसंक्रान्तेः सर्वकालाप्रमाणत्वप्रसङ्गः ।
एकदाऽपि च लब्धप्रामाण्यावकाशा श्रुतिर्दुर्बलप्रतिपक्षतया न कदाचिदपि
व्यामोही भविष्यतीति समर्थयमानो ‘यदेव हि तस्यैकस्मिन्पक्षे मूलमि'त्याह ।
नहि प्रमादपाठत्वं शक्यं कल्पयितुं श्रुतेः ।
दुःश्रुतस्वप्नविज्ञानमूलां त्वापद्यते स्मृतिः ॥ १६६
‘तेन नैतत्पक्षे विज्ञानमिति'—प्रमाणविज्ञानमभिप्रेत्योक्तम् । व्यामोहात्प-
क्षान्तरमिति । व्यामोहकल्पनातः प्रमाणाभावपक्षान्तरसंक्रमणं प्रतिषेधति ।
यद्वा स्मार्तज्ञानमेव पूर्वावधारितव्यामोहात्प्रामाण्यपक्षान्तरं न संक्रान्तमिति ।
दुःश्रुतस्वप्नादिमूलत्वेन श्रुतिविरोधं दर्शयति—‘तुल्यकारणत्वादिति' । बलीयः
प्रतिपक्षनिराकृतत्वात्सर्वदैव श्रुत्यनुमानप्रतिबन्धान्न स्मृतेः प्रामाण्यपक्षसंक्रान्तिः ।
अपि चेतरेतराश्रयेऽन्यतः परिच्छेदादिति । उपरिष्टादितरेतरविरोधविवरणाद्वि-
रोधमेवेतरेतराश्रयमाह—
परस्परविरुद्धे हि विरुद्धव्यभिचारिवत् ।
प्रमाणे यत्र दृश्येते तत्रान्येनैव निर्णयः ॥ १६७
प्रमाणशब्दस्य ज्ञानसमानाधिकरणत्वेन भावोत्पन्नल्युडन्तत्वेन वा नपुंसक-
लिङ्गत्वाद्भेदाः प्रमाणम् स्मृतयः प्रमाणमितिवत्प्रमाणं स्मृतौ स्पर्शनं व्यामोह इति
भवितव्यम् । करणविशेषविवक्षायां वाऽभिधेयलिङ्गवचनानुवृत्तौ ल्युडन्ताट्टिड्ढा-
णञिति ङीपि प्राप्ते प्रामाण्यं स्मृताविति प्रयोक्तव्यम् । तमिमममुभयअष्टं भाष्य-
कारप्रयोगं समर्थयमानैरेवमनुगमः कर्तव्यः ।
दुरुक्तं चिन्ताकरणेन वार्तिकलक्षणस्य योजना
प्रमाणमयते याति मूलभूतं श्रुतिं यतः ।
क्विबन्तादयतेस्तस्मात्प्रमाणा स्मृतिरुच्यते ॥ १६८
तत्र यद्यपि नित्यत्वात्क्विब्लोपः प्रथमं भवेत् ।
यलोपोऽपि भवेदेव वलादिप्रत्ययाश्रयः ॥ १६९
न च वर्णाश्रयत्वेन यलोपो न भविष्यति ।
व्योर्वलीति यलोपो हि वलादिप्रत्ययाश्रयः ॥ १७०
२९६ मीमांसादर्शनम् [ सू०
यद्वा योगविभागेन वेव्यंबस्य च लुप्यते ।
वकारश्च यकारश्चेत्येवं लोपो भविष्यति ॥ १७१
यलोपे च कृतेऽकारो यः शुद्धः परिशिष्यते ।
तदन्तावधिकात्पश्चादतष्टाप्क्रियते स्त्रियाम् ॥ १७२
अकः सवर्णदीर्घत्वं परयोरन्तरङ्गतः ।
सर्वेणापि ततः कृत्वा प्रमाणेत्यनुगम्यते ॥ १७३
तदेतदितराश्रयं भवतीत्युक्तम् ।
यद्वा श्रुत्यप्रमाणत्वात्स्मृतेः प्रामाण्यमिष्यते ।
सिद्धाच्च तत्प्रमाणत्वाच्छ्रुत्यप्रामाण्यकल्पना ॥ १७४
तथा श्रुतिप्रमाणत्वात्स्मृत्यप्रामाण्यकल्पनम् ।
तदप्रामाण्यसिद्ध्या च श्रुतिप्रामाण्यनिश्चयः ॥ १७५
तदिदं विकल्पवादिना उभयत्रेतरेतराश्रयत्वम् । एकान्तवादिनस्त्वन्यतरत्र ।
तत्रान्यतः परिच्छेदाद्ग्राह्यं हेत्वन्तरं स्फुटम् ।
भाष्यकारस्त्विहोक्त्वैवं तयोरेकैकमुक्तवान् ॥ १७६
तत्र स्पर्शनस्य क्लृप्तं मूलं कल्प्यं स्मृतेरिति ।
समाधानम्
नैवात्यन्ताप्रकृतहेत्वन्तराभिप्रायेणान्यतः परिच्छेदोऽभिहितः । प्रकृतयोरपि
चयत्कृतगितरेतराश्रयत्वं तद्व्यतिरिक्तधर्मदर्शनान्निश्चीयमाने भवत्येवान्यतः
परिच्छेदः ।
स्वतः स्थितात्प्रामाणत्वाच्छ्रुतेः स्यात् क्लृप्तमूलता ॥ १७७
स्मृतेः श्रुत्यनुमापकप्रामाण्यात्कल्प्यमूलता । ततश्च प्रत्यक्षश्रुत्यप्रामाण्यकल्प-
नायत्तं स्मृतेः प्रामाण्यम्, तद्वलेन च श्रुत्यप्रामाण्यं कल्पयत इतरेतराश्रयत्वमपरि-
हार्यम् ।
न चाध्यारोप्यमाणाऽपि श्रुतेः स्यादप्रमाणता ।
न च तस्यामसिद्धायां स्मृतिप्रामाण्यसंभवः ॥ १७८
बलवन्तं पराजित्य यः प्रतिष्ठातुमिच्छति ।
हस्तिना पादयोधीव संतिष्ठेताचिरादसौ ॥ १७९
एवं तावत्स्मृतिप्रामाण्यं कल्पयन्नेव यद्वादी पराजीयते । यदा तु श्रुतिप्रा-
माण्यगतमितरेतराश्रयत्वमालोच्यते, तदा तत्रापि प्रतिपक्षभूतस्मृत्यप्रामाण्यापेक्षया
निरपवादप्रामाण्यावधारणसिद्धेः पराधीनत्वात्पूर्वसिद्धस्मृत्यप्रामाण्यलिप्सायाम् ।
सिद्धमेवाप्रमाणत्वं स्वरूपाश्रयमादितः ।
क्षणमात्रमपि प्राप्य श्रुतिः प्रामाण्यमश्नुते ॥ १८०
३ ] प्रथमाध्याये तृतीयपादः २९७
तेन यत्तदाद्ये पदकेऽनुमितावस्थायां श्रुतावापातक्षणमात्रे स्मृतेरप्रामाण्यं
दृश्यते, तावतैव लब्धप्रामाणत्वात् श्रुतिः सर्वदा निरपवादप्रामाण्या भवतीत्यन्तः
परिच्छेदः ।
तेनैंकत्र श्रुतेराद्यात्प्रामाण्यादवसीयते ।
स्मृत्यप्रामाण्यतोऽन्यत्र क्षणमात्रावधारितात् ॥ १८१
कृत्वैकमवधिं तस्मात्सिद्धमाद्ये क्षणे दृढम् ।
आनुपूर्व्या व्रजेत्तावत्सिद्धोऽपरः स्फुटः ॥ १८२
तदेकेन मार्गेण दर्शयति—कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवक्लृप्तमित्यादि
यावत्स्मार्तश्रुतिकल्पनमनुपपन्नं प्रमाणाभावादिति । द्वितीयमार्गेऽपि श्रुतिप्रा-
माण्यदर्शनादारभ्य तावन्नेतव्यं यावत्तदेव निरपवादं सिद्धमिति । व्रीहियवबृहद्रथं-
तरविधीनां त्वनन्यगतिकत्वात्कक्षान्तरितपदका इव स्थानभेदाभावात्तुल्यबलतयाऽ-
नवस्थितविकल्पाश्रयणं प्रागुपदिष्टमेव योज्यम् । अतो नापेक्ष्यं प्रत्यक्षश्रुतिविरुद्ध-
स्मृतिप्रामाण्यमिति ॥ ३ ॥
॥ इति भाष्यमतेन विरोधाधिकरणम् ॥
अथ द्वितीयं विरोधाधिकरणम्
न्या० सू०—सङ्गतिमाह—स्मृतीति । कथमपोद्यत इत्यपेक्षिते, सूत्रारूढं तत्स्वरूप-
माह—विरोधे स्थित्विति । कस्मिन्सतीत्यपेक्षिते विरोधे वेदवाक्येनेत्युक्तम् । विरोधोऽपि
वैपरीत्यपरिच्छेदात्प्रागनुपसञ्जातविरोधित्वाच्छ्रुत्यनुमानसम्भवान्न प्रत्यक्षश्रुतिः प्रागनुमानं
प्रवर्तते मन्थरत्वादित्युक्तम् । तेन चार्थेनाधिष्ठिते इति वेदवाक्येन स्मृत्यर्थे वैपरीत्येना-
परिच्छिन्ने परिच्छेदात्प्रागित्यर्थः । सङ्गतिमुक्त्वा विषयप्रदर्शनपूर्वकं सन्देहमाह—
यावतीति । सम्प्रधार्यंत इत्यनेन यत्र तु श्रुतिविरोधः तत्र कथमिति भाष्यगतः कथं शब्दः
सन्देहप्रदर्शनार्थत्वेन व्याख्यातः । अकथिते च विषये सन्देहस्य वक्तुमशक्यत्वादेतदेव
भाष्यं विषयकथनार्थमपीति वक्ष्यमाणोदाहरणभाष्यानादयोदाहृत्येत्यनेन सूचितम् ।
यावन्तीत्यादिना चानादरकारणमुक्तम् । पर्युदस्यत इत्यनेनापवादत्वं दर्शितम् । निषेधस्य
विकल्पापादकत्वेनापवादत्वायोगात् । प्रश्नपूर्वकं सन्देहहेतुमाह—कुत इति । ननु कथं
प्रतीयमानस्य विरोधस्य परिहारः । कथं वा तस्मिन्सति बाधमन्तरेण गतिरित्याशङ्क्य
सामान्यन्यायप्रदर्शनपूर्वकमुभयमुपपादयति—एकविषये इति । विचाराविषयत्वापत्ते-
विरोधपरिहारेण पूर्वपक्षो न युक्त इति शङ्कितविरोधयोरपीत्युक्तम्—केनचित्प्रकारेणेति ।
वेष्टनस्मृतेर्द्वित्र्यङ्गुलव्यतिरिक्तविषयत्वात्स्पर्शश्रुतेश्च तन्मात्रविषयत्वात्, राजक्रयाग्नि-
षोमीयावद्योश्चापद्विषयत्वात्, अष्टाचत्वारिंशद्वर्षब्रह्मचर्यस्मृतिकृष्णकेशाधानश्रुत्योश्च गाहं-
स्थ्यायोग्ययोग्यविषयत्वादित्यर्थः । विधेयप्रतिषेध्ययोर्वेत्यनेन सत्यप्येकविषयत्वे विरुद्धाथौप-
संहारित्वाभावादपि विरोधपरिहारः—सम्भवतीत्युक्तम् ।
२९८ मीमांसादर्शनम् [ सू०
राजक्रयादूर्ध्वं विधेयस्याभोजनसङ्कल्पस्य प्रतिषेध्यस्य च राजक्रयात्प्राग्भोजनस्य
विरोधाभावेनैकस्मिन्नपि दीक्षिताङ्गरूपे विषये समुच्चयसम्भवादित्यर्थः । स्पर्श-
वेष्टनयोः कृष्णकेशाधानाष्टाचत्वारिंशद्वर्षब्रह्मचर्ययोरप्येकविधानेनार्थान्तरप्रतिषेधम-
भिप्रेत्य वेष्टिताया अपि स्पर्शसम्भवात् कृष्णकेशत्वस्य चानवस्थितवयोऽवस्थां कालविशेष-
त्वेनाष्टाचत्वारिंशद्वर्षब्रह्मचर्योत्तरकालमपि कस्मिंश्चित्पुरुषे सम्भवाद्विरोधपरिहारो वक्तुं
शक्यते । सति वा तुल्यमूल इत्येतद्व्याख्यातुम्—एकप्रयोगेत्याद्युक्तम् । विकल्पाश्रयणेऽप्यु-
भयप्रामाण्यमुपपत्स्यत इत्युक्ते विरोधिनोः समावेशायोगात्कथमुभयप्रामाण्यमित्याशङ्क्य—
अत्यन्तविरोधाभावादित्युक्तम् । कथं विरोधाभाव इत्याशङ्क्योभयोः प्रामाण्याङ्गीकरणे-
नेत्युक्तम् । प्रामाण्यशब्देनात्रानुष्ठानलक्षणफलानपहारोऽभिप्रेतः । समुच्चय एव तर्हि कस्मा-
न्नेष्यत इत्याशङ्क्यैकप्रयोगगतत्वासम्भवादित्युक्तम् । कथं तर्हि फलानपहार इत्याशङ्क्य
प्रयोगान्तरे चोभयानुग्रहः स्यादित्युक्तम् । प्रत्यक्षानुमेयश्रुत्योस्तुल्यबलत्वाद्विकल्पासम्भव-
माशङ्क्य—प्रत्येत्याद्युक्तम् ।
समस्तफक्किकायोजनं त्वेवं-यद्याशङ्कितविरोधयोरपि भिन्नविषयत्वेन व्यवस्था सिद्ध-
येद्यदि वैकस्मिन्नपि विषये विधेयप्रतिषेध्ययोर्विरोधाभावेन समुच्चयसम्भवादुभयप्रामाण्य-
मुपपत्स्यते, एकप्रयोगगतत्वासम्भवाद्विकल्पाश्रयणेऽपि, यद्युभयप्रामाण्यमुपपत्स्यते, ततो
विरोधविषयेऽपि स्मृतिप्रामाण्यमादत्तंथमिति सिद्धान्तसम्भवाभिधानार्थं बाधो वा तद्विपर्य-
यादिति, यदुक्तम्—तद्विवृणोति । अथ द्विवेति । महान् बलाबलविशेष इति, महच्छब्देन
प्रत्यक्षश्रुतिविरुद्धया श्रुतेरनुमानमेव नास्तीति सूचितम् । लौकिकप्रत्यक्षानुमानवदिति
दृष्टान्तेन चैतदेव प्रकटितं प्रत्यक्षविरोधे त्वनुमानस्योत्पत्तिरेव प्रतिबद्ध्यते । यथोक्तं मूले
तस्य ह्यनुत्पन्नपूर्वेण विषयो हत इति ।
पूर्वपक्षमारभते—किं तावदिति । अन्यथा ह्यविरोधेऽप्यप्रामाण्यप्रसङ्गे सत्यप्रामाण्येन
विरोधमर्यादातिक्रमात्पूर्वाधिकरणसिद्धान्तः प्रत्युद्धूयेतेत्यर्थः एतदेवोपपादयति—अना-
शङ्कितेति । अतिप्रसक्तिप्रदर्शनार्थं हेतुदर्शनाद्युपन्यासः । आदिशब्देन पूर्वानुभवपारतन्त्र्य-
मभिप्रेतम् । खिलानि-परिशिष्टानि । शाखाश्च खिलानि-प्रकरणानि वा । आदिशब्दोक्तानि
काण्डानि । तेषां ये बहवो भेदाः तैर्मिश्रे त्विति विग्रहः लिङ्गादीत्यादिशब्देन समस्तोपदेश-
प्रामाण्याभिधानम् । नामादीत्यादिशब्देनातिदेशकवचनाभिधानम् । श्रुतिलिङ्गाद्यात्मकश्चो-
पदेशो नामादिद्वाराश्चातिदेशः तदात्मका विचित्राः प्रमाणभागा येषां वेदानामिति विग्रहः ।
ननु विरोधाशङ्कानिराकरणेनाऽन्यत्र प्रामाण्यस्याध्यवसातुं शक्यत्वात्कथं सर्वत्र प्रामा-
ण्यप्रतिघातापत्तिरित्याशङ्कयाह—तथा हीति । ननु त्वत्पक्षे कथं भ्रान्त्यादिमूलत्ववारण-
मत आह -- एकेति ।
एवं तावत् (स्थिततदुपेक्षणे एकमूलव्यवस्थोपेक्षणे अप्रामाण्यनिवृत्त्यर्थं मूलान्तरनिरा-
क्रिया न शक्येत्यन्वयः । सिद्धान्तिमते स्मृत्यधिकरणसिद्धान्तः) । सिद्धान्तहानिभयाद्वि-
रोधेऽपि, वेदमूलत्वं न निराकार्यमित्युक्तम् । इदानीं विरोधो मूलभूतवेदनिरकरणं कर्तु-
३ ] प्रथमाध्याये तृतीयपादः २१९
मपि न शक्नोत्यनैकान्तिकत्वादित्याह—किं चेति । श्लोकं व्याचष्टे—यदा त्विति ।
कल्पितस्यापि वचनस्य शाखान्तरीयत्वेनानादराशङ्का निराकर्त्तुं सर्वशाखाप्रत्ययकर्म-
व्यवहारिणामिति । यदुक्तं यद्व्याचष्टे--न चेति । न च प्रमाणाभावेनाकल्पनामिति यद्
दृढस्मरणोपस्थापितशब्देनोक्तम्, तदुपपादयति—अध्ययनवच्चेति । न शोभत इत्यनेनोभ-
योरपि पञ्चम्योरन्वयः । एतदेवोपसंहरति--तस्मादिति । अर्द्धवैशसापत्तेरपि नेह श्रुति-
मूलत्वं निराकार्यमित्याह—किं चेति । एकस्यां धर्मसंहितायामर्द्धमस्यार्थान्तरेण वैशसं
विरोध इत्यर्थः । अतिक्रियालक्षणश्चास्मिन्पक्षे दोषः स्यादित्याह—मूलान्तरमिति । उचितां
क्रियामतिक्रम्य क्रियाऽतिक्रिया, का पुनरुचिता क्रियेत्यपेक्षायामाह—तेनेति ।
एकस्मिंश्च धर्मशास्त्रे क्वचित्प्रामाण्यसिद्धयर्थं भ्रान्त्यादिमूलानामसम्भवः, क्वचिच्च
बाधसिद्धयर्थं सम्भवोऽङ्गीकार्य इति विरुद्धसम्भवासम्भवापादकत्वादपि स्मृतिबाधो न युक्त
इत्याह—किं चेति । विरोधपक्षे बाधो बाधपक्षः पक्षे चेद् बाधो न युज्यते किन्तर्हि
युज्यते ? अत आह—तेनेति । केनचित्पाशुपतेन सर्वंजरत्या योषितोऽनुपभोग्यत्वात् सर्वंत-
रुण्याश्च वृद्धेऽप्यरुचिप्रसङ्गादर्द्धंजरत्यानयने दूतः प्रेषित इति लोकप्रवादोऽर्द्धजरतीयशब्दे-
नात्रोपमानत्वेनोक्तः ।
अस्तु तर्ह्यैकरूप्याय सर्वासामप्रामाण्यमत आह—विरुद्धत्वं चेति । विशिष्टपुरुष-
प्रणीतत्वं प्रामाण्यकारणत्वेनोक्तम्, विरोधेऽपि निराकर्त्तुमशक्यमित्याशयः । यच्चात्र
हेतुदर्शनं स्मृत्यप्रामाण्यकारणमुच्यते, तदपि स्थितसिद्धान्तहान्यापादकत्वादयुक्तमित्याह—
गृह्यमाणेति । उत्प्रेक्षणीयो हेतुर्यस्य धर्मशास्त्रस्य, तत्तथोक्तो लोभादेः सर्ववेष्टनादिस्मृति-
हेतुत्वं न केनचित्प्रमाणेनावगतं किं तूत्प्रेक्षामात्रेणोच्यते । सा चाष्टकादावपि शक्या
कर्तुमित्याशयः ।
एतदेव प्रपञ्चयति—रागेति । रागः प्रीतिर्द्वेषोऽप्रीतिः । मदो—गर्वः उन्मादो-ग्रहावेशः,
प्रमादालस्ये त्वन्यासक्तधनासक्त्यर्थे व्याख्याते, लुब्धता लिप्सातिशयः । प्रत्युत प्रामाण्य-
हेतुकल्पनमेव सुलभमित्याह—अदुष्टे न हीति । जिज्ञासुचित्तेन मन्वादिष्वदुष्टेन निरा-
शङ्केनेत्यर्थः । यदि चोत्प्रेक्षामात्रकल्पितेन हेतुना, प्रत्यक्षश्रुतिविरोधेन वा प्रामाण्यमपहू-
नूयेत, ततो वेदस्यापि सर्वस्याप्रामाण्यं प्रसज्येतेत्याह—का चेति । न चेयमुत्प्रेक्षास्माभिरेव
श्रूयते किन्त्वन्यैरेव सर्वाप्रामाण्यवादिभिः कृतेत्याह—लोकायतिकैरिति । उत्प्रेक्षाभिनिवेशे
तेषां मूर्खत्वं मुग्धत्वं भ्रान्तत्वाख्यं कारणत्वेनोक्तम् । कर्मव्यवहारः कस्मादन्यदपेक्ष्यते
यावत्किंचिदित्यादिना सार्द्धश्लोकेन तद्दर्शितम् ।
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविकेयं बृहस्पतिः ॥
इत्यग्निहोत्रादीनां दृष्टार्थत्वं नास्तिकैरुक्तम् । अग्नीषोमीयादिहिंसाविधेश्च न हिंस्या-
त्सर्वभूतानीति निषेधेन विरोधो योजितः । अथश्चैवंस्वभावानां लोकायतिकानामवकाश-
३०० मीमांसादर्शनम् [ सू०
दानमशेषमेव धर्ममार्गं नाशयेदित्याह—तेभ्यश्चेह इति । ईषदर्थे नामशब्दः । एतदेव
दृष्टान्तत्वेनोपपादयति—प्रसरन्निति ।
ननु विरोधहेतुदर्शनकारणकमप्रामाण्यमुच्यमानं तदभावे कथं चार्वाकैरापाद्यते, अत
आह—क्वचिदिति । धाम-स्थानम् । तस्मात्तेभ्योऽवकाशो न क्वचिद्देय इत्याह—
तस्मादिति । लोकायतं नास्तिकशास्त्रम् । तत्र तिष्ठन्तीति लोकायतस्थाश्चार्वाकाः । धर्मो
नाश्यते येन युक्तिजालेन तत्संपन्नाः ।
'पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
इति च निषिद्धत्वात्, स्मृतिप्रामाण्ये विचिकित्सा न कार्येत्याह—यच्चादाविति ।
राजाद्याज्ञाया यत्कार्यत्वेन सिद्धम्—निश्चितम्, तद्वेदे विचारितमाज्ञासिद्धमुच्यते । आज्ञा-
सिद्धं प्रमाणत्वं यस्य पुराणादिचतुष्टयस्य, तत्तथोक्तं कथमविचारितसिद्धतेत्यपेक्षायामादौ
न्यायनिरूपणात्प्रागनादिकालमहाजनपरिग्रहदाढ्यंप्रसक्तया श्रद्धया पुराणादिचतुष्टयमाज्ञासिद्ध-
प्रमाणत्वरूपेण सिद्धमित्युक्तम् । न चैतावता न्यायशून्यत्वं शङ्कनीयमिति दर्शयितुं—
पुनर्न्यायेन साधितमित्युक्तम् । विचिकित्सायां को दोषः स्यादित्यपेक्षयामाह—सर्वमिति ।
पराभवभयादपि नान्तरा श्लथयितव्यमित्याह—पक्ष इति । एवं तावदुत्प्रेक्षामात्रकल्पितं
दृष्टार्थत्वं न वेदमूलत्वनिराकरणयालमित्युक्तम् ।
इमिदानीं वास्तवमपि दृष्टार्थत्वम् । विरोधवदनैकान्तिकत्वान्न तन्निराकरणयाल-
मित्याह—वेदश्चेति । श्रूयमाणविरोधी वेतीवार्थे समुद्रो वा महासत्त्वैत्व इति । यद्वाशब्दः ।
अनैकान्तिकत्वं दर्शयति—यद्वा त्विति । ननु पुरुषार्थसाधनत्वलक्षणं दृष्टार्थत्वमिह हेतुः
न चावघातादीनां तदस्ति क्रत्वर्थपुरोडाशनिष्पत्तौ तण्डुलीभावादिसाधनत्वादित्याशङ्क्यो-
दाहरणान्तरमाह—ऋत्विग्भ्य इति । ऋत्विगमभिमतदक्षिणालाभहेतुत्वेन दानस्य पुरुषार्थताप्यि
वक्तुं शक्यतेति सूचयितुम्—ऋत्विग्भ्य इत्युक्तम् । तानूनत्रं परस्परमृत्विजां यजमानस्य
चाव्यभिचारार्थं कर्मारम्भे शपथकर्म ।
अतश्च सिद्धमनैकान्तिकत्वात् दृष्टार्थत्वस्यासाधकत्वमित्याह—यदा चेति । तस्माद्वि-
रोधहेतुदर्शनाभ्यां न वेदमूलत्वं निराकर्तुं शक्यमित्युपसंहरति—तेनेति । वेदमूलत्वा-
निराकरणाच्च न प्रामाण्यं निराकर्तुं शक्यमित्याह—तस्मादिति । पूर्वपक्षमुपसंहरति—
अविशिष्टमिति । ईदृशं मूलश्रुत्यनुमानद्वारमविशिष्टं सामान्यतः सर्वासामं स्मृतीनाम्, यत्पूर्व-
न्यायेन प्रमाणत्वं प्राप्तं तदधुना विरुद्धश्रुत्यन्तरपर्यालोचनकाले सत्यपि विरोधे
युक्तमित्यर्थः ।
साध्याहरं सूत्रं योजयत्सिद्धान्तमारभते--सिद्धान्तः—एवमिति । निर्मूलस्मृत्य-
योगाद्वेदमूलत्वाभावे किमन्यमूलं स्यादित्याशङ्क्याह—या त्विति । स्पष्टग्रहणेनान्यपर-
श्रुतिमूलत्वेऽप्यप्रामाण्योपपत्तेस्तात्पर्यमात्रापवादोऽयमिति दर्शितम् । न च सत्यपि वेदमूलत्वे
३ ] .प्रथमाध्याये तृतीयपादः ३०१
स्वातन्त्र्येण प्रामाण्यं भविष्यत्यत आह-स्वातन्त्र्येणेति । अस्तु तर्हि वेदस्यैवानुमानमत
आह- वेदेति । ननु सत्यपि प्रत्यक्षश्रुतिविरोघे, किमिति नानुमीयेतस्त आह-वेदेति ।
तस्यानुमेयस्य वेदवाक्यस्य योऽर्थं औदुम्बर्यादिः, तद्विषये प्रत्यक्षं वेदवाक्यं यावन्नोपलभ्य-
त इत्यर्थंः । अनुमानस्यासन्निकृष्टार्थविषयत्वात्सन्निकृष्टस्य च ताद्रूप्य-तद्विपर्यंयपरिच्छेद-
योस्तुल्यत्वाद्विपर्ययपरिच्छिन्नस्यानुमेयत्वे ताद्रूप्यपरिच्छिन्नं दृष्टान्तयति- न हीति ।
एतदेव विवृणोति - स्मृतीनामिति । निवारणे कारणमाह- तावदेवेति ।
ननु प्रत्यक्षेणानुमानस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति । स्मार्त्तं तु सर्ववेष्टनादि-
कर्त्तव्यताज्ञानं विरोधेऽप्युत्पद्यमानं कथं बाध्यते । न ह्युत्पन्नस्य ज्ञानस्य मिथ्यात्वलक्षणो
बाधः सम्भवतीत्याशङ्क्याह - श्रुत्तमूला इति । मूलप्रमाणापेक्षत्वात्स्मृतिप्रामाण्यम्,
तदभावे इदं न सम्भवतीत्याशयः । एतदेवोपपादयति--न हीति । यतो वेदाख्यान्मूलात्स्मृति-
प्रामाण्यं स्यात् तद्वेदाख्यं मूलं न विद्यत इत्यर्थः । किमिति न विद्यत इत्यपेक्षिते पूर्वोक्तमेव
प्रत्यक्षशास्त्रेण मूलश्रुत्यनुमानप्रतिबन्धमुपपादयितुं स्मारयति-प्रत्यक्षेति ।
उपपादयति - नैकाकाङ्क्ष्यादिति । अयमाशयः- गृहीतव्याप्तिकस्याप्यजिज्ञासोर्धू-
मादिदर्शनेऽप्यग्नयादिज्ञानानानुपलब्ध्यात्परोक्षार्थविषयज्ञाने जिज्ञासापि सहकारिकारणमवसी-
यते । स्पर्शश्रुत्या चावेष्टितत्वरूपेणौदुम्बर्याः परिच्छिन्नत्वात्कीदृश्यादुम्बर्र्याङ्गमिति जिज्ञासा
नास्तीति, जिज्ञासैवात्राकाङ्क्षाशब्देनोक्ता । कथं नैराकांक्ष्यमित्याशङ्कयाह - प्रमेयमिति ।
यत्पर्वतादिप्रमेयं केनचिदग्निमत्वादिरूपेण परिच्छेद्यं भवेत् तस्य पर्वतादेस्तेन रूपेण
परिच्छेदात्सावकाशप्रमाणता स्यादित्यन्वयः । अवकाशः प्रमाणस्य प्रमेये प्रवर्त्तितुं मार्गो
जिज्ञासोपलक्षणोऽभिप्रेतः । प्रमाणं तस्मिन्प्रमेये सावकाशं स्यादिति समासार्थः ।
नन्वसत्यामपि जिज्ञासायां किमित्यनुमानं न प्रवर्त्तते । व्याप्तिज्ञानं हि व्यापकज्ञाने
कारणम् । यत्तु क्वचिद्व्याप्यज्ञानेऽपि व्यापकाज्ञानम्, तद्व्याप्तिस्मरणादप्युपपत्स्यते ।
द्रव्यत्वस्य चानौष्ण्यव्याप्तिस्मरणेऽपि तेजस्यनौष्ण्यानुमानानुपपत्तिः प्रत्यक्षेणौष्ण्यावगतौ
तेजसो विपक्षत्वे सति तद्वृत्तेर्द्रव्यत्वस्य व्याप्तिमङ्गादुपपत्स्यते । इह तु स्पर्शश्रुत्या
वेष्टनानावावगमेऽपि सर्ववेष्टनस्मरणस्य श्रुतिकल्पकस्य सद्भावाद्विरुद्धश्रुतिदर्शनस्य चाने-
क न्तिकत्वेन सर्ववेष्टनश्रुत्यभावानुमापकत्वायोगात्कथं श्रुत्यनुमानानुपपत्तिरित्याशङ्कयाह -
ताद्रूप्येणेति । प्रत्यक्षावगतेऽग्नौ व्याप्तिस्मरणे सत्यपि धूमज्ञानस्याग्निज्ञानजनकत्वादशंनाद-
जिज्ञासैवै तत्रानुमानानुत्पत्तिकारणमवसीयत इति भावः । नन्वेवमपि स्मृत्या परिच्छिन्ने
श्रुतेरप्रवृत्तिरिति विपरीतं कस्मान्न स्यादित्याशङ्क्याह- भिन्नेति । भिन्नयोः- सन्निकृष्ट-
विप्रकृष्टत्वरूपेण विलक्षणयोः कक्षयोः-प्रकोष्ठयोः स्थिते प्रमाणे तत्रैकस्मिन्प्रमेये
धावत इत्यर्थः । ननु प्रत्यक्षशास्त्रस्यापि पदपदार्थपर्यालोचनादिसापेक्षत्वेनार्थपरिच्छेदवि-
क्षेपात्द्विरोधात्पूर्वं मन्थरस्याप्यारब्धव्यापारत्वात्कथमप्रवृत्तिरित्याशङ्क्याह-तद्धीति ।
एकमपीत्यपिशब्दो यद्यपि शब्दार्थो व्याख्येयः । यद्यपि तन्मन्थरं प्रमाणं दूरमपि प्राप्तं
बहूनपि व्यापारान् कृतवत् एकमेवार्थपरिच्छेदाख्यं पदमगतमर्थपरिच्छेदमात्रं न कृतव-
३०२ मीमांसादर्शनम् [ सू०
दित्येवकाराध्याहारेण व्याख्येयम् । तथापीतरेणादौ गतेनार्थपरिच्छेदं कृतवता जीयत इति ।
तथापि योत्थौ शब्दोऽत्राध्याहार्यः । मन्थरत्वाविशेषात्तर्हिविरोधेऽव्यप्रामाण्यापत्तेर्मर्यादा-
तिक्रमः स्यादित्याशङ्क्योचाह—यत्रेति ।
नन्वेवं सत्यर्द्धवैशसादिदोषपरिहारार्थं विरोधेऽपि प्रामाण्यमिष्यतामित्याशङ्कयार्द्धवैशसं
परिहत्तुंमारभते—न हीति । यस्मादेवमैकरूप्यनियमो नास्ति, तस्माच्छीघ्रप्रमाणभावा-
भावयोर्मन्थरप्रमाणप्रवृत्त्यप्रवृत्तिव्यवस्था न विरुद्धेति हिशब्दयोजना ।
एतदेवोपपादयितुं सामान्यन्यायं तावद्वयुत्पादयति—सर्वमिति । मूलमेव निकृत्यते,
मुखं वा विरुद्ध्यत इति च पूर्वश्लोकोक्तस्य विरोधस्यैव द्वैविध्यमुक्तम् । श्रुत्या हि
लिङ्गादीनां मूलं विनियोगहेतुः श्रुतिरेव छिद्यते-नास्तित्वेन बोध्यते । लिङ्गादिभिस्तु
वाक्यादीनां मुखं विनियोजकश्रुत्यनुमानस्य द्वारं लिङ्गादिप्रतिबध्यते-श्रुत्यननुमापकत्वेन
ज्ञाप्यते । न च रोधारोधव्यवस्थैव न युक्तेति वाच्यमित्याह—न चेति । अवाच्यत्वे
कारणमाह—उत्सर्गश्चेति । कथं तर्ह्युत्सर्गापवादयोर्व्यवस्थेत्याशङ्कयाह—विषया-
विषयाविति । उत्सर्गस्य विषयमपवादस्याविषयं ज्ञात्वा बाधाभावः । अपवादस्य विषय-
मुत्सर्गस्याविषयं ज्ञात्वा बाध इति विवेक इत्यर्थः । व्यवस्थानभ्युपगमे तु व्यवहारविरोधः
स्यादित्याह—यो हीति । यस्तु कश्चिद्वैत्यात्यादेवमपि व्यवहर्तुमारभते, तस्य लोकविरोध-
माह तावदेव हीति । अनुमानस्य च प्रत्यक्षविरोधाविरोधयोर्बाधाबाधव्यवस्था लोक-
प्रसिद्धैवेत्याह—अनुमानमिति ।
सामान्यन्यायमुक्त्वा प्रकृते योजयति—एवमिति न्यायलभ्यव्यवस्थाप्रतिपादनस्यार्द्ध-
वैशसादिदोषपरिहारोपयोगितामाह—अत इति । अर्द्धवैशसग्रहणमतिक्रयार्द्धजरतीयत्वयो-
रप्युपलक्षणार्थम् । कथं न्यायतो व्यवस्थेत्यपेक्षायामुक्तामेव व्यवस्थां सुग्रहणार्थमनुसन्द-
धाति—प्रमाणत्वाप्रमाणत्व इति । अतश्चैकरूप्यमेवायुकमित्याह—तस्मादिति । सिद्धान्त-
मुपसंहरति - तेनेति ।
ननु मृगतृष्णानुमानादेः सिद्धवस्तुविषयत्वेन वैकल्पिकतया विरोधपरिहारासम्भवाद्
बाधो युक्तः । स्मृतेस्तु कार्यविषयतया विकल्पेनोभयानुग्रहसम्भवादत्यन्तबाधो न युक्त
इत्याशङ्कते—विकल्प इति । परिहरति—उच्यत इति । पूर्वार्द्धेनात्यन्तबाधादपि
विकल्पः पापीयानित्युक्तम् उत्तरार्द्धेन त्वङ्गीकृतेऽपि विकल्पे, स्मृतेरत्यन्तबाधोऽपरिहार्य
इत्युक्तमिति विवेकः । विकल्पस्य सुखाम्युपगम्यता वोक्त्यां तुल्यबलयोरगत्या तदङ्गीकरणम् ।
इह तु स्मृतेरत्यन्तबाधेन गत्यन्तरसम्भवाद्विकल्पाङ्गीकरणमत्यन्तमन्वाय्यमिति सूचितं
तत्तावद्वयाचष्टे—तुल्यबलेति । कक्षाभ्यां विलक्षणाभ्यामन्तरितेन विलक्षणीकृतेन श्रुति-
स्मृत्योः प्रामाण्येन विषमत्वेन शिष्टयोरवगतयोः श्रुतिस्मृत्योर्विकल्प इति विग्रहः । किमु-
तेत्यनेनोक्तमतुल्यबलविकल्पस्यात्यन्तान्याय्यत्वमुक्तमुपपादयति—तथा हीति । न च
स्मृतिरपि निरपेक्षा, येन तुल्यबला स्यादित्याह—स्मृतेरिति ।
३ ] प्रथमाध्याये तृतीयपादः ३०३
ननु सापेक्षत्वेऽप्यनुमीयमानायाः श्रुतेः प्रत्यक्षया सह तुल्यबलत्वाद्विकल्पो भविष्यत्यत
आह—पराधीनेति । यदि विरोधेऽपि श्रुतिरनुमीयेत, ततः पराधीनप्रमाणत्वाच्छ्रुत्या
बाधितापि पुनरुज्जीवितुं क्षमा स्यात् न त्वेतदस्तीत्युक्तम्—न प्रमाणपदे स्थितेति ।
श्रुत्याख्यं प्रमाणं पद्यते गम्यतेऽनेनेति श्रुत्यनुमानं प्रमाणपदं-तत्त्वमस्थिता-अननुमितश्रुति-
केत्यर्थः ।
विकल्पस्याष्टदोषत्वमुपपादयितुमारभते—तुल्यकक्ष्येति । तुल्या समाना कक्षा ययोस्ते,
तुल्यकक्षे, तयोर्विकल्प इति विग्रहः । व्रीहियवशास्त्रयोर्नियमार्थत्वेनान्यनिवृत्तिपर्यन्तत्वाद्
व्रीहिशास्त्रप्रामाण्ये यवप्रयोगानुपपत्तेः, यवशास्त्रप्रामाण्ये च व्रीहिप्रयोगानुपपत्तेरितरे-
तराप्रामाण्यकल्पनं विना विकल्पो न युक्त इत्यर्थः । ततः किमिति चेत् अत आह—
प्रमाणस्येति । कीदृशं दोषद्वयमित्यपेक्षायामाह—प्रमाणत्त्वमिति । प्रतीतप्रमाणत्वापह्नवः
प्रतीतिविरोधादेव दोष इत्यर्थः । अप्रतीताप्रामाण्यकल्पनं च द्वितीयो दोष इत्याह—
तथेति । सन्देहविपर्यययोर्दोषजन्यत्वात् वेदे च तदभावात्प्रामाण्याभावरूपमेवाप्रामाण्यं
वाच्यम् । तस्मिंश्च प्रामाण्योपलम्भाभावः । प्रमाणमिति तच्छब्देन दर्शितम् । तस्य प्रमाण-
स्याप्रमाणत्वमित्यर्थः । कथं न प्रामाण्योपलम्भस्याभाव इत्यपेक्षिते—प्रामाण्योपलम्भस्य
भावे सतीत्युक्तम्—यत्परिकल्पत इति । यच्छब्दस्य क्रियाविशेषणत्वात्सोऽप्यप्रमाणत्वकल्प-
नरूपो दोषः स्यादित्यनेनान्वयः । प्रमेयेत्यवचनोऽर्थशब्दः । प्रमाणप्रमेययोः प्रामाण्योपलम्भा-
भावात् प्रमाणतयोः परस्परं विपर्ययाद्विरोधादित्यर्थः । कल्पितप्रामाण्यस्य च शास्त्रान्त-
रस्य प्रामाण्योपजीवनं विना तदर्थानुष्ठानायोगात्तदर्थानुष्ठानकाले तस्मिन्नेव शास्त्रान्तरे परं
दोषद्वयं स्यादित्याह—अङ्गीकृत्यापीति । कीदृशमित्यपेक्षिते कल्पितप्रामाण्यान्यागं ताव-
द्दोषमाह—यदशास्त्रप्रमाणत्त्वमिति । प्रामाण्योपलम्भाभावः प्रमाणं यस्याप्रमाणत्त्वस्य, तत्त-
थोक्तमेतस्याप्रमाणत्वस्येत्यर्थः । निराकृतप्रामाण्योपजीवनं च द्वितीयो दोष इत्याह—
प्रत्यक्षमिति । शास्त्रान्तरवर्जनाश्रयणयोरुपपादितं दोषचतुष्टयमुपसंहरति—एवमिति ।
वाक्यान्तरेऽप्येतद् दोषचतुष्टयं योज्यमित्याह—एत एवेति । द्वितीयेऽपि वाक्ये प्रतीत-
प्रामाण्यापह्नवेऽनुपलब्धे चाप्रामाण्ये कल्पितस्य चाप्रामाण्यस्य त्यागे, निराकृतस्य च प्रामाण्य-
स्योपजीवने प्रकल्पित इत्यर्थः । यद्यष्टदोषो विकल्पः कस्माद् व्रीहियवादिष्वाश्रीयतेऽत
आह—एवमिति । गत्यन्तराभावमेवोपपादयति व्रीहीति । ततः किमिति चेत् अत आह—
द्वाभ्यामिति । अश्वमुखीभ्यां किन्नरीभ्यामिवेत्यर्थः । एकस्मिन् श्रुत्यर्थे बुद्धिमुपसंहर्तुं म-
पश्यन्तं श्रोतारं प्रत्युभयोः श्रुत्योरप्रामाण्यं प्रसज्येतेत्यर्थः । अस्तु तर्ह्युभयाप्रामाण्यमेवात
आह-तत्रेति । किमत्र गत्यन्तरमित्यपेक्षायामाह—एकस्य चेति । एकप्रामाण्यान्मात्रादगति-
सम्भवे न द्वयोरप्रमाणता युक्तेति साध्याहारं योज्यम् । कस्मान्न युक्तेत्याशङ्क्याह—सिद्ध
इति । एकं विनाशयितुं शीलं एषां चानेकन्तेषाममध्ये सर्वनाशे समुत्पन्ने ह्यर्द्धं त्यजति
पण्डित इति अयं लोकप्रवादः प्रसिद्ध इत्यन्वयः । भवति च प्रस्तुतोऽर्थोऽस्य प्रवादस्य
विषय इत्याह—स चायमिति । उभयो श्रुत्योर्यावर्थौ, तयोरपरिग्रहादित्यर्थः । ननु मिश्रे-