सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 729, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 729

३३ ] प्रथमाध्याये तृतीयपादः ६७५
यज्याद्यर्थेऽपि वा वाच्ये किं सामान्यविशेषयोः ।
अभिधेयमिति प्राप्ता चिन्ता कर्तुं क्रियापदे ॥ १००८
अपूर्वं कस्मादिति प्रधानविचारे न पुनरुक्तिशंका
अपूर्वं भावशब्देभ्यो द्रव्यादिभ्यः किमिष्यते ।
एषा तत्र च चिन्तोक्ता शेषा प्रासङ्गिकी कथा ॥ १००९
नामाख्यातपदे तेन कस्यार्थस्याभिधायके ।
किमाकृतेरुत व्यक्तेरिति चिन्ता प्रवर्तते ॥ १०१०
प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे ।
व्यक्तिपक्षाभिधानाच्च संशयः प्रतिभाति नः ॥ १०११
संगतिसंशययोरुपपादनम्
कथं लक्षणसंबन्धश्चिन्तायाः प्रकृतेन वा ।
स्मृतिमूलविचारेण वक्तव्यं त्विदमादितः ॥ १०१२
इयं प्रासङ्गिकी चिन्ता साधुशब्दे निरूपिते ।
उदाहृतस्य तस्यैव क्रियतेऽर्थविनिश्चयः ॥ १०१३
वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात् ।
न हि वाच्यमविज्ञाय साधुत्वमवधार्यते ॥ १०१४
अनिश्चितेऽपि वाच्यत्वे व्यक्ताकृत्योर्विवेकतः ।
साधुत्वं शक्यते ज्ञातुं तेन वाच्यमिहोच्यते ॥ १०१५
वाच्यमात्रे हि साधुत्वमविज्ञाते न लभ्यते ।
न चाऽऽकृत्या न च व्यक्त्या विना तन्नोपपद्यते ॥ १०१६
प्रकारान्तरेण संगत्यूत्पादनम्
अथ वोक्तेन मार्गेण सर्वा व्याकरणस्मृतिः ।
प्रयाणमिति सिद्धस्य किंचिदत्र विचार्यते ॥ १०१७
व्यक्तिर्वाच्येति विज्ञानं न सन्मूलमसंभवात् ।
तेन व्याचरणेऽपीदृग् न प्रमाणं स्मृतिर्मता ॥ १०१८
स्मृतेस्तेनापवादोऽयं प्रामाण्यस्य क्वचित्कृतः ।
युक्तो लक्षणपादाभ्यां पूर्वया चापि चिन्तया ॥ १०१९
आकृतिपक्षेऽपि क्रियाया उपपत्तिर्व्यक्तिमादायैव वाच्येति फलवैकल्या-
भावशंका-समाधाने
ननु चाऽऽकृतिपक्षेऽपि व्यक्तावेव क्रियाक्रिये ।
शब्दार्थे संभवात्तेन किमर्थैषा विचारणा ॥ १०२०