मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 71, कुल 804 में से
संदर्भ में पढ़ें२ ] प्रथमाध्याये द्वितीयपादः १९
रादित्यं गतो रात्रावादित्यस्तम्' इत्येतदुपपादयितुमिदम् । उभयमपि दृष्टविरुद्ध-
मुच्यते । तस्मान्नैवाऽवधारणा सिध्यतीति अपरो दृष्टविरोधः । न चैतद् विद्मो
वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा वचनम् प्रमाणम् तै० ब्रा० २।२।२, (गोप० ब्रा०
पू० ५।२१) इति ।
अक्रियार्थत्वादनर्थकम् । अथायमर्थो नैवैतज्ज्ञायते, किं वा ब्राह्मणा वय-
मुताब्राह्मणा वेति, प्रत्यक्षविरुद्धमप्रमाणम् । अपरः शास्त्रदृष्टेन विरोधः । को हि
तद्वेद, यद्यमुष्मिँल्लोकेऽस्ति वा न वा, (तै० सं० ६।२।२, ६।१।१) इति । यदि
प्रश्नोऽयम्, अक्रियार्थत्वादनर्थकः । अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः । अतः
प्रत्यक्षविरुद्धमप्रमाणम् ॥ २ ॥
भा० वि०—सोऽरोदीदित्यादीनामानर्थक्ये हेत्वन्तरमाह—शास्त्रेति । तत्र
सोऽरोदीदित्याद्युदाहरणानामतीतार्थविषयत्वेन योग्यानुपलब्ध्यभावात् स्वार्था-
सत्यत्वानिश्चयेन तद्द्वारा विधिकल्पनायामपि धर्मं प्रत्यप्रामाण्यं शास्त्रदृष्टविरोधेन
प्रसङ्गादुक्तमेव, तेन येषां स्वार्थेप्यसत्त्वं तेषां धर्मं प्रति प्रामाण्ये कैव कथेत्यभि-
प्रेत्योदाहरणान्तरमाह—¹स्तेनमिति । अस्मिन्नप्युदाहरणे विधिकल्पनायां शास्त्र
विरोधं दर्शयितुं यथा श्रुत्यप्रामाण्ये पूर्वसूत्रं योजयति-एवमिति । सिद्धरूपस्यैव मनसः
स्तेनत्वस्य, वाचोऽनृतवादित्वस्य चानुवादादक्रियार्थत्वादप्रामाण्यमित्यर्थः ।
ननु तर्ह्यर्थाध्याहारादिना क्रियार्थत्वं कल्प्यतामित्याशङ्क्यैतत्सूत्रगतशास्त्र-
विरोधं व्याचष्टे—विपरिणामेति । वाङ्मनसयोः प्राधान्यादितरेन्द्रियैरपि तच्च-
रितमनुवर्तितव्यमिति वाक्यार्थः स्यात्, ततश्च निषेधशास्त्रविरोध इत्याह—
तच्चेति ।
ननु पाक्षिकबधसंभवेऽपि नात्यन्तबाधः, विकल्पोपपत्तेः । विधेर्विशेषविषय-
त्वान्निषेधस्य च सामान्यविषयत्वादतुल्यबलत्वेन विकल्पासंभव इति वाच्यम् ।
यथाकथञ्चिद्विधिशास्त्रार्थवत्त्वस्यैव विकल्पशब्देनाभिप्रेतत्वात् इत्यत आह—
न चेति । विधिशास्त्रस्य कल्प्यत्वात्, कॢप्तं निषेधशास्त्रं विधिविषयमप्या-
स्कन्दन् तत्कल्पनामेव निरुणद्धि इति विध्यनवकाश एवेत्यभिप्रेत्याह—
वैषम्यादिति । तदेवाह—एक इति । अन्यो निषेधः प्रत्यक्षः कॢप्तः ।
सूत्रकारेण हि सिद्धान्ते स्तेनं मनः इत्यादावभिहितस्य शास्त्रविरोधस्य
'अप्राप्ताचानुपपत्तिरि'त्यादिनाऽकर्तव्यतापरत्वेन गुणवादत्वेन च परिहारमुक्त्वा,
गुणवादनिमित्तं च रूपातप्रायादिति दर्शयित्वा, पुनस्तस्योदाहरणान्तरेऽव्याप्ति-
माशङ्क्य, दूरभूयस्त्वादित्यनेन परिहरिष्यते, तदनुसारेण दृष्टविरोधादित्यवयवं
व्याख्यातुमुदाहरति—अथ दृष्टिविरोध इति । उदाहरणगततच्छब्दार्थमाह—
१. स्तेयमित्यादर्शकोशे पाठः ।