मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 72, कुल 804 में से
संदर्भ में पढ़ें२० मीमांसादर्शनम् [ सू०
अस्मादिति । यस्माद्दिवाग्निरादित्यं गच्छति, तस्मादेव धूम एवाग्नेर्दिवा ददृशे
नार्चिः, यस्माच्च रात्रावादित्योऽग्निम्, तस्मादेवार्चिरेवाग्नेर्नक्तं ददृशे, न धूमः
इत्येवमेतदुपपादयितुं यद्वैतद्वाक्यम्, तदिहोदाहरणमित्यर्थः । तदुपपादनद्वयोरपि
सन्ध्ययोः देवताद्वयसन्निधानमुपपादनीयान्तरं सूचयितुं तावदित्युक्तम्, सूत्रावयवं
योजयति—तदिति । ददृश इति लडर्थे लिट्प्रयोगाद् धूम एवार्चिरेवेति द्वयमपि
दृष्टविरुद्धम्, रात्रिन्दिवं धूमार्चिषोर्दर्शनात् इत्यर्थः । ततश्च यदनेन वाक्येन
प्रतिपाद्यते, दिवाग्निरादित्यमनुप्रविशति रात्रावादित्यस्तमिति तस्यावधारणा न
सिध्यतीत्याह—तस्मादिति ।
ननु धूमगतभूयस्त्वाद्यभावाद्विवा वह्निदर्शनाभावाभिधानमित्ययुक्तम् ।
अस्यापि निमित्तस्य ब्राह्मण्यज्ञानाभावाभिधानेऽव्याप्तेरिति शङ्कानिरासार्थं
“स्त्र्यपराधाद्” इत्यादिसूत्रं तदनुसारेणोदाहरणन्तरमाह—अपर इति । अस्या-
प्यार्षेयवरणानुमन्त्रणविधिसन्निधिसाम्ना तस्यापि तत्स्तुत्यर्थत्वाप्रतीतेः न
प्रामाण्यमित्याद्यसूत्रं तावद्योजयति—अक्रियेति ।
ननु मा भूत्क्रियार्थत्वेनार्थवत्त्वम्, स्वतन्त्रब्राह्मण्याज्ञानप्रतिपादनेनैवास्त्विति
मन्वानश्चोदयति—अथेति । प्रत्यक्षाद्यवगतोत्पाद्योत्पादकसंबन्धस्मरणानुगृहीतेन्द्रि-
येण ब्राह्मणत्वस्य प्रत्यक्षतोऽवगमात् तद्विरुद्धतदज्ञानवचनमप्रमाणमेवेति दूषयति—
प्रत्येति । न च प्रत्यक्षेण सहाज्ञानवचनस्य विकल्पः, ज्ञानस्वरूपत्वेन विकल्प-
विषयत्वादिति भावः, अत्राक्रियार्थत्वेनानर्थक्यं सिद्धं कृत्वैतत् । अतश्चाज्ञानम-
प्रमाणमित्याह—अत इति । प्रत्यक्षज्ञानेनामुष्मिकफलवचनस्य दृढप्रतिपत्तिहेतुत्व-
रूपं प्राबल्यं विकल्पाशङ्कानिराससूचितं यदि ब्राह्मण्यादेर्दुर्ज्ञानत्वादज्ञानवचनम्,
तर्हि परलोकादौ तदभावज्ञानवचनानुपपत्तिमाशङ्कयाकालिकेप्सेति सूत्रं तदनुसारे-
णोदाहरणान्तरमाह—शास्त्रेति । अस्मिन्नप्युदाहरणे प्रथमं तावदाद्यसूत्रं योज-
यति—यदि हीति । प्रश्नज्ञानादिसूचकतया सिद्धार्थत्वेनाक्रियार्थत्वादानर्थक्य-
मित्यर्थः । इदानीं शास्त्रदृष्टविरोधं प्रश्नपूर्वकं दर्शयति—अथेत्यादिना । अनव-
कॢप्तिरनिश्चयोऽज्ञानम्, निश्चितवेदप्रामाण्याैरामुष्मिकफलस्य शास्त्रादेव
ज्ञायमानत्वाच्छास्त्रदृष्टविरोधः, शास्त्रजनितेनामुष्मिकफलदर्शनेन विरोध
इत्यर्थः ॥ २ ॥
त० वा०] वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्यमानं धर्मे
स्वार्थेऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्वध्याहारादिभिरेवं कल्प्येत वाङ्मन-
सयोः सर्वशरीरेषु चेष्टाः प्रति प्राधान्यादितरभूतेन्द्रियैरपि तच्चरितमनुवर्तितव्य-
मिति, ततः शास्त्रविरोधः । तत्रैतत्स्यात्—विहितप्रतिषिद्धत्वात् षोडश्यादिवद्विकल्प
इति । इतरस्तु कल्पनीयकॢप्तत्वेन वैषम्यमाह । ननु चात्यन्तदुर्बलोऽपि विधिरस्त-
दधीनात्मलाभेन प्रतिषेधेन तुल्यबलो भवतीति “प्रतिषेधः प्रदेशेऽनारभ्य विधाने